मनोविज्ञाने असामान्यमनोविज्ञानविवेचनम्
मनोविज्ञाने असामान्यमनोविज्ञानविवेचनम् अतीव महत्त्वपूर्णं वर्तते। अनेन मनुष्यव्यवहारस्य सुष्ठु ज्ञानं भवति। पूर्वेषु पञ्चदशस्वध्यायेष्वस्माभिः सामान्यमनोविज्ञानं सपरिकरमनुव्याख्यातम्। अथांतो वयमसामान्यमनोविज्ञानस्वरूपमनुव्याख्यास्यामः ।
सामान्यमनोविज्ञानं हि सामान्यतः स्वस्थपुरुषाणां मनोव्यापाराणां चिन्तनस्मृति- कल्पनाविचारप्रयत्नादीनां साङ्गोपाङ्गमध्ययनं प्रकुरुते । असामान्यमनोविज्ञानं तर्हि असामान्यमनोव्यापाराणामस्वस्थमनुष्याणां मानसिकावस्थाविशेषाणां विशेषेणाध्ययनम्। अतो हि प्रस्तुतग्रन्थस्य प्रतिपाद्यं सामान्यमनोविज्ञानम्, असामान्यमनोविज्ञानं च; तयोराद्यं निरूपितमित्यतोऽसामान्यमनोविज्ञानस्वरूपविवेचनमेवावशिष्यते । पूर्वस्मिन्न- ध्यायेऽस्माभिः प्रतिज्ञातमपि यदसामान्यव्यक्तित्वविवेचनमग्रतः करिष्यत इति तत्प्रारभ्यते । असामान्यमनोविज्ञानविवेचनीयं ह्यसामान्यव्यक्तित्वमिति तु स्फुटमेव । असामान्य- मनोविकाराणां स्वरूपम्, तेषां हेतु:, तेषां चिकित्सा, चिकित्सापद्धतिश्चेति सर्वं प्रतिपदमनुव्याख्यास्यामः । असामान्यमनोविकारेषु हि खल्वपरस्मारोन्मादप्रभृति- विकाराणामन्तर्भाव इष्यते ।
असामान्यमनोविज्ञानमानसिकचिकित्साविज्ञानयोर्भेदः
सम्पादयतुव्यावहारिकमनोविज्ञानस्य विविधान्यङ्गानि सन्ति यथा - शिक्षामनोविज्ञानम्', मानसिकचिकित्साविज्ञानम्, व्यावसायिकं मनोविज्ञानम्', वैज्ञानिकं' मनोविज्ञानं चेति मानसिकचिकित्साविज्ञानम्, असामान्यमनोविज्ञानं" चानर्थान्तरमिति न वाच्यम्। यद्यपि असामान्यमनोविज्ञानं मानसिकासामान्यवस्थाविशेषाणां सपरिकरमनुव्याख्यानं करोति, तथापि मानसिकचिकित्साविज्ञानं व्यावहारिकमनोविज्ञानस्यैका विशिष्टा शाखा वर्तते, असामान्यमनोविज्ञानं च विवेचनात्मकविज्ञानस्याङ्गविशेष' इति मुहुर्मुहुः स्मर्तव्यम् । असामान्यमनोविज्ञानं हि विशुद्धं विज्ञानम् । वस्तुभूतासामान्यमनोऽवस्थानुगतानु- व्याख्यानपरेणासामान्यमनोविज्ञानेन नूनं मानसिकचिकित्साविज्ञाने महत् सौकर्य्यमापद्यते, तदुपकारकत्वात्। अस्माकं यद् विवक्षितं तदसामान्यमनोविज्ञानमेवेत्यूह्यम्। मानसिक- चिकित्साविज्ञानेऽसामान्यमनोविज्ञानातिरिक्तं व्यावसायिकव्यवहारकौशलमप्यन्तर्भवतीति सर्वमनुसन्धेयम् ।
फ्रायडमहोदयानां वैशिष्ट्यम्
सम्पादयतुअर्वाचीनमनोविज्ञानस्य असामान्यमनोविज्ञानशाखाया वैज्ञानिकशिरोमणिफ्रायड- युङ्ग-एडलरप्रभृतिभिर्यादृशी समुन्नतिरल्पीयस्येव काले सम्पादिता, तादृशी समुन्नति: मानवजातेर्महते कल्याणाय कल्पते । मानसिकरोगाणां चिकित्सापद्धतौ नूनमसामान्य- मनोविज्ञानपारङ्गतैर्मनोविश्लेषणवादप्रवर्त्तकैः फ्रायडमहाभागैरामूलचूडं परिवर्तनं सम्पादितम्। इतः प्राक् सर्वदेशेषु मानसिकरोगिणां दुर्दशा आसीत्। यथा योरपीयदेशेषु तथैव भारतेऽपि मानसरोगिण उन्मादादिपीडिताः पाशैर्निबध्यन्ते स्म । 'भूतपिशाचदेवपितृविशेष- प्रदत्तयातनामयोऽयमुन्मादादिरोगः' इति सामान्यजनानां मान्यता आसीत् ।
युङ्गमतम्
सम्पादयतुकार्लयुङ्गमहोदयोऽपिः प्रथमं फ्रायडमहोदयानां शिष्य एव आसीत्; किन्तु कियत्कालानन्तरं सस्वकीयं स्वतन्त्रं 'विश्लेषणात्मकं मनोविज्ञानम्' इति संज्ञकं सम्प्रदाय- विशेषं प्रवर्तितवान्। मनोविश्लेषणवादमभ्युपगच्छन्नपि स केषुचिद् मौलिकराद्धान्तेषु फ्रायडमहोदयाद् वैमत्यं प्रादर्शयत्। संस्कृतविद्वद्वरेण्येभ्योऽयं खलु हर्षविषयो यदयं स्विट्जरलैण्डदेशीयो मनोविज्ञानपारावारीणः सुरभारतीवाङ्मयस्याप्युदाहरणानि स्वकीयेषु ग्रन्थेषूद्धरति। तस्य च दृष्टिकोणस्य भारतीयदर्शनेन सह भूयिष्ठं साम्यं वर्तते।
निद्राविहारः
सम्पादयतुआसीदस्माकं मित्रं गौरीशंकरसेनो नाम वङ्गदेशीयः । काशिकहिन्दूविश्वविद्यालयीय- च्छात्रावासान्निद्रायामेवोत्थाय रात्रौ स विश्वविद्यालयाद् बहिर्गन्तुकामो मुख्यद्वारं यदा पिहितं पश्यति, दौवारिकेण च विज्ञाप्यते तस्मै “सार्धद्विवादनं निशीथसमय इदानीं वर्तते, कुलपत्यादेशानुसारमुत्कपाटं द्वारं स तदा कर्तुं न प्रभवति” इति; तदा तस्य निद्रा विलीयते । आत्मानं च विजानीते 'कुतः सः, क्व च स समागत:' इति । पुनः स छात्रावासमभिगच्छति। सम्बन्धव्यवच्छेदस्य निदर्शनभूतोऽयं निद्राविहारः । यावत्कालं निद्राविहारोऽनुभूयते, तावत्कालं वस्तुभूतजगत्परिस्थितिविषयकं किमपि नानुभूयते, स्मर्यते वा। किञ्च निद्राविहारानन्तरं नहि निद्राविहारान्तर्भूतघटनाचक्रमपि स्मर्यते। घटद्वये परस्परमसंश्लिष्टे विभक्तं व्यक्तित्वं व्यक्तित्वद्वैधीभावाय कल्पते।
‘थियोफीलीजानीकॉड’'नामधेय एको बालक आसीत् । यदा स . निकोले नॉरमल एट गुरेट’३ नाम्न्यां पाठशालायामधीते स्म, तदाऽष्टमवर्षादेव स निद्राविहारमनुभवति स्म। कियत्कालपर्यन्तं तेन निद्राविहारो नानुभूतः ; किन्त्वेकोनविंशतितमे वर्षे सम्प्राप्ते १८५९ ख्रीष्टीयसंवत्सरस्य जून - जुलाईमासयो: प्रतिदिनं रात्रौ स निद्राविहारमनुभवति स्म। उद्याने छात्रावासे च कतिपयघटिका यावत् स निद्रायामेव विहरति स्म । एकस्यां रात्रौ तेन सञ्चालकमहोदयो जागरितः । अयं समाचारोऽपि तस्मै प्रदत्तो यदहं वैण्डोमीनगरादागतोऽस्मि। सर्वे तत्र कुशलिन सन्ति । तव पुत्रस्य दन्तचतुष्टयमाविर्भूतमिति । अत्रेदं स्मरणीयं बैण्डोमीनगरे सञ्चालकस्य भार्या आसीत् स्वपितृगृहे। बालकविषयकः संवादोऽपि सर्वथाऽविदित एव तदासीत् ।
स्वतो लेखनम्
सम्पादयतुस्वतो लेखनेऽपि सम्बन्धव्यवच्छेदो जायते । प्राध्यापकप्रवरो जेम्समहोदयः साक्षीकरोति यच्चेतना द्वयोः कक्षयोर्विभक्ता कदाचन जायत इति प्रतीयते । जेम्समहोदयेनोक्तम्–“एकदा मया एका महिला दृष्टा । सा 'प्लेनचेट' नामकेन पट्टिका- यन्त्रसाहाय्येन स्वतो लेखनं कुर्वन्ती आसीत्। तदा सा मयैकं नाम लिखितुं प्रार्थिता किन्तु तस्य पुरुषस्य नाम सा पूर्णतः स्मर्तुं न प्राभवत । केवलं नाम्नः प्रथमार्धमेव सा स्मर्तुमशक्नोत्। एतस्मिन्नेवान्तराले हस्तगृहीतसीसकलेखन्या तया स्वत एव सम्पूर्णं नामोल्लिखितम् इति ।
