प्रमुखा विकल्पसूचिः उद्घाट्यताम्
बाणाभट्टः}
६०६-६४८
[[image:|250px]]
कालः क्रि.श. ६०६ - ६४८
जन्मस्थानम् प्रीतिकूटम्
मरणस्थानम् उज्जैनी नगरम्
भाषा संस्कृतम्
विभागः गद्यम् / पद्यम्
काव्यनामः बाणः
आश्रयदाता हर्षवर्धनसार्वभौमः
आवासस्थानम् उज्जैनीनगरम्
प्रमुख कृतयः हर्षचरितम्
कादम्बरी
पिता चित्रभानुः
माता राजदेवी
पुत्रः भूषणभट्टः

बाणः(Baana) वात्स्यायनमहर्षेः वंशे जातः महाकविः । सः हर्षवर्धनस्य आस्थाने कविरासीदित्यवगम्यते । ’हर्षचरितम्’, ’कादम्बरी’ च तस्य कृती।

महाकविः बाणभट्टः गद्यकाव्यजगतः चक्रवर्ती । पद्यं वद्यं गद्यं हृद्यम् इति उक्तिः बाणस्य गद्यप्रबन्धारचनादनन्तरमेव लोकोक्तितामशिश्रियत् इति भाति । कविराजः इति नामा गद्यकविरेकः वदति यत्-सुबन्धुर्बाणभट्टश्चकविराज इति त्रयः इति श्लेषार्थचमत्कारे वयं त्रय एव गद्यकवयः इति साधयति । बाणभट्टस्य कवितासामर्थ्यविचारे गोवर्धनाचार्यस्य प्रशंसावचनम् एवमस्ति

"जाता शिखण्डिनी प्राक् यथा शिखण्डी तथाऽवगच्छामि । प्रागल्भ्यमधिकमाप्तुं वाणी बाणे बभूवेति ॥

धर्मदासः नामकः कविः प्रश्नोत्तररूपेण-

"रुचिरस्वरवर्णपदा रसभाववती जगन्मनो हरति । तत्किं तरुणी नहि नहि वाणी बाणस्य मधुरशीलस्य"

इति विदग्धमण्डनम् नामके ग्रन्थे बाणवाणीं प्राशंसत् । महाकविः जयदेवः ब्रूते, यथा -

हर्षो हर्षो हृदयवसतिः पञ्चबाणस्तु बाणः इति । अपि च -
बाणोच्छिष्टम् जगत्सर्वम्, तथा कादम्बरीरसज्ञानाम् आहारोऽपि न रोचते इत्यादय उक्तिनट्यः सहृदयानां वदनरङ्गे नरीनृत्यन्ति ।

कालःसम्पाद्यताम्

स्थाण्वीश्वराधिपतेहर्षवर्धनस्यास्थाने बाणः कविरासीदित्यवगम्यते । श्रीहर्षवर्धनसार्वभौमस्य कालः क्रि.श. ६०६ - ६४८ इति तु प्रसिद्दम् एव । अतः बाणस्यापि कालः सप्तमशतकस्यादिभाग: इति निर्णेतुं शक्यते ।

शोणानद्याः पश्चिमे तीरे स्थितः प्रीतिकूटम् नाम अग्रहारः (ब्राह्मणानां निवासस्थानम्) बाणस्य जन्मभूमिः आसीत् । वात्स्यायनवंशजः "चिन्तामणिः" बाणस्य पिता । राजदेवी बाणस्य माता । बाणस्य भट्ट इति उपनाम आसीत् । अपि च उक्तिरेवमस्ति यथा-

