प्रमुखा विकल्पसूचिः उद्घाट्यताम्

भारतद्वारं ( /ˈbhɑːrətədvɑːrəm/) (हिन्दी: इण्डिया गेट, आङ्ग्ल: India Gate) भारतगणराज्यस्य एकं स्मारकम् । इण्डिया गेट्, अखिलभारतीययुद्धस्मृतिः, अमर जवान ज्योति इत्येतानि एतस्य स्मारकस्य नामान्तराणि । हुतात्मनां भारतीयसैनिकानां स्मारकम् एतत् । प्रथमे विश्वयुद्धे हुतात्मभ्यः सैनिकेभ्यः भारतद्वारस्य निर्माणं जातम् आसीत् [१] । आरम्भे तु एतत् स्मारकं ज्ञातभारतीयसैनिकेभ्यः निर्मितम् इति भावः आसीत् । परन्तु ततः भारतस्य अज्ञातसैनिकानां कृते अपि एतत् स्मारकम् इति सर्वकारेण उद्घोषितम्[२]भारतस्य देहली-महानगरस्य नवदेहलीमण्डले स्थितम् एतत् स्मारकं भारतस्य प्रमुखेषु वीक्षणीयस्थलेषु अन्यतमम् । भारतद्वारस्य परिकल्पना फ्रान्स्-देशस्य ‘आर्क-द ट्रायोम्फल्’ (Triumphal arch) सदृशी अस्ति[१]

भारतद्वारम्
भारतम्
India Gate close-up.jpg
India Gate
Used for those deceased 1914-1921
Established 10 February 1921
Unveiled 12 February 1931
Designed by Edwin Lutyens

भौगोलिकस्थितिःसम्पाद्यताम्

भारतगणराज्यस्य देहली-महानगरस्य नवदेहलीमण्डलस्य नवदेहली-नगरस्य राजपथमार्गे भारतद्वारस्मारकं विद्यते । भारतद्वारं परितः स्थितः ६२५ षड्भुजव्यासभागेन (hexagon diameter) सह समीपस्थः ३,०६,००० च.कि.मी. भागः भारतद्वारस्य भागत्वेन परिगण्यते ।

इतिहासःसम्पाद्यताम्

पुरा अखिलभारतीययुद्धस्मारकनाम्ना प्रसिद्धम् एतत् स्मारकम् आङ्ग्लाः निर्मापयन् । प्रथमविश्वयुद्धे ये भारतीयसैनिकाः आङ्ग्लसर्वकारस्य पक्षे युद्धं कृत्वा प्राणाहुतिम् अयच्छन्, तेषां स्मरणार्थम् आङ्ग्लैः एतत् स्मारकं निर्मापितम् आसीत् [२] । रक्तप्रस्तरैः, पीतप्रस्तरैः च निर्मतम् एतत् स्मारकं फ्रान्स्-देशस्य ‘आर्क-द ट्रायोम्फल्’ सदृशम् अस्ति । यदा एतत् स्मारकं परिकल्पनाधीनम् आसीत्, तदा भारतद्वारं यातायातस्य मुख्यमार्गे स्थितम् आसीत् । तस्मिन् काले राजपथमार्गपर्यन्तं देहली-आग्रा-रेल्-मार्गः आसीत् । तेन स्मारकस्य भूमिविषये अनिश्चितता आसीत् । ततः १९२१ तमे वर्षे तस्मात् स्थलात् रेल्-मार्गस्य स्थानान्तरणानन्तरं स्मारकस्य निर्माणकार्यम् आरब्धम् [३][४]। १९३१ तमे वर्षे निर्माणकार्ये पूर्णे सति तत्कालीनेन गवर्नर् लॉर्ड् इर्विन् इत्यनेन एतत् स्मारकं जनेभ्यः समर्पितम् ।

