प्रमुखा विकल्पसूचिः उद्घाट्यताम्

भासो हासःसम्पाद्यताम्

गीतगोविन्दकारः जयदेवः भासं स्तौति यथा-"भासो हासः " कविकुलगुरुः कालिदासो विलासः इति । महाकविः भासः (Bhaasa) कश्चित् महान् संस्कृतनाटककारः। भासस्य त्रयोदशनाटकानि उपलभ्यन्ते । १९०९ क्रिस्ताब्दौ त्रिवेन्द्रम् निवासी महामहोपाध्याय: टी० गणपतिशास्त्रीमहोदयः तिरुवाङ्कोर राज्यात् तालपत्रलिखितानि एतानि प्राप्तवान् । तेषां नाटकानांं नामानि सन्ति अधोलिखितानि। एतेषां त्रयोदशानामपि नाटकानां कर्ता भास इति लब्धयशसः टि.गणपतिशास्त्रिणः निरणयन् । प्राचीनः नोनराजस्य पुत्रः जोनराजः स्वग्रन्थे "सोऽग्निरपि भासमुनेः काव्यं विष्णुधर्मान्मुखात्त्यक्तवान् । नादहदित्यर्र्थः" इत्युक्तवान् । लाक्षणिकग्रन्थकारः रामचन्द्रगुणचन्द्रः नाट्यदर्पणे "यथा भासकृते स्वप्नवासवदत्ते" इत्येव वदति । किन्तु अन्ये विद्वांसः सर्वेषाम् एककर्तृत्वं पूर्वं नाङ्गीकृतवन्तः । ततः एतेषु स्वप्नवासवदत्तम् नाम्नि नाटके भासस्य नाम कर्तृत्वेन प्रस्तुतम् । अन्यत्र कुत्रापि नाटके कर्तुः नाम न गोचरति । तथा च एतेषु सर्वेषु नाटकेष्वपि "नान्द्यन्ते ततः प्रविशति सूत्रधारः" इति एकरीत्या प्रारम्भः भवति । "प्रस्तावना" इत्यस्मिन् स्थाने "स्थापना" इति निहितम् । अपि च सर्वेषु नाटकेष्वपि भरतवाक्यानि समानानि वर्तन्ते । एतदतिरिच्य आपञ्चदशशतकपर्यन्तं यावत्, संस्कृतकवयः स्वीयासु कृतिषु भासं तस्य ग्रन्थाणां वाक्यानि च समुदाहरन् । अपि च एतानि सर्वाण्यपि नाटकानि एकत्रैव प्राप्तानि । अतः एतानि सर्वाण्यपि रूपकाणि प्रायशः भासकृतानीति विद्वद्भिः सिद्धान्तितमस्ति । किन्तु एतस्मिन् विषये ऐकमत्यं न सिद्धम् । इमं कविं महाकविः कालिदासः मालविकाग्निमित्रम्इति नामके स्वस्य नाटके ’प्रथितयशसां भाससौमिल्लकविपुत्रादीनां प्रबन्धानतिक्रम्य वर्तमानकवेः क्रियायां कथं परिषदो बहुमानः?’ इति सबहुमानं भासम् अश्लाघत । बाणोऽपि स्वकाव्ये हर्षचरितम् नाम्नि काव्ये "सूत्रधारकृतारम्भैः नाटकैर्बहुभूमिकैः । सपताकैर्यशो लेभे भासो देवकुलैरिव" इति भासकविम् अस्तौत् । कविः राजशेखरः अपि भासो रामिलसोमिलौइति, "भासो हासः" इति जयदेवःमुरारिश्च भासम् अस्तुवन् ।

