प्राचेतसराजशास्त्रम्


वाल्मीकीयं रामायणं भारतीयानाम् आदिकाव्यमिति, पुराणमिति, इतिहास इति च महदादरपात्रम् । धर्मं नीतिं च बुभुत्समाना: अपि इदं काव्यं सश्रद्धम् आश्रयन्ति । मन्वादिस्मृतिभि: कौटिल्यादिशास्त्रकारैश्च निरूपिता राजनीति: एव अत्र कान्तासम्मित-रूपेण वाचकानां हृदयम् आमोदेन पूरयति । प्रकृतग्रन्थे लेखकेन रामायणे विद्यमाना: राजनीतिपरा: श्लोका: सङ्गृहीता: । राजनीतौ प्रसिद्धानां षाड्गुण्य-त्रिवर्ग-उपाय-शक्ति-सहाय-बलानां विषयेषु, युद्ध-शासन-जनपदादिविषयेषु च अत्र बहव: श्लोका: सङ्गृहीता: सन्ति । पुस्तकस्य अन्ते रामायणे उक्तानां सामान्यनीतिपराणाम् अनेकेषां श्लोकानां, सुभाषितवाक्यानां च सङ्ग्रह: दत्त: अस्ति । लेखकस्य प्रयत्न: श्लाघनीय: एव ।

सम्बद्धाः लेखाः सम्पादयतु