प्रमुखा विकल्पसूचिः उद्घाट्यताम्

वैशेषिकदर्शनं(Vaiśeṣika) भारतीयदर्शनेषु अन्यतमम् । सकलदर्शनापेक्षया वैशेषिकदर्शनं प्राचीनम् । दर्शनमेतत् सर्वशास्त्रोपकारकम् अस्ति। एतस्य दर्शनस्य प्रवर्तकः कणादः। कश्यपवंशोत्पन्नः एषः 'काश्यपः' इत्यपि ख्यातः । अयं तु स्वजीवननिर्वाहं कुर्वन् ज्ञानभण्डारात्मकमेतच्छास्त्रं रचितवान् । एतच्छास्त्रं न केवलं भारतदेशे, अपि तु सर्वत्र प्रपञ्चे विराजते । महात्मा कणादः प्रकृत्या स्वयं दरिद्रः सन् क्षेत्रे पतितानन्नकणान् भुक्त्वा स्वजीवननिर्वाहं कृतवान् इत्यतः अस्य शास्त्रस्य ’कणादशास्त्रम्’ इति व्यवहारः । अन्यदपि नाम शास्त्रस्यास्य भवति वैशेषिकदर्श्नमिति । यतः अस्मिन् दर्शने विशेषाख्यः कश्चित् पदार्थः स्वीक्रियते । कणादात् ऋते केनापि पदार्थत्वेन विशेषः न स्वीक्रियतॆ । दर्शनस्यास्य अपरं नाम औलूक्यदर्शनम् इति । यतः कणादस्य पितुर्नाम भवति उलूकऋषिरिति । उलूकस्यापत्यम् औलूक्यम् । गौतममतानुसारं कणादेनापि षोडशप्रमाण-प्रमेयादिपदार्थाः स्वीक्रियन्ते । एतेषां तत्त्वज्ञानेन मोक्षः सिध्यति । द्रव्यगुणादीनामत्यन्तं सुव्यवस्थितं रूपम् एतेषां साधर्म्यवैधर्म्याभ्यां विशिष्टं वर्णनं यथा कणादेन कृतं तथा अन्यस्मिन् दर्शने न प्राप्यते । अनेनापि विशेषेण अस्य दर्शनस्य वैशेषिकदर्शनम् इति संज्ञा । अस्य वैशेषिक नामकरणस्य यद्यपि विदुषां प्रतिपादितानि बहूनि कारणानि विद्यन्ते तथापि विशेषाभिधस्य पदार्थस्य प्रतिपादनादिदं दर्शनं वैशेषिकमित्युच्यते । बौद्धग्रन्थैर्विज्ञायते यत् जैनबौद्धदर्शनयोः उदयात् पूर्वमपि इदं दर्शनं सुप्रचलितम् आसीत् । जैनतत्त्वमीमांसाया आधारस्तु वैशेषिकोक्तेषु पदार्थेष्वेवाश्रितः प्रतीयते । एतद्दर्शनचिन्तनस्य न्यायदर्शनचिन्तनस्य च विशेषभेदः न दृश्यते। लोके स्थिताः पदार्थाः सप्तधा विभक्ता अत्र । एतस्य दर्शनस्य मुख्यं प्रतिपाद्यं निःश्रेयससिद्धिः (मोक्षः)। पदार्थाः निःश्रेयससाधनभूताः ।

हिन्दुधर्मःOm symbol.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

अन्तर्विषयाः

इतिहासःसम्पाद्यताम्

वैशेषिकसूत्राणि वैशेषिकदर्शनस्य आधारभूतानि मुख्यानि भवन्ति । कणादः एव सूत्रकारः भवति । एषः बौद्धमतस्य अपेक्षया पूर्वम् आसीत् इति इतिहासविदाम् अभिप्रायः । प्रशस्तपादः वैशेषिकसूत्राणां भाष्यं लिखितवान् । एतेषां सूत्राणां रावणभाष्यम् भारद्वाजवृत्तिः च नामके द्वे व्याख्याने भवतः । रावणभाष्यस्य व्योमशेखराचार्येण रचितं ’व्योमवती’ नामकं व्याख्यानं विद्यते । प्रशस्तपादभाष्यस्य श्रीधरेण रचितं ’न्यायकन्दली’ नामकं व्याख्यानं विद्यते । उदयनेन रचितं किरणावली नामकं व्याख्यानं विद्यते । एवं श्रीवत्साचार्येण रचितं ’लीलावती’ नामकं व्याख्यानं विद्यते । प्रशस्तपादभाष्यस्य शङ्करमिश्रेण रचितं ’कणादरहस्यम्’ नामकं व्याख्यानं विद्यते । एवं जगदीशभट्टेन रचितं ’भाष्यासूक्तिः’ नामकं व्याख्यानं विद्यते ।

न्यायवैशेषिकदर्शने दर्शनान्तराणाम् आधारभूते स्तः । एतयोः दर्शनयोः तर्कशास्त्रम् इति एकेन नाम्ना अपि व्यवहारः लोके दरीदृश्यते । एतयोः दर्शनयोः अध्ययनेन अन्येषां दर्शनानाम् अध्ययनं सुलभं सरलं इति । भारतीयदर्शनानाम् अनेकासु शाखासु न्यायवैशेषिकदर्शने प्रमाणत्वेन निर्दिश्येते । हेतुवादं पुरस्कृत्य इमे दर्शने प्रवृत्ते इत्यतः, एतयोः दर्शनयोः हेतुशास्त्रम् इत्यपि व्यवहारः दृश्यते । वैशेषिकदर्शनं प्रमेयशास्त्रम् इत्यपि कथ्यते। समानतन्त्रे दर्शने भवत: ।

