बहुब्रीहिसमासः
बहुब्रीहिसमासः | |
---|---|
बहुब्रीहिसमासस्य समास विग्रह पद |
बहुव्रीहिसमासः
सम्पादयतुप्रायेण अन्यपदार्थप्रधानः बहुव्रीहिसमासः।
द्वौ वा त्रयो वा द्वित्राः इत्यादिषु उभयपदार्थस्य प्राधान्येऽपि द्वन्द्वः दृश्यते अतः समासलक्षणे प्रायेण इत्युक्तम्।
भेदाः
सम्पादयतुबहुव्रीहिसमासः द्विधा -
- सामान्यबहुव्रीहिः
- विशेषबहुव्रीहिश्चेति
बहुव्रीहि समास: | |
---|---|
बहुव्रीहि समासस्य उदाहरणम् |
बहुव्रीहि समास: | |
---|---|
बहुव्रीहि समासस्य उदाहरणम् |
सामान्यबहुव्रीहिः षोढा
सम्पादयतु- द्वितीयार्थबहुव्रीहिः - यथा - ‘प्राप्तोदकं’ प्राप्तम् उदकं यं सः प्राप्तोदकः (ग्रामः)
- तृतीयार्थबहुव्रीहिः - यथा - ‘पीतक्षीरः’ पीतं क्षीरं येन सः पीतक्षीरः (बालः)
- चतुर्थ्यर्थबहुव्रीहिः - यथा - ‘दत्तपशुः’ दत्तः पशुः यस्मै सः दत्तपशुः (रुद्रः)
- पञ्चम्यर्थबहुव्रीहिः - यथा - ‘उद्धृतजलः’ उद्धृतं जलं यस्मात् सः उद्धृतजलः (कूपः)
- षष्ठ्यर्थबहुव्रीहिः - यथा - ‘पीताम्बरः’ पीतम् अम्बरं यस्य सः पीताम्बरः (हरिः)
- सप्तम्यर्थबहुव्रीहि - यथा - ‘बहुफलः’ बहूनि फलानि यस्मिन् सः बहुफलः (वृक्षः)
विशेषबहुव्रीहिः नवधा
सम्पादयतु- व्यधिकरणबहुव्रीहिः - यथा - ‘चक्रपाणि’ चक्रं पाणौ यस्य सः चक्रपाणिः।
- सङ्ख्योत्तरबहुव्रीहिः - यथा - ‘उपविंशाः’ विंशतेः समीपे ये सन्ति ते उपविंशाः।
- सङ्ख्योभयपदबहुव्रीहिः - यथा - ‘द्वित्राः’ द्वौ वा त्रयो वा इति द्वित्राः।
- सहपूर्वपदबहुव्रीहिः - यथा - ‘सशिष्यः’ शिष्येण सह वर्तते इति सशिष्यः।
- व्यतिहारलक्षणबहुव्रीहिः - यथा - ‘केशाकेशि’ केशेषु केशेषु गृहीत्वा इदं युद्धं प्रवृत्तम् इति केशाकेशि।
- दिगन्तराललक्षणबहुव्रीहिः - यथा - ‘दक्षिणपूर्वा’ दक्षिणस्याः पूर्वस्याः दिशो यदन्तरालम् इति दक्षिणपूर्वा।
- नञ्बहुव्रीहिः - यथा - ‘अपुत्राः’ अविद्यमानः पुत्राः यस्य सः अपुत्राः।
- प्रादिबहुव्रीहिः - यथा - ‘निष्कृपः’ निर्गता कृपा यस्मात् सः निष्कृपः।
- उपमानपूर्वपदबहुव्रीहिः - यथा - ‘गजाननः’ गजाननमिव आननं यस्य सः गजाननः।