मध्ये मा बुध्दिर्यस्याः सा मध्यमा ।

बाह्यान्तः करणादयात्मिका हिरण्यगर्भरुपिणी बिन्दुतत्त्वमयी सेति पद्मपादाचार्येण् उक्तमस्ति । अन्तः संकल्प्यमाना क्रमवती श्रोत्रग्राह्यवर्णरुपाभिव्यक्तिरहिता वाक् सा मध्यमेति जयन्तभट्टेन प्रतिपादितम् । अन्तर्मुखपरयोगिभिः दृश्या मध्यमा नाम शक्तिरिति ।

नटनानन्देन वर्णितम् । मध्यमा त्वन्तः संनिवेशिनी परिगृहीतकमेव बुध्दिमात्रोपादानेति – हरिवृषभेण चर्चितम् । बुध्देरेकत्वात् तदभेदाच्च मध्यमाया वाचो वस्तुतः क्रमशून्यत्वेऽपि क्रमपरिग्रहेणैव प्रत्यभासमानेति रघुनाथशर्मणा कथितम् । वैखरीपश्यन्त्योर्मध्ये भावान्मध्यमा वागिति तेनैव उक्तम् । हृदयपर्यन्तमागच्छता तेन वायुना हृदयदेशेऽभिव्यक्ततत्तदर्थविशेषोल्लेखन्या बुद्ध्या विषयीकृता हिरण्यगर्भंदेवत्या परश्रोत्रग्रहणायोग्यत्वेन सूक्ष्मा मध्यमा वागिति नागेशेन प्रतिपादितम् ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=मध्यमावाक्&oldid=409559" इत्यस्माद् प्रतिप्राप्तम्