आधुनिका धावनकलाविदः ८०० तः १५०० मीटरमितं धावनमपि शैलीदृष्ट्या प्रलम्बधावन् एव समन्वयन्ति । ५०० तः १०,००० मीटरमितानि धावनानि सम्प्रति प्रतियोगितासु स्वीक्रीयन्ते । प्राचीनकाले यूनानदेशे ‘डौलीकस’ (Dolikus) नामकमेकं धावनमभवत्, यस्यायामः १४० गजमानात् ४८०० गजमित आसीत् ।

शारीरिकं सङ्घटनं साहसः शक्तिर्गतिऋजुता चेत्यादयो गुणाः प्रलम्बधावनायावश्यका मन्यन्ते । श्रान्तिं प्रत्युपेक्षा, मस्तिष्कस्य प्रबुद्धता सद्यो निर्णयकारिताऽपरजेयः सङ्कल्पो विजिगीषा, त्याग-संयमयोर्विश्वासः कृच्छ, तपसि निष्ठा, साहस्तयोत्साहसम्पन्नता यस्मिन् विराजन्ते स धावकः सर्वत्र विजयी भवति ।

प्रलम्बितधावनस्याङगानि - (१) पद्धतिः (२) साहसम् (३) त्वरितनिर्णयः (४) पदसञ्चारज्ञानम् (५) मनोवृत्तिरुपाणि पञ्चाङ्गानि प्रलम्बिते धावने साफल्यदायोनि भवन्ति । तत्र हि सर्वाङ्गक्रियासंयोगेन लघुधावननियमवदेव पद्धतिः परिशील्यते । धावनसमये चरणयोः सञ्चारो घटिकायन्त्रस्य दोलायन्त्र (पेण्डुलम) वद् निरन्तरं गतिर्भवति तत्फलस्वरुपं च यथा घटिकासूच्योऽन्याश्च यन्त्रावयवाः प्रचलन्ति तथैव शरीरगुल्फ-जानु -नितम्बा अपि चलन्ति किञ्च सूचीगतिवदग्रे धावकोऽपि गतिमान भवति । चरणयोः पूर्णविस्तृतौ विशिष्य बलप्रदानेन प्रलम्बता वर्धते । सर्वाङ्गक्रियासंयोग श्वसनप्रक्रिया -लययुक्तसन्तुलन -मानसिक चिन्तनसाहजिकतादयो धावकस्य प्रलम्बधावने सहयोगं कृत्वा साफल्यं वितरन्ति ।

प्रलम्बितधावका द्विविधा भवन्ति -

  1. अग्रिमधावकास्तथा
  2. स्थितिपरिवर्तका धावकाः ।

प्रथमश्रेण्यां धावकास्तीव्रया गत्या धावन्ति तथा मध्ये गतिनियन्त्रणेन साफल्यं विन्द्न्ति । द्वितीयश्रेण्यां धावकाः पूर्वं श्लथया गत्या पलायन्ते यथाकालं च गतिं अर्धयन्ते । एतादृशे धावने स्वगत्याः क्षमताया वास्तविकमनुमानमावश्यकम् । अभ्यासक्रमेण चातुर्येण साहसेन च पदसञ्चारान् कुर्वन्तो धावकाः प्रतिस्पर्धासु विजयं लभन्ते ।

आधारःसम्पाद्यताम्

अभिनवक्रीडातरङ्गिणी

सम्बद्धाः लेखाःसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=प्रलम्बधावनम्&oldid=409445" इत्यस्माद् प्रतिप्राप्तम्