मदालसायाः परिणयगाथा इमं गाथामादाय त्रिविक्रमभट्टः स्वीयाप्रतिभया वर्णनं नैपुण्येन च मदालसाचम्पूकाव्यं विरचितवान्।

          मदालसाचम्पूकाव्ये षडुल्लासाः श्लोकाश्च पञ्चविंशत्यधिकं षड्शतं (६२५) परिलक्ष्यन्ते। चम्पूकाव्येऽस्मिन् नायकः ऋतुध्वजः तथा नायिका मदालसा भवति। चम्पूकाव्येऽस्मिन् पद्यापक्षया गद्यस्य वर्णनं न्यूनं विद्यते।

         अत्र कथावस्तु एवं भवति यत् आदौ पातालकेतुः इति नाम्ना केनचित् राक्षसेन गन्धर्वराजनन्दिनी मदालसा अपहृता आसीत्। तेन राक्षसेन सुकररुपं धारयित्वा गालवऋषेः आश्रमध्वस्तं कर्तुमागते सति राजकुमारऋतुध्वजद्वारा आहतमभवत् सः राक्षसः। तदनु ऋतुध्वजस्य पातालपुरीगमनम्, मदालसया सह तस्य विवाहः, पातालकेतोः वधः, मदालसाऋतुध्वजयोः राजनगरं प्रत्यावर्तनम्, ऋतुध्वजस्य गमनं पुनः ऋषीणां सेवानिमित्तम्, पातालकेतोः भ्रात्रा मालकेतुना मिथ्या प्रपञ्चेन राजनगरे ऋतुध्वजस्य मृत्युसंदेशप्रसारणम्, संदेशं श्रृत्वा मदालसायाः मृत्युः। तेन ऋतुध्वजस्य वियोगवर्णनम्, नागकुमारयोः ऋतुध्वजेन साकं मित्रता, नागकुमारद्वयेन ऋतुध्वजस्य वृतान्तम् नागराजेन श्रावितम्, मदालसायाः प्राप्त्यर्थं नागराजस्य तपस्या वर्णनम्, नागलोके ऋतुध्वजस्य मदालसां प्राप्य स्वस्य नगरीं प्रत्यागमनम्, ऋतुध्वजे राज्यभारं प्रदाय पितुः शक्रजितस्य सपत्नीकेन वनगमनमित्यादीनि मदालसाचम्पूकाव्यस्य मुख्यप्रसङ्गानि वर्तन्ते।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=मदालसाचम्पूः&oldid=474782" इत्यस्माद् प्रतिप्राप्तम्