तुमकूरुमण्डलम् (Tumkur district) कर्णाटकराज्ये विद्यमानं किञ्चन मण्डलम् । तुमकुरुनगरं तुमुकूरुमण्डलस्य केन्द्रम् अस्ति । राज्यस्य राजधानी बेङ्गळूरु तुमुकुरुनगरात् उत्तरे अस्ति । तुमकूरुमण्डलं दक्षिणकर्णाटकप्रदेशे अन्यतमं प्रधानमण्डलकेन्द्रम् । तुम्मेगूरु इति अस्य प्राचीनं नाम आसीत् । एतन्मण्डलं चतुर्थे राजमार्गे बेङ्गळूरुतः ७०कि.मी.दूरे अस्ति ।

तुमकूरुमण्डलम्

ತುಮಕೂರು ಜಿಲ್ಲೆ
मण्डलम्
Skyline of तुमकूरुमण्डलम्
देशः  भारतम्
राज्यम् कर्णाटकराज्यम्
केन्द्रम् तुमकूऱूनगरम्
उपमण्डलानि तुमकूरू, गुब्बि, तिपटूरु, तुरुवेकेरे, कुणिगल्, मधुगिरि, पावगड, कोरटगेरे, चिक्कनायकनहळ्ळि, सिरा.
Government
 • Deputy Commissioner R.K.राजु, IAS
भाषाः
 • अधिकृतभाषा कन्नडभाषा
Time zone UTC+5:30 (भारतीयसामान्यकालमानम्)
PIN
572100
दूरवाणिसंज्ञा + 91 (0) 081
Vehicle registration KA-06
Website www.tumkur.nic.in
कर्णाटके तुमकूरुमण्डलम्

विस्तीर्णतासंपादित करें

तुमकूरुमण्डलस्य विस्तीर्णता १०५९८ च.कि.मी

नद्यःसंपादित करें

शिंषा, उत्तरपिनाकिनी, जयमङ्गली, गरुडाचला, कुमुद्वती

उपमण्डलानिसंपादित करें

तुमकूरु, गुब्बि, कुणिगल्, चिक्कनायकनहळ्ळी, तिपटूरु, तुरवेकेरे, कोरटगेरे, पावगड, मधुगिरि, शिरा

प्रसिद्धानि क्षेत्राणि अथवा दर्शानीयानि स्थानानिसंपादित करें

 
हेमावती नदी

क्यातसन्द्र, यडियूरु श्री सिद्धलिङ्गेश्वरः, सिद्धगङ्गामठः,देवरायनदुर्गम्, नामदचिलुमे,विद्याशङ्करदेवालयः, गूलूरुगणपतिदेवालयः, कैदाल चेन्नकेशवदेवालयः, मन्दरगिरिजैनदेवस्थानं जिजगल्लु बेट्ट, गोरवनहल्लि महालक्ष्मीमन्दिरम्, मधुगिरिबेट्ट, कोटे चन्नरायनदुर्गम् इत्यादीनि स्थानानि ।

क्यातसन्द्र (केतशरधि)संपादित करें

सिद्धगङ्पर्वतप्रदेशे सिद्धगङ्गामठः अस्ति । एषः सिद्धभूमिः पुण्यभूमिः च । श्रीगोसलसिद्धेश्वरः महान् तपस्वी । कदाचित् सः सशिष्यः अत्र आगत्य मठं निर्माय (२३२५) वासं कृतवान् । अत्र अनेकगुहाः सन्ति । निर्झरं ’गङ्गम्” इति कथयन्ति । अनन्तरं चत्वारः स्वामिनः अस्य क्षेत्रस्य महत्वं वर्धितवन्तः । अधुना शतायुषी श्री शिवकुमारस्वामी (२९३०) सेवाकार्यभारं निर्वहति । प्रतिदिनम् अत्र अन्नदासोहं विद्याकैङ्कर्यं प्रचलति । अनेके विद्यालयाः छात्रावासाः यात्रिवासाः निर्मिताः सन्ति । सहस्रशः विद्यार्थिनः अत्र विद्यार्जनं कुर्वन्ति । सिध्दलिङ्गेश्वरदेवालयः दर्शनीयः अस्ति । प्रतिवर्षम् अत्रयात्रामहोत्सवः वैभवेण प्रचलति ।