परिकल्पनासम्पाद्यताम्

 
भारतद्वारे हुतात्मनां नामानि अङ्कितानि सन्ति ।

एड्विन् लुटियन्स् इत्ययम् आङ्ग्लसर्वारस्य स्थापत्यविभागस्य अध्यक्षः आसीत् । सः युद्धस्मारकनिर्माणसमितेः सदस्यः अपि आसीत् । सः भारतद्वारस्य सम्पूर्णां परिकल्पनाम् अकरोत् । भारतद्वारस्य औन्नत्यं ४२ मी. अस्ति । राजस्थानराज्यस्य भरतपुरात् रक्तप्रस्तराणाम् आयातं कृत्वा एतस्य स्मारकस्य रचना जाता अस्ति । भारतद्वारस्य उपरितने भागे तैलपात्रस्य रचना अपि कृता अस्ति । तस्मात् तैलपात्रात् अविरतं पतद् तैलम् अधः दीपकान् दीर्घकालं यावत् प्रज्वालयेत् इति तस्य पात्रनिर्माणस्य उद्देशः आसीत् । तस्य तैलपात्रस्य उपयोगः उत्सवेषु, पर्वसु च भवितुम् अर्हति । परन्तु एतावता तस्य तैलपात्रस्य अतिस्वल्पः उपयोगः कृतः । भारतद्वारस्य उपरि प्रथमविश्वयुद्धे हुतात्मनां नामानि अङ्कितानि सन्ति । द्वारस्य मध्ये ‘INDIA’ अपि अङ्कितम् अस्ति [१]

अमर जवान ज्योतिसम्पाद्यताम्

अमर जवान ज्योति (अमर सिपाहि लौ) इत्येव भारतद्वारस्य मुख्याकर्षणं, मुख्योद्देशः च [३] । भारतद्वारे प्रस्तरैः निर्मिता एका पीठिका अस्ति । तस्याः पीठिकायाः मध्यभागे कृष्णप्रस्तरेण निर्मितः पीठः विद्यते । तस्मिन् पीठे अशरीरिणां सैनिकानां स्मरणार्थम् अग्निशस्त्रं (rifle) स्थापितम् अस्ति । तस्मिन् अग्निशस्त्रे एकं शिरस्त्राणं विद्यते । कृष्णपीठं परितः समानान्तरे चत्वारः दीपकाः स्थापिताः सन्ति ।

अमर जवान ज्योति इत्यस्य रक्षणार्थं भारतीयसेनानाम् अनेकाः सैनिकाः २४/७, ३६५ दिनानि च तत्र सन्नद्धाः भवन्ति । प्रतिवर्षं कारगिलविजयदिवसे, प्रजासत्ताकदिने (२६ जनवरी) च भारतगणराज्यस्य प्रधानमन्त्री, तिसॄणां सेनानाम् अध्यक्षाः, भारतस्य गणमान्याः च अमर जवान ज्योति इत्यस्मै नमस्कारं कर्तुं भारतद्वारं गच्छन्ति [५]

मण्डपःसम्पाद्यताम्

भारतद्वारात् १५० मी. दूरे पूर्वदिशि एकः मण्डपः निर्मितः वर्तते । सः मण्डपः निरङ्कारि-सरोवरस्य पार्श्वे स्थिते बुरारी-मार्गनामके स्थले वर्तते । पुरा तस्मिन् मण्डपे जॉर्ज् 5 इत्यस्य ५० पादोन्नता मूर्तिः आसीत् । परन्तु भारतगणराज्यस्य स्वतन्त्रतानन्तरं १९६० तमे वर्षे जॉर्ज् इत्यस्य मूर्तिः मण्डपात् अपाकृता । महाबलिपुरे षष्ठे शताब्दे अनेकानां बृहन्मूर्तीनां निर्माणं जातम् आसीत् । तस्मात् प्रेरिताः आङ्ग्लाः जॉर्ज् इत्यस्य मूर्तेः निर्माणम् अकारयन् । तस्याः मूर्तेः निर्माणं सी. एस्. जैगर् नामकेन आङ्ग्लेन कृता आसीत् । आङ्ग्लशासने निर्मितासु बृहन्मूर्तिषु जॉर्ज् इत्यस्य मूर्तेः गणना भवति स्म ।