अलभत च चित्रभानुस्तेषां मध्ये राजदेव्यभिधानायां ब्राह्मण्यां बाणमात्मजम् । इति ।

अतोऽयं ब्राह्मण आसीदिति व्यज्यते । बाणस्य जन्मस्थानस्य समीप एव यष्टिगृहम् नाम ग्रामः, ततोऽपि अनतिदूरे श्रीहर्षवर्धनस्य द्वितीयशिलादित्यस्य राज्यम् "श्रीकण्ठदेशः" अविद्यत ।हर्षवर्धनशिलादित्यः क्रि.श.६०६-६४७ काले आस । इति हर्षचरिते उल्लिखितम् । अतः बाणभट्टोऽपि सप्तमे शतमाने आसीत् इति स्पष्टतया अवगम्यते ।

कविरसौ स्थाण्वीश्वरेशस्य श्रीहर्षस्य सभापण्डित आसीदिति तस्य हि हर्षचरिते उल्लिखितम् -

तथापि नृपतेर्भक्त्या भीतो निर्वहणाकुलः।

करोम्याख्यायिकाम्भोधौ जिह्वाप्लवनचापलम्।।[१]

स्थाण्वीश्वरेशः श्रीहर्षः ६६३ मितवैक्रमाब्दे राज्येऽभिषिक्तः ७०५ मितवैक्रमाब्दे तनुं त्यक्तवान् । तं ६८६ मितवैक्रमाब्दतः ७०२ मितवैक्रमाब्दं यावता भारतं पर्यटन् चीनयात्री हवेनसङ्घः (ह्वेनसांगः) बहुशः स्मरति । तत्सभापण्डितः बाणः पञ्चविंशतिवर्षवयस्कः ६७० मितवैक्रमाब्दमभितो हर्षस्य सभायां प्रविष्ट असीदिति तस्य ६४५ मितवैक्रमाब्दे जन्म कथ्यते। हर्षानुजः कृष्णो बाणं नैकटयेन जानाति स्म किन्तु श्रुततदीष्यपरवचनः श्रीहर्षस्तु प्रथमं तं नाङ्गीचकार किन्तु पश्चाज्ज्ञातयथार्थस्तं सभाध्यक्षं न्ययोजयत्। हर्षनिधनानन्तरमपि बाणो जीवित एवाऽसीत् व्यत्यापयच्च शेषजीवनं स्वकीये एव प्रीतिकूटग्रामे । तस्य हर्षचरितं कादम्बरी चोभौ ग्रन्थावपूर्णावेव दृश्येते तेन बाणोऽपि हर्षनिधनानन्तरं बहुकालं नैव जीवित आसीत् । अतः स ७१५ मितवैक्रमाब्दमभितस्तनुं तत्याजेत्यनुमीयते । इत्थं स सप्ततिवर्षमितायुषमुपभुक्तवान् ।

संस्कृतप्राचीनकविषु बाण एवैतादृशो यस्य स्थितिकालः सुस्पष्टः । तं वामनाचार्यः (८७० वै०) स्वीयायां काव्यालङ्कारसूत्रवृत्तौ, आनन्दवर्धनः (९०७ वै०) ध्वन्यालोके, धनिकः (१०६० वै०) दशरूपकावलोके, भोजः (१०८० वै०) सरस्वतीकण्ठाभरणे, क्षेमेन्द्रः (१११० वै०), रुय्यकः (१११० वै०) बहुशः उद्धरन्ति।

बाल्यं तथा विद्याभ्यासःसम्पाद्यताम्

बाणकविः वात्स्यायनमहर्षेः वंशे जातः । चित्रभानुः बाणस्य जनकः, जननी च राजदेवीति ज्ञायते । शोणानदीतीरे प्रीतिकूटम् इति ग्रामः बाणस्य जन्मस्थानम् । बाल्ये एव तस्य जननी स्वर्गं गता । जनक एव जननी इव तं पर्यपोषयत् । चतुर्दशीये वयसि जनकोऽपि दिवङ्गतः । इयमेव करुणकथा कादम्बरीकाव्ये शुकोदन्तरूपेण उपन्यस्यत इव भाति । अनाथोऽपि सः संस्कृताध्ययने कृतभूरिपरिश्रमत्वात् विद्यानाथः सञ्जातः । अनेकैर्वयस्यैः सह नानादिग्देशान् भ्रामं भ्रामं ततः स्थाण्वीश्वराधिपस्य हर्षवर्धनमहाराजस्य सविधे आस्थानकविपदवीमारूढः, ’भट्ट’ इति पदव्या समलङ्कृतोऽभूत् ।