दृश्यते च बहुवारमपस्माररोगिणोऽङ्गुलिमध्ये सीसकलेखनी यदि प्रविष्टा भवेत्, तर्हि स स्वत एव कागदपत्रे कान्यप्यक्षराणि लिखति, येषां स्मृतिरपि स कर्तुं न प्रभवति। अपस्माररोगिणः कदाचन रक्तान्धदोषग्रस्ता जायन्ते, किन्तु तेऽजानन्तोऽपि अपश्यन्तोऽपि तान् वर्णविशेषान् स्वतो लेखनेन लिखितुं प्रभवन्ति, येषां ज्ञानं प्रत्यक्षप्रभवं तेषु न जायते. विश्वविश्रुतेन फ्रांसदेशीयविनेमहोदयेन केषाञ्चनैवंविधापस्मार- रोगिणां वर्णनं कृतमुपलभ्यते ।
एकान्तरं व्यक्तित्वम्
सम्पादयतुव्यक्तित्वद्वैधीभावस्यैकान्तरव्यक्तित्वस्य जेम्समहोदयेनैकं वृत्तं सर्वोपरि समुद्घाटितम्। पुरोहितप्रवर एन्सैलबोर्नमहोदयः ४ ख्रीष्टीय: पादरिरासीत्।
१८८७ ख्रीष्टीयसंवत्सरस्य जनवरीमासस्य सप्तदश - (१७) तारिकायां प्राविडेंस- स्थानीयबैङ्कधनागारात् पर्याप्तं धनमादाय ट्रामसंज्ञकवैद्युतशकटेऽरोहत्। इदं तु अन्तिमं वृत्तं यत्तस्य स्मृतिपथमवतरति । तद्दिने स गृहं न प्रत्यागच्छत् । सामद्वयं यावत् तस्य किमपि वृत्तं न श्रुतिगोचरं जातम्। ख्रीष्टीयसंवत्सरस्य मार्चमासस्य चतुर्दश - (१४) तारिकायाममेरिकादेशीयपेन्सिलवानियाप्रदेशस्थितनारिसटाउननामके नगरे एक: पुरुष: प्रात:काले भयान्वित उत्थायान्यान् पुंरुषान् स्वगृहे आहूयापृच्छत्--'कुत्र सोऽवतिष्ठते' इति।
तेन पुरुषेण स्वकीयं नाम तत्र 'ए० जे० ब्राउन' इति सुप्रचारितम्, षट्सप्ताहपूर्वं चैकमापणं मासिकार्थवृत्त्यादाय तस्मिन् फललघुवस्तुजातलेखनसामग्रीमिष्टान्नादिकं सङ्गृहीतम्। न कथमपि सोऽकृत्रिमव्यवहारं प्रदर्शयति स्म, यतो हि स शान्तमुद्रयापणिकीं वृत्तिं कृतवान्। समागतान् पुरुषान् प्रति स उवाच - " मदीयं नाम ऐन्सेलबोर्न इति । न खल्वहमापणिकीं वृत्तिं जानामि । विगते दिने घटितमिव यच्च वृत्तं स्मर्यते मया, तत्तु नूनमिदमेव यन्मया प्रॉविडेंसस्थितधनागाराद् धनमादत्तम्” इति।
अनेनेदं विस्पष्टं जायते यदत्र व्यक्तित्वावयवेषु सम्बन्धव्यवच्छेदो गभीरः सञ्जातः, विपुलश्च । अत एवेदम् 'एकान्तरं व्यक्तित्वम्' इति, 'व्यक्तित्वद्वैधीभाव' इति वा निगद्यते। मासद्वयं यावदयं सम्बन्धविच्छेदो व्यक्तित्वार्न्तगतः प्रचलति । अयं खलु व्यक्तित्वविस्फोटः प्रादुर्भवति, आपाततश्च विलुप्तो जायते । उन्माददशायां व्यक्तित्व- व्यवच्छेदः सुगभीरो जटिलश्च भवति ।
उन्माददशालक्षणानि
सम्पादयतुअथातो वयमुन्मत्तदशालक्षणान्यनुव्याख्यास्यामः-
(क) मानसिकव्यापारक्षमता
सम्पादयतुप्रथमं तावदुन्मत्तस्यैषा क्षीयते । स स्वस्थदशाया- मिवोन्मादरोगदशायां चिन्तनस्मृतिप्रयत्नादिकं सम्यङ् न सम्पादयितुं प्रभवति। तस्य मानसिकशक्तिः सामान्यबुद्धिलब्ध्यङ्कादपि न्यूना भवति । प्रायेण जडबुद्धिर्हि स भवति यथा विचारे तथैव स्मृतौ यथा स्मृतौ तथैवेच्छिक - प्रयतने तस्य कार्यक्षमताहास: परिलक्ष्यते, चित्तानैकाग्र्यं च दिनानुदिनं वर्धते। मानसिकः परिमाणात्मकोऽयं दोषो द्विधा विभक्तुं शक्यते- सांसिद्धिकम्, जन्मायत्तमिति यावद्, अनुभवोपार्जितञ्चेति । अथवा जन्मायत्तम्, उपार्जितं चेति । आङ्गलभाषायामेते क्रमशो मनोदौर्बल्यम्', जाड्यं चेति प्रथते । बुद्धिहासाद् ह्युन्मादग्रस्तः सर्वदा बालक- वदपरिपक्वबुद्धिरवतिष्ठते । तदर्थं मातृपितृवत् संरक्षणं लालनं पालनं च सर्वदावश्यकं भवति । स स्वकीयचिन्तां न कर्तुमर्हति । 'जाड्यम्' नाम मूढबुद्धित्वम्। मनोदौर्बल्ये जाड्ये च मनोविकासोऽप्रतिहतगतिर्नैव भवति ।
(ख) वार्धक्यप्रभवं बुद्धिमान्द्यम्
सम्पादयतुजाड्यं बुद्धिमान्द्ये चेत्यनर्थान्तरम्। यदा चेदं वार्धक्यवशादापद्यते, तदा स्मृतिविभ्रंशो जायते । दृश्यते च वार्धक्ये बालानामिव बुद्धिवैभवह्रासस्तेषामपि ये यौवनावस्थायां प्रौढावस्थायां च कुशला व्यावसायिका आसन्। आङ्गलदेशीयमहाकविशेक्सपियरमहाभागेन वार्धक्यस्य निम्नलिखितं कियत्सजीवं चित्रमुपस्थापितम् ! तथा हि- “गौरवान्वितस्यास्य जीवनस्यान्तिमं दृश्यमपरं वात्सल्यमेव भवति विस्मृतिमात्रम्, दन्तविहीनम्, चक्षुर्विहीनम्, स्वादविहीनम्, निखिलवस्तु- विहीनम्”” इति। न केवलं वार्धक्ये, अपि तु विक्षिप्ताद्यवस्थासु बुद्धिमान्द्यं तत्पूर्वमपि प्रादुर्भवति । स्मरणीयमर्जितेन बुद्धिमान्द्येन सह मस्तुलुङ्गीय- संस्थानरचनायामपि दृश्यं परिवर्तनमापद्यते।
(ग) सङ्क्षोभः
सम्पादयतुप्रायः सामान्यास्ववस्थास्वपि वयं सङ्क्षोभं हर्षातिरेक- मनुभवामः, किन्तु नूनमस्योन्माददशांसु विक्षिप्ताद्यवस्थासु चैको विशेषो भवति। तदा रोगी अकारणमुल्लासमनुभवति, अथ चोल्लासस्याभिव्यञ्जना- मस्याधिकसंरम्भेण वेगेन करोति, यस्य सामञ्जस्यं तस्य परिस्थित्या. सह कथमपि नोपपद्यते ।
उल्लासस्य संरभस्य वा विविधा भेदा सन्ति - कदाचन रोगी एकं कार्यमन्तराले विहायान्यदारभते, बहु भाषते, तस्य भाषणमक्रमम-सम्बद्धं च भवति। कदाचनायं सङ्क्षोभः क्रोधरूप:, कदाचन हर्षातिरेकरूपः, कदाचनोत्तेजनारूपश्चेति। तस्य ध्यानं क्षुद्रमपि वस्तु सहसा समाकर्षति, क्षणानन्तरं चास्य ध्यानं तस्माद् विचलति । तस्याकारणं हर्षातिरेको जायते।
(घ) अवसादः – सङ्क्षोभविपरीतरूपोऽवसादो भवति। तत्र रोगी सर्वक्रियासु दीर्घसूत्री भवति। तस्य मानसिकविचारादिकमपि कृच्छ्रेणाभिनिर्वर्तते । दुःखितो म्लानश्च स भवति ।
(ङ) औदासीन्यम् – उन्माददशाया अयं चतुर्थो विशेषः । रोगी अत्र न सक्षुब्धो न चावसन्नो दृश्यते, अपि तु स उदासीनोऽवतिष्ठते । नहि तस्य कस्मि- श्चिदपि कर्मणि रुचिर्भवति। आतुरालये समागता बहुसङ्ख्यका रोगिण औदासीन्ययुक्ता भवन्ति। ते आतुरालस्यैकस्मिन् प्रदेशे एकाकिनो नीचैर्मुखं कृत्वा तिष्ठन्ति । आहूयमाना अपि प्रत्युत्तरं न ददति, नापि गच्छन्त्येव । ते कस्मिन्नपि कार्ये सँल्लग्ना भवितुं नेच्छन्ति ।
