ब्रह्मसूत्रशाङ्करभाष्यम्


ब्रह्मसूत्राणि महर्षिः बादरायणः लिखितवान् | अद्वैतवेदान्तिनां दृष्ट्या आहत्य ब्रह्मसूत्राणि पंचपंचाषदुत्तरपंचषतं (५५५) भवन्ति | शङ्करभगवत्पादाः प्रस्थानत्रयस्य भाष्यं लिखितवन्तः इति प्रसिद्धिः वर्तते । तस्मिन् प्रस्थानत्रये ब्रह्मसूत्रभाष्यम् अन्यतमम् अस्ति । एतस्य सूत्रप्रस्थानम् इत्यपि नाम वर्तते । अवशिष्टं प्रस्थानद्वयं तु क्रमशः उपनिषत्प्रस्थानं भगवद्गीताप्रस्थानम् च । शङ्करभगवत्पादाः प्रसिद्धानां ईशादिदशोपनिषदां श्वेताश्वतरोपनिषदः च भाष्यं लिखितवन्तः । एतेषां उपनिषद्भाष्याणाम् आहत्य श्रुतिप्रस्थानम् इति नाम । भगवद्गीतायाः भाष्यं यल्लिखितं तत् स्मृतिप्रस्थानम् इत्युच्यते । ब्रह्मसूत्रशाङ्करभाष्यस्य तर्कप्रस्थानम् इति अपरं नाम वर्तते । ब्रह्मसूत्रशाङ्करभाष्ये समन्वय-विरोध-साधना-फलञ्चेति चत्वारः अध्यायाः सन्ति । प्रत्यध्यायं पुनः चत्वारः पादाः वर्तन्ते । प्रतिपादं बहूनि अधिकरणानि भवन्ति । एकस्मिन् अधिकरणे एकं वा एकाधिकानि वा सूत्राणि भवन्ति ।

बाह्यसम्पर्कः सम्पादयतु

ब्रह्मसूत्रशाङ्करभाष्यंसंवादरूपम्
ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्र्षह:

सम्बद्धाः लेखाः सम्पादयतु