शैशवे एव बाणस्य मातृवियोगः अभवत् । ततः पिता एव बालस्य रक्षणपोषणभारम् ऊढवान् । समुचिते वयसि विधिवत् उपनयनादिसंस्कारान् विधाय शिक्षणं च प्रादात् । बाणस्य चतुर्दशे वयसि पितापि दिवंगतः । शिक्षको रक्षकश्च पिता यदा मृतः तदा खिन्नः बाणः स्वस्य यौवनारम्भे किंकर्तव्यतामूढः स्वगामं गृहं प्रियान् मित्राणि च त्यक्त्वा एकाकी सन् नाना देशान् बभ्राम । एवं भ्रमता बाणेन शूद्रस्त्रीसञ्जातौ चन्द्रसेनमातृषेणौ, भाषाकविः ईशानः, वारबाणवीसबाणनामानौ विद्वांसौ, वर्णकविः वेणीभारतः जाङ्गलिकः(विषवैद्यः) मयूरः, भिषक्पुत्रः मन्दारकः इत्यादयः बाणस्य नूतनाः सुहृदः समभवन् । एवं च बहुकालं यावत् देशाटनं कृत्वा पुनः स्वग्रामं प्रीतिकूटम् प्रत्याजगाम । इष्टगोष्ठीषु कालयापनं कुर्वन् आसीत् । बाणस्य स्वग्रामागमनं पाण्डित्यं च कर्णाकर्णिकया श्रुत्वा श्रीहर्षसार्वभौमस्य मातुलः चित्रभानोः मित्रं च कृष्णः श्रीहर्षं सम्प्रार्थ्य बाणम् हर्षस्य आस्थानपण्डितमण्डल्यां प्रवेशयामास । ततः किञ्चित्कालानन्तरं बाणः हर्षस्य आप्तमित्रम् अभवत् । बाणः स्वस्य आश्रयदातुः हर्षस्य जीवनचरितम् हर्षचरितम् नामकं ग्रन्थं गद्यरूपेण न्यबध्नात् । भूषणभट्टः बाणभट्टस्य पुत्रः । कादम्बरीतिगद्यकाव्यस्य उत्तरार्धं भूषणभट्टः अलिखदिति जनश्रुतिः अस्ति ।

तत्रभवता महाकविना गद्यचक्रवर्तिना कादंबरी इति अभूतपूर्वम्‌ गद्यकाव्यम् विरचितम् । संस्कृतकाव्यरसिकः को वा नजानाति बाणभट्टस्य शुभनाम? । ’बाणोच्‍छिष्‍टम्‌ जगत्‌ सर्वम्’ इति प्रशस्तिपरा उक्तिरेव सूचयति बाणकवेः प्रतिभासामग्र्यम् । य: प्रतिभया प्रसिद्ध्या सहृदयप्रियतया च सर्वान् संस्कृतकावीन् अतिशेते, काव्यतत्वस्य विमर्शकैः पण्डितैः औचित्यविचारचर्चासंसदि लब्धयशाः स बाण एव नान्यः । बाणभट्टस्य जन्मभूमिः शोणानद्याः पश्चिमे दिशि विद्यमानः प्रीतिकूटम् नाम अग्रहारः, यस्य पार्श्वे यष्टिगृहं नाम ग्रामः, ततः किञ्चिद्दूरे राज्ञः श्रीहर्षवर्धन(द्वितीयशिलादित्य)स्य राज्यम् ’श्रीकण्ठदेश’ आसीत् । वात्स्यायनवंशचिन्तामणिः चित्रभानुः एतस्य पिता । अस्य मातुः नाम राजदेवी इति । बाणस्य बाल्य् एव मातृवियोगः अजायत । पिता चित्रभानुरेव कुशलमतेः पुत्रस्य रक्षण-पोषणभारम् अवहत् । सत्काले विध्युक्तरीत्या उपनयनादिसंस्कारान्, समुचितां शिक्षां च ददौ । किन्तु अस्य चतुर्दशे वर्षे पिता दिवंगतः ।