ग्रन्थरचनायाः प्रक्रियासम्पाद्यताम्

ग्रन्थरचने अस्मिन् कणादेन प्रक्रियारूपः त्रिविधः स्वीकृतः, उद्देश्यम्, लक्षणम्, परीक्षा चेति । एवं प्रत्येकविषयप्रतिपादनावसरे प्रथमतः विषयस्य उद्देश्यम् प्रतिपाद्य तदनु तस्य लक्षणमुपन्यस्य अन्ते विषयपरीक्षा क्रियते । उद्देशस्य तात्पर्यमेवं भवति यत् नाममात्रेण वस्तुसंकीर्तनम् । यथा, द्रव्यगुणादयः समवायान्ताः षट् पदार्थाः इति एवं पदार्थानां नाममात्रेण निर्देशनस्य उद्देश्यम् इति व्यवहारः । पदार्थानां सामान्यज्ञानसम्पादनमुद्देशस्य फलं भवति । असाधारणधर्मस्य नाम लक्षणमिति । यथा, गन्धवती पृथिवी इत्यत्र पृथिव्याः असाधारणधर्मः यः गन्धः तेन लक्षणेन पृथिवी साधिता भवति । अनेन एतदपि प्रयोजनं यत् इयं पृथिवी इतरपदार्थेभ्यः भिन्ना इति ज्ञानसम्पादनम् । लक्षितलक्षैकपदार्थे लक्षणं युक्तं भवति वा न वेति यः विचारः उदेति सा परिक्षा इत्युच्यते । अस्याः दोषपरिहार एव परीक्षायाः फलम् । वैशेषिकशास्त्रप्रणाली तर्कसङ्ग्रहेण सम्यगधीता भवति ।

वैशेषिकदर्शनस्य तत्त्वमीमांसासम्पाद्यताम्

वैशेषिकदर्शने षट् पदार्थाः परिणिताः सन्ति । किन्तु कालान्तरे वैशेषिकशास्त्रप्रणेतृभिराचार्यैः अभावमपि पदार्थत्वरूपेण परिगणनं कृत्वा, सप्तपदार्थानां विवेचनमेव वैशेषिकदर्शनस्य प्रतिपाद्यविषय इति निर्धारितम् । यद्यपि प्राचीनैः द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायानां षण्णां भावपदार्थानामेव नामानि विनिर्दिश्य अभावो निरस्तस्तथापि परवर्त्तिभिराचार्यैः अभावमपि पदार्थेषु संयोज्य नैयायिकैः सह स्वकीयं सामञ्जस्यं प्रदर्शितम् ।

पदार्थाःसम्पाद्यताम्

पदस्यार्थः पदार्थो भवति । अर्थात् यस्मिन् ज्ञेयत्वम् अभिधेयत्वं च स्यात् तत् पदार्थसंज्ञं भवति । अनया व्युत्पत्त्या जगतः सर्वे पदार्थाः न्यायवैशेषिकप्रतिपादितेषु सप्तसु पदार्थेषु अन्तर्भवन्ति । स्थूलदृष्ट्या पदार्थस्य वर्गीकरणं कोटिद्वये कृतम् । तदनुसारेण केचन पदार्था भावपदार्था वर्तन्ते । अन्योऽभाव पदार्थोऽप्यस्ति । भावपदार्थाः षड् भवन्ति (१) द्रव्यम् (२) गुणाः (३) कर्माणि (४) समवायः (५) सामान्यं (६) विशेषः च इति । अभावस्तु चतुर्धा निरूपितः (१) प्रागभावः (२) प्रध्वंसाभावः (३) अन्योन्याभावः (४) अत्यन्ताभावश्च

द्रव्याणिसम्पाद्यताम्

समवायिकारणं द्रव्यं भवति । नैयायिकैस्तु गुणाश्रयं द्रव्यमिति द्रव्यलक्षणमुक्तम् । नवद्रव्याणि भवन्ति, यथा-(१) पृथिवी (२) जलम् (३) तेजः (४) वायुः (५) आकाशः (६) कालः (७) दिक् (८) आत्मा (९) मनश्चेति । एषु नवद्रव्येषु आद्यानि पञ्चद्रव्याणि महाभूतानीति उच्यन्ते । एषु अन्तिमानि पञ्चद्रव्याणि नित्यद्रव्याणि सन्ति । तदतिरिक्तानि चानित्यद्रव्याणि । सर्वेषां द्रव्याणां प्रधानगुणाः निर्धारिताः-गन्धवती पृथिवी, रसवत् जलम्, रूपवत् तेजः, स्पर्शवान् वायुः, शब्दवान् आकाशः । आकाशे केवलं शब्दाख्यः गुणो भवति, वायौ शब्दस्पर्शौ वर्तेते, तत्र स्पर्शस्य प्राधान्यम् । तेजसि शब्द-स्पर्शरूपाणि भवन्ति, किन्तु रूपस्य प्राधान्यं भवति । जले शब्द-रूप-रसा भवन्ति, तत्र रसः प्रधानः । एवं पृथिव्यां शब्द-स्पर्श-रूप-रस-गन्धाश्चेति पञ्च गुणानां सत्त्वेऽपि गन्धस्यैव प्राधान्यं तत्र ।

वैशेषिकदर्शनं परमाणुवादी वर्तते । अतः तन्मतानुसारेण सृष्टिक्रमः परमाणुभ्य प्रारभ्यते । अनया दृष्ट्या महाभूतानि नित्यानित्यभेदेन द्वेधा विभज्यन्ते । कारणरूपेण सर्वाणि नित्यानि भवन्ति किन्तु कार्यरूपेण सर्वाणि अनित्यानि भवन्ति । अनित्यानां पुनः शरीरेन्द्रिय विषयभेदात् त्रैविध्यमपि प्रतिपादितमस्ति । दिक्कालौ नित्यद्रव्ये, विभू चेति मन्येते । उपाधिभेदात् व्यवहारे कालस्य त्रयो भेदा उक्ताः-वर्तमानः भूतः भविष्यच्च । एवमेव दिशोऽपि भेदा निगदिताः प्राची, अवाची, उदीचीः, दक्षिणा चेति ।

