माध्वसिद्धान्तस्य प्रवर्तकः मध्वाचार्यः

द्वैतवेदान्तः
त्रिषु वेदान्तेषु माध्वसिद्धान्तः अन्यतमः अस्ति । द्वैतपदस्य भेदः इत्यर्थः । अस्य मतस्य “ब्रह्मसम्प्रदायः” इत्यपि व्यवहारो अस्ति । अस्य सिद्धान्तस्य प्रतिपादकः मध्वाचार्यःमध्वाचार्यस्य अपरं नाम "पूर्णप्रज्ञः" इति । एवमेव "आनन्दतीर्थः" इत्यपि प्रसिद्धिरस्य । यद्यपि जीवेश्वरयोः भेदं सांख्याः, नैय्यायिकाः, वैशेषिकाः, जैमिनीयादयः अङ्गीकुर्वन्ति तथापि अस्य सिद्धान्तस्यैव द्वैतदर्शनमिति नाम प्रसिद्धम् अस्ति । अस्मिन् दर्शने परमात्मा, जीवात्मा, जडस्य च परस्परं भेदः निरूपितः अस्ति । स्वतन्त्रास्वतन्त्रेति द्वे तत्त्वे वर्तेते । तयोः तत्त्वयोः निरूपणे एव रतम् इदं शास्त्रम् । अतः अस्यैव दर्शनस्य द्वैतदर्शनम् इति विचक्षणाः अभिप्रयन्ति । तत्त्वप्रतिपादकः श्लोकः,

स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्त्वमिष्यते ।
स्वतन्त्रो भगवान् विष्णुः भावाभावौ द्विधेतरत् ॥

(अधिकवाचनाय »)