(च) निद्राविहारः - अयं विक्षिप्तस्यावस्थाविशेषो वर्णितचरः । अपस्मारोन्मादाद्यभिमुखो रोगी 'विक्षिप्तः'। 'आइरीन' वृत्तान्तस्तस्य चरमं निदर्शनम्।
(छ) विभ्रमः – विभ्रमस्वरूपं वर्णितचरम्। अस्माभिः पूर्वमुक्तं यद् विषयाभावेऽपि यत् प्रत्यक्षं समुत्पद्यते तंज्ज्ञानं 'विभ्रमः' इति निगद्यते । इन्द्रियभेदेन . प्रत्यक्षवद् विभ्रमाणामपि चाक्षुषघ्राणजशब्दजादिभेदा अभिनिर्वर्तन्ते। यदि चाक्षुषप्रत्यक्षविषयाभावेऽपि चाक्षुषप्रत्यक्षं जायेत, तर्हि स 'विभ्रमः' इत्याचक्षते । यदि शुक्तौ रजतभानं जायेत, तर्हि तद्रजतज्ञानं 'भ्रम:' इतीर्यते। सुतरां दुष्टं प्रत्यक्षं द्विविधं भवति-भ्रमविभ्रमभेदात्। उन्मादग्रस्ताः पुरुषाः प्राय आकाशवाणीं शृण्वन्ति । तैर्विविधप्रकारका ध्वनिविशेषा उत्तेजकशब्दाभावेऽपि श्रूयन्ते ।
स शब्दविभ्रमः कदाचन प्रियः, कदाचनाप्रियश्च दृश्यते। एता आकाशवाण्य उन्मादरोगिणो नितान्तरहस्यमयजीवनसम्बन्धि- घटनानां विषये भर्त्सनां श्रावयन्ति । उदाहरणतया, उन्मादपीडितः कदाचन शृणोति-“एते पापानि त्वकृतानि, अचिरेण त्वां मृत्युमुखं नेष्यन्ति” इति । अथवा, “अचिरात्तव वधो भविष्यति” इति । आत्मपरितोषाय उन्मत्तो रोगी प्राय: कल्पनाविशेषनिर्माणं प्रकुरुते; यथा - "स्वर्गस्था मे पितरो भाविनं मद्वधं सूचयन्ति” इति, अथवा “दैवी इयं वाग् मां पूर्वमेव सूचयति पापफलम्” इत्यादि ।
(ज) मूढविश्वासः
सम्पादयतुउन्मादरोगिणां मूढविश्वासा अपि विभ्रमसहकृता अभि- निर्वर्तन्ते। विभ्रमाणायमयमेको विशेषोऽवगन्तव्यो यत् ते मिथ्याप्रत्यक्ष- जन्याः, किन्तु मूढविश्वासास्तु मिथ्याविश्वासा एव । यथा यदि कश्चन शूद्रोऽभिमन्यतेऽहं भारतगणतन्त्रस्य राष्ट्रपतिः, यद्यपि सोऽकिञ्चनो राजमार्गं मार्ष्टि, तर्हि तस्यायं मूढविश्वास एव । उन्मत्तस्यासम्बद्धप्रलापस्येमे मूढविश्वासा साग्रहं प्रतिपाद्यन्ते । काचन शूद्रा मन्यते स्म यत् सा आङ्गत्वदेशीयसम्राट्जार्जपञ्चमस्य सम्राज्ञीति । कारणं विना मूढविश्वासा उन्मादरोगिणा समुत्पद्यन्ते। अत्रेदं प्रतिपत्तव्यं यत्तेषां विश्वासा अकारण- मभिनिर्वर्तन्त इत्यस्माकं वचनं जाग्रच्चैतन्यापेक्षयैवोपपद्यते। वस्तुत उन्मत्तानां विश्वासा गभीरतरज्ञातचैतन्यस्य क्रियाकारित्वं द्योतयन्ति । एवमेव विभ्रमा अपि भावग्रन्थिप्रभावं निर्दिशन्ति । मनोवैज्ञानिक एव, मनोविश्ले- षणविशारद एव जानाति यत्ते ते विश्वासाः कस्माद् हेतोर्जायन्त इति ।
सुतरामेते मूढविश्वासा विशेषेण द्विविधा भवन्ति - गौरवानुबन्धिमुढ- विश्वासाः', त्रासानुबन्धिमूढविश्वासाश्चेति। तत्राद्यो मूढविश्वासस्तदा जायते यदा रोगी आत्मानं सर्वश्रेष्ठं कविमभिमन्यते, यस्य काव्यवैभवं लोकोऽवमन्यते। अथवा "अहं सर्वाधिकसुन्दरोऽस्मि” इति, अथवा "अहं लक्षाधिपतिः ", " अहं राष्ट्रपतिरस्मि" इति ।
द्वितीयप्रकारको मूढविश्वासस्त्रासमयो भवति। यथा- "मदीयं धनवैभवमपहर्तुकामाः सर्वे मद्बधाय षड्यन्त्रं रचयन्ति” इति। “न ते मदीयं काव्ययशःप्रकर्षं चिकीर्षन्ति, अत एव ते निन्दां कुर्वन्ति । भोजनार्थमामन्त्रणेन ते मह्यं विषपानं प्रदास्यन्ति” इति । सर्वत्र त्रासावपीडाद्या- शङ्कासमन्वितोऽयं मूढविश्वासः । प्राय इमौ मूढविश्वासौ युगपदुपलभ्येते। यथा–“मदीयं राज्योत्तराधिकारं वञ्चितुकामा इमे सम्बन्धिनो मन्त्रिणश्च मम वधाय षड्यन्त्रं कुर्वन्ति” इति ।
अस्ति हि तृतीयप्रकारकोऽपि मूढविश्वासः। तस्मिन् समुत्पद्यमाने रोगी सर्वदा शङ्कितो भवति, मन्यते च यत्सर्वे जनास्तमभिप्रेत्यैव वार्तालापं कुर्वन्ति । तद्विषये एव हसन्ति । तं त्रासयितुं विविधानि षड्यन्त्राणि च रचयन्तीति ।
अत्रेदं स्मरणीयं यदुन्मत्तौ गौरवविषयकेण मूढविश्वासेन प्रभावितो भूत्वा स्वकीयगमनविधौ वार्तालापादिषु वस्त्रादिधारणे च किञ्चिद् वैलक्षण्यं वैचित्र्यं वा प्रदर्शयति। तेनेदमनुमातुं शक्यते यदयं गौरवविषयकमूढविश्वासा- न्वितोऽस्ति ? किमुत त्रासान्वितमूढविश्वासान्वितो वा ? इति ।
(झ) भावाभिनिवेशः
सम्पादयतुनहि भावाभिनिवेश: सर्वदा उन्माददशायामुपलभ्यते, तथापि नूनमयं विक्षिप्तावस्थाभिमुखो भवति । यद्यपि रोगी जानाति यदहमुपदंशरोगग्रस्तो नास्मीति, तथापि स उपदंशरोगसम्बन्धितदृढविश्वासं परित्यक्तुं नार्हति। एवम्भूतायां दशायां वयं ब्रूमः अयं भावाभिनिवेश इति । कश्चन रोगी यदा वारं वारं हस्तौ मार्ष्टि, तदायं ‘मार्जनमयो भावाभिनिवेश:' इत्युच्यते । 'इदं मार्जनकर्म मुधैव मया क्रयते इति जानन्नपि रोगी तद्विषयकं भावाभिनिवेशमाभ्यन्तरवेगरूपं परित्यक्तुं न शक्नोति। एवम्प्रकारेण उन्मत्तः शतवारं द्विशतवारं हस्तौ प्रक्षालयति । कदाचन रोगी मन्यते यत्तस्य पुरीषं निर्गतम्, किन्तु निरीक्षणं तन्न समर्थयति। तथापि स भावाभिनिवेशाभिमतो वारं वारं गुदमार्जनं प्रकुरुते । काचिदन्या उन्मादरोगिणी आसीद् यस्या वृत्तं फ्रायडमहाभागेन वर्णितम् । सा कर्गदमुद्रामयं प्रत्येकं पत्रं धनागारादागतं ('बैङ्क नोट' इति आङ्गलभाषायाम्) मत्वा, सावहिता भूत्वा परिगणयति स्म ।
नहि वर्णितचरे मूढविश्वासे रोगी स्वविश्वासस्यानर्हतां विजानीते। तत्रापि मूढग्राहो भवति, साग्रहोऽन्तर्वेगरूपो विश्वासो भवति। केचन वारं वारं स्नात्वापि खल्वात्मानमस्वच्छं मन्यन्ते।
(ञ) अपरिवर्त्यं निरर्थकं कार्यम्
सम्पादयतुउन्मादरोगिणः क्रियाः प्रायो निरर्थिका भवन्ति, अकारणा: प्रतीयन्ते। वर्षारम्भाद्वर्षपर्यन्तं रूढिङ्गतः परिवर्त्यरूपेण क्रियाम्, अङ्गुलीर्वा भुग्नीकृत्य हस्तपरिचालनप्रकारविशेषम्, अथवा शून्ये आकाशेऽङ्गुल्या लेखनम्, पादप्रक्षेपणं वा भूमौ करोति । एका उन्मत्ता स्त्री सततं तन्तुवायवत् तन्तुचक्रं हस्तगत्या अहर्निशं भ्रामयति स्म। क्रियासातत्यं सरभसं व्यर्थक्रियानुष्ठानं वोन्मत्तस्य परमं लक्षणम्।
(ट) वाक्यप्रौढिः
