मधुकर्कटीफलस्य रसः एव मधुकर्कटीफलरसः । एषा मधुकर्कटी आङ्ग्लभाषायां Papaya इति उच्यते । अस्य रसः Papaya Juice इति उच्यते । मधुकर्कटीफलरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य फलरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः फलरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य मधुकर्कटीफलरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि मधुकर्कटीफलरसं निर्माय विक्रयणं कुर्वन्ति अपि । भारते तु अयं मधुकर्कटीफलरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति । मधुकर्कट्याः वर्णस्य रूचेः अनुगुणं फलरसस्य वर्णः रुचिः च परिवर्तते ।

काषायवर्णस्य मधुकर्कटीरसः
पीतवर्णस्य मधुकर्कट्याः रसः
वृक्षे दृश्यमानानि अपक्वानि मधुकर्कटीफलानि
वृक्षे दृश्यमानानि पक्वानि मधुकर्कटीफलानि

फलरसस्य निर्माणम् सम्पादयतु

अस्य मधुकर्कटीफलरसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमम् मधुकर्कटीफलं प्रक्षाल्य त्वक् निष्कास्य बीजं पृथक् करणीयम् । अनन्तरं लघु लघु खण्डाः करणीयाः । तदनन्तरं फलखण्डेषु शर्करां योजयित्वा सम्यक् पेषणं करणीयम् । तदनन्तरं तत्र जलं वा दुग्धं वा योजनीयम् । अपेक्षितं चेत् तत्र एलायाः चूर्णम् अपि योजयितुं शक्यते ।

"https://sa.wikipedia.org/w/index.php?title=मधुकर्कटीरसः&oldid=361447" इत्यस्माद् प्रतिप्राप्तम्