चरकसंहिता, सुश्रुतसंहिता, अष्टाङ्गहृदयं, भावप्रकाशः इत्यादयः प्रसिध्दाः आयुर्वेदग्रन्थाः केचन । शस्त्रक्रिया, प्रतिरोधचिकित्सा च प्राचीनकालात् एव अत्र आसीत् । ९२७ तमे क्रिस्त्वब्दे भोजराजस्य मस्तिष्कशस्त्रक्रियां जीवकः नाम वैद्यः कृतवान् इति श्रूयते । सुश्रुतसंहितायां शस्त्रक्रियोपकारकाणि शस्त्रयन्त्रादीनि बहूनि उल्लिखितानि । भावमिशस्य भावप्रकाशे रक्तसञ्चारविषये अपि उच्यते । चिकित्सार्थं मोहनिद्रायाः (हिप्नाटिसम्) उपयोगः भारते एव ऎदम्र्पाथम्येन कृतः ॥

सञ्चिका:Biology organism collage.png
एते विषयाः जीवशास्त्रे अन्तर्भवन्ति
जीवकोशरचना

वृक्षायुर्वेदः, गजायुर्वेदः, अश्वायुर्वेदः, इत्यादयः निरवधिशाखाः तिर्यग्जीवशास्त्रम् अधिकृत्य प्रवृत्ताः । हयलीलावत्याम् अश्वानां स्वभावः गुणाः च उपवर्णिताः । तेषां रोगाः, तच्चिकित्सा, तेषाम् आहारः इत्यादयः अपि तत्र वर्णिताः । मृगवैद्यकस्य पिता इति विख्यातेन शालिहोत्रेण अश्वलक्षणम्, अश्चप्रश्नः इत्यादयः ग्रन्थाः रचिताः । गौतमस्य गवायुर्वेदः, पालकाप्यस्य हस्त्यायुर्वेदः च लोके प्रसिध्दौ । वराहमिहिरस्य बृहत्संहिता वृक्षशुश्रूषाम् अधिकृत्य वदति ॥

बाह्यसम्पर्कतन्तुः

सम्पादयतु
Journal links


सम्बद्धाः लेखाः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=प्राचीनजीवशास्त्रम्&oldid=480610" इत्यस्माद् प्रतिप्राप्तम्