सम्पादयतुकदाचनोन्मत्तः क्लिष्टपदावली प्रयुङ्क्ते । अबद्धवाक्यत्वम्, क्लिष्टपदयोजना, सततं भाषणमित्यादीनि नूनमुन्मादस्य लक्षणानि। रोगिणो वार्तालापे पूर्वापरसम्बन्धाभावो दृश्यते । एकेनोन्मादरोगिणा सहास्माकं यो वार्तालापो हिन्दूविश्वविद्यालयीयातुरालये १९९९ वैक्रमाब्दे सञ्जातः, तस्यैकमंशं वयमत्र पुरस्कुर्मः । तथा हि- (संस्कृतच्छाया)
“इन्दिरे ! इन्दिरे ! नहि त्वद्विना जीवितुमुत्सहे ! एहि, एहि, भो: श्याल ! लम्पट ! जार !! ( पाषाणखण्डेन ताडयति) मामस्माद् गृहाद् बहिर्नय। देहि मे एकं रोटिकाखण्डम् । भो भोः ! एकां धूम्रपानवर्तिं मे देहि” (तदनन्तरं स गीतमारभते । मध्ये मध्ये शतानि कुत्सितानपशब्दांश्च भाषते। क्षणानन्तरं तद्गीतं परित्यज्य रोदितुं प्रवर्तते) इति ।
अथ वयमुन्मत्तलक्षणान्युपसंहरामः । तथा हि-
धीविभ्रमः सत्त्वपरिप्लवश्च पर्याकुला दृष्टिरधीरता च ।
अबद्धवाक्त्वं हृदयं च शून्यं सामान्यमुन्मादगदस्य लिङ्गम् ॥ इति । [१]
भावग्रन्थिस्वरूपम्
सम्पादयतुभावग्रन्थिरिति आङ्गलभाषायां 'कम्प्लैक्स' इति पदेन व्यपदिश्यते। सर्वप्रथममस्य प्रयोगं श्रीयुङ्गमहोदयः कृतवान्। तदनुसारं भावग्रन्थिपदार्थस्तु प्रागुक्तस्य मैकडुगल- शैण्डप्रतिपादितस्य स्थायिभावस्य सदृश एव; किन्त्वर्वाचीनमनोविज्ञानेऽस्य विशिष्टेऽर्थे प्रयोगोऽधुना दृश्यते। भावग्रन्थिस्तर्हि भावातिशयोपेतं वस्तुविशेषोऽभिमुखं विचारनिकाय- सङ्घटनम्, यदवदमनेन तिरोहितं यस्य क्रियाकारित्वं चाज्ञातमिवावतिष्ठते । उदाहरण- स्वरूपम्यो युवा काञ्चन स्त्रीं प्रेयसीमभिमन्यते, लघुमपि प्रत्ययसम्बन्धमवाप्य तस्य प्रेमभावो जागरितो जायते, तां रमणीं चिन्तयतस्तस्योर्वरा कल्पनाऽपि मनोरमं वितानं वितनुते । अहर्निशं स तामेवानुचिन्तयति । तां विना निखिलं जगत् तस्मै शून्यमेव । ऐतादृशी प्रगाढ़प्रेमावस्था भावग्रन्थिरुपतामाधत्ते ।
ये ये भावा विचाराश्च आयान्ति, यदि ते भावग्रन्थिविशेषेण सहानुकूल्यं भजन्ते, ते संरक्षिताः संवर्धिताश्च क्रियन्ते । ये च भावास्तया भावग्रन्थ्या सहानुकूल्यं न प्राप्तुमर्हन्ति, ते खल्ववदमनविषयीभवन्ति, तेषां शक्तिरपि क्षीयते । भावग्रन्थिविशेषाः सामान्यतः स्वस्थपुरुषेष्वपि जायन्ते । यथा राजनीतिकदलानुबन्धिभावग्रन्थिः, लोभभाव- ग्रन्थिश्चेति। नहि भावग्रन्थिविषया युक्तिसङ्गता भवितुमर्हन्ति । भावग्रन्थिप्रकर्षेण व्यक्तिचरिते पक्षपातोऽनुप्रविशति । तस्या व्यक्तेः सर्वे व्यापारास्तत्तद्भावग्रन्थिविशेषानुकूल्येन प्रवर्तन्ते । यथा स्त्रीप्रणयभावग्रन्थिजन्यपक्षपातेन पुरुषस्तस्याः स्त्रीया दोषावगाहनं नैव करोति । तस्या दोषा अपि तद्गुणोपोद्बलकाः प्रतीयन्ते। अथ च राजनीतिदलगतभावग्रन्थिविशेषो यस्य विद्यते स साम्यवादी भारतीयराष्ट्रियकाँग्रेसनिर्वाचनघोषणापत्रं समाजवादाभिमत- समाजरचनाधारशिलाभूतमपि खल्ववमन्यते, किं तस्य दुराग्रहस्य कारणम् ? अत्र वयं ब्रूमः - राजनीतिदलगतभावग्रन्थिरिति ।
भावग्रन्थिप्रभावो निम्नलिखितविशेषानाधत्ते । यथा हि-
(अ)भावग्रन्थिप्रभावं कर्त्ता ज्ञातुं न प्रभवति। अज्ञाततयैव भावग्रन्थिः सामान्यकार्येषु प्रभावमुत्पादयति । एष प्रथमो विशेषः ।
(आ) भावग्रन्थिप्रभाव: साधारणतया प्रतीयमानकारणेभ्यो व्यतिरिक्तो भवति । स तु लाक्षणिकरूपैरभिव्यज्यते । प्रायो विविधान् प्रतीकानुपादाय भावग्रन्थ्यभिव्यक्तिर्जायते । यथा स्वप्नेषु विविधाः प्रतीका मनोगतभावग्रन्थिप्रभावतिरोहितेच्छाभिरभिनिर्वर्तन्ते । एष द्वितीयो विशेषः ।
(इ) मानवो भावग्रन्थिप्रभावाद् वास्तविकं स्वाचरणकारणं नाभिजानाति, प्रत्युत हेत्वारोपणसमुत्थितं कारणमेव स्वाचरणं साधु साधयितुं प्रकटीकरोति । तच्च हेत्वारोपणं स्वमानप्रतिरक्षार्थं कार्यारम्भानन्तरं प्रयुज्यते।
भावग्रन्थिद्वयजन्यः सङ्घर्ष एवावदमनस्य मूलमदम्यं कारणं भवति। तदुत्थमेव हेत्वारोपणं भवति। वस्तुत उन्मादरोगिणां यानि यानि स्वप्नमूढविश्वासाङ्गचेष्टाप्रभृतीनि पूर्वलक्षणानि लिङ्गानि च भवन्ति, नहि तेष्वेकमप्यकारणं भवति। भावग्रन्थिनन्यान्तर्वेगानां दुर्धषत्वादेवाऽबद्धवाक्त्वचित्तचाञ्चल्यादीनि लक्षणानि विक्षिप्तदशायामाविर्भवन्ति। यदि वयं वक्षिप्तस्य क्रियाणां मूलकारणं भावग्रन्थिसङ्घटने परमजटिलेऽन्वेष्टुं धैर्येण प्रयतामहे, तर्हि तासामुपहासास्पदत्वमकारणत्वं वा नूनमचिरेण दूरीभवेत्। नह्युन्मत्तस्य क्रिया- कलापेऽस्तव्यस्तता, असङ्गतिर्वा कुत्रचिदस्ति । यदस्ति तत्तु केवलमास्माकीनं तद्विषयकमज्ञानमेव। जटिलां परिस्थितिं प्राप्योन्मत्तोऽपि मानसिकसङ्घर्षं प्रति युद्धं करोति । यदि तस्याभ्यन्तरिकमानसिकावस्थामीषत्सहानुभूत्या सह वयं ज्ञातुं प्रभवेम, अथ च यदि वयं भावग्रन्थिजन्यलाक्षणिकप्रतीकहेत्वारोपणावदमनोन्मुक्तकल्पनाप्रभृतिरूपाणि अपस्मारो- न्मादलिङ्गानि तलावगाहिविधिना गवेषयितुं प्रभवेम, तर्हि नूनं विभिन्नानि लिङ्गानि एकस्य सामञ्जस्यपूर्णजटिलव्यक्तित्वस्याङ्गभूतानि प्रतीयेरन् ।
उन्मुक्तकल्पना'
सम्पादयतुननु किमुन्मादावस्थायामपि खलून्मुक्तकल्पना अभिनिर्वर्तन्ते ? अत्रोच्यते - कल्पना- प्रकरणेऽस्माभिरुन्मुक्तकल्पनास्वरूपं सङ्क्षेपेण स्फोरितम्; किन्तु स्वस्थो मानव उन्मुक्त- कल्पनाभ्यो दिवास्वप्नाख्याभ्योऽचिरादेव प्रकृतिं वस्तुभूतजगद्व्यापारानुगतामवाप्नोति; परन्तु मानसिकविकृतिमुपगतो मानवो जटिलमानसिकसङ्घर्षे समुपस्थिते यदि सङ्घर्षापनोदाय किञ्चित् कर्तुमसमर्थो भवति, तर्हि स उन्मुक्तकल्पनाभिः प्रचुराभिरात्मानं परितोषयति । उन्मत्तजीवने उन्मत्तकल्पनानां प्राचुर्य्यमहर्निशमनुभूयते । या या इच्छा जाग्रज्जीवने परितोषमवाप्तुमसमर्था जाता; ताः सर्वाभावग्रन्थिसङ्घटनेन तिरोधीयन्ते । यथावसरं ता अज्ञातचैतन्यक्षेत्राज्जाग्रच्चैतन्यक्षेत्रं स्वप्नद्वारेणोन्मुक्तकल्पनाद्वारेण वानुप्रविशन्ति । अवसादो- न्माददशायां यदा रोगी उदासीनो भूत्वा सामाजिकजीवनादुपरमते, कक्षस्य दूरस्थे
