भवानीपुरं शक्तिपीठं बाङ्ग्लादेशस्य राजशाही-विभागस्य बोगरा-मण्डले स्थितम् अस्ति। करातोया-नद्याः तटप्रदेशे स्थितस्य एतस्य मन्दिरस्य ५१ शक्तिपीठेषु गणना भवति।[][]

भवानीपुरमन्दिरम्
अवस्थितिः
देशः: बाङ्ग्लादेशः
मण्डलम्: बोगरा-जनपदः
अवस्थितिः: शेरपुर-उपजनपदः, बोगरा
भौगोलिकस्थितिः: २४°३२′५९″उत्तरदिक् ८९°२५′५७″पूर्वदिक् / 24.5497°उत्तरदिक् 89.4326°पूर्वदिक् / २४.५४९७; ८९.४३२६निर्देशाङ्कः : २४°३२′५९″उत्तरदिक् ८९°२५′५७″पूर्वदिक् / 24.5497°उत्तरदिक् 89.4326°पूर्वदिक् / २४.५४९७; ८९.४३२६

महात्म्यम्

सम्पादयतु
 
सती के पार्थिव शरीर को लेकर विचरते महादेव शंकर

हिन्दूपौराणिक-आख्यानस्य अनुसारं सत्ययुगे प्रजापतिः दक्षः यज्ञस्य आयोजनम् अकरोत्, परन्तु सः स्वस्य यत्रे स्वपुत्र्याः सत्याः पतये शिवाय आमन्त्रणं नायच्छत्। सती स्वपत्युः अपमाननं सोढुं न शक्तवती, अतः सा यज्ञकुण्डे आत्मदाहम् अकरोत्। सत्याः देहत्यागस्य दुःखदघटनायाः आहतः भगवान् शङ्करः सत्याः पार्थिवं शरीरं स्वस्कन्धे प्रस्थाप्य ताण्डवं नृत्यम् आरब्धवान्। भगवन्तं शिवम् एतादृशात् आचरणात् वारयितुं भगवान् विष्णुः सत्याः पार्थिव-शरीरं सुदर्शनचक्रेण खण्डितम् अकरोत्। ततः मातुः सत्याः खण्डित-पार्थिव-शरीरस्य अङ्कानि, आभूषणानि च भारतीय-उपमहाद्वीपस्य विभिन्नेषु भागेषु इतस्ततः पतितानि, तानि स्थआनानि शक्तिपीठरूपेण पूज्यनीयानि मन्यन्ते। तेषु ५१ शक्तिपीठेषु अन्यतमं शक्तिपीठं भवानीपुरशक्तिपीठम्। एतस्य विषये मान्यताअस्ति यत्, अत्र मातुः सत्याः वाम-चरणस्य नूपुरं पतितम् आसीत् इति। []

भवानीपुरे शक्त्याः 'अपर्णा'-रूपस्य, कालभैरवस्य 'वामन'-रूपस्य च उपासना भवति। बाङ्ग्लादेशे स्थितम् एतत् शक्तिपीठं हिन्दूभ्यः प्रमुखं तीर्थ-स्थलं वर्तते।[]


मन्दिरम्

सम्पादयतु

एतत् मन्दिरं १२ वीघा-यावत् विशालस्य भूभागस्य मध्ये निर्मितम् अस्ति। मन्दिरस्य प्राङ्गणे एकं शिवमन्दिरं, कालभैरवमन्दिरं च स्थितमस्ति। मन्दिरस्य उत्तरे सेवा-आङ्गन-नामकं स्थलम् अस्ति, तेन सह शङ्खपुकुर-तडागः अपि विद्यते। तस्य तडागस्य निर्माणं कश्चन राजपरिवारः अकारयत्। प्रतिवर्षम् एतस्य मन्दिरस्य प्राङ्गणे माघ-पूर्णिमायाः, रामनवम्याः, विजयादशम्याः च मेलायाः आयोजनं भवति।

तीर्थयात्रिणः ढाका-महानगरात् भवानीपुरं गन्तुं यमुना-सेतोः मार्गं चेतुं शक्नुवन्ति। एतस्मिन् मार्गे सिराजगंज-मण्डले चंदाईकोना-नामकस्य स्थानस्य अनन्तरं घोगाबोटटोला-नामकं स्थलं समागच्छति। ततः महामार्गस्य पार्श्वे यानस्य माध्यमेन भवानीपुरमन्दिरं प्राप्तुं प्रभवन्ति। बोगरा-तः उत्तरदिशायाः आगम्यमानैः श्रद्धालुभिः क्रमेण शेरपुर-तः मिर्जापुर-तः घोगाबोटटोला-बस-स्थानकं यावत् प्राप्तव्यं भवति।

प्रबन्धनम्

सम्पादयतु

एतस्य मन्दिरस्य व्यवस्थापनं मन्दिरप्रबंधसमितिद्वारा भवति। स्वतन्त्रतायाः पूर्वं पाकिस्थानस्य भागरूपेण एषः भूभागः आसीत्, तस्मिन् समये शत्रु-सम्पत्ति-अधिनियमस्य आलम्बनेन एतस्य शक्तिपीठस्य भूमिभागस्य अविरतम् अतिक्रमणम् अभवत्। परन्तु कततः बाङ्ग्लादेशस्य हिन्दुश्रद्धालूनां प्रयासैः अधुना एतस्य मन्दिरस्य संरक्षणकार्यं प्रचलति।

सन्दर्भः

सम्पादयतु
  1. Togawa, Masahiko (2012). "Sakta-pitha". In Islam, Sirajul; Jamal, Ahmed A. Banglapedia: National Encyclopedia of Bangladesh (Second ed.). Asiatic Society of Bangladesh. 
  2. "51 Shakti Peethas – A Compilation". VedaRahasya.Net. Archived from the original on 9 दिसंबर 2017.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  3. "51 Shakti Peethas – A Compilation". VedaRahasya.Net. Archived from the original on 9 दिसंबर 2017.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  4. "51 Shakti Peethas – A Compilation". VedaRahasya.Net. Archived from the original on 9 दिसंबर 2017.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
"https://sa.wikipedia.org/w/index.php?title=भवानीपुरमन्दिरम्&oldid=456035" इत्यस्माद् प्रतिप्राप्तम्