मानसिकस्वास्थ्यम्
चाञ्चल्यं मनसः मूलस्वभावः । परिसरे विद्यमानान् विविधान् अंशान् तत् अवलोकयत् भवति । परिसरस्य प्रचोदनेषु केचन मनसे हिताय न भवेत् । तदा दुःखं कोपः भयञ्च प्रकाशितं भवति । कस्मिंश्चित् उपयुक्ते विचारे कार्ये वा वयं मग्नाः स्याम । कार्यकलापादीन् निर्दिष्टे काले समापनाय सहना कौशलम् आग्रहश्च अस्मासु भवेत् । किन्तु मनः सज्जः न स्यात् । कष्टानि समस्याश्च सहजाः । तेषां सम्मुखीकरणावसरे मनः आतङ्कग्रस्तं भवेत्, धैर्यच्युतं भवेत् च । अस्माकम् इष्टानिष्टानि बहुधा अवधातुं न शक्नुमः । तदा मनः प्रतिरोधं दर्शयति । अस्माकं सम्पन्मूलानि सीमितानि यदा भवन्ति तदा अस्माभिः समञ्जनं कर्तव्यं भवति ।
मनसः भागाः
सम्पादयतुमनश्शास्त्रज्ञः सिग्मण्ड् फ्राय्डः एवम् उक्तवानस्ति – मनसि भागत्रयं विद्यते – आशानां साकारीकरणे मग्नः ’इद्’भागः । कथञ्चित् आशयाः साकारीकरणीयाः इत्येतदेव अस्य परमं लक्ष्यम् । अतः अयं भागः वस्तुस्थितिं कार्यकारणसम्बन्धं दोषादोषान् वा न अभिजानाति । किन्तु मनसः अन्यः भागः ’ईगो’ इत्येषः वस्तुस्थितिमपि अवगच्छति । वस्तुस्थितेः परिधौ एव ’इद्’भागस्य अपेक्षानां व्याक्षेपणे अनङ्गीकरणे च प्रयतमानः भवति । मनसः अन्यः भागः कथ्यते ’सूपर् ईगो’ इति । अयं भागः सामाजिक-नैतिक-धार्मिकनियमान् अवगच्छन् तेषां पालने प्रयतते । अस्मात् कारणात् ’इद्’ ’ईगो’ ’सूपर् ईगो’ इत्येतेषां भागानां मध्ये सर्वदा कस्मिंश्चित् विषये घर्षणं तुमुलं वा प्रचलति एव । मानसिकस्वास्थ्यं नाम शक्तः अहङ्कारः । एवं चेत् इद्-सूपर् ईगो – इत्येतयोः योग्यनिर्वहणं भवति । जनस्य आवश्यकताः पूरयन् अन्यैः सह समञ्जनपूर्णं जीवनं कर्तुं सहकरोति ।
मानसिकस्वास्थ्ययुतस्य जनस्य लक्षणानि
सम्पादयतु- वास्तविकप्रज्ञा उत्तमा भवति । भ्रमाः दिवास्वप्नाश्च न भवन्ति ।
- सः स्वस्य इष्टानिष्टानि सामाजिक-नैतिकपरिधौ रक्षितुं प्रयतते ।
- सः स्नेहशीलः दयाशीलः निरपायः समञ्जनशीलश्च भवति ।
- स्वार्थं प्रमुखमिति अपरिगणयता तेन इतरेषाम् आवश्यकताः अवधीयन्ते । समाजस्य उन्नत्यै परिश्राम्यति सः ।
- कष्टानि समस्याः च धैर्येण सम्मुखीकरोति । परिहारोपायान् विचिन्त्य तान् कार्यान्वितान् करोति ।
- समयसन्दर्भानुगुणं भवति तदीयानि वचांसि व्यवहाराश्च । भावोद्रिक्तः न भवति । समचित्तः भवति ।
- पूर्वाग्रहपीडितः न भवति । मुक्तमनस्कः भवति । स्वस्य ज्ञान-कौशल्यादीनि वर्धयितुं सर्वदा प्रयतमानः भवति ।
- सर्जनात्मकासु कलापासु आसक्तः भवति ।
- स्वस्था जीवनशैली भवति तस्य । आहार-निद्रा-मैथुन-स्वच्छता-व्यायाम-मनोरञ्जनादिषु विषयेषु अनुशासनं पालयति । अनारोग्यस्य लक्षणानि यदि दृश्येरन् तर्हि अनुपदमेव तस्य निवारणाय उद्युक्तः भवति । स्वस्य स्वजनानां च आरोग्यविषये अवधानवान् भवति ।
- उद्योगशीलः सन् स्वस्य वृत्तिं श्रद्धया निर्वहति । तेन द्वारा अन्येषां साहाय्यम् आचरति ।
- सर्वाधिकारी इव न व्यवहरति । अन्येषाम् अभिप्रायान् भावान् च आद्रियते । बहुजनानाम् अभिप्रायं बहुमन्यते ।
- नैतिकमौल्यानां परिपालने सन्तोषम् अभिमानञ्च वहति ।
मानसिकस्वास्थ्यात् शारीरकस्वास्थ्यं वर्धते । शारीरक-मानसिकसामर्थ्यानि वर्धन्ते । ततः प्रगतिः साध्या भवति । ततः समृद्धिः सन्तृप्तिः प्राप्तुं शक्या ।