कोणेऽवतिष्ठते, प्रतीयते चेदं यत् स जडबुद्धिर्वा मूर्खो वा अस्तीति, तदापि स कुशाग्रबुद्धिरात्मनात्मानमनुप्रविश्य महोन्मुक्तकल्पनाजालप्रसरं वितनोति । तासु तासु कल्पनासु सोऽलब्धपूर्वं शौर्यं कीर्ति धनं प्रेयसीकृपाकटाक्षमवाप्नोतीति कल्पते। एतावता आत्मदैन्यजन्यदौर्बल्यापनोदं जाग्रदवस्थादुर्लभं स सुविस्तीर्णे कल्पनाक्षेत्रे उर्वराभूमिसम्पन्ने स्वैरं कर्तुमर्हति। एतावता तस्य स्वाभिमानाख्यस्थायिभावस्य पूर्त्तिर्यदि स्वस्थदशायां विषमपरिस्थितिसामाजिकमर्यादावशान्न सम्भाव्यते, तर्हि साडानायासमुन्मुक्तकल्पनाद्वाराऽ- वाप्यते। अत एवोन्मत्तस्योन्मुक्तकल्पनाश्रयणमपि नूनमात्मप्रकाशनसाधनम्। ‘आत्म- प्रकाशनम्' नाम सजातीयेषु स्वबन्धुबान्धवादिष्वात्मगौरवातिशयाभिव्यक्त्या अदम्याकाङ्क्षा- मुखेन वैशिष्ट्योपपादनमिति ।
उन्मादरोगी उन्मुक्तकल्पनासु एतादृशमानन्दमुपैति यत्तस्य ताभ्य उन्मुक्तकल्पनाभ्यः पुनरावर्तनमेव दुष्करम्, अत एव पुनः स बाह्यजगतो वातावरणेन सार्धं सामञ्जस्यं स्थापयितुं न प्रभवति। उन्मादस्य उन्मुक्तकल्पनानुरोधाद् द्वैविध्यं तु साधयितुं शक्यते । प्रथमं तावत् सावस्था, यस्यां रोगी बाह्यजगतो व्यापारेषु किमपि सारवत्तत्वं नहि पश्यति। द्वितीयं चोन्मुक्तकल्पनारूपं प्रकर्षमुपगतं भवति यस्मिन् नूनमुन्मादरोगी स्वीयोन्मुक्तकल्पनानुगतविषयान् वास्तविकान् मन्यते । अत्र दिवास्वप्नानुगतोन्मुक्तकल्पना- स्वप्नानुगतोन्मुक्तकल्पनयोर्यदन्तरं स्वस्थं मानवमस्वस्थात् पुरुषात् किं वा सामान्यजन- मसामान्यजनाद् व्यावृत्तं करोति, तदपि सर्वथा विलुप्तं जायते ।
उदाहरणस्वरूपम्, अवदमनविषयीभूतेच्छाभिव्यक्तिरूपाणामुन्मुक्तकल्पनानां निर्दशनरूपतया 'बिवाहप्रतिश्रुतिमयं प्रलपनम्” इति। रोगिण्या विवाहप्रस्ताव एकेन युवकेन सह निश्चितो जातः। तदनु स प्रस्तावो वरपक्षीयैस्तिरस्कृतः। सुतरामेवंविधा रोगिणी उन्मादग्रस्ता मन्यते स्वकीयोन्मुक्त- कल्पनाद्वारेण यत्तस्याः प्रियतमः पुनस्तां परिणेतुं समुत्सुको जातः, अथवा तया सह विवाहकाले वेदीं परितः साप्तपदीनमाचरतीत्यादिकम्। उन्मुक्तकल्पनायां भाविजीवनस्य दाम्पत्यप्रणयपराकाष्ठारूपस्य चरमा परिणती रोगिण्या वस्तुभूतत्वेन हि खल्वनुभूयते ।
स्वप्नानुगतं प्रतीकाभिव्यञ्जनम्
सम्पादयतुफ्रायडमहाभागै स्वच्छन्दप्रत्ययसम्बन्धप्रयोगेषु दृष्टं यद्रोगिणः प्रायः कष्टप्रदानि चिन्ताजनकानि' वस्तुजातानि पूर्वानुभूतानि स्मर्तुमभिव्यञ्जयितुं वा न प्रभवन्ति, अथवा तदभिव्यक्तौ सङ्कोचविशेषानुभवं कुर्वन्तीति । अतस्तैरवदमनविवेचनीयं मतं प्रतिपादितम् । तद्यथा-अहङ्कारचैतन्यम् 'ईगो' इति संज्ञकं स्मृतिविचारेच्छादिकमनभीष्टप्रियमज्ञात- चैतन्येऽवदमनविधिना प्रेषयति प्रचोदयतीति वा । यदा च मनोविश्लेषणविशारदस्तं जाग्रच्चैतन्यक्षेत्रस्तरमानेतुं प्रयतते, तदा तदेवाहङ्कारचैतन्यं तस्य प्रयत्नान् विफलीकरोति । अवदमनविषयीभूताः पदार्थाः प्रायः कामप्रवृत्तिमूलका भवन्ति, ते च सततमात्मनो बह्निः प्रकाशमिच्छन्ति ।
तेषां भावग्रन्थिप्रभावायत्तावदमनानां पदार्थानामाकलनम्, इदमित्थन्तयावधारणं रोगिणः स्वप्नविमर्शमुखेन कर्तुं शक्यत इति फ्रायडमहोदयाना- मभिसन्धि। अत्रेदं प्रतिपत्तव्यं यद्धि ये ये तिरोभूता भावा बहिर्गन्तुमिच्छन्ति, परन्तु अहङ्कारचैतन्येनान्तराले बाध्यन्ते, तेषामभिव्यक्तिरेकेनाऽपरोक्षप्रकारेण सौकर्य्येणापदयितुं शक्यते। यदा रोगी नूनमतिविस्रब्धं सहृदयं सहानुभूतिमयं हितैषिणं मनोविश्लेषणविशेषज्ञं विन्दति, तदा स तस्मै स्नेहात् गोप्यानपि स्वमनोगतभावान् क्रमबद्धतया, अक्रमबद्धतया वा प्रऴटीकरोति। एवम्प्रकारेणाहङ्कारासादितः प्रतिरोधः कालक्रमेण क्षीयते ।
अथ च स्वप्नानुव्याख्यानं दुष्करमापादनीयम् । नहि मनोऽन्तर्निहितावदमन- विषयीभूता इच्छा: साक्षात् प्राकट्यं लभन्ते, प्रत्युत प्रतीकाधानेन लक्षणाशक्तिमार्गेण तेषामभिव्यञ्जनं निष्पद्यते। स्वप्नगतदृश्यानि ह्यवदमनगतकल्पनाप्रतिमानां स्थानं गृह्णन्ति । अतः स्वप्नानुव्याख्यानं तदैव सौकर्य्येणाभिसम्पद्यते, यदा वयमिदं ज्ञातुं प्रभवामः- किं दृश्यं कस्य कल्पनाप्रतिमाविशेषस्य प्रतीकविशेषत्वेन प्रयुज्यते ? इति । एतस्यां दिश्येका सुविधा विद्यते, यतो हि व्यक्तिगतमानवस्य जीवने सामूहिकरूपेण मानवजातेश्च जीवने प्रतीकाधानं प्रायः साम्येन प्रसरति। तच्च ग्रामकथासु, लोकगीतेषु, पौराणिकसाहित्ये च सर्वदेशेषु प्रकाममुपलभ्यते ।
वयमत्र सङ्क्षेपत एकं स्वप्नं निदर्शनरूपेणानुव्याख्यास्यामः। एकया स्त्रिया कदाचित् स्वप्ने दृष्टं यत्तस्याः पृष्ठत एकोऽश्वोऽनुधावति । अयमश्वः सा चैकस्मिन् सागरे परितौ जातौ। तौ च नीलचित्रितजलपोतमभितर्तुमुपक्रमेते स्म इति । इयं महिला स्वकार्येऽतीवानुरक्तासीत् । सा च विवाहमप्यनावश्यकमभिमन्यते स्म । कथं तर्हि उपरतायास्तस्या अयं स्वप्न उपपद्यते ? अत्रोच्यते - गवेषणानन्तरमिदं प्रकटीभूतं यत् तामेको नवयुवकः प्रीणाति स्म । यद्यपि सान्येषां समक्षं तं सततमनिन्दयदेव । स पुरुष एकस्य द्वीपस्याधिवासी आसीत् । तस्य विशेषाभिरुचिः पोलोसंज्ञकाश्ववारक्रीडायामासीत्। सोऽश्वानामवचयनविशेषज्ञोऽप्यासीत् । तेन स्वस्थानं 'नीलं द्वीपम्' इति प्रकटितम् । स उपनिवेशेष्वाङ्गलदेशीयेष्वेकः पदाधिकारी आसीत् । तस्येयं प्रकृष्टेच्छा जाता यत्तां परिणीयोपनिवेशविशेषं नयेयमिति ।
अत्रेदं वक्तव्यं भवति - सागरे पतनं जलपोतमभितरणं च द्योतयति यत् सा तेन युवकेन सार्धं जलपोतद्वारा गमनमभिकाङ्क्षति । यद्वयं साक्षात् स्पष्टतया वक्तुमभिव्यञ्जयितुं वा नाभिकाङ्क्षामहे, तत् प्रच्छन्नरूपेण स्वप्नानुगतदृश्येषु प्रतीकाधानेनाभिव्यज्यते । अथ च यथा सङ्केतभाषया रहस्यगर्भितसूचनाः प्रेष्यन्ते, तथैव स्वप्नानुगतदृश्येषु सूक्ष्म- चैतन्येन, अज्ञातचैतन्येन वा तिरोहितकल्पनाप्रतिमा, भुग्नीकृताः प्राकट्यं लभन्ते; यतो हि स्वप्ने उन्मुक्तकल्पनासु चाहङ्कारनियन्त्रणं नोपलभ्यते। किञ्च स्वप्नानुगतनीलवहित्र- वर्णनेन ‘नीलं द्वीपम्’ इति लक्षितम्। स्वप्नदर्शनेनेदं स्फुटं जातं यत्सा रमणी यावत्तं पुरुषं प्रीणाति, तद्विषये चिन्तयति च, तावन्नहि सा जाग्रदवस्थायामनुभवति प्रकटीकरोति चेति ।