आत्मविचारःसम्पाद्यताम्

प्राणिनि विविधाः चेष्टाः, क्रियाश्चावलोक्यन्त इति तत्र चित्–चेतनतत्त्वयोराभासः स्वत एव जायते । नेत्रलोम्नां पक्ष्मोत्क्षेपणक्रिया, श्वासप्रश्वासयोः प्रक्रिया चापि शरीरे चैतन्यतत्त्वस्य उपस्थितिं सूचयतः । ततश्च शारीरिकक्रियाणां कश्चित् नियन्ता अवश्यं भवेत् इति विचारः उद्भवति । कः मनः प्रेरयति? इति प्रश्नोऽपि चैत-न्यमेव सूचयति । अतएव वैशेषिकशास्त्रे आत्मनोऽस्तित्वं स्वीकृतम्, यतोहि लौकिकसुखदुःखादिभावानाम् आश्रयरूपि द्रव्य-म् आत्मैव भविंतु शक्नोति । आत्मनः विषये इह दर्शने अवधारणाऽस्ति यत् ‘आत्मतत्त्वम्’ अनेकमिति । अन्यथा संसारे दृश्यमानस्य नानात्वस्य संगतिरेव न स्यात् । आत्मनः एकत्वे वैषम्यादीनामभाव एव स्यात् । अवस्थाविशेषे एकस्मिन् शरीरे अनेकेषां भावानाम् उदये यद्यपि अवस्थाविशेष एव कारणं भवति, तथापि एकस्मिन्नेव काले कश्चित् सुखी, कश्चित् दुःखी, कश्चित् तटस्थश्चाव-लोक्यते । एकस्मिन् काले एकस्यैवात्मनः अवस्थाभेदः कथमुपपद्येत इति विचार्य वैशेषिकाचार्यैरुक्तं यत् आत्मा प्रतिशरीरं भिद्यते इति । किन्तु पारमार्थिकदृष्ट्या आत्मा अथवा ईश्वरो वा एक एव । शरीरातिरिक्तं आत्मतत्वमस्तीति साधयिंतु वैशेषिकदर्शने इन्द्रियात्मवादस्य, आत्ममनोवादस्य च खण्डनं कृतम् ।

मनस्तत्त्वनिरूपणम्सम्पाद्यताम्

आत्मनि सुखदुःखयोरनुभवस्य साधनं मन एव भवति । यद्यपि ज्ञानस्य साधनानाम् इन्द्रियाणां तद्विषयाणाम् आत्मनश्चास्तित्वमस्ति तथापि मनसा विना किञ्चिदपि ज्ञानं नोत्पद्यते । यथा बाह्यविषयाणां ज्ञानं बाह्येन्द्रियैः सम्भवति तथैव सुखदुःखादि सदृशानाम् आन्तरविषयाणां ज्ञानम् अन्तरिन्द्रियेण मनसा एव जायते । ज्ञानस्य असाधरणकार-णरया मनस अपह्नवोऽपि सम्भवो नास्ति । मनः अपि आत्मवत् प्रतिशरीरं भिन्नम् । क्रियाकारितायाः कारणात् इदं सूक्ष्ममपि मूर्तद्रव्यमस्ति । इदम् अणु-परिमाणं वर्तते । मनसः इदम् अणुत्वं विविधानां ज्ञानानाम् एककालावच्छेदेन उत्पत्तिं निषेधयति । अतएव ज्ञानस्य काले अणुतुल्यस्य मनसः सम्बद्धैरिन्द्रियैः संयोगे सत्येव ज्ञानोत्पत्तिर्जायते ।

गुणनिरूपणम्सम्पाद्यताम्

द्रव्येषु समवायसम्बन्धेन विद्यमानः पदार्थो गुणः कथ्यते । गुणाः द्रव्येषु एव वर्तन्ते । अतएव द्रव्यातिरिक्तं गुणानां सत्ता नास्ति । महर्षिणा कणादेन त्रयोविंशतिगुणानाम् उल्लेखो विहितः। एषु त्रयोविंशति गुणेषु सप्तदश सामान्यगुणाः सन्ति षट् च विशिष्टगुणाः वर्तन्ते । (१) रूपम् (२) रसः (३) गन्धः (४)स्पर्शः (५) संख्या (६) परिमाणः (७) पृथक्त्वम् (८) संयोगः (९) विभागः (१०) परत्वम् (११) अपरत्वम् (१२) बुद्धिः (१३) सुखम् (१४) दुःखम् (१५) इच्छा (१६) द्वेषः (१७) प्रयत्नः (१८) गुरुत्वम् (१९) स्नेहः (२०) संस्कारः (२१) शब्दः (२२) धर्मः (२३) अधर्मः च । बुद्धि, सुख, दुःख, इच्छा, द्वेष, प्रयत्नाः विशेषगुणाः सम्प्रोक्ताः ।

कर्माणिसम्पाद्यताम्

गुणभिन्नं द्रव्ये समवायसम्बन्धेन विद्यमानं बाह्यपदार्थं कर्म इति कथ्यते । क्रिया एव कर्म इत्यापि केचन ब्रुवन्ति । कर्माणि पञ्च सन्ति-(१) उत्क्षेपणम् (२) अपक्षेपणम् (३) आकुञ्चनम् (४) प्रसारणम् (५) गमनम् चेति । एतदतिरिक्तं पक्षिणां तिर्यग्गमनं, भ्रमणं, रेचनं, स्पन्दनमित्यादयः याः क्रियाः तासां सर्वासामपि गमने एवान्तर्भावः ।

