मत्स्यावतारः
मत्स्यावतारः भगवतः विष्णोः दशावतारेषु अन्यतमः विद्यते । पालनकर्तारूपेण विष्णुः मन्यते । अतः ब्रह्माण्डस्य रक्षायै विविधावतारान् धरति । श्रीमद्भगवद्गीतायां श्रीकृष्णेनापि उक्तम् –
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ।
परित्राणाय साधूनां विनाशाय च दुष्कृतां
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ।। इति
यदा ब्रह्माण्डमिदं संकटे आपतति तदैव भगवान् विष्णुः अवतरति विभिन्नावतारेण । एवमेव ब्रह्माण्डस्य आवधिकविघटनप्रलयात् प्राक् प्रजापतिब्रह्मणः मुखात् यदा वेदज्ञानं निस्सृतं तदा हयग्रीवासुरः तच्चोरयित्वा अगिलत्, तदा भगवान् विष्णुः मत्स्यरूपेण अवतीर्य राज्ञः सत्यव्रतमनोः सकाशे लघुमत्स्यरूपेण प्रकटितः ।
नित्यकार्यत्वेन यदा सत्यव्रतः प्रत्यूषैव सूर्यार्घ्यं ददन् आसीत् तदा एकः लघुमत्स्यः हस्ते उत्थाय अवदत् – राजन्! मां कमण्डलौ स्थापय इति । दयाधर्मानुसारेण राजा तं मत्स्यं कमण्डलौ संस्थाप्य गृहं प्रत्यागतः । गृहप्रापणपर्यन्तं सः मत्स्यः कमण्डल्वाकारं प्राप्नोत् । राजा तं वृहदाकारपात्रे अस्थापयत्, किन्तु किञ्चित् समयानन्तरं सः मत्स्यः तत्पात्राकारं प्राप्नोत् । अन्ते राजा तं मत्स्यं यदा समुद्रे अस्थापयत् तदा सः समग्रं समुद्रमेव आच्छादयत् । तदा सः सुवर्णः मत्स्यः दिव्याकारं प्रदर्श्य तं भक्तम् असूचयत् यत् तद्दिनात् सप्तमे दिवसे ब्रह्माण्डे प्रलयः आगमिष्यति तथा ततः परं विश्वस्य नूतनसृष्टिः भविष्यति इति । अतः सत्यव्रतमनुम् औषधि-बीज-पशु-सप्तर्षि-आदीनां सङ्ग्रहं कृत्वा भगवता प्रेषितायां नौकायां संचयितुम् अकथयत् ।
पश्चात् सः विशालमत्स्यः हयग्रीवासुरं मारयित्वा वेदान् संरक्ष्य ब्रह्मणे समार्पयत् । यदा ब्रह्मा शयनात् उत्थितः तदा प्रलयः अन्तिमचरणे आसीत् । एतत् ब्रह्मणः रात्रिः इत्युच्यते, यत् गणनानुसारेण 4,320,000,000 वर्षाणि यावत् चलति। यदा समुद्रतरङ्गाः ब्रह्माण्डं भष्मीभूतं कर्तुं प्रारब्धं तदा एका विशालनौका समागता यत्र सर्वेऽपि उत्थिताः । मत्स्यावताररूपीभगवान् सर्पराजवासुकिं रज्जुरूपेण बध्नाय सुमेरुपर्वतदिशं प्रस्थितः । पथि भगवान् मत्स्यनारायणः सत्यव्रतमनुं मत्स्यपुराणमश्रावयत् । इत्येवं भगवान् विष्णुः सर्वान् प्रलयात् अत्रायत्, तथा औषधि-पश्वादीन् संरक्ष्य मत्स्यपुराणविद्यां नवयुगे प्रासारयत् ।
मनुमत्स्यकथा उत मत्स्यावतारकथा शतपथब्राह्मणे, महाभारतस्य वनपर्वणि, मत्स्यपुराणे, भगवत्पुराणे तथा अग्निपुराणेऽपि प्राप्यते । शतपथब्राह्मणे वैवश्वतमनुः इति उल्लिखितमस्ति । सामान्यतया कथा सर्वत्रापि समानैव विद्यते । महाभारतस्य वनपर्वणि वैवश्वतमनुः इत्यनेन अभिहितं वर्तते ।
शतपथब्रह्मणे उत्तरदिशि स्थिते पर्वते मत्स्यः नौकामनयत् इति प्राप्यते यत् महाभारतस्य वनपर्वण्यपि समानतया दृश्यते । मत्स्यपुराणे मलयपर्वतः इत्युल्लेखः प्राप्यते । मत्स्यभगवतः पूजार्थं कानिचन मन्दिराणि प्राप्यन्ते येषु शङ्खोदरमन्दिरं द्वाराकायाम्, वेदनारायणमन्दिरं नागलापुरे, कोनेश्वरं मत्स्यकेश्वरमन्दिरं त्रिणकोमाल्याम् चेति वर्तते । राजस्थाने बहूनि मीनेशमन्दिराणि विद्यन्ते। किन्तु प्रथममीनेश्वरमन्दिरं राजस्थानस्य पुष्करे, अन्यत् मलाराणाचौरग्रामे यत् स्वामीमाधोपुरे वर्तते ।