  • मार्गः-तुमकुरुतः १० कि.मी दूरे अस्ति।

देवरायनदुर्गम्संपादित करें

 
हुत्तरिगुड्ड

एतत् तुमकूरुमण्डले स्थितं गिरिदुर्गं पवित्रस्थानं च । अस्य अष्टदिक्षु गिरिपंक्तयः सन्ति । अस्य पौराणिकं नाम करिगिरिक्षेत्रम् । प्रथमपर्वतस्य समतलप्रदेशे दुर्वासमुनिना प्रतिष्टितः श्रीभोगनरसिंहः अथवा लक्ष्मीनरसिंहदेवालयः, अन्यस्मिन् पर्वते योगनरसिंहमन्दिरं च स्तः । योगनरसिंहस्य कुम्भिनरसिंहः इति नाम अस्ति । अत्र एकस्यां गुहायां पारतीर्थम् इति जलस्थानमस्ति । रामतीर्थं धनुषतीर्थं च जलस्य स्रोतसी स्तः । इतोऽपि अग्रे चिक्कगरुडनगुडि, दिविगेगुण्डु, शिंषामूलं, जयमङ्गलीमूलं च सन्ति अन्यस्मिन् पर्वताग्रे नमस्कारभङ्गौ स्थितस्य सञ्जीवरायस्वामिनः मन्दिरम् अस्ति । सानुप्रदेशे ’नामदचिलुमे’ इति पवित्रतीर्थम् अस्ति ।

 
देवरायनदुर्गस्य योगनरसिंहमन्दिरम्

रेलयानस्य सौकर्यं तुमकूरुपर्यन्तम् अस्ति ।

यडियूरु (कुणिगल्)संपादित करें

श्रीसिद्धलिङ्गेश्वरस्वामीदेवालयः कर्णाटकराज्यस्य प्रमुखधार्मिककेन्द्रम् इति प्रसिद्धम् अस्ति । अत्र भक्ताः जातिमतवर्गभेदभावं त्यक्त्वा प्रतिदिनम् आगच्छन्ति । श्रीसिद्धलिङ्गेश्वरस्वामी पञ्चदशशतकस्य तत्वज्ञानी प्रवचनकारः योगपुरुषः च आसीत् । एतस्य जन्म चामराजनगरस्य समीपे हरदळळ्ळिग्रामे १४७० तमे वर्षे अभवत् । एषः सञ्चरन् चमत्कारान् प्रदर्शयन् अत्र आगतः । यडियूरुसमीपे कग्गेरेस्थाने द्वादशवर्षाणि यावत् तपः कृत्वा सिद्धिं प्राप्तवान् । तपसः आचरणकाले तस्य शिरसि पक्षिणः नीडं रचितवन्तः । कपिला नाम गौः क्षीरं प्रस्रावयति स्म । सर्पाः तस्य शरीरे सञ्चरन्ति स्म । एषः बहुकालं शिवयोगे स्थितः आसीत् । अतः एव एतं तोण्टद सिद्धलिङ्गेश्वरः इति वदन्ति । १४८० तमे वर्षे तस्य समाधेः उपरि एकं देवस्थानं निर्मितम् अस्ति । अधुना एतत् पवित्रस्थानम् । सोमवासरे बहुजनाः अत्र आगच्छन्ति । भोजनवासादिव्यवस्था अस्ति ।

नोणविकेरे (तिपटूरु)संपादित करें

अत्र स्थितः ब्याटरायस्वामिदेवालयः सहस्रवर्षप्राचीनः मृकण्डुमुनिना स्थापितः अस्ति । मृकण्डुमुनेः तपोभङ्गं कर्तुं राक्षसाः मृगरुपेण यदा आगताः तदा श्रीमहाविष्णुः अश्वारुढः तान् घातितवान् । अतः एव विष्णोः ब्याटरायस्वामीति नाम अस्ति । श्रीहरिः अत्र पञ्चपादपरिमित्तोन्नतः चतुर्भुजधारी अस्ति ।