सामान्यम्सम्पाद्यताम्

नित्यः, अनेकपदार्थेषु समवायसम्बन्धेन यस्तिष्ठति सः सामान्यख्यः पदार्थः । सामान्यमेव जातिरिति प्रोच्यते । यथा गोषु गोत्वम्,मनुष्येषु मनुष्यत्वम् । जातिर्नित्या भवति, अतः नश्यत्स्वपि बहुषु गोषु गोत्वस्य नाशः नैव जायते । अर्थात् एकस्मिन् एव गोव्यक्तौ गोत्वं न भवति, अपितु सर्वेषु गोषु गोत्वं विद्यमानं भवति । द्रव्यगुणकर्मसु सामान्यस्य उपस्थितिः द्रष्टुं शक्यते । सामान्यस्य भेदद्वयमभिहितं न्यायदर्शने, वैशेषिकदर्शने च । यथा-परसामान्यम् अपरसामान्यं च । अधिकदेशस्थं परसामान्यं, अल्पदेशीयञ्च अपरसामान्यमिति तत्र भेदोऽवगन्तव्यः ।

विशेषःसम्पाद्यताम्

द्रव्याणामन्तिमे भागे, नित्यद्रव्येषु च वर्तमानः पदार्थः विशेष इति जेगीयते । नित्यद्रव्येषु परस्परं भेदः विशेषाख्यपदार्थेन सिध्यति । अतः विशेषः सामान्यानां भेदकः । किञ्चायमनन्तोऽपि ।

समवायःसम्पाद्यताम्

अविनाभावसम्बन्धः समवायो भवति । द्वयोः पदार्थयोः एकं विना अन्यस्य सत्ता न स्यादित्याकारिकया अपेक्षया सापेक्षोऽयं सम्बन्धः । १) अवयवावयविनोः (२) गुणगुणिनोः (३) क्रियाक्रियावतोः (४) जातिव्यक्त्योः (५) विशेषनित्यद्रव्ययोः सम्बन्धः समवायः ।

अभावःसम्पाद्यताम्

भावपदार्थस्य विनाशे सत्ययमभावः उत्पद्यते । अभावस्य चत्वारो भेदाः पूर्वमुक्ताः । तत्र कार्योत्पत्तेः पूर्वं पदार्थ-स्य प्रागभावो भवति । कार्योत्पत्तेरन्तरं तस्य विनाशः प्रध्वंसाभावो भवति । एकस्य पदार्थस्य अभावे सति अपरपदार्थस्यापि यः अभावः सः अन्योन्याभावः । पदार्थस्य त्रैकालिकोऽभावः अत्यन्ताभावः । न्यायशास्त्रस्य षोडशपदार्थाः एषु सप्तस्वेवान्तर्भवन्तीति वैशेषिकाः ।

परमाणुकारणतावादःसम्पाद्यताम्

भारतीयदर्शने न्यायवैशेषिकावेव दृढतया कार्यकारणयोः सिद्धान्तं स्वीकुरुतः । अस्मिन् इदं दृश्यमाणं जगत् कार्यरुपमस्ति परमेश्वरश्च् कारणरुपो वर्तते । तस्य परमेश्वरस्य निमित्तकारणता स्वीक्रियते किन्तु निमित्तातिरिक्तानामपि कारणानाम् अपेक्षा कार्ये भवति । तदा परमाणूनां उपादानकारणता समवायिकारणता वा स्वीक्रियते । परमाणवः पृथिवी-जल-तेजो-वायूनामेव भवन्ति । ते एव कार्यरुपेण जगति दृश्यन्ते ।

वैशेषिकमतानुसारेण यदपि कार्यं भवति तद् अनित्यं भवति अर्थात् सर्वाणि कार्याणि विनाशशीलानि सन्ति । कार्यरुपे केवलं पृथिवी जलं वायुः तेजश्च चत्वारि एव अस्तित्वमयानि विद्यन्ते । अतएव प्रलयकाले चत्वारि महाभूतानि इमानि परमाणुरुपेण अवस्थितानि भवन्ति । अनेन सिद्ध्यति, यत् कार्यद्रव्यस्य कारणरुपे परिणतिरेव प्रलयः कथ्यते । प्रलयकाले प्रत्येकं जीवात्मा स्वमनसः पूर्वजन्मनः संस्काराणां पापपुण्यानां अदृष्टानां च साहचर्येण विद्यमानो भवति। तथापि तदानीं सृष्टिकार्यं स्थगितमेव भवति ।

वैशेषिकमते सृष्टिविचारःसम्पाद्यताम्

यदा सर्वेषां जीवात्मनां संस्कारा अदृष्टकार्यरुपे परिणमयितुं सन्नद्धा तिष्ठन्ति यदा व जीवात्मान्ः सञ्चितकर्मणां फलानि अथवा अदृष्टरुपाणि पापपुण्यानि उपभोक्तुमिच्छन्ति तदा जीवात्मानः जडपरमाणुषु प्रवृत्तिं उत्पादयितुं न क्षमन्ते । शरीरं विना भोगः संभवो नास्ति अथवा परमाणूनां आनुपातिकं संयोगं विना शरीरं नैव जायते , यतो हि परमाणवोऽपि जडा एव वर्तन्ते । अतएव जीवात्मनां मोक्षाय परमात्मनि सृष्टिं कर्त्तुम् इच्छाशक्तिः प्रादुर्भवति ।

सृष्टेरनन्तरं जीवात्मानः शरीरेषु स्थित्वा स्व- अदृष्टानुरुपं फलभोगं कर्त्तुं शक्नुवन्ति । एतदर्थं परमाणवः संक्रियाः कुर्वन्तः मिथः संयुक्ताः जायन्ते । यदा द्वौ परमाणू संयुक्तौ भवतः तदा तौ तन्निर्मितस्य द्वयणुकस्य समवायिकारणं भवतः । तयोरुभयोः संयोगः असमवायिकारणं भवति । अत्र अदृष्टः ईश्वरेच्छा वा निमित्तकारणं भवति । प्रत्येकं भौतिकद्रव्यस्योत्पत्तेरयमेव मार्गो वैशेषिकैः निर्धारितः ।

