प्राचीनभारतस्य विज्ञानवैभवम्


संस्कृतभाषा सर्वविज्ञानशेवधिः। धर्मदर्शनकलासंस्कृतिविज्ञानादीनि सर्वक्षेत्राणि एतत् चिन्तनपरिधौ समाविष्टानि भवन्ति। प्रपन्चे भारतस्य गौरवयुतं संस्कृताधीनम्। विविदमिदं सर्वेषां यत् वेदाः भारतीयप्रज्ञायाः अक्षयोः निधिः य्ः अतिप्राचीनकालात् दायरूपेण अनुवर्तते, यत्र हि ऎहिक-आमुष्मिक-धार्मिक-आध्यात्मिकानां सर्वेषां तत्त्वानि आन्तर्हितानि वर्तन्ते इति। ' वेदैः सर्वं प्रतिष्ठितम्', 'वेदात् सर्वं प्रसिस्ध्यय्ति', 'वेदाः सर्वहिताथार्य' इत्यादयः उक्तयः अमुमेव अर्थं ध्योतयन्ति। विपुले अस्मिन् स्ंस्कृतवाङ्मये मानवजीवनस्य स्ंरक्शणाय, संवर्धनाय, कल्याणाय च सर्वे अपि विषयाः अस्माकं मुनिभिः शास्त्रकारैश्च सविस्तरं निरूपिताः सन्ति। 'लोके धीर्ज्ञानमन्यत्र वविज्ञानं शिल्पशास्त्रयोः' इति अमरसिम्हस्य नामलिङानुशासने व ज्ञानविज्ञानयोः वेदः स्पष्टीकृतः वतते।ततापि यस्मिन्नर्थे आङ्ग्लभाषायां ' SCIENCE' इति शब्दः प्रयुज्यते तस्मिन्नेवार्थे अत्र विज्ञान शब्दस्य प्रयोगः विहितः अस्माभिरधुना। भौतिकशास्त्रं, रसायनशास्त्रं, वनस्पतिशास्त्रं, प्राणिशास्त्रं, वैद्यसशास्त्रं, गणितशास्त्रं, सङ्गीतशास्त्रं, कामशास्त्रं, शिल्पशास्त्रं इत्यादीनि शास्त्राणि अध्यत्वे विज्ञान पदवाच्यानि भवन्ति।मूर्धन्यपाकश्चान्त्यसूरीणां कथनेनापि ज्ञायते यत् नैक- सहस्रहायनेभ्यः प्रागेवभारतं महोन्तवैज्ञानिकसिद्धिनां स्थाननमासीदिति। उदाहरणार्तं- मोनियर् विलियम्स् एवमभिप्रैति-" ......More than this, Hindus had made considerable advances in astronomy,algebra, arithmetic,botany and medicine, not to mention their superiority in grammar, long before some of these sciences were cultivated by the most ancient nations of Europe....."। निर्मूलस्य अस्य अज्ञानस्य निराकरणं, प्राचीनभारतीयानां योगादानस्य पुरः स्थापनं, तस्मात् अस्मदीयानां ज्ञानविज्ञानयोः महत्ताविषये गर्वभावनायाः प्रत्यानयनामपि निभन्धस्यास्य मूलोद्देशः अस्ति।

पाश्चात्यमित्येव महन्न सर्वं न चास्मादीयं तु भवेदवध्यम्।
सन्तः परिक्श्यान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः॥

आयुर्वेदविज्ञानम् सम्पादयतु

भूमण्डले अस्मिन् अन्यदेशेभ्यः प्रागेव भारतवर्षं चिकित्साविज्ञानक्षेत्रे समुन्नतपदमारुढम् आसीदिति इतिहासविदां मतम्। मानवस्य ऐहिकाअमुष्मिकफ़लसाधनार्थं आरोग्यमेव प्रधानम्। आरोज्यसाधनं तु आयुर्वेदाद्यायनादेव इति कारणात् मूलभूतमिदं आयुर्वेदविज्ञानम्।

धर्माथकाममोक्शाणां आरोग्यं मूलमुत्ततमम्।
रोगास्तस्यापहर्तारः श्रेयसो जीवितस्य च॥

चरक संहित. सूत्रस्तानम्-१.१४

अतः ' आयुर्वेदोपदेशेषु विेधेयः परमादरः ' ।

स्वास्थ्यरक्षणे तस्य प्राधान्यमभिलक्स्य आयुर्वेदः अथर्ववेदस्योपवेदत्वेन प्रथां भजते। मतमिदं चरकसुश्रुतवाग्भटादिभिः प्रमुखायुर्वेदाचार्यैरेव प्रकाशितम्। चरकपाणिरपि ( व्याख्यानकारः) वदति- 'अथर्ववेदस्य आयुर्वेदत्वमुक्ते भवति, अथर्ववेदैकशेष एव आयुर्वेदः' इति। 'आयुर्वेद' - शब्दस्य वयुत्पत्तिं साधयद्भिराचार्यैः प्रकटीक्रुतम्- 'आयुरस्मिन् विद्यते, अनेन वा आयुर्विन्दति' इति। 'भावप्रकाश' - टीकाकरो अपि 'आयुर्वेद' शब्दम् एवं विशदीकरोति- अनेन पुरुषो यस्माद् आयुर्विन्दति वेत्ति च। तस्मान्मुनिवरैरेव 'आयुर्वेद' इति स्म्रुतः॥

आयुर्वेदानुसारेण आयुः चतुर्विधम्- हितायुः, अहितायुः, सुखायुः दुःखायुश्चेति।

हिताहितं सुखं दुःखं आयुस्तस्य हिताहितम्। मानं च तच्च यत्रोक्तं आयुर्वेदः स उज्यते॥ च सू.३.४१॥

आयुर्वेदस्य इतिहासः वैदिककालदेव आरम्भ्यते। अतः पन्चसहस्रवर्षेभ्यो अपि प्राचीनो अयं इतिहासः। विशेषतः क्रिस्तपूर्वचतुर्थश्तकादारभ्य क्रिस्तश्तकस्य ११ शतकपर्यन्तं आयुर्वेदस्य उत्क्रुष्टपरम्पराः न केवलं प्रचारे आसन् अपि तु तत्कालीनेषु प्रलख्यातेषु नलन्दा, विक्रमशिला, बलभी इत्यादिषु विश्वविद्यालयेषु प्रमुखविषयत्वेन पाठ्यन्ते स्म। चरकाचार्यविरचिता ' चरकस्ंहिता', सुश्रुताचार्यप्रणीता 'सुश्रुतस्ंहिता', वाग्भटग्रथिम् ' अष्टाङगह्रुदयम्', माधवकरस्य ' माधवनिदानम्'। शार्ङ्गधरस्य 'शार्ङ्गधरपद्धतिः' इत्यादयः आयुर्वेदस्य प्रमुखग्रन्थाः

सम्बद्धाः लेखाः सम्पादयतु