ऋषिः अर्थात् ऋषति पश्यति इति। ‘ऋषि' इत्येतस्य पदस्य व्युत्पत्तिलभ्यः अर्थ एव मन्त्रद्रष्टा इत्यस्ति। एष 'ऋषि'-शब्द इगुपधात् कित् इत्यनेनौणादिकेन सूत्रेण इनि कृते निष्पद्यते । निरुक्ते च विद्यमानाः ‘तद्येनास्तपस्यमानन् ब्रह्म स्वयम्भ्वभ्यानर्षत्...॥ इत्यादयः पङ्क्तयः ऋषेर्मन्त्रद्रष्टृत्वमुपपादयन्ति । अत ऋषयः मन्त्राणां द्रष्टार: सन्ति न च कर्तारः। वैदिकवाङ्गमये सप्तर्षयः प्रसिद्धाः सन्ति।

कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतमः

जमदग्निर्भरद्वाज इति सप्तर्षयः स्मृताः ॥

पदकाराः ऋषयः

सम्पादयतु

पदकाराः ऋषयः इत्युक्ते मन्त्राणां पदकाराः ऋषयः, ये वेदार्थावबोद्धुं प्रतिमन्त्रस्य अवान्तर्भूतपदानां पृथक्करणं कृत्वा तत्तत् संहितानां पदपाठं निर्मितवन्तः । अनेन पदपाठेन मन्त्राणाम् अर्थस्य अतिसुलभतया अवबोधो भवति । एतेषां पदपाठानां कर्तारः बहवः ऋषयः अभूवन्। शाकल्यः ऋग्वेदस्य पदपाठं प्रस्तुतवान् । अथर्ववेदस्य पदपाठस्तु ऋग्वेदस्य पदपाठानुरूपेणैव अस्ति। किञ्च अस्य रचनाकर्त्तुः नाम अद्यावधि अज्ञातम् एवाऽस्ति। यजुर्वेदस्य तैत्तिरीयसंहितायाः पदपाठकारस्य नाम आत्रेयोऽस्ति। गार्ग्यः सामवेदस्य पदकारः अस्ति।

 सम्बद्धाः लेखाः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=ऋषिः&oldid=457081" इत्यस्माद् प्रतिप्राप्तम्