बाङ्गलालिपिः

(बाङ्गला लिपिः इत्यस्मात् पुनर्निर्दिष्टम्)

बांलालिपिः(वङ्ग: বাংলা লিপি Bangla lipi or वङ्ग: বাংলা হরফ Bangla horof ) एका बांलाभाषायाः लेखनपद्धतिः । बांलालिपिः पूर्वा नागरीलिपेः एका संस्कारिता लिपिः, यस्या प्रयोगः असमिया वा विष्णुप्रिया मणिपुरी लिखने अपि भवति । पूर्वा नागरीलिपेः सम्बन्धः ब्राह्मीलिपिना सह तथा देवनागर्या एवं भारतस्य अन्यलेखनपद्धत्या सह अपि आसीत् । बांलालिपिः अबुगिडा लेखनपद्धतेः प्रकारविशेषा । अस्याः लिपेः वर्णानां वामतो गतिः । प्रसिद्धा उत्तरीलिपिः (देवनागरेत्यादि)सदृशा अस्यापि लेखनशैल्यां 'शिरोरेखायाः' प्रयोगः अस्ति ।

बांलालिपिः
प्रकारः अबुगिडा
भाषा(ः) बांला
स्थितिकालः एकादश शतकतः वर्तमानकालः
जननस्रोतः
समकालीनलिपिः असमिया लिपिः,ओड़िया लिपिः
लेखनगतिः वर्णानां वामतो गतिः
युनिकोड सूची U+0980–U+09FF

इतिहासः

सम्पादयतु

बांलालिपेर्जन्म सिद्धमातृकालिपितः, या लिपिः भारतीयलिपिषु अन्यतमा तथा उत्तरब्राह्मीलिपेः प्रकारभेदा । बांलाभाषा व्यतिरिच्य असमिया-मनिपुरी-मैथिलीभाषी जनानामपि लेखनार्थं प्रयुज्यमाना लिपिरियम् । तथापि व्यतासस्तु अस्ति एव । यथा-

वर्णनम्

  • संयुक्तवर्णः 'क्ष' (ক্ষ) (उच्चारणम् :असमिया- khyô, बांला- khio) पृथक् वर्णरूपेण असमियावर्णमालायां तिष्ठति (ক্ষ <khyô>) किन्तु बांलाभाषायाम् एषः संयुक्तवर्णरूपेणैव तिष्ठति (विश्लेषणम् क्+ष=क्ष, बांला: ক্‌+ষ <kṣô>)। परन्तु उच्चारणं समानं भवति उभयत्रापि (ख्य খ্য <khy>) ।
  • 'र'() इति व्यञ्जनवर्णः बांलायाम् एवं लिख्यते, इत्येवम् असमिया-मनिपुरी-मैथिलीभाषाषु लिख्यते ।
  • बांलाभाषायां इति वर्णः नास्ति परन्तु असमियाभाषायां 'व'() 'ৱ' इत्येवं विधा लिख्यते ।

वस्तुतस्तु बांलालिपिः, अस्याः सम्पर्कः निर्दिष्टएकया भाषया सह नास्ति । मध्ययुगीयभारते (१०००- १८००) पूर्वदिशि प्रायः विकल्पेन उपयुज्यमाना लिपिः आसीत् । बांलालिपेः उच्चस्तरीकरणम् आधुनिकयुगे ईश्वरचन्द्र विद्यासागरमहोदयेन कृतम् । एषा बांलालिपिः पूर्वं संस्कृतलेखनार्थं प्रयुक्ता आसीत् । मध्ययुगस्य अनुवर्तीकाले एषा लिपिः पालि-बांला-असमियाभाषाणां मूललिपिरूपेण स्थिता आसीत् । भारतीयसाहित्य-लेखनेतिहासे अनया लिपिना रचितं बृहत्साहित्यभाण्डारम् अस्ति ।

उच्चस्तरीकरणम्

सम्पादयतु
 
रवीन्द्रनाथ वर्यस्य(রবীন্দ্রনাথ ঠাকুর) स्वहस्ताक्षरम्

बाङ्गलालिपेः वर्णमालायां संयुक्तवर्णाः विशिष्टाकारैः तिष्ठन्ति कदाचित् अत्यन्तविरलभङ्ग्या लिख्यते । एतस्मात् अस्याः लिपेर्शिक्षणं पठनं वा दुष्करम् भवति । तस्मात् बाङ्गलाभाषानिमित्तं बाङ्गलालिपेः उच्चस्तरीकरणस्य प्रचेष्टा बाङ्गलाशिक्षाजगति परिलक्ष्यते । उल्लेखयोग्यानि केन्द्राणि यथा-ढाका (बाङ्गलादेशः), कोलकाता(पश्चिमबङ्गराज्यम्, भारतम्) । इयं लिपिः अद्यपि सर्वप्रदेशेषु समरूपे विराजिता नास्ति । एकस्य शब्दस्य कृते विभिन्नप्रचीनरूपाणि प्रचलितानि सन्ति । अस्या लिपेः प्रादेशिकभेदेषु केवलं असमिया तथा बाङ्गलालिपयोः वैचित्राणि विधिबद्धव्यवस्था अस्ति ।

टिप्पणी

सम्पादयतु

बाह्यानुबन्धाः

सम्पादयतु
digital encoding and rendering
"https://sa.wikipedia.org/w/index.php?title=बाङ्गलालिपिः&oldid=461505" इत्यस्माद् प्रतिप्राप्तम्