ननु किम्प्रकारकमिदं प्रतीकाधानम् ? फ्रायडमहाभागा मन्यन्ते यद् मानवशरीरस्य प्रतीकरूपं गृहं भवति । शिश्नस्य प्रतीकभूतानि यष्टिस्तम्भवृक्षसीसकलेखनी (पेंसिल- इत्यार्यभाषायाम्) प्रभृतीनि भवन्ति । दाडिमसेवकलशादयः कुचप्रतीकाः। व्यवायश्च नर्तनवृक्षाधिरोहणाऽभिमर्शनादिबलप्रयोगादिभिः प्रतीकैः संसूच्यते। जलान्तर्गमनं प्रसूतिकार्यप्रतीकरूपम्। स विविधपुराणेतिहासप्रमाणैः स्वमतोपपादनं प्रकुरुते । यथा स्त्रीविषये ख्रीस्तकृत‘बाइबिल' नामकपुस्तिकायामुदाहृतं 'दुर्बलतरं पात्रम्' इति तस्या अबलात्वस्य प्रतीकरूपम् ।
अत्रेदमस्माभिर्वक्तव्यम् - प्रतीकाधानं व्यक्तिज्ञानादिकमपेक्षते । अत एव मनो- विश्लेषणविशारदेन रोगिणो मानसिकावस्थापारिवारिकवातावरणानुशीलनपूर्वकमेव प्रतीकानुव्याख्यानमापादनीयमिति ।
स्वच्छन्दप्रत्ययसम्बन्धपरीक्षणम्
सम्पादयतुस्वच्छन्दप्रत्ययसम्बन्धप्रयोगो युङ्गमहोदयेनाऽतीव साफल्येन भावग्रन्थिविशेष- स्वरूपान्वेषणाय प्रतिपादितः। तद्विधिस्तु प्रत्ययसम्बन्धविवेचनावसरे प्राग्वर्णितः। अत्र वयमेकं युङ्ग-पीटर्सनप्रयुक्तं प्रयोगविशेषमुदाहराम:, येन भावग्रन्थिक्रियारूपं स्फुटं जायेत ।
क्रमः | उत्तेजकः शब्दः | प्रतिक्रियाकालः | सेकण्डाख्यं प्रतिक्रियाकालखण्डम् |
१. | शिरः | केशः | १.४ |
२. | हरितम् | शाद्वलम् | १.६ |
३. | जलम् | गभीरम् | ५.० |
४. | यष्टिः | क्षुरम् | १.६ |
५. | दीर्घः | चतुष्पादपीठः | १.२ |
६. | बहित्रम् | (जले) निमज्जति | ३.४ |
७. | पृच्छम् | उत्तरम् | १.६ |
८. | ऊर्णा | सीवनम् | १.६ |
९. | ईर्ष्यामयः | मित्रम्, मैत्रीभावयुक्तः | १.४ |
१०. | दीर्घिका | जलम् | ४.० |
११. | रुग्णः | अनामयम् | १.८ |
१२. | मसिः | कृष्णा | १.२ |
१३. | तरतु | तर्तुं शक्नोमि | ३.८ |
यस्येयमुपरिनिर्दिष्टा तालिका प्रस्तुता, तेन रोगिणा अवसादोन्मादावस्थायां किञ्चित्पूर्वं जलप्लावनेनात्महत्यां कर्तुं व्यवसितम्। इदं भावग्रन्थिरूपमुपर्युक्तेष्वधस्ता- द्रेखाङ्कितेषु ३, ६, १०, १३, सङ्ख्याविशेषेषु प्रत्युत्तरप्रत्ययसम्बन्धेषु स्फुटं जायते । स्मरणीयमस्मिन् विषये यदत्राधिकतरकालोऽप्यपेक्षितः । त्रयोदशे चोत्तरे तु प्रतिक्रियाशब्दः किञ्चिद्भावग्रन्थ्यभिमुखं वैलक्षण्यमादधाति ।
एवम्प्रकारेण शब्दशतमुच्चार्य्य प्रतिक्रियाकालं चावधार्य कश्चन भावग्रन्थिविशेष इति मनोविश्लेषणापारङ्गतेनावधारणीयम् ।
मनोविश्लेषणम्
सम्पादयतुसम्मोहनस्य स्वच्छन्दप्रत्ययसम्बन्धस्य च भावग्रन्थिक्रियाकलापाकलनार्थं सपरिकरं विवेचनं सम्प्रस्तुतचरम् । कश्च सम्मोहनोपयोगः सामान्यमानसिकरोगाणां चिकित्सायै भवतीत्यपि वर्णितचरम्। सम्मोहनविधिर्जटिलो दुःसाध्यश्च भवति । कदाचनायमकुशलेन प्रयुक्तः प्राणसङ्कटमप्यभिनिर्वर्तयति । अत एव फ्रायडमहाशयेनैकः स्वतन्त्रो विधिराविष्कृतः। स विधिरसामान्यमनोविज्ञाने मनोविश्लेषणवादनाम्ना प्रथते । 'मनोविश्लेषणम्' इति पदं सूचयति यदस्मिन् विधौ मनोव्यापाराणां विश्लेषणं कृत्वा मनोवैज्ञानिकोऽसामान्य- मनोविकारविशेषस्य चिकित्सां सम्पादयति, उन्मत्तपुरुषाय विलुप्तं व्यक्तित्वसन्तुलनं पुनरनेन विधिना सुलभं करोति । कश्चासौ विधि : ? अत्रोच्यते - मनोविश्लेषणं नाम फ्रायडप्रतिपादितस्य राद्धान्तस्याधारशिलेत्यनवद्यम्।
अनेन तिरोभूतानामवदमनविषयीभूतानां भावग्रन्थिप्रभावायत्तस्वरूपाणामज्ञातचैतन्यगर्भीकृतानामपूर्णेच्छानां मनोविश्लेषणविदोद्घाटनं क्रियते । नहि तत् साधारणदशायां सौकर्येण कर्तुं शक्यते, नापि सामान्यजनेनैव । अत: फ्रायडमहाशयेन चतुरस्रमेतन्मनोविश्लेषणं नाम तन्त्रं पल्लवितम्। मनोविश्लेषणे हि खलु रोगिणा सार्धं चिकित्सकः स्वैरं वार्तालापं कुरुते । रोगी स्वैरं स्वतन्त्रो भूत्वा स्वमनोगतभावान् मनोविश्लेषणविशारदसम्मुखं कथयति, तस्य वार्तालापो निर्बन्धो भवति। प्रारम्भे यावन्न रोगिणा सङ्कोचो दूरीक्रियेत, तावन्न तस्यावदमनतिरोहितेच्छानामज्ञात- चैतन्यवर्तिनां सम्यगवधारणं कर्तुं शक्यते । कियत्कालानन्तरं रोगी विशेषज्ञं मित्रमिव निरापदं मन्तुमारभते, ततश्च स तस्मै निःसङ्कोचं स्वमनोभावान् प्रकटयितुमारभते ।
निर्गलितलोकमर्यादाबन्धेन वार्तालापेनानेन विशेषज्ञास्ताँस्तान् मनोविकारानपि ज्ञातुमर्हति, यान् स रोगी स्वयमपि नावबुध्यते । फ्रायडमहाशयो निश्चप्रचं निर्णीतवान् यद्यदा रोगी स्वविचारधारां मार्गविशेषे नहि प्रवर्तयितुं यतते, तां वा यदा लोकमर्यादाभयेन नियन्त्रयितुं नहि प्रयतते, तदानायासमज्ञातचैतन्येन प्रेरितः क्रियाकलापस्तस्य वार्तालापेऽभिव्यज्यते, कुशलश्च मनोविश्लेषणविशारदः स्वप्नविश्लेषणासाहाय्येन स्वतन्त्रप्रत्ययसम्बन्धप्रयोगेण च रोगिणो भावग्रन्थिसङ्घटनस्य तलावगाह्यध्ययनं कर्तुमर्हति यच्च भावग्रन्थिसङ्घटनं कारणरूपतयोपादाय विविधानि विक्षिप्ताद्यवस्थानामपस्मारोन्मादीनां लक्षणानि पूर्वलक्षणानि वाविर्भावयति। अनेन विधिना फ्रायडमहोदयोऽवदमनगर्भीकृतानामिच्छानामुद्घाटनं कर्तुं प्रभवति स्म। तेन च सहस्रशो रोगिणामपस्मारजन्यार्धाङ्गा'ऽङ्गसंज्ञाशून्यत्व'विक्षिप्तंभय'- त्रासावदमन प्रभृतिरोगाणां सफला चिकित्सा सम्पादिता । कदाचन त्वेवं जातं यदेकदा चिकित्सिता रोगिणी पुनस्तदितरव्याधिविशेषेण पीडिता सती पुनरागता । तदा फ्रायडमहोदयेनाऽनुमितं यत्तेन यच्चिकित्सितं तत्तु कश्चिदभिनवभावग्रन्थिजन्यविक्षिप्ता- वस्थाक्रियाकलाप एव, न तु तत्पूर्ववर्तिभाववेदनाविशेषः' (संवेगजन्याकस्मिकवेदनेतियावत्)। ततश्च स तदन्वेषणे सँल्लग्नो जातः ।
