भट्टोजिदीक्षितः

(भट्टोजिदीक्षित इत्यस्मात् पुनर्निर्दिष्टम्)

सुप्रसिद्धस्य ‘सिद्धान्तकौमुदी’ इत्यस्य ग्रन्थस्य रचयिता भट्टोजिदीक्षितः(Bhattojidikshita) । एषः महाराष्ट्रदेशीयः । एतस्य पिता लक्ष्मीधरः । शब्दकौस्तुभः, प्रौढमनोरमा इत्यादयः ग्रन्थाः अपि एतेन लिखिताः । एषः क्रि.श. १६ शतकस्य उत्तरार्धे आसीत् इति विद्वद्भिः निर्णीतम् अस्ति । एतस्य 'सिद्धान्तकौमुदी' व्याकरणलोके सुप्रसिद्धा । प्रक्रियाक्रमेण सर्वेषां पाणिनीयसूत्राणाम् अर्थः उदाहरणसहितं निरूपितः अस्ति एतस्मिन् ग्रन्थे । सिद्धान्तकौमुद्यां यत् उक्तं तत् प्रमाणरूपेण अङ्गीक्रियत्रे शास्त्रर्ज्ञैः । ‘तत्त्वबोधिनी’ (ज्ञानेन्द्रसरस्वतीविरचिता) ‘बालमनोरमा’ (वासुदेवदीक्षितविरचिता) इत्यादीनि सिद्धान्तकौमुद्याः व्याख्यानानि सुप्रसिद्धानि ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=भट्टोजिदीक्षितः&oldid=409514" इत्यस्माद् प्रतिप्राप्तम्