कवित्वम्सम्पाद्यताम्

बाणो नितान्तमेव प्रतिभासम्पन्नः कविः । तेन कथासाहित्ये युगे एव प्रवर्तितो नवः । तस्य वर्णनानैपुण्यं नितान्तमेव श्लाघ्यम् । स हि अलङ्कृतकृत्रिमपद्धतिमनुसरति बहुशः । स स्वयमेव कथयति -

नवोऽर्थो जातिरभ्राम्या श्लेषोऽक्लिष्टः स्फुटो रसः।

विकटाक्षरबन्धश्च कृत्स्नमेकत्र दुर्लभम् ॥ इति ।

वस्तुतः तस्य काव्ये ईदृशमेव वैशिष्ट्यमस्ति । तस्य कथा, यथा स एव कथयति, 'रसेन शय्यां स्वयमभ्युपागताऽभिनवा वधूरिव मनोहारिणी हृद्या च विद्यते।' बाणस्य बुद्धिः सर्वतोगामिनी नवनवोन्मेषशालिनी दृश्यते । अत एव स सुधोत्पादी सागरः कथितः । स हि न केवलं वर्णनानिपुणोऽपि तु सूक्ष्मदर्शी दक्षश्चित्रकारश्च । घटनायाः सजीवोपस्थापनं तु तस्य वामहस्तविलास एव । यद्यपि स काव्ये उपमा-रूपक-उत्प्रेक्षा-विरोधादीनां साफल्येन प्रयोगं कृतवान्, तथापि परिसङ्ख्या तस्य विलासिन्येव । विषयानुसारमेव तस्य शैली नृत्यति दीर्घसमासवती स्वल्पसमासा समासरहिताऽपि । वर्णनापरायणोऽपि स कदापि काव्यौचित्यं नैवोल्लङ्घयति । तस्य गद्ये काव्यस्याविहता गतिः विद्यते । यद्यपि बाणो यथा गद्ये न तथा पद्य इति कथ्यते तथापि तस्य लेखनी तु उभय एव मार्गे समानेनैव वेगेन धावति ।

यद्यपि बाणस्य कृतौ क्लिष्टता, अलङ्कारभारः, समूहबद्धविशेषणदुरूहवाक्यानि, असाधारणपदावली, अप्रचलितप्रयोगश्चेति प्रभृतिदोषा अपि प्रदर्श्यन्ते, तथापि यद्ययं दोषः स युगस्यैव न तु कवेः । तदा तादृश्येव रचना प्रशस्याऽऽसीत्। स्यादपि स्वल्पा त्रुटिर्यत्र कुत्र तथापि कवेरस्य समग्रमेव संस्कृतसाहित्यं सदैवाधर्माणितं दृश्यते ।

कृतयःसम्पाद्यताम्

हर्षचरितं कादम्बरीति द्वयोः काव्ययोः हर्षचरितं तावत् ऐतिहासिकं गद्यकाव्यं कवेश्च आत्मचरितसमन्वितत्वात् आख्यायिका प्रकारस्योदाहारणत्वेन परिगण्यते । कादम्बरी तावत् काल्पनिकवस्तुसंयुतत्वात् ’कथा’ इति परिगृह्यते । बाणस्तु कादम्बरीग्रन्थस्य पूर्वभागं विलिख्य पञ्चत्वं गत: इति ज्ञायते । तस्य पुत्रो भूषणभट्टः उत्तरभागं विरचितवान् ।

