योगशास्त्रस्य प्रणेता पतञ्जलिः

योगदर्शनं

दर्शनेषु अन्यतमम् । अस्य योगशास्त्रस्य रचयिता महर्षिः पतञ्जलिः । अयं पतञ्जलिः जीवः ईश्वरश्चेति तत्वद्वयं स्वीकरोति । अतः एव अस्य दर्शनस्य "सेश्वरसांख्यदर्शनम्" इति नामान्तरम् । अस्यैव शास्त्रस्यापरं नाम "सांख्यप्रवचनम्"इति । एतद्दर्शनं पतञ्जलिना प्रणीतत्वात् "पातञ्जलदर्शनम्" इत्यपि व्यवहारयोग्यं भवति । यद्यपि पतञ्जलेः पूर्वाचार्याः हिरण्यगर्भयाज्ञवल्क्यादयः अनेके आचार्याः योगशास्त्रस्य प्रवक्तारः आसन्, अथापि जनसाधारणानां कृते पतञ्चलिरेव तं योगशास्त्रं सूत्ररुपेण ग्रन्थीकृत्य सम्यक् सरलरीत्या व्याजहार इति हेतोः अस्य योगदर्शनस्य "पातञ्जलदर्शनम्" इति नाम सयुक्तिकं तिष्ठति ।

(अधिकवाचनाय »)