मधुगिरिः
मधुगिरिः (Madhugiri) कर्णाटकस्य तुमकूरुमण्डले विद्यमानं किञ्चन नगरम् । उपमण्डलस्य केन्द्रमस्ति । इदं नगरं -(०८२३७) एकशिलानगरम् इति प्रसिद्धम् अस्ति । अत्र विद्यमानः पर्वतः ३९३० पादमितः (१२०० मीटर्मितः) उन्नतः वर्तते । पर्वतारोहणं कष्टसाध्यम् अस्ति । अयं पर्वतः एशियाखण्डे एव प्रथमः। विश्वे द्वितीयः उन्नतः प्रदेशः।
मधुगिरिः | |
---|---|
नगरम् | |
मधुगिरिदुर्गः | |
राष्ट्रम् | भारतम् |
राज्यम् | कर्णाटकराज्यम् |
मण्डलम् | तुमकूरुमण्डलम् |
Elevation | ७८७ m |
Population (2001) | २६,३५१ |
Time zone | UTC+5:30 (भारतीय सामान्यकालमानम्) |
प्रेक्षणीयस्थानानि
सम्पादयतुमधुगिरेः एकशिलाशैलः दर्शनयोग्यः वर्तते ।
अत्र उद्भवलिङ्गरुपी मल्लेश्वरदेवालयः अस्ति । श्रीवेङ्कटरमणस्य देवालयोऽपि आवरणे अस्ति । ग्रामाद् बहिः दण्डिनमारम्मायाः विशालं मन्दिरम् अस्ति । अत्र मङ्गलवासर- शुक्रवासरयोः विशेषपूजा भवति । देवी अत्र भयङ्करस्वरूपिणी प्रकटितवक्रदन्ता अस्ति । प्रथमं तावत् देवीम् अत्र दर्पणे विलोक्य अनन्तरं साक्षात् दर्शनम् रूढिगतम् अस्ति ।
मार्गः
सम्पादयतु- बेङ्गलूरुतः २०७ कि.मी
- तुमकूरुतः ४० कि.मी