स्वप्नविश्लेषणेन काश्चन रोगिण्यो महिला बाल्यकालिकसंवेगजन्याकस्मिकवेदनाविशेषानस्मरन् । ताभिः स्मृतं यत्ता: पित्रा, पितृव्येण, अग्रजेन, भ्रात्रा वाऽभिमर्शिता इति । फ्रायडमहोदयेनाऽध्यवसितं यद्यत् ताभ्यः स्मृतं तत्तु स्मर्तुः बाल्यकालिको दिवास्वप्नः, बाल्यकालिकी उन्मुक्तकल्पना वेति, यच्चाऽतिशैशवानुभूतबाल्यसुलभाभिलाषविशेषस्य मूर्तं रूपमिति । अतिशैशवस्या- पूर्णाभिलाषस्याभिव्यक्तिरूपो हि तदुत्तकालिको दिवास्वप्न उन्मुक्तकल्पना वेति । मनो- विश्लेषणद्वाराऽतिशैशवोचितभावसङ्घटनस्य स्वरूपस्य तलस्पर्शिना प्रत्युद्बोधनेन स्वतन्त्रप्रत्ययसम्बन्धप्रयोगोपात्तेन तदुत्तरकालिकविक्षिप्तावस्थालक्षणानां कारणविशेषा- वधारणेनापाकारणं कर्तुं शक्यत् इति तेषामाकूतम् ।
मनोविश्लेषणविधिनेदमुद्धाट्यते यद् विक्षिप्तावस्थालक्षणानि नूनमवदमनविषयी- भूतमनोवेगानां प्रतिक्रियाजन्यविरूपमात्राणि । यथा - हीनताभावजन्यावदमनेन तदनुवर्ति- स्वगौरवोत्कर्षेच्छावदमनेन च रोगिणोऽयं मूढविश्वासो जायते यत्स राष्ट्रस्य समग्रराजपुरुषैः गुप्तचरैश्च सकलैरहर्निशमनुस्त्रियते । अत्र नूनं रोगी जाग्रद्दशायामस्य राजपुरुषातिक्रमणस्य साग्रहं सक्रोधञ्च विरोधं कर्तुमभिवाच्छति, तथा तेनाज्ञाततया किमप्यनिर्वचनीयं सन्तोष- मनुभूयते यत्स सकलजनानामीर्ष्याजनकं गौरवं बिभर्तीति । विपुलधनैश्वर्यविषयकमूढ- विश्वासैर्गौरवान्वितोच्चपदविषयकमूढविश्वासैर्वा सदृशं ह्याकाशवाणीश्रवणसमुत्थानां विभ्रमाणामप्युपेयं प्रतिपत्तव्यम् । या स्त्री उच्चैरुपालभते यद्रात्रौ पुरुषाः पुरुषविशेषो वा तस्याः कक्षं प्रविशति, सा नूनममुमुपालम्भं वास्तविकमेव मन्यमाना ब्रूते ।
अत्रापि तया कश्चनाभ्यन्तरनिर्वृत्तिविशेष एवानुभूयते, यं सा कदापि जाग्रद्दशायां नैव विदन्ते, ज्ञात्वा वा जाग्रद्दशायां-कदाप्यवाप्तुं नार्हतीति । या च स्त्री सर्वदा उपालभते यत्तस्यामेव सर्वे जना अनुरक्ता भवन्तीति, तस्या अयं मूढविश्वासोऽपि नूनं प्रत्याक्षेपस्य चरमं निदर्शनम्। प्रत्याक्षेपो नाम मनोव्यापारविशेष: फ्रायडमहोदयस्य साधनतन्त्रविवेचनावसरे वर्णितचरः। प्रत्याक्षेपाख्ये मनोव्यापारे स्वाभिमतोद्देश्यानामन्येष्वारोपणमभिसम्पाद्यते।
यथा कश्चन स्वीयं सामाजिकहीनताभावमसहमानोऽन्येषां समेषां सामाजिकमाभिजात्यं पदगौरवं वा सन्देग्धि, एवम्भूतमेव प्रत्याक्षेपरूपं तस्याः स्त्रियाः खल्विदमुपालम्भनमिति।
ननु कथं मनोविश्लेषणविशेषज्ञेन तेन विक्षिप्तावस्थारूपविशेषा अपाक्रियन्ते, निवार्यन्ते, चिकित्स्यन्त इति ? अत्रोच्यते - मानसिको व्याधिर्मानसिकमुपचारमपेक्षते, यथा चास्य मानसिकमेव कारणन्विष्यते मनोविश्लेषणविशारदैः, तथैवास्यौषधमपि मनोवैज्ञानिकमेव भवितुमुचितमिति सर्वोपरि चिकित्सकेन निश्चप्रचमभ्युपेतव्यम्। इयं प्राथमिकी मौलिकी वावश्यकता।
द्वितीयावश्यकता चेयमस्ति यद्धि रोगिण आनुकूल्यं चिकित्सकेन सार्धं भवेदिति। नहि रोगिणः सहयोगमन्तरा तस्य मनोविश्लेषणं कर्तुं शक्यते। किं तावन्मनोविश्लेषणं नाम, रोगिसहयोगादृत्ते तेन सह वार्तालापोऽपि न सम्भाव्यते ! अथ चेदमानुकूल्यं तावन्न सम्पादयितुं शक्यते यावन्न चिकित्सकः परमः श्रद्धेयः, हिताकाङ्क्षी, विश्वास्यश्च भवेत्, तथा च रोगिणा ज्ञायेत प्रतीयेतापि च।
तृतीयावश्यकता खल्वियं वर्तते यच्चिकित्सको लोकलज्जां स्वीयमानमर्यादां शिष्टाचारविचारविवेकं त्यक्त्वा विशिष्टरोगिहिताकाङ्क्षया तदभावविचारकल्पनाभूमिमवतीर्य तदनुकूलमनोविश्लेषणोपयोगिप्रष्टव्यानि स्वच्छन्दप्रत्ययसम्बन्धमन्विष्यन् प्रष्टुमभिप्रवर्तेत। यदि मनागप्यन्तरं चिकित्सकविक्षिप्तरोगिणोर्मानसिकस्तरयोर्विद्यते, नूनं तर्हि मनोविश्लेषण- मसाध्यम्; सम्पन्नं वा विप्रदुष्टं भविष्यति ।
ननु कथङ्कारं मनोविश्लेषणं विप्रदुष्टं जायते ? अत्र वयं ब्रूमः - तलावगाहनराहित्यं नाम मनोविश्लेषणस्य विप्रदुष्टत्वमिति । अतश्चिकित्सकरोगिणोर्मानसिकभूमिसाम्यं नितरामपेक्ष्यते।
सुतरां तावत् खल्विदं विनिश्चित्य यदसामान्यासु विक्षिप्ताद्यपस्मारोन्मादादिरोगा- वस्थासु सर्वाणि लक्षणानि चावदमनविषयीभूतानामज्ञातचैतन्यगर्भीकृतानामिच्छानाम- सामान्यविरूपाभिव्यञ्जनरूपाण्येवेति। मनोविश्लेषणात्मकचिकित्सापद्धतेर्हृदयसर्वस्वं तु तथाभूतानामिच्छानां जाग्रच्चैतन्यक्षेत्रे पुनरावर्तनं पुनरुद्बोधनं पुनः स्वीकरणं चेति । योऽवस्थाविशेषः पूर्वमवदमनविषयीभूतत्वात्तिरोहितो जातः, यदि स पुनरुद्बोधयितुं पुनरावर्तयितु शक्यते, तदनन्तरं च यदि स न तिरोधत्ते, तर्हि किं तेनासामान्यावस्थापूर्व-लक्षणविशेषेण, यद्ययं तदन्वप्यवशिष्यते! यतो हि विक्षिप्तावस्थायाः पूर्वलक्षणं नाम अस्माभिस्तिरस्क्रियमाणप्रवृत्तीनामभिव्यञ्जनम्, यथाऽन्ये जनास्तास्तथाभूतत्वेन नावगाढुं शक्नुवन्ति । अत एव यदा वयं ताः प्रवृत्तीस्तिरस्कर्तुं न प्रयतामहे, तत्सम्बन्धीनि तानि तानि पूर्वलक्षणानि' अप्यचिरेण दूरीभवन्ति । ननू वर्णितपूर्वे विक्षिप्ताद्यवस्थानां मूलं कारणन्तु भावग्रन्थिद्वन्द्वसमुत्थम्, तत्तु सम्प्रत्यप्यवतिष्ठते? बाढम्, भावग्रन्थिद्वन्द्वं तु साम्प्रतमप्यवतिष्ठते, किन्तु तं मानसिकसङ्घर्षमपनेतुं वयमधुना जाग्रद्दशाया मवबोधदशायामेव शक्नुमः ।
मानसिकद्वन्द्वविस्रंसनं चाध्यवसायेन सुदृढेन, किं वा भावग्रन्थि विशेषयोर्द्वयोर्मध्ये सामञ्जष्यस्थापनेन गुणावगुण- शक्याशक्य- हिताहितविवेक- पुरस्सरमुपात्तरूपेणानुकूल्येन च जाग्रद्दशायामेव रोगिणा कर्तुं शक्यत इति निष्प्रत्यूहम्। अवदमनं तु मानसिकसङ्घर्षापनयनस्यातीव विगर्हितं साधनम्। तस्य परिणामरूपाण्यस्माकं स्वकीयं नियन्त्रणमतिक्रामन्ति । अवाञ्छनीयानामस्माकं प्रवृत्तीनामवदमनेन, अथ च तिरोधानेन वयं तासां नितरां वशवर्तिनो भवेम । यादृशी परिक्लृप्ता, दुःसह्या, पूर्णा चास्माकं विवशतावदमनेनासाद्यते, नहि तादृशीं विवशतां वयं तदानुभवामो यदा तासां स्पष्टं ज्ञानं जाग्रद्दशायामेव, अवबोधदशायामेवानुवर्तेत । यदि च वयं तादृशीनां प्रवृत्तीनामुन्नयनं मार्गान्तरीकरणं वा कर्तुं प्रभवेम, तर्हि तत्तु नितरां समीचीनमेव ! तत्र तु विवशताया वार्तैव कुतः !