भासस्य कालःसम्पाद्यताम्

अनेके कवयः भासं प्राशंसन् । काव्यशास्त्रकाराः भासकृतान् श्लोकान् स्वग्रन्थेषु समुदाहरन् । एतेन ज्ञायते यत् भासः कालिदासादपि प्राक्तनः तदर्वाचीनकवीनाम् आत्मीयश्च स्यादिति । अनेकेषां कवीनाम् यथा तथैव भासस्यापि देश-कालयोः विषये कोऽपि निश्चयः नास्ति । तथापि विमर्शकानाम् अभिप्रायानुसारं क्रि.पू.१थमे शतमाने भास आसीदिति निर्णेतुं शक्यते । शार्ङधरपद्धतिः, सूक्तिमुक्तावलिः, सदुक्तिकर्णामृतम्, सुभाषितावलिः, इत्यादिषु प्राचीनेषु सुभाषितग्रन्थेषु भासाङ्कितानि पद्यानि लभ्यन्ते । एतादृशानि सर्वाणि साक्ष्याणि उद्धृत्य भासः क्रिस्तात् पूर्वं सप्तमे शतके आसीदित्यपि विमर्शकाः निर्णीतवन्तः । केचन विपश्चितः भासः क्रि.श.२तीये शतके आसीदित्यपि अभिप्रयन्ति । गते शतके समुपलब्धम् यज्ञफलम् नाम रामायणकथावस्तु नाटकमपि भासकविकृतमेवेति तस्य अध्येतारः दोषज्ञाः निरचिन्वन् । भासस्य देशविषये, मातापित्रोः विचारे च कापि कथा नोपलभ्यते । अयं दाक्षिणात्यः इति केचन साधारं प्रतिपादयन्ति ।

भासस्य रुपकाणिसम्पाद्यताम्

प्रतिज्ञायौगन्धरायणस्वप्नवासवदत्ताऽविमारकाणि त्रीणि बृहत्कथाऽऽधाराणि । प्रतिमानाटकभिषेकश्चेति द्वे रामायणमूले । मध्यमव्यायोगपञ्चरात्रदूतघटोत्कचकर्णभारोरुभङ्गयज्ञफलदूतवाक्यानि सप्त महाभारताश्रयाणि, बालचरितं भागवताश्रयम् दरिद्रचारुदत्तं च कल्पितकथमिति विवेकः ।।

१. मध्यमव्यायोगे – हिडिम्बानामकराक्षस्या सह भीमस्य प्रणयः, घटोत्कचनामकपुत्रद्वारा चिरविरहितयोस्तयोः सङ्गश्च वर्णितः ।
२. दूतघटोत्कचे –हिडिम्बाभीमयोरात्मजस्य घटोत्कचस्य महाभारतीयं चरितम् ।
३. कर्णभारे –कर्णस्योदात्तं चरितम्, तेन हीन्द्राय कवचकुण्डले दत्ते ।
४. ऊरुभङ्गे –भीमेन प्रियापरिभवप्रतप्तेन दुर्योधनस्य जङ्घे भग्ने । संस्कृतसाहित्ये शोकान्तनाटकस्येदमेकं निदर्शनम् ।
५. दूतवाक्ये –दूतभूतस्य श्रीकृष्णस्य सदाशयतया सहैव दुर्योधनस्याभिमानित्वं वर्णितम् ।
६. पञ्चरात्रे –कल्पिता कथा । द्रोणेन कौरवाणां यज्ञे आचार्यकत्वं कृतम्, दक्षिणायां स पाण्डवानां राज्यं याचितवान् ।
पञ्चदिनाभ्यन्तरेऽन्वेषणेक्रियमाणे लभ्यं तदिति दुर्योधनस्याश्वासने द्रोणेन तथा कृतम् ।
७. बालचरिते –कृष्णस्य बाललीला भागवताधारेणा कृता ।
८. अविमारके –या कथा सा सम्भवतो गुणाढ्यकृतबृहत्कथातो गृहीता राजकुमारस्याविमारकस्य कुन्तिभोजकुमार्या कुरङ्ग्या सह प्रणयोऽत्र वर्णितः ।
९. प्रतिज्ञायौगन्धरायणे – मन्त्री यौगन्धरायणं पद्मावत्या मगधराजभगिन्या सहोदयनस्य विवाहं कारयित्वा राजशक्तिं वर्ध्दयिउमैच्छत् । ध्रियमाणायां च वासवदत्तायां न सम्भवतीदमिति कदाचिदुदयने मृगयार्थं गते मन्त्रिसम्मत्या वासवदत्ता दग्धेति प्रचार्यते । राज्ञा चिरं विषद्यापि न तत्प्रेमणि मालिन्यमानीयते पश्छात् पदमावत्यां परिणीतायां स्वप्नक्रमेणैव वासवदत्ता लभ्यते ।
१०. दरिद्रचारुदत्ते-वसन्तसेनाचारुदत्तयोः प्रणयकथा वर्णिता । अस्य चत्वार एवाङ्का उपलभ्यन्ते ।
११. अभिषेके- रामायणोक्ता वालिवधादारभ्य रामराज्याभिषेकान्ता कथा वर्णिता ।
१२. प्रतिमानाटके – रामायणप्रोक्तं रामस्य पूर्वचरितमुपनिबध्दम् ।
१३. यज्ञफले –कथाभागोऽत्यल्प एव दशरथ यज्ञफले रामजन्म: , विश्वामित्र यज्ञफले असुरविनाश चापि जनक धनुष: यज्ञफले सीता विवाह भवन्ति।[१]

सर्वेषामेषां रुपकाणामेककर्तृकत्वम्सम्पाद्यताम्

उपरिदिर्निष्टनामानि रुपकाणि समानकर्तृकाणि यत् एषु आश्चर्यजनकं साम्यं प्रतिभासते ।
यथा –
१. सर्वाण्यपीमानि नाटकानि- ‘नान्द्यन्ते ततः प्रविशति सूत्रधारः’ एभिरेव शब्दैः प्रारभ्यन्ते ।
२. एषु रुपकेषु क्वापि रचयितुर्नाम परिचयादिकं नोपलभ्यते ।
३. प्रायः सर्वत्र प्रस्तावनायाः स्थाने स्थापनाशब्दप्रयोगः कृतः । कर्णभारमात्रे प्रस्तावनाशब्दप्रयोगः ।
४. एषु सर्वत्र भरतवाक्यं समानम् ।
५. एषां रुपकाणां भाषाऽऽश्चर्यजनकं साम्यं वहति ।
६. सर्वेष्वप्येषु रुपकेषु पताकास्थानस्य मुद्रालङ्कारस्य च समानः प्रयोगः ।
७. अप्रधानपात्राणां नामसाम्यम्, व्याकरणलक्षणहीनप्रयोगप्राचुर्यम् समाः वाक्यम्, सर्वत्र बाहुल्येन लभ्यते ।
८. भरतकृतनाट्यशास्त्रीयनियमानां सर्वत्र समभावेनानादरः ।
९. नाट्यनिर्देशस्य अभावः समानः ।
१०. एषां सर्वेषां रुपकाणां नामानि केवलमन्त एव ग्रन्थस्य लभ्यन्ते नान्यत्र क्वापि ।

भासस्य द्विरवतारःसम्पाद्यताम्

यद्यपि बहवो विद्वांसो गुणपतिशास्त्रिणा प्र्काशितानि सर्वाण्यपि रुपकाणि प्रचीनभासकृतानीत्युक्तवन्तः प्रमाणानि चोपस्थापितवन्तः, परन्तुजातेन बहुविधानुसन्धानेनेषां कर्त्ता प्राचीनो भासो न सिद्ध्यति, यतो भासकृतत्वेनोदाहृतानि पद्यानि लभ्यमानग्रन्थेषु नासाद्यन्ते, अतः सर्वाण्यपीमानि रुपवाणि केरलदेशीयेन केनचित् कविना कृतानीति सुवचम् । मदृ मदृ रामावतारशर्माऽपि लभ्यमानरुपकाणामंशविशेष एव भासकृता इति मन्यते । अत एव चैषां केरल एवोपलब्धिरिति समुपन्यस्यति तदुपोद्बलकं प्रमाणम् । केरलीया नटा अद्यापि भासनाटकान्यभिनीय लोकान् रञ्जयन्ति ।

अस्यां स्थितौ युक्तमिदं यद् भासद्वयं मन्यताम्, तत्रैकः प्राचीनो भासो ये महा रुविकालिदासादिना स्मृतः । अपरश्च केरलीयो नवो द्वादशशताब्दीसमुद्भवो भासो यस्य रुपकाणि चतुर्दश मदृमगणपतिशास्त्रिभिः प्रकाश्यं नीतानि ।

भासस्य नाटकनिर्माणनैपुण्यम्सम्पाद्यताम्

बहूनां रुपकाणां लेखको भासो जीवनस्य विविधानि क्षेत्राणि दृशोः पात्रतां नित्वानिति वक्तुं सुशकम्, अत एव चास्य रुपकेषु विविधता समायाता । एतदीयकृतिषु कतिचन नाटकानि पूर्णवि कसितानि नाटकानि, यथा- स्वप्नवासवदत्तम्, प्रतिज्ञायौगन्धरायणम्, प्रतिमानाटकञ्च । मध्यमव्याव्योगदूतघटोत्कचद्वतवाक्यकर्णभारोरुभङ्गानि एकाङ्करुपकाणि कथयितुं शक्यन्ते । भासस्य रुपकेषु अभिनययोग्यतैवासाधारमभावेन स्थिता सती तानि प्रख्यापयति । अभिनेयताहेतवश्च –एषां रुपकाणामादितोऽन्तं यावदभिनये सौकर्यम्, सुबोधा सरला संक्षेपवती च वाक्यावलिः, वर्णनविरहः, अविस्तृतानि पात्राणां कथनोपकथनानि, इत्यादिकाः सर्वेषु रुपकेषु दृश्यन्ते । भासः संवादतत्त्वाभिज्ञ इति तदीयाः कृतयः संवादसौष्ठवं बिभ्रति सर्वत्र सुलभम् । भासो व्रिजेषु रुपकेषु स्वाधारभूताः कथास्तयैवोपन्यस्यापि केवलेन सरलत्वकथनोपकथनचातुर्यादियोजनेन तानि स्मवीयतां प्रापयतीति भासस्य नाटकनिर्माणनैपुण्यं सुखमवगन्तुं शक्यम् ।

भासकृतिभिरन्यकविकृतिसाम्यम्सम्पाद्यताम्

भासस्य कृतयोऽन्येषां कृतिभिः सह साम्यं बिभ्रति । यथा –शाकुन्तले चर्त्येऽङ्के वृक्षलतादीन् प्रति शकुन्तलाया यः कोमलो मनोभावः –‘पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु य इत्यादिना वर्णितस्तत्तुल्य एव भासस्याभिषेके ‘यस्यां न प्रियमण्डनापि महिषी देवस्यमन्दोदरी’ इत्यादौ मनोभावो वर्ण्यते । यथा शाकुन्तले आश्रमवासिनां पीडनं परिहर्तुमादिश्यते तथैव स्वप्नवासवदत्ते – ‘न परुषमाश्रमवासिषु प्रयोज्यम् ’ इत्यादिश्य समानं दृश्यते । तथैव स्वप्नवासदत्ते- ‘ श्रुतिसुखनिददे कथं नु देव्याः स्तनयुगले जघनस्थले च सुप्ता’ इति वीणादौर्भाग्यमाक्रुश्यते । एवमेव शूद्रकस्य मृच्छकटिकेन सह चारुदत्तस्य सर्वाशगतं सादृश्यमासाद्यते । तदत्र केन कस्याधमर्ण्यं गृहीतमिति विचारे क्रियमाणे कालिदासशुद्रकौ एवोत्तमर्णो भास एव तयोः अधमर्ण इति मम विश्वासस्तत्रायं भासोद् द्वितीयो भास इति च । प्रथमो भासः कालिदासादीनां पाथि प्रदर्शकः सम्भवति, परं तदीयाः कृतयः नोपलभ्यन्ते , यश्चायं केरलीयो रुपकसमूहः स तु नवस्य भासस्य एव हि मन्यमाने सर्वमप्युपपन्नं भवतीति ।


भासभारत्याः निदर्शनानिसम्पाद्यताम्

स्वप्नवासवदत्तस्य षष्ठाङ्कस्य अन्ते भरतवाक्यम्, यथा-

इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् ।
महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥

चारुदत्तनाटकस्य प्रथमाङ्के १३तमः श्लोकः, यथा-

परिचिततिमिरा मे शीलदोषेण रात्रिः, बहुलतिमिरकालास्तीर्णपूर्वा विघट्टाः ।
युवतिजनसमक्षं काममेतन्नवाच्यम्, विपणिषु हतशेषा रक्षिणः साक्षिणो मे ॥

नाटकानिसम्पाद्यताम्

  1. स्वप्नवासवदत्तम्
  2. प्रतिज्ञायौगन्धरायणम्
  3. उरुभङ्गम्
  4. दूतवाक्यम्
  5. पञ्चरात्रम्
  6. बालचरितम्
  7. दूतघटोत्कचम्
  8. मध्यमव्यायोगः
  9. प्रतिमानाटकम्
  10. अभिषेकनाटकम्
  11. अविमारकम्
  12. चारुदत्तम्
  13. कर्णभारम्

(महाकवि भासरचितं नाटकं मध्यमव्यायोगात् गृहीतम् ) भासस्य कालः ई०पू० पञ्चमशताब्दिः इति मन्यन्ते इतिहासकाराः। तस्य नाटकानि अद्यापि कूडियाट्टेन प्रशासितानि।