  • मार्गः- तुमकूरुतः ५८ कि.मी
  • बाणसन्द्र रेलनिस्थानतः १२ कि.मी
  • वाहनमार्गः - बीदर- मैसूरु राजमार्गः

मधुगिरिसंपादित करें

एकशिलानगरम् इति प्रसिद्धम् अस्ति । पर्वतप्रदेशे (२३८९ पाद) सप्तावरणात्मकं दुर्गम् अस्ति । पर्वतारोहणं कष्टसाध्यम् अस्ति । अयं पर्वतः एशियाखण्डे एव प्रथमः। विध्वे द्वितीयः उन्नतः प्रदेशः। अत्र उद्भवलिङ्गरुपी मल्लेश्वरदेवालयः अस्ति । श्रीवेङ्कटरमणस्य देवालयोऽपि आवरणे अस्ति । ग्रामाद् बहिः दण्डिनमारम्मायाः विशालं मन्दिरम् अस्ति । अत्र मङ्गलवासर- शुक्रवासरयोः विशेषपूजा भवति । देवी अत्र भयङ्करस्वरूपिणी प्रकटितवक्रदन्ता अस्ति । प्रथमं तावत् देवीम् अत्र दर्पणे विलोक्य अनन्तरं साक्षात् दर्शनम् रूढिगतम् अस्ति ।

सिद्दर बेट्ट- (कोरटगेरे)संपादित करें

दक्षिणकाशीति ख्यातः सिद्धगिरिः सुवर्णगिरिः इत्यपि नामयुक्तो अस्ति । सम्पूर्णपर्वतः गृहामयः अस्ति । अत्र सुवर्णगवि(गवि नाम गुहा इत्यर्थः) बङ्गारदगवि, बूदगवि, लक्ष्मीदेवी गद्दुगे, योगसाधनागद्दुगे सन्ति । अनेके सिध्दाः अत्र तपः आचरितवन्तः । पर्वतस्य एकस्यां गुहायां सिद्धेश्वरलिङ्गः अस्ति । अत्र पर्वते सञ्जीविनी अस्ति (रोग नाशकवनस्पतिः )। श्वासरोगः, क्षयरोगः, उदररोगाः, अत्रत्यपर्णानां खादनेन नष्टाः भवन्तीति जनानां विश्वासः अस्ति। पर्वते विश्रान्तिम् अनुभवन्ति । कर्णाटकस्य प्राक्तन- मुख्यमन्त्री श्री केङ्गल् हनुमन्तरायः अत्र आगत्य वासं कृतवान् इति विशेषविषयः ।

  • मार्गः तुमकूरुतः ३२.कि.मी
  • बेङ्गलूरुतः १०० कि.मी

वैशिष्ट्यम्संपादित करें

वीरशैवमठः सिद्धगङ्गा अस्य मण्डलकेन्द्रस्य तुमकूरुसमीपे क्यातसन्द्रे विराजते । जतिलिङ्गमतभेदैः विना अत्र ज्ञानदासोहः अन्नदासोहः विश्वादर्शौ कार्यक्रमौ । अत्रत्यः श्री शिवकुमारस्वामी चलन्नीश्वरः इत्येव प्रसिद्धः । मठस्य समीपे क्यातसन्द्रस्य तट्टे इड्लीखाद्यं प्रसिद्धम् । कुणिगल् उपमण्डलस्थितं यडियूरुसिद्धलिङ्गेश्वरक्षेत्रं विश्वप्रसिद्धं यात्रास्थानम्।

कृषिःसंपादित करें

तिपटूरु-उपमण्डलं नालिकेरफलानाम् उत्पादने प्राथम्यं वहति । कृषकानां यन्त्रोद्यमिनां च समानं प्राबल्यम् अस्मिन् मण्डले अस्तीति विशेषता। तुमकूरुविश्वविद्यालयः गुब्बिनाटककम्पनी च प्रसिद्धम् एव।

प्रसिद्धाः व्यक्तयःसंपादित करें

सन्दर्भाःसंपादित करें

बाह्यसम्पर्कतन्तुःसंपादित करें

"https://sa.wikipedia.org/w/index.php?title=तुमकूरुमण्डलम्&oldid=463942" इत्यस्माद् प्रतिप्राप्तम्