आधुनिकगणकयन्त्रम् अपि अतिशेते भारतीया वेदगणितपद्धतिः। शून्यं, दशांशपध्दतिः, सङ्ख्याः मूल्यम् इत्यादयः बहवः अंशाः भरतीयानां कारणतः एव गणितक्षेत्रं प्रविष्टवन्तः। पैथगोरियन् सिद्धान्तः इति यत् इदानीं पाठ्यते (कर्णवर्गः + पादवर्गः = लम्बवर्गः) स च सिद्धान्तः पैथगोरसस्य जननात् त्रिशतवर्षपूर्वम् एव भारते शुल्बसूत्रे निरुपितः आसीत्। भास्कराचार्येण लीलावत्यां –

'तत्कृत्योर्योगपदं कर्णः दोष्कर्णवर्गयोर्विवरात् ।'
'मूलं कोटिः कोटिश्रुतिकृत्योः अन्तरात् पदं बाहुः ॥' इति उच्यते।

पिङ्गलाचार्यः छन्दः शास्त्रे मेरुप्रस्तारं अधिकृत्य यत् प्रतिपादयति तदेव पास्कल्नामकेन अन्विष्टम् इति वयं पाठ्यपुस्तकेषु पठामः। अहो, विचित्रा अस्माकं विद्याभ्यासरीतिः!

बाह्यसम्पर्कतन्तुः

सम्पादयतु

सम्बद्धाः लेखाः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=प्राचीनगणितम्&oldid=482625" इत्यस्माद् प्रतिप्राप्तम्