विदुषा रङ्गनाथशर्म-महोदयेन रचितानां पद्यानां सङ्ग्रहोऽयम् । यद्यपि लोके कवित्वपाण्डित्ययो: भिन्नाधिकरणत्वमेव प्रसिद्धं, तथापि शर्मवर्य: तस्यैकम् अपवादस्थानम् । वशीकृतानेकशास्त्र: स: महाभाग: कवितारचनायामपि सिद्धहस्त: । अस्मिन् ग्रन्थे तेन विभिन्नप्रसङ्गेषु रचितानि विंशत्यधिकानि पद्यानि सन्ति । श्रीरामचन्द्र-सुब्रह्मण्य-गोमटेश्वरादीन् उद्दिश्य रचितानि सुप्रभातस्तोत्राणि, गीर्वाणवाणी-शारदा-शङ्कराचार्यादीनां स्तुतय: च अत्र समावेशिता: सन्ति । साम्प्रदायिकेषु इव आधुनिकेषु अपि विषयेषु अयं कवि: स्वलेखनीं प्रचारयति । वीरोत्तेजनम् भावैकता इत्यादयोऽपि विषया: तेन स्पृष्टा: । तदीयं ‘धावेद्यत्र प्रभूतं प्रवहति मधु तत् पुष्पमेवालिवृन्दम्’ इति वाक्यं शासकानां नीतिभ्रष्टतां सम्यक् प्रदर्शयति । शङ्कराचार्यरचितानां स्तोत्राणां विषये शर्मणा उक्तं ‘वाचां काचित् प्रवहति झरी भक्तिनम्रा स्तवेषु’ इत्येतत् तस्य काव्येऽपि युज्यते ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=भारतविजयम्&oldid=409523" इत्यस्माद् प्रतिप्राप्तम्