द्वयोः परमाण्वोः संयोगो दव्यणुको भवति किन्तु दव्यणुकस्य परिणामोऽपि अणुसदृश एव वर्तते । स च नैव दृश्यते । अतो दव्यणुके यत्कार्यद्रव्यं जायते तदपि अणुपरिमाणमेव भवति । तदपि दृष्टिभूतं न भवति । अतएव वैशेषिकदर्शने दयणुकादिस्थूलस्य कार्यद्रव्यस्य उत्पत्तये त्रिसंख्या गृहीता । स्थूलेन अथवा अमत्परिमाणेन द्र्व्येण अथवा त्रिसंख्यया एव स्थूलद्रव्यस्य उत्पत्तिः सम्भवाऽस्ति । अतो यदा त्रयाणां दव्यणुकानां संयोगो भवति तदा त्रसरेणोरुप्तत्तिः भवति तदनन्तरं चतुर्भ्यः दयणुकेभ्यः त्र्यणुकेभ्यो वा चतसृणकं उत्पद्यते ।

परमाणूनाम् अनेनैव क्रमेण भौतिकी सृष्टिरुपन्ना भवति । एषां द्रव्याणाम उत्पत्तिक्षणस्य अनन्तरं अपरिस्मन् क्षणे तेषां गुणानामपि उत्पत्तिरपि भवति । एव द्रव्यगुणादिपदार्थमयं जगत् उत्पन्नं भवति । एषा सृष्टिर्जीवानां कर्मोपभोगाय एव भवति । जीवस्य जन्मापि कर्मोपभोगायैव जायते । इदमेव सृष्टेरुद्देश्यमस्ति ।

प्रलयनिरुपणम्सम्पाद्यताम्

वैशेषिकमतानुसारेण यथा केनापि प्रहरेण घटरुपिणः कार्यस्य परमाणुषु विशिष्टा क्रिया उत्पद्यते, तथा च घटस्य दव्यणुकपरमाणूनां संयोगो नश्यति । फलतः दव्यणुकं नश्यति । दयणुकविनाशे सति त्रिसंख्याऽपि विनष्टा भवति । ततः त्र्यणुकस्यापि विनाशो भवति । एवं क्रमेण तदश्रितस्य सम्पूर्णस्य कार्यस्य अपि विनाशो जायते ।

प्रलयसिद्धान्तेऽपि वैशेषिकाः कारणनाशादेव कार्यस्य नाशं स्वीकुर्वन्ति । अर्थात् सृष्टेः क्रम् एव प्रलयस्यापि क्रमोऽस्ति । यथा परमाणूनां संयोगेन सृष्टिर्जायते तथा परमाणुषु उत्पन्नया विकल्पादिक्रियया दव्यणुकस्य विनाशो भवति । तथा त्रिसंख्यायाः त्रसरेणोश्च विनाशो जायते । अर्थात् सूक्ष्मतः स्थूलं प्रति विनाशस्य प्रक्रिया प्रवृत्ता भवति । अन्ते तु कार्यद्रव्ये विनष्टे सति तस्य द्रव्यस्य गुणा अपि नश्यन्ति ।

ज्ञानतत्त्वविचारःसम्पाद्यताम्

वैशेषिकदर्शने बुद्धिः उपलब्धिः ज्ञानं प्रत्ययः एते चत्वारः समानार्थकाः शब्दाः सन्ति अत्र बुद्धिः द्विप्रकारा अभिमता –विद्या अविद्या च । अविद्याऽपि चतुर्धा प्रतिपादिता –संशयः विपर्ययः अध्यवसायः, स्वप्नश्च । तत्र स्थाणुर्वा पुरुषो वा इत्यकारकं ज्ञानं संशयोऽस्ति । विपरीतं ज्ञानं विपर्ययो भवति । अनिश्चयोऽनध्यवसाय उच्यते । स्वप्नज्ञानं तु संस्कारपाटवेन धातुदोषेण अथवा अदृष्टेन संभवति । वैशेषिकदर्शने विद्यायाश्चवारो भेदाः प्रतिपादिताः –प्रत्यक्षं लैङ्गिकं स्मृतिः आर्षञ्चेति । वैशेषिकमतेऽपि प्रत्यक्षम् इन्द्रियार्थसन्निकर्षजन्यं भवति अर्थात् इन्द्रियार्थयोः संयोगेन उत्पन्नं ज्ञानं प्रत्यक्षं भवति । लैङ्गिकं ज्ञानमनुमानं भवति । वैशेषिकमते शब्दोपमानयोरनुमाने एवान्तर्भावो भवति । स्मृतिस्तु अनुभवजन्यं ज्ञानं भवति । अतीन्द्रियविषयाणां स्वप्रतिभया क्रियमाणं यथार्थं ज्ञानं आर्षज्ञानं भवति ।

कर्त्तव्यमीमांसासम्पाद्यताम्

यस्याचरणात् तत्त्वज्ञानं मुक्तिश्च प्राप्यते तदेव कर्त्तव्यमिति वैशेषिकाः स्वीकुर्वन्ति । यस्य ज्ञानात् अभ्युदयरुपिणः तत्त्वज्ञानस्य प्राप्तिर्भवति, निः श्रेयसरुपिणः मोक्षस्य प्राप्तिश्च भवति स एव धर्मो भवति । आचार्यप्रशस्तपादेनोक्तं –यस्य्याचरणात् साधकः मोक्षं लभते स एव धर्मः । यः अतीन्द्रियः शुद्धसंकल्पेन समुत्पन्नः स्ववर्णधर्मानुगतकर्मरुपश्च धर्मो भवति । धर्मस्य रुपद्वयं वर्तते –सामान्यो धर्मः विशेषधर्मश्च । आभ्यां द्वाभ्यां रुपाभ्यामेव् धर्मस्य सिद्धिर्भवति । सत्य –अहिंसादयः सामान्यधर्माः सन्ति किन्तु वर्णाश्रमाणां विहितकर्माणि विशेषधर्माः वर्तन्ते । एतानि कर्माणि यदि सकामभावेन क्रियन्ते तदा अनुकूलफलप्रदानि भवन्ति यदि च निष्कामभावेन अनुष्ठीयन्ते तदा तत्त्वज्ञानाय सहायकानि जायन्ते ।

वैशेषिकदर्शने मोक्षविचारःसम्पाद्यताम्

धर्माचरणेन तत्त्वज्ञानस्य उत्पत्तिर्भवति । अयमेव् मोक्षस्य प्रमुखो हेतुः । तत्त्वज्ञानस्य उदयानन्तरं तथ्यज्ञानस्य मिथ्यज्ञानस्य मिथ्याज्ञानस्य वा समाप्तिर्जायते । तदानीम् अदृष्टसमाप्तेः कर्मचक्रम् अवरुदध्यते । फलस्वरुपं शरीरेण आत्मनः सम्बन्धविच्छेदो भवति । आत्मनः सम्बद्धतायाः विनाशे सति जननमरणयोः परम्पराऽपि विच्छिन्ना भवति । तदा सर्वेषां दुःखानां आत्यन्तिकं विनाशोऽपि सम्भवति वैशेषिकमते इयमेव मुक्तिर्वर्तते ।

मोक्षस्य साधनेषु सर्वप्रथमं श्रद्धाया नाम ग्ण्यते । श्रद्धां विना तत्त्वज्ञानं न् उदेति । कुलीनता, श्रद्धा, जिज्ञासा चेति त्रीणि तत्त्वज्ञानाय अत्यावश्यकानि साधनानि सन्ति । एवमेव श्रवण-मनन-निदिध्यासन- साक्ष्त्कारैश्चापि तत्त्वज्ञानस्योत्पत्तिर्भवति । तत्त्वज्ञानं वस्तुतः यथार्थरुपे क्रियमाणोऽनुभवोऽस्ति । वस्तुतो यथार्थज्ञानमेव साक्षात्कारो विद्यते । अनेनैव जीवो भवबन्धनात् विमुक्तो भवति । शरीरे कर्तृत्व-भोक्तृत्वादयो गुणा आत्मन एव भवन्ति, अतः शरीरनाशे एते अपि नश्यन्ति । तदाऽऽत्मा स्वकीये विशुद्धस्वरुपे अवस्थितो भवति । अनेन सिद्ध्यति यत् तत्त्वज्ञानमेव मुक्तिरस्ति ।

द्वित्वादिसंख्याविचारःसम्पाद्यताम्

द्वित्वादिसंख्यासु वैशेषिकाणां विशेषाग्रहः दृश्यते । विषयममुमधिकृत्य आचार्येण लिखतं यथा -

द्वित्वे च पाकजोत्पत्तौ विभागे च विभागजे ।
यस्य न स्खलिता प्रज्ञा तं वै वैशेषिकं विदुः॥ इति

अन्यच्च-

आदाविन्द्रियसन्निकर्षघटनादेकत्वसामान्यधीः
एकत्वोभयगोचरामतिरतो द्वित्वं ततो जायते ॥
द्वित्वत्वप्रमितिस्ततोऽनुपरतो द्वित्वप्रमानन्तरं
द्वे द्रव्ये इति धीरियं निगदिता द्वित्वोदयप्रक्रिया॥ इति,

आभ्यां श्लोकाभ्यां द्वित्वादीनामुत्पत्तिप्रकारः सम्यगाम्नातः भवति ।

पीलुपाकविचारःसम्पाद्यताम्

दर्शने अस्मिन् पीलुपाकः न्याये तु पिठरपाकः इति पाकद्वयं पदार्थेषु स्वीक्रियते । अस्य पीलुपाकस्य स्वरूपमेवं भवति यथा - पक्वपरमाणूनां संयोगेन द्व्यणुकोत्पत्तिः, द्व्यणुकादिक्रमेण अवयवीभूतस्य महत्पदार्थस्योत्पत्तिर्भवति । यथा, यत्र घटे तेजसः अतिशयवेगकरणेन झटिति पूर्वव्यूहस्य नाशः, व्यूहान्तरस्योत्पत्तिश्चेति तत्र पीलुपाकः स्वीक्रियते । अत्र घटदृष्टान्ते पाकक्रियायाः सूक्षतरकालस्य आकलनं न भवतीत्यतः पूर्वघटस्य नाशः न लक्षितो भवति । इयं वैशेषिकाणां पीलुपाकप्रक्रिया भवति ।