अत्रेदं स्मर्तव्यं यद् यावद्रोगिणो भावसङ्घटनं मनोविश्लेषणविशेषज्ञो जानाति, तावत्कोऽपि न जानाति, न ज्ञातुमर्हत्येव । अत आनुकूल्यमुपस्थापयितुं भावग्रन्थिसङ्घर्ष- मपाकर्तुमवाञ्छनीयमनःप्रवृत्तीनामुन्नयनं मार्गान्तरीकरणं सम्पादयितुं च तस्य सहयोग: दूरदर्शिताः, सौजन्यम्, पथप्रदर्शनं च सर्वदा पदे पदे रोगिणाऽपेक्ष्यते। तत्तथैव करणीयम्, यथानुकूल्यापादने मनागपि वैषम्यं रोगिणं न प्रतीयेत।
अपि चेदं स्मर्तव्यम्-रोगिणो भावेच्छाविचारप्रवृत्तीनामुन्नयनं तदनुकूलत्वेनैवा- पादनीयम्, न तु मनोविश्लेषणवेत्तुर्विचारादिदिशा तत् सौकर्येण सम्पादयितुं शक्यते। यादृशा रोगिणो धार्मिकनैतिकसामाजिकाचारविचारानुबन्धिविश्वासा भवेयुः, तादृशा एव समुचिता इति वाचोयुक्तिमेव श्रद्दधानेन मनोविश्लेषणविशारदेन रोगिपथप्रदर्शनरूपं स्वकार्यं परिपालनीयम्। आनन्दकन्दश्रीकृष्णचन्द्रस्येयमुक्तिर्हि खल्वसामान्यमनोविकार-ग्रस्तस्यावस्थाविशेषमुद्दिश्यात्यर्थं सङ्गच्छते-
श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ इति । [२]
किञ्च–
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।
जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन् ॥ इति । [३]
बुद्धिदौर्बल्याद्धि विक्षिप्ताद्यवस्थाग्रस्तानां रोगिणामभिनवेन विचारसरणिविशेषेण नूनमुन्नयनं मार्गान्तरीकरणं वानुकूल्योपस्थापनं वा दुष्करं भवतीति प्रतिपत्तव्यम् । अतस्तेषां मनोविंश्लेषणानन्तरं पथप्रदर्शनं तत्प्रवृत्तिविचारधार्मिकास्थानुरोधादेवापादनीयम् ।
मानसिकरोगविशेषाः
सम्पादयतुफ्रायडमहोदयानां तदनुयायिनां च मतानुशीलनान्तरं पञ्चविधा असामान्यमनो- विकाराणां विक्षिप्तावस्थाविशेषा र अवधार्यन्ते । ता यथा-
१) अपस्मारः – मानसिकद्वन्द्वजन्यत्वम्, पक्षाघातयुक्तत्वम्, शरीरावयवविशेषसंज्ञाशून्यत्वं चास्य लक्षणानि ।
२) अन्तर्वेगोन्मादः ५ अस्य विविधा भेदा अभिनिर्वर्तन्ते । यथा-
(अ) भयोन्मादः-उच्चस्थानतो दुर्गवच्चतुरस्रं पिनद्धद्वारस्थानतश्च भयमस्य लक्षणम्।
(आ) मूढाभिनिवेश: ।
(इ) अन्तर्वेगाभिनिवेश: - यथा स्तेयान्तर्वेगाभिनिवेश: २, यदा रोगी प्रसभं चौर्यकर्मणि प्रवृत्तो जायते ।
३) – मानसिकदौर्बल्योन्मादः - असामान्यमानसिकदौर्बल्यम्, क्लान्ति:, स्नायुसन्धिवेदनाश्चेति।
४) - चिन्तोन्मादः - दुर्धर्षा चिन्ता अस्य लक्षणम्।
५) - स्वास्थ्यचिन्तोन्माद: ५ – अस्मिन् सति रोगी स्वकीयस्वास्थ्यचिन्तां विशेषतः कुरुते ।
किन्तु १९९० वैक्रमाब्दे अमेरिकनदेशीयमनोवैज्ञानिकचिकित्साप्रणालीविशेषज्ञ- परिषदा एका सुविस्तृता सामान्यमानसिकविकाराणां सूची स्वीकृता । अस्यां द्वाविंशतिर्मानसिकविकाराणां प्रधानभेदाः षट्त्रिंशच्च गौणभेदा वर्णिताः । मार्गनमहोदयेन तेषां सङ्क्षिप्तं वर्गीकरणं द्वादशविकारेषूपनिबद्धम्। विस्तारभयात् तन्नात्र प्रपञ्चते। अलमतिविस्तरेण।
अपस्मारलक्षणम्
सम्पादयतुअथातो वयमपस्मारोन्मादयोर्लक्षणानि प्राचीनभारतीयायुर्वेदमतानुसारमनु- व्याख्यास्यामः। अस्माँस्त्विदं प्रतिभाति यत्प्राचीनैरप्यास्माकं महर्षिभिरेते रोगविशेषा मनोवैज्ञानिककारणजन्या एवेति मतं निर्धारितम् । तथा च सुश्रुतेनोक्तम्-
स्मृतिभूतार्थविज्ञानमपस्तत्परिवर्जनम् ।
अपस्मार इति प्रोक्तस्ततोऽयं व्याधिरन्तकृत् ॥ इति । [४]
किं च माधवकरेणोक्तम्-
चिन्ताशोकादिभिर्दोषाः क्रुद्धा हृत्स्रोतसि स्थिताः ।
कृत्वा स्मृतेरपध्वंसमपस्मारं प्रकुर्वते ॥
तमः प्रवेश: संरम्भो दोषोद्रेकहतस्मृतेः ।
अपस्मार इति ज्ञेयो मदो घोरश्चतुर्विधः ॥
हृत्कम्पं शून्यता स्वेदो ध्यानं मूर्च्छा प्रमूढता ।
निद्रानाशश्च तस्मिंश्च भविष्यति भवत्यथ ॥
कम्पते प्रदशेद् दन्तान् फेनोद्वामी श्वसित्यपि ।
परुषारुणकृष्णानि पश्येद्रूपाणि चानिलात् ॥ इति । [५]
अत्र 'संरम्भ:' नेत्रविकृति:, हस्तपादादिक्षेपणादिकं चेति । 'श्वसिति' इति खरश्वासो भवतीत्यवधेयम् । रूपाणि - तद्यथा सुश्रुतेनोक्तम्- नीलो मामनुधावति नीलः पुरुष इत्यभिप्रेतम्। 'रूपाणि' इति प्राणिनोऽवसेयाः । नीलादिदर्शनं वातिकापस्मारे जायते। पैत्तिकापस्मारे च पीतो मामनुधावति। श्लैष्मिकेऽपस्मारे च श्वेतो मामनुधावतीति सुश्रुतवचनानुसारमूह्यम्।
अथापस्मारनिदानं सुश्रुतवचनानुसारम्—
मिथ्यादियोगेन्द्रियार्थकर्मणामभिसेवनात् ।
विरुद्धमलिनाहारविहारकुपितैर्मलैः ॥
वेगनिग्रहशीलानामहिताशुचिभोजिनाम्।
रजस्तमोऽमिभूतानां गच्छतां वा रजस्वलाम् ॥
तथा काम भयोद्वेगशोकमोहादिभिर्भृशम् ।
चेतस्यभिहते पुंसामपस्मारोऽभिजायते ॥ इति । [६]
उपर्युद्धृताभ्यां माधवसुश्रुतोक्तलक्षणाभ्यां स्फुटमिदं दृश्यते यद्धि मनोवैज्ञानिक- कारणैक्य एवापस्मार इति रोगोऽभिजायते। चरकेण तु अपस्मारपरिभाषायां मनोवैज्ञानिकी दृष्टिरतिस्फुटतया विवृता। तथा हि-“अपस्मारं पुन: स्मृतिबुद्धिसत्त्वसंप्लवाद्वीभत्सचेष्ट- मावस्थिकं तमः प्रवेशमाचक्षते " इति । स च बहुविधः । स एव च 'हिस्टीरिