महर्षेः भृगोः जन्म ५००० वर्षेभ्यः पूर्वं ब्रह्मलोकस्य सुषा(साम्प्रति इरान् देशे वर्तते) नगरे अभवत्। तस्य प्रपितामहः मरीचिः। पितामहः कश्यपः, पितामही च अदितिः। भृगोः पिता प्रचेताः ब्रह्मलोकस्य राजा इत्यस्माद् सः प्रजापिता ब्रह्मा इति कथ्यते। ब्रह्मणः हृदयाद् भृगुः जातः। भृगोः माता वीराणी देवी। भृगोः सोदरः अङ्गिराः, अङ्गिरसः पुत्रः बृहस्पतिः यश्च देवगुरुः वर्तते। महर्षिः भृगुः भृगुसंहिता इति ज्यौतिषग्रन्थं रचितवान्। गङ्गासरय्वोः सङ्गमस्थाने गङ्गानद्याः संरक्षणं कृतवान्। स्वशिष्यस्य दर्दरस्य सम्मानार्थं ददरी उत्सवम् आरब्धवान्।

महर्षिः भृगुः

पत्नी पुत्राश्च

सम्पादयतु

महर्षेः भृगोः द्वयोः पत्न्योः उल्लेखः आर्षग्रन्थेषु दृश्यते। भृगोः प्रथमा पत्नी दैत्याधिपस्य हिरण्यकश्यपोः पुत्री दिव्या। दिव्यायाः पुत्रौ काव्यः(शुक्रः) त्वष्टा(विश्वकर्मा) च। सुषानगरे जातौ भृगोः पुत्रौ प्रतिभावन्तौ आस्ताम्। ज्येष्ठपुत्रः शुक्रः खगोलज्यौतिषे, यज्ञविधौ च निष्णातः आसीत्। मातृकुले (दैत्यकुले) तेन आचार्यपदवी प्राप्ता। स एव जगति शुक्राचार्यनाम्ना प्रख्यातः अस्ति। द्वितीयः पुत्रः त्वष्टा विश्वकर्मा वास्तुकलायां निपुणः आसीत्। मातृकुले (दैत्यवंशे) मयनाम्ना शिल्पविद्याप्रवीणत्वेन प्रख्यातः जातः। महर्षेः भृगोः द्वितीया पत्नी दानवानाम् अधिपतेः पुलोमऋषेः पुत्री पौलोमी आसीत्। पौलोम्यां भृगोः च्यवनः, वज्रः, शीर्षः, शुचिः, और्वः, शुक्रः, वरेण्यः इति सप्त पुत्राः जाताः। सर्वभक्षकः भवतु इति अग्निं भृगुः शशाप। ज्येष्ठस्य च्यवनस्य विवाहः शर्यातेः पुत्र्या सुकन्यया सह अभवत्। शर्यातिः नर्मदातीरे विद्यमानस्य भडौचराज्यस्य राजा आसीत्। अद्यापि भडौचराज्ये नर्मदायाः तटे भृगुमहर्षेः मन्दिरं दृश्यते। महर्षेः भृगोः पत्नी ख्यातिः दिव्यशक्तिमती आसीत्। देवासुरसङ्ग्रामे ख्यातिः स्वपितुः हिरण्यकश्यपोः साहाय्यार्थं मृतान् राक्षसान् उज्जीवयति स्म। विष्णुः देवतानां रक्षणार्थं सुदर्शनचक्रेण तां ममार। एतेन क्रुद्धः भृगुः पुनः पुनः स्त्रियः गर्भे भवतः जन्म भवतु इति विष्णुं शशाप। ततः स्वयोगबलेन पत्न्याः उज्जीवनं कृत्वा गङ्गातटं आगतः। ख्यातिः तमसानदीरूपेण उज्जीविता ।

त्रिमूर्तिपरीक्षा

सम्पादयतु

त्रिमूर्तिषु कः श्रेष्ठतमः इति निर्णयदानस्य उत्तरदायित्वं देवताः भृगवे दत्तवन्तः। भृगुः शङ्करस्य परीक्षणार्थं कैलासं गतवान्। शङ्करस्य प्रमथगणाः कैलासे महर्षेः प्रवेशं निषिद्धवन्तः। एतेन क्रुद्धः भृगुः शिवं तमोगुणयुक्तं घोषयित्वा लिङ्गरूपेण शिवस्य पूजा भवतु इति शप्तवान्। ततः सत्यलोके गते, ब्रह्मणः सदसि केनापि भृगोः आसनादिना सत्कारः न कृतः। अतः ब्रह्माणं रजोगुणयुक्तं घोषयित्वा तस्य अपूज्यत्वं स्यादिति शप्तवान्। ततः वैकुण्ठे गते, विष्णुः शयानः दृष्टः। भृगुः पादेन हृदये प्रहृत्य तम् उत्थापितवान्। उत्थितः विष्णुः महर्षेः आदरं कृत्वा मम कठोरहृदये संघर्षणेन तव पादस्य क्लेषः जातः इत्यवदत्। लज्जितः तुष्टश्च मुनिः विष्णुं सत्त्वगुणयुक्तं त्रिमूर्तिषु श्रेष्ठतमं चेति घोषितावान्।

भृगुक्षेत्रम्

सम्पादयतु

विष्णोः पादप्रहारः भृगुना विहितः इति कारणतः मरीचिः तं शप्तवान्। यदा विष्णुसहस्रनाम पठसि तदा शापविमुक्तिः इत्यपि उक्तवान्। भृगुः गङ्गातटस्य विमुक्तप्रदेशे तपः तप्तवान्। अयमेव भूभागः सम्प्रति भृगुक्षेत्रम् इति कथ्यते। अत्र भृगोः आगमनात् पूर्वं नरभक्षकाः मानवाः वसन्ति स्म। भृगोः आगमनात् तेषु परिवर्तनमागतम्। भृगोः शिष्यः दर्दरः अत्र गङ्गासरय्वोः सङ्गममपि कृतवान्।

भार्गवः

सम्पादयतु

भृगुमहर्षेः वंशे एव अग्रे [जमदग्निः], परशुरामश्च जातः। कार्तवीर्यार्जुनः कदाचित् भृगुवंशीयानां नाशनं च अकरोत्। परन्तु परशुरामः पुनः भृगुवंशप्रतिष्ठाम् रक्षितवान्। अत एव परशुरामः भार्गवः इति प्रसिद्धः जातः।

भृगुसंहिता

सम्पादयतु

महर्षेः भृगोः भृगुसंहिता ज्यौतिश्शास्त्रस्य अमूल्यं ग्रन्थरत्नं विद्यते। यदा विमुक्तभूमौ भृगुः उवास तदानीं भृगुसंहितायाः रचनं चकार। तस्य शिष्यः दर्दरः भृगुसंहितायाः प्रसारं सर्वत्र कृतवान्। भृगुसंहिताधारेण यस्य कस्यापि जातकस्य जन्मत्रयव्यापिनः विषयाः ज्ञातुं शक्याः। सूर्य-चन्द्र-बुध-गुरु-शुक्र-इत्यादीनां चलनस्य आधारेण विरचितं अमुं ग्रन्थम् आश्रित्य वृष्ट्यादीनामपि विषये चिन्तनं सुकरम्।

सम्बद्धाः लेखाः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=भृगुः&oldid=438522" इत्यस्माद् प्रतिप्राप्तम्