पिठरपाकविचारःसम्पाद्यताम्

नैयायिकाभ्युपगता या पाकप्रक्रिया सा पिठरपाकप्रक्रिया भवति । पिण्डभूतघटादीनामवयव्याः नाम पिठरः इति । अस्मिन् मते तेजसः संयोगानन्तरमपि अवयवानां नाशः न भवति । अवयवसम्बन्धेन अवयविनि कश्चन पाकः भविष्यति । अर्थात् वैशेषिकमतानुसारं घटे अग्नि संयोगेन परमाणूनां विभागः एवं पूर्वं वर्तमानायाः श्यामरूपायाः नाशः, अनन्तरं तस्मिन् घटे रक्तवर्णस्योत्पत्तिपर्यन्तं नवानां दशानां वा क्षणानां कालः अपेक्षितः अस्ति । नैयायिकमतानुसारमयं क्रमः न भवति । यतो हि एकस्मिन्नेव काले घटे अग्निसंयोगेन पूर्वरूपस्य नाशः, रूपान्तरस्योत्पत्तिः भवतीति तैः स्वीक्रियते । अवयवानां विभागः न भवति, अपि तु अवयवयुक्तावयविनि घटे एककालेनैव पूर्वरूपस्य श्यामत्वस्य नाशः, अनन्तरक्षणे एव रूपान्तरस्य रक्तत्वस्योत्पत्तिः इत्ययं क्रमः तैः स्वीक्रियते । अयमेव पिठरपाकः इत्युच्यते । भवति चैवं पाकद्वयस्य विवेचनम् ।

विशेषविचारःसम्पाद्यताम्

अन्योन्याभावविरोधी सामान्यभिन्नसमवेतसमवायसम्बन्धेन नित्यद्रव्येषु वर्तमानत्वं विशेषवत्त्वमिति । द्रव्यगुणकर्माणि सामान्यं विना न तिष्ठन्तीत्यतः तद्व्यावृत्तये सामान्यभिन्नमिति विशेषणम् । द्रव्यत्वादयः सामान्ययुक्ताः भविष्यन्ति तथा समवेतमिति तिदलेन समवायस्य व्यावृत्तिः । अर्थात् न कुत्रापि समवायः समवायसम्बन्धेन तिष्ठति । अन्योन्याभावविरोधी इति दलेन समवायान्तरस्वीकरणेन अनवस्थादोषः प्रसज्यते । दोषोऽयं विशेषे न भवति, यतः यदि विशेषत्वं रूपं सामान्येन स्वीक्रियते तदा विशेषे विशेषत्वाभावः इति सिध्यति । सत्येवं रूपहानिदोषः स्यात् । अत एव न्यायसिद्धान्तमुक्तावलीकारः एवं लिखति -

व्यक्तेरभेदस्तुल्यत्वं संकरोऽथानवस्थितिः ।
रूपहानिरसम्बन्धो जातिबाधकसंग्रहः ॥ इति

वैशेषिकदर्शनस्य आचार्यपरम्परासम्पाद्यताम्

कणादःसम्पाद्यताम्

ऐतिहासिकतथ्यानाम् अध्ययनेन विज्ञायते यत् वैशेषिकदर्शनस्य प्रणेता महर्षिः कणादः काश्यपगोत्रीय आसीत् । सोमशर्मणः प्रमुखशिष्यरुपेण अमुष्य व्यक्तित्वं सुविख्यातम् अवर्तत । अस्यैव अपरं नाम ‘उलूक’ इत्यासीत् अतः माधवाचार्येण सर्वदर्शनसंग्रहे वैशेषिकदर्शनस्य ‘औलूक्य’ संज्ञा विहिता । श्रीहर्षेणापि स्वरचनायां खण्डनखण्डखाद्ये वैशेषिक दर्शनस्य कृते औलूक्यदर्शनमिति नाम प्रयुक्तम् ।

वैशेषिकदर्शने मूलसूत्राणि सप्तत्युत्तरशतत्रयमितानि सन्ति । तानि च दश अध्यायेषु विभक्तानि वर्तन्ते । प्रत्येकम् अध्यायोऽपि आह्निकद्वये विभक्तोऽस्ति । एवं विंशतिराह्निकेषु वैशेषिकस्य प्रतिपाद्यम् उपनिबद्धम् अस्ति । कालगुणनाया दृष्टिकोणेन वैशेषिकसूत्राणां रचना ईस्वीपर्व तृतीयशताब्द्यां विहिता ।

वैशेषिकसूत्राणि अधिकृत्य सर्वप्रथमं रावणेन भाष्यं लिखितम् आसीत्, किन्तु संप्रति तन्न उपलभ्यते । वैशेषिकसूत्रेषु भारद्वाजवृत्तिरपि भाष्यवत् महत्त्वपूर्णा मन्यते । इयं कृतिः उपलब्धाऽस्ति । पण्डितजयनारायणेन अस्याः वृत्तेः विवृत्तिर्लिखिता । पंडितचन्द्रकान्त लर्कालङ्कारेणापि भारद्वाजवृत्तेराशयं स्फूटीकर्तुं वैशेषिकसूत्रेषु पृथक्शः भाष्यं विनिर्मितम् ।

प्रशस्तपादःसम्पाद्यताम्

प्रशस्तपादनामकः आचार्यः वैशेषिकसूत्रेषु ‘उपस्कार’ भाष्यं रचितवान । अनेन वैशेषिकत्तत्वानाम् अवबोधाय ‘पदार्थधर्मसंग्रह’ स्यापि रचना कृत । वर्तमाने वैशेषिकसूत्रार्थं बोधयितुं प्रशस्तपादभाष्यमेव प्रामाणिकं मन्यते । परमाणुवादः सृष्टिः, प्रलयः, प्रामाणानि, गुणश्चेति प्रशस्तपादभाष्यस्य प्रतिपाद्यविषया वर्तन्ते । प्रशस्तपादभाष्योक्तानां विषयाणां न्यायभाष्ये उपयोगो विहितः, बौद्धाचार्येण वसुबन्धुना च् तत्खण्डनं कृतम्, अतः आभ्यां प्रमाणाम्यां प्रशस्तपादस्य कालः एतत्पूर्ववर्ति अथवा प्रथम द्वितीयशताब्द्यां स्वीकर्त्तिं शक्यते ।