भारतद्वारं, भारतप्रवेशद्वारंसम्पाद्यताम्

 
भारतद्वारस्य रक्षणं कुर्वन् सैनिकः

भारतद्वारं (India Gate), भारतप्रवेशद्वारम् (Gateway of India) इत्यनयोः मध्ये या भिन्नता अस्ति, तस्याः विषये विरलाः जनाः उत प्रादेशिकाः एव जानन्ति ।

भारतद्वारं तु देहली-महानगरस्य राजपथमार्गे स्थितं किञ्चन स्मारकम् । १९३१ तमे वर्षे भारतद्वारस्य निर्माणं पूर्णम् अभवत् । एतत् स्मारकं प्रथमविश्वेयुद्धे हुतात्मभ्यः सैनिकेभ्यः निर्मितम् आङ्ग्लसर्वकारेण । भारतद्वारस्य परिकल्पना (design) एड्विन् लुटियन्स् इत्यनेन कृता आसीत् ।

भारतप्रवेशद्वारं महाराष्ट्रराज्यस्य मुम्बई-महानगरे स्थितं भारतगणराज्यस्य प्रवेशद्वारम् अस्ति । १९२४ तमे वर्षे एतस्य प्रवेशद्वारस्य निर्माणं पूर्णम् अभवत् । समुद्रमार्गेण ये आङ्ग्लाः भारतं प्रविष्टाः, ते तस्मात् मार्गात् एव प्रवेशं प्रापन् । ततः भारतस्वतन्त्रतायाः काले अपि ते तेन मार्गेण भारतात् निर्गमनम् अकुर्वन् । तेन मार्गेण आङ्ग्लानां गमनागमनत्वात् तस्य नाम भारतप्रवेशद्वारम् इति । तस्य द्वारस्य निर्माणोद्देशः भिन्नः आसीत् । जॉर्ज् 5 इत्यस्य विवाहः मेरी इत्यनया सह अभवत् । तयोः विवाहस्य स्मारकत्वेन आङ्ग्लाः एतस्य द्वारस्य निर्माणम् अकारयन् ।

चित्रवीथिकासम्पाद्यताम्

सम्बद्धाः लेखाःसम्पाद्यताम्

बाह्यसम्पर्कतन्तुःसम्पाद्यताम्

http://www.delhitourism.gov.in/delhitourism/hindi/tourist_place/india_gate.jsp स्थूलाक्षरैः युक्तः भागः http://delhidarshan.netne.net/india-gate-raj-path-center-of-delhi-new-delhi-india.html

सन्दर्भःसम्पाद्यताम्

  1. १.० १.१ १.२ Metcalf, Thomas R. (31 March 2014). "WW I: India's Great War Dulce Et Decorum Est India Gate, our WW-I cenotaph, now stands for an abstracted ideal". Outlook (31 March 2014). http://www.outlookindia.com/article.aspx?289882. Retrieved 8 April 2014.  उद्धरणे दोषः : <ref> अमान्य टैग है; "भारतद्वारम्" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है
  2. २.० २.१ David A. Johnson; Nicole F. Gilbertson (4 August 2010). "Commemorations of Imperial Sacrifice at Home and Abroad: British Memorials of the Great War". The History Teacher. 4 43: 563–584. http://www.societyforhistoryeducation.org/pdfs/Johnson_and_Gilbertson.pdf. Retrieved 9 April 2014. 
  3. ३.० ३.१ "A fine balance of luxury and care", Hindustan Times, 21 July 2011.  उद्धरणे दोषः : <ref> अमान्य टैग है; "वर्तमानपत्रम्" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है
  4. "यदा रेलयानस्य स्थानान्तरम् अभवत्, तदा वि, के सेनोय् अध्यक्षः आसीत् ।", देहली विकेण्ड् गेटवेस्, १८/१/२०११. 
  5. Goswami, Col (retd) Manoranjan. "War memorial". Retrieved on 10 April 2014. 
"https://sa.wikipedia.org/w/index.php?title=भारतद्वारम्&oldid=376850" इत्यस्माद् पुनः प्राप्तिः