हर्षचरितकादम्बर्यतिरिक्तमपि कवेरस्य चण्डीशतकं, शिवाष्टकं, मुकुटवीडितकं (रूपकं) शारदचन्द्रिका (नाटिका), पार्वतीपरिणयः (नाटकम्) च कृतित्वेन गृह्यन्ते । तत्र चण्डीशतकं तु सम्प्रत्यपि लभ्यते यत्र शतश्लोकैः देवी स्तुताऽस्ति । शिवाष्टकमपि तस्य शैवमतावलम्बित्वान्नैव विरुध्यते । मुकुटताडितकं तु भोजेन शृङ्गारप्रकाशे गुणविनयगणिना नलचम्पूव्याख्याने स्मृतं समुद्धतञ्च दृश्यते । शारदचन्द्रिकां तु शारदातनयो भावप्रकाशने स्मरयति यत्-

कल्पितं भट्टबाणेन यथा शारदचन्द्रिका।

दिव्येन मर्त्यस्य वधः काव्यस्यावश्यभावतः।। इति।

उभयोरेव लिपिबद्धरूपं सम्प्रति नैवोपलभ्यते । पार्वतीपरिणयस्यापि बाणकर्तृकत्वे सन्देह एव समालोचकानाम् । वस्तुतस्तु ग्रन्थोऽयं बाणभट्टप्रणीतत्वेन नावभासते इति सस्कृतकविजीविते स्पष्टीकृतम् । अत्र यदेवानौचित्यं यथा पित्रा दुहितुः स्तनद्वयगतरोमराजिवर्णनं तन्न कथमपि व्यवस्थितमर्यादस्य बाणस्य लेखनीतो निःसरति । परमेऽपि तारुण्ये न कदापि बाणस्तथा वर्णयितुमग्रे सरति यथा तत्र पार्वतीविषये हिमवद्वाक्यम् -

आभोगशालिकुचकुड्मलमायताक्ष्याः वक्षोऽवकाशमभिवाञ्छति सन्निरोद्धुम्।

अप्यस्तिनास्तिवचसा विषयेऽवलग्ने तन्वी समुल्लसति काचन रोमरेखा।।

सत्यमेवोच्यते बाणस्य हर्षचरितं कविमार्गप्रदर्शकं यद्यपीदं स्वयमपि रामीलसौमिलयोः शूद्रकविजयमनुसरति तथैव कादम्बरी तु साहित्यसर्वस्वमेव काममेतत्कथावस्तुनि गुणाढ्यस्याधर्मणमेव स्यात् । उक्तम् -

वागीश्वरं हन्त भजेऽभिनन्दमर्थेश्वरं वाक्पतिराजमीडे ।

रसेश्वरं स्तौमि च कालिदासं बाणे तु सर्वेश्वरमानतोऽस्मि।

एवमेव -

सहर्षचरिता शश्वद् धृतकादम्बरीस्यदा।

बाणस्य वाण्यनार्येव स्वच्छन्दा चरति क्षितौ॥ इति ।

बाणभट्टस्य कादम्बरीमाश्रित्य ग्रन्थद्वयं प्रणीतं दृश्यते - मञ्जूनाथस्य कादम्बरीसारः गौडाभिनन्दस्य (९३७ वै०) कादम्बरीकथासारश्च ।