व्योमशिवाचार्यःसम्पाद्यताम्

अयमाचार्यो दाक्षिणात्य आसीत् । अनेन प्रशस्तपादभाष्यमधिकृत्य व्योमवती टीका विरचिता या हि प्राचीनतमा मन्यते । अस्योल्लेखः उदयनाचार्य-राजशेखरादिभिरादरेण विहितः । अस्य स्थितिकालः सम्राजः इर्षवर्धनस्य शासनकाले निर्धार्यते । अयमाचार्यः शब्दस्यापि प्रामाण्यं स्वीकृतवान् । एवं न्यायस्य प्रभावः अस्य कृतित्वे परिलक्ष्यते ।

उदयनाचार्यःसम्पाद्यताम्

उदयनाचार्यस्य कालः दशमशताब्द्या मन्यते । अयम् आचार्यः प्रशस्तपादभाष्यम् अधिकृत्य ‘किरणावली’ इत्याख्यां टीकां विरचितवान् । अस्याम् टीकायां तमसो दशमद्रव्यतत्वशङ्काया निराकरणपूर्वकं तमसः नीलत्वमपि खण्डितम् । पश्चात् श्रीधरेण स्वटीकायां अस्य मतस्य संशोधनं कृतम् । उदयनरचितां किरणावलीं विषयीकृत्य वरदराजवर्धमान उपाध्याय-पद्मनाभ मिश्र –प्रभृतिभिर्विद्वद्भिः टीका रचिताः । इमाः टीका एकाडशशताब्द्याः पश्चात्कालिक्यः सन्ति ।

श्रीधराचार्यःसम्पाद्यताम्

अयं गौडदेशीयो विद्वान् आसीत् । प्रशस्तपादभाष्यं विषयीकृत्य अनेन “न्यायकन्दली” इत्याख्या टीका विरचिता । इयं रचना दशमशताब्द्या विहिता । वैशेषिकसिद्धान्तानां परिज्ञानाय न्यायकन्दली प्रामाणिकी रचना स्वीक्रियते । न्यायकन्दलीम् अधिकृत्यापि परवर्तिर्नि काले न्यायकन्दलीसारः न्यायकन्दलीपञ्जिकाः चेति टीकाद्वयं सृजितम् ।

वल्लभाचार्यःसम्पाद्यताम्

वल्लभाचार्यविरचिता “ न्यायलीलावती” अपि वैशेषिकदर्शनस्य आधारशिलाऽस्ति । न्यायलीलावतीं विषयीकृत्य परवर्तिनि काले अनेके टीकाग्रन्था विरचिताः । वल्लभाचार्यस्य स्थितिकालः द्वादशशताब्द्या स्वीक्रियते ।

पद्यनाभःसम्पाद्यताम्

अयम् आचार्यो मिथिलानिवासी वर्तते स्म । अस्य कालः षोडश शताब्दीति निर्धायते । पद्मनाभस्यापि टीकाग्रन्थाः प्राप्यन्ते । न्यायकन्दलीं न्यायलीलावतीं चाधिकृत्य लिखितानां अमुष्य टीकाग्रन्थानां उपयोगिता वैशेषिकसिद्धान्तानां समीक्षाया दृष्टिकोणेन स्वीक्रियते ।

शङ्करमिश्रःसम्पाद्यताम्

अयम् आचार्यः मिथिलायां दरभङ्गमण्डलस्य निवासी आसीत् । अयं सुप्रसिद्धस्य नैयायिकस्य भवनाथमिश्रस्य पुत्र आसीत् । अस्य अनेका रचनाः सन्ति । तासु नव ग्रन्थाः सम्प्रति प्राप्यन्ते –वैशेषिक सूत्रोपस्कारः काणादरहस्यम्, आमोद टीका, कल्पलता, मयूखटीका, वादविनोद, भेदरसप्रकाश इत्यादि ।

शिवादित्य मिश्रःसम्पाद्यताम्

अयं विद्वान् एकादश शताब्द्याम अभवत् । अनेन वैशेषिक दर्शने सप्तमस्य अभावपदार्थस्य अवधारणा प्रतिपादिता । अस्य रचना ‘सप्तपदार्थि’ नाम्ना प्राप्यते । सप्तपदार्थीग्रंथोक्तस्य प्रमालक्षणस्य श्रीहर्षेण खण्डनं विहितम् । अस्यैका अन्या कृतिः लक्षणमाला अपि प्राप्यते यस्यां वैशेषिकसिद्धान्तानामेव प्रकारान्तरेण प्रतिपादनम् अस्ति ।

विश्वनाथ न्यायपञ्चाननःसम्पाद्यताम्

अयमाचार्यः बङ्गप्रदेशस्य निवासी आसीत् । अस्य कृतिद्वयं सुप्रसिद्धं वर्तते । भाषापरिच्छेदः अस्य प्रथमा रचनाऽस्ति । अपरा रचना न्यायसूत्रवृत्तिश्च प्राप्यते । भाषापरिच्छेदे कारिकासु टीकारुपेण विरचिता । न्यायसूत्रवृत्तौ तु न्यायसूत्राणां व्याख्या विद्यते ।

अन्नं भट्टःसम्पाद्यताम्

सुप्रसिद्धस्य वैशेषिकप्रकरणाग्र्न्थस्य ‘तर्कसंग्रहस्य’ रचनाकाररुपेण अन्नं भट्टस्य पर्याप्ता प्रसिद्धिरस्ति । अयं दाक्षिणात्यो विद्वान् आसीत् । अस्य वंशः तैलङ्गवंशनाम्ना ज्ञायते । काश्याम् निवसता अनेन तर्कसंग्रहः तस्य दीपिका टीका च विरचिते । ब्रह्म सूत्रेषु राणकोज्जीवनी टीका अनेनैव लिखिता । अष्टाध्यायीग्रंथस्यैका टीकाऽपि एतत्कृता प्राप्यते ।

बाह्यानुबन्धाःसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=वैशेषिकदर्शनम्&oldid=365278" इत्यस्माद् पुनः प्राप्तिः