मातुराज्ञा गरीयसीसम्पाद्यताम्

(ततः प्रविशति सुतत्रयकलत्रसहितः केशवदासः पृष्ठतः घटोत्कचः च ) घटोत्कचः -- भो वृद्ध । इहैव तिष्ठ।पदम् अपि अग्रे न गन्तव्यम् । वृद्धः -- भो पुरुष।किमर्थम् अस्मान् अग्रे गमनात् निवारयसि? घटोत्कचः -- मम माता उपवास निसर्गार्थम् एकं मानुषं माम् आनेतुम् आदिशत् ।अतः अहं भवत्सु एकं नेष्यामि। वृद्धः-- प्रिये नास्ति मोक्षः राक्षसात् ।अहमेव अनेन सह गच्छामि। मया सांसारिक भोगाः भुक्ताः।अतः निज शरीर दानेन कुलं रक्षितुम् इच्छामि। घटोत्कचः -- अपसरतु भवान् ।मम माता वृद्धं नेच्छति। पत्नी-- आर्य । तर्हि मम शरीरेण रक्षितव्यम् कुलम्। घटोत्कचः -- नहि नहि स्त्री जनो न अभिमतः तत्रभवत्या। प्रथमः पुत्रः-- ज्येष्ठोऽहं कुलस्य रक्षणार्थे प्राणान् दातुमिच्छामि। तृतीयः पुत्रः-- ज्येष्ठः भवान् कुलं पालयतु। अहं प्राणान् ददामि। द्वितीयः पुत्रः-- त्वं कनिष्ठोऽसि ।तव प्राण त्यागः नोचितः।(घटोत्कचं प्रति) भो पुरुष ।अहं त्वया सह चलामि। घटोत्कचः -- प्रीतोऽस्मि आगच्छ चलावःद्वितीयः पुत्रः-- क्षणं तिष्ठतु भवान् ।वनान्तरे जलाशयात् अहं पिपासां शमयितुं इच्छामि। घटोत्कचः -- गत्वा पिपासां शमय। शीघ्रं आगन्तव्यम्।अतिक्रामति मातुः आहारवेला।द्वितीय पुत्रः--भो तात ।एष गच्छामि। (निष्क्रान्तः) घटोत्कचः -- चिरायते कुमारः ।(ज्येष्ठं प्रति) अयि कुमार ।किं नाम तव भ्रातुः?प्रथम पुत्रः-- तस्य नाम मध्यमः इति। घटोत्कचः -- भो मध्यम , मध्यम ।शीघ्रं आगच्छ।( ततः प्रविशति भीमसेनः ) भीमसेनः--कोऽयं मध्यम मध्यम इति शब्दैः मम व्यायामविघ्नं उत्पादयति । अस्तु पश्यामि ।(घटोत्कचं दृष्ट्वा ) भो पुरुष ।ब्रुहि किमर्थं माम् आह्वयसि ?अहं अस्मि मध्यमः। घटोत्कचः -- (आत्मगतम्) न खलु अयं कुमारः।किम् एषः अपि मध्यमः? (प्रकाशम्) अहं मध्यमं शब्दापयामि। भीमसेनः--अतः खल्वहं प्राप्तः। घटोत्कचः -- किं भवान् अपि मध्यमः? भीमसेनः--न तावदपरः। अहमेव भ्रातृणां मध्यमः। वृद्धः--भो मध्यम।अस्मान् परित्रायस्व ।एष राक्षसः अस्मान् हन्तुमिच्छति'। भीमसेनः--भो पुरुष। किमर्थं वृद्धस्य परिवारं त्रासयसि ? मुञ्च एनम्। घटोत्कचः--न मुञ्चामि । मातुराज्ञया गृहीतोऽयम्।भीमसेनः--(आत्मगतम्) कथं मातुराज्ञया इति। माता किल मनुष्याणां देवतानां च दैवतम्। मातुराज्ञां पुरस्कृत्य वयमेतां दशां गताः।। (प्रकाशम्)किं नाम भवतः माता? घटोत्कचः--हिडिम्बा। भीमसेनः--(आत्मगतम्) एवम् हिडिम्बायाः पुत्रोऽयम्।सदृशो हि अस्य गर्वः।(घटोत्कचं प्रति) आदेशय गृहमार्गम्। घटोत्कचः--अनुसरतु माम्। (सर्वे परिक्रामन्ति) भोः इदमस्माकम् गृहम्।( गृहं प्रविश्य अम्बां प्रति) अम्ब। आनीतः तब चिराभिलसितः मानुषः। हिडिम्बा-- (भीमसेनम् अवलोक्य) जयतु आर्यपुत्रः । घटोत्कचः--भवति कोऽयम्? हिडिम्बा-- उन्मत्तक । दैवतम् अस्माकम्।अभिवादय पितरम्। घटोत्कचः--तात। घटोत्कचोऽहम् अभिवादये।मम चापलं क्षन्तुमर्हसि। भीमसेनः--एहि पुत्र एहि ।(उभौ परिष्वजतः)वृद्धः-- भो वृकोदर । रक्षितमस्मत्कुलम्, स्वकुलमुद्धृतं च । गच्छामस्तावत्।( निष्क्रान्तः सकलपुत्रः केशवदासः) भीमसेनः--हिडिम्बे । वत्स घटोत्कच ।इतस्तावत् ।केशवदासं आश्रमपद द्वारमात्रं त्यक्त्वा सम्मावयिष्यामः।( सर्वे निष्क्रान्तः)

बाह्यबन्धुकानिसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=भासः&oldid=445680" इत्यस्माद् पुनः प्राप्तिः