हर्षचरितम्सम्पाद्यताम्

मुख्यलेखः : हर्षचरितम्

हर्षचरितं हि अष्टासुच्छ्वासेषु विभक्ता आख्यायिका। तत्र प्रथमद्वितीयोच्छ्वासयोः वंशवर्णनं, तृतीये हर्षपूर्वजपुरुषस्य पुष्पभूतेर्वर्णनं, चतुर्थे प्रभाकरवर्धनस्य शौर्यवर्णनं, राज्यवर्धन-हर्षवर्धनयोर्जन्म, राज्यश्रियो जन्म, तस्याः ग्रहवर्मणा सह विवाहश्च । पञ्चमे राज्यवर्धनस्य हुणविजयार्थं प्रस्थानं प्रभाकरवर्धनस्य निधनञ्च । षष्ठे राज्यवर्धनस्य प्रत्यागमनं, मालवनरशेन ग्रहवर्मणो हत्या, राज्यश्रियाः निरोधः, राज्यवर्धनेन मालवराजपराजयः, गौडशेने शशाङ्केन राज्यवर्धनस्यच्छलेन वधः, सप्तमे हर्षस्य गौडनरेशवधाय प्रस्थानं, राज्यश्रिया विन्ध्याटव्यां पलायनं तदन्वेषणाय हर्षस्य प्रयासः, अष्टमे राज्यश्रिया अन्वेषणं तया सह हर्षस्य प्रत्यागमनञ्च । ग्रन्थस्यास्यापूर्णता स्पष्टरूपेण द्योतते । सम्भवति हर्षनिधनानन्तरं कविरेतदन्तरकथानिबन्धने मन्दादरोऽभूत् ।

ग्रन्थस्य भूमिकाभागे व्यास-सुबन्धु-भट्टारहरिचन्द्र-सातवाहन-प्रवरसेनभास-कालिदास-गुणाढ्य-आढ्यराजाख्याः कवयः सादरं स्मृता दृश्यन्ते । हर्षचरितमधिकृत्य टीकाद्वयं प्रथितमस्ति प्राचीनं रुय्यकप्रणीता हर्षचरितवार्तिका, शङ्करकविप्रणीता सङ्केताख्या च ।

हर्षचरितस्यापूर्णत्वे हर्षस्य निधनमेव (७०५ वै०) हेतुः, कादम्बर्याश्चापूर्णत्वे कवेरेव निधनं (७१५ वै०) हेतुः। उभेऽपि काव्ये पाञ्चालीरीत्यां गुम्फिते व्यञ्जना-प्राधान्ये वक्रोक्तिपूर्णे च।

हर्षचरितस्य चारुरचनाचातुरी कमनीयपदविलासो मनोहारिचित्रणञ्च सर्वानेवानन्दयति । रसधारा प्रवाहयन्ती कवेः सुमधारा वाग्धाराऽत्र विस्मयावहैव । अत्र श्लेषविरोधाभासोपमोत्प्रेक्षाद्यलङ्कारवैशिष्ट्यं कवेरुत्कर्षताबोधनायालम् । अस्य याथार्थ्यमतिक्रममाणा वर्णना सर्वानेवाश्चर्यमुग्धान् करोति । बाणस्य प्रतिभा यमेव रसमादातुमिच्छति तस्य हि पूर्णपरिपाकमेवातारयति।

कादम्बरीसम्पाद्यताम्

मुख्यलेखः : कादम्बरी

कादम्बरी तु हर्षचरितादपि विस्मयावहा । अत्र तु कविना किम्मात्रमवशेषितं चमत्कारसाधनाय । कवेरलौकिकं काव्यकौशलमत्र स्पष्टमेव प्रतिभाति । तेनैवोच्यते 'कादम्बरीसुधापानाद् बुभुक्षाऽपि प्रशाम्यति' इति । साधूक्तं भूषणभट्टेन - 'कादम्बरीरसभरेण समस्त एव मत्तो न किञ्चिदपि चेतयते जनोऽयम्' इति । कादम्बरी कवेः चरमा कृतिः । ग्रन्थोऽयं कथामयः कल्पितेतिवृत्तत्वात् । यद्यपि कथेयं कथासरित्सागरवर्णितया सुमनसः कथया सह संवदते । तेन अस्याः बीजं बृहत्कथात एव गृहीतं प्रतिभाति । तथापि कवेः कल्पनामौलिकताऽव्याहतैव। यद्यपि बाणस्योभे एव कृती सर्वातिशायिनी तथापि तयोः कादम्बरी प्रशस्यतरा मन्यते। कादम्बर्याः पात्रचित्रणं, रसपरिपाको वस्तुविन्यासश्च 'बाणोच्छिष्टं जगत्सर्वम्' इत्युक्तिं चरितार्थयन्ति।

विशालायाः पालकस्य राज्ञः शूद्रकस्य सभायां कदाचिदेका चाण्डालकन्या शम्पायननामकं पिञ्जरस्थं शुकमानीय समर्पयति । स च शुकः मनुष्यवाचा सुखोपविष्टं राजानमात्मकथां श्रावयति । कथान्ते च स्मृतपूर्वजन्मवृत्तान्तः राजा पूर्वजन्मदेहं प्राप्नोति शुकश्च । कथैषा जन्मत्रयवृत्तान्तानुवर्तिनी। अत्र कथैव कथान्तरमुद्भावयति ।

शुकः स्ववृत्तान्तं श्रावयन् कथयति यत्सः यदा जातस्तदैव मातोपरता। पिता च किञ्चित्कालानन्तरं वृद्धलुब्धकेन केनापि हतः । सः तु वृक्षादधः पतितः कथञ्चित् धृतजीवितः केनाऽपि मुनिना दयया जावाल्याश्रमं प्रापितः । जावालिस्तत्पूर्वजन्मवृत्तान्तं तत्र श्रावितवानित्थम् । उज्जयिन्यां तारापीडो नाम राजाऽऽसीत् । तस्य पत्न्यां विलासवत्यां चन्द्रापीडो नाम कुमारः समुत्पन्नः । तदैव तन्मन्त्रिणः शुकनासस्यापि वैशम्पायननामा पुत्रो जातः । शिक्षानन्तरं शुकनासेनः बहूपदिष्टः कुमारो यौवराज्येऽभिषिक्तः इन्द्रायुधनामकमश्वमारुह्य मित्रेण सेविकया पत्रलेखया सह दिग्विजयार्थं निर्गतः । तत्र क्रमे स महाश्वेतां ददर्श । महाश्वेता स्वाशक्तपुण्डरीकवृत्तान्तं श्रावयित्वा तं कादम्बरीवृत्तान्तमपि अकथयन्, कादम्बरी चन्द्रापीडौ परस्परमनुरक्तावभूताम् । एतदन्तराले पितुराज्ञया चन्द्रापीडः उज्जयिनीं प्रत्यागतः, वैशम्पायनस्तु महाश्वेतासमीपे पत्रलेखा च कादम्बरीपार्श्वे स्थिता । पश्चाच्च पत्रलेखा प्रत्यागत्य कादम्बरीविरहावस्थां न्यवेदयत्।

बाणेन कथायां एतावानेव भागो गुम्फितः । तदनन्तरवर्त्तिनी तु कथा तत्तनयेन भूषणभट्टेन गुम्फिता। बाणप्रणीतभागः कथायाः पूर्वार्द्धः स्मृतः, भूषणभट्टगुम्फितश्चोत्तरभागः । कादम्बर्याः विरहव्यथां पत्रलेखातः श्रुत्वा तदाकृष्टमनाश्चन्द्रापीडस्तया सह पुनस्तत्रागतः । तत्र स महाश्वेताशापेन वैशम्पायनं शुकभूतं श्रुत्वा विरहातुरस्तत्रैव प्राणांस्तत्याज । तन्मृतशरीरमालिङ्ग्य म्रियमाणां कादम्बरीं भविष्यत्समागमसन्देशेन नभोवाणी मरणान्निवारयामास । सरसि इन्द्रायुधोऽप्यगाहत । ततश्च कपिजलो बहिरागत्य सर्वं रहस्यं श्रावयति।

कादम्बरीमधिकृत्य सन्त्यनेकाः प्राचीनाः अर्वाचीनाश्च टीकाः। तासु भानुचन्द्रसिद्धचन्द्रकृता, मयूरेश्वरप्रणीता टीका, जीवानन्दनिर्मिता टीका, हरिदाससिद्धान्तवागीशकृता कल्पलताभिधा, कृष्णमोहनठक्कूरविरचिता चन्द्रकलाऽऽख्या, शेषराजशर्मरेग्मीप्रणीता चन्द्रकलाख्या च प्रसिद्धाष्टीकाः ।

भूषणभट्टःसम्पाद्यताम्

कादम्बर्या उत्तरभागस्य प्रणेता बाणसुतो भूषणभट्टः (यत्र तत्र पुलिनभट्टनाम्नाऽपि स्मृतः) सखेदं स्मरति -

याते दिवं पितरि तद्वचसैव सार्द्धं विच्छेदमाप भुवि यस्तु कथाप्रबन्धः।

दुःखं सतां तदसमाप्तिकृतं विलोक्य प्रारब्ध एष स मया न कवित्वदर्पात् ॥ इति ।

कथ्यते चतुर्दर्शवर्षवयस्को बाणः पितृशोकमवाप । पितर्युपरते स वयस्यैः सहेतस्ततो बभ्राम । पश्चात्कृतोद्वाहः पुनः स्वस्थो बभूव । स हि सर्वास्वेव विद्यासु पारङ्गतस्त्वासीदेव । भ्रमणानुभवेन च तस्मिन् प्रौढता समायोजिता ।

काव्यशैलीसम्पाद्यताम्

श्लेषघटनात्मक-शब्दगुम्फन-रस-अलङ्कार-सदर्थ-कथावर्णनेषु सिद्धहस्तत्वात्पञ्चाननविशेषणमण्डितो बाणभट्टः एकस्मिन्नैव सुबन्धु-भर्तृमेण्ठ-कालिदास-भारवि-गुणाढ्याश्रयः स्मृतः । अर्थात् तस्य कृतौ सुबन्धोरिव श्लेषघटना, कालिदासस्येव रसपाकः, भर्तृमेण्ठस्येवालङ्कारसिद्धिः, भारवेरिवार्थगौरवं, गुणाढ्यस्येव कथावर्णनञ्च लभ्यते । एतादृशगुणगरिममण्डितस्य महाकवेरस्य द्वे कृती लभ्येते हर्षचरितं, कादम्बरी च ।

बाणकवेः शैली तावत् पाञ्चाली इति रीतिपदेनाभिधीयते । बाणकवेः शैल्याः प्रधानांशाः श्लोकेस्मिन् सूचिताः सन्ति । मधुरस्वरवर्णपदा रसभाववती जगन्मनो हरति । तत्किं तरुणी नहि नहि वाणी बाणस्य मधुरशीलस्य ॥ समासभूयिष्ठ-प्रयोगाः, अमोघं काव्यसौन्धर्यं नखशिखान्तवर्णनम् अलङ्काराणामासारः, हृदयस्पर्शिन्यश्च भावनाः, भाषायाश्च प्रभुत्वं बाणकवेः शैल्याः रमणीयांशाः सन्ति ।

प्रशंसासम्पाद्यताम्

गद्यसाम्राज्यसार्वभौम इति प्रतिथयशसा महाकविना बाणाभट्टेन यद्यपि हर्षचरितं कादम्बरीति गद्यकाव्यद्वयं लिखितं तथापि एकेनैव कादम्बरी-गद्यकाव्येन बाणकविरजरामरो जात: इत्यत्र नैव सन्देहः । यतो हि - ’कादम्बरी रसज्ञानामाहारोऽपि न रोचते’ इति तस्य वैशिष्ट्यं जेगीयते । ’वाणी बाणो बभूवेति’ इत्युक्तरीत्या बाणास्तु सरस्वत्याः अवतार इत्येव मन्यते ।

सम्बद्धाः लेखाःसम्पाद्यताम्

सन्दर्भःसम्पाद्यताम्

  1. १९
"https://sa.wikipedia.org/w/index.php?title=बाणभट्टः&oldid=444060" इत्यस्माद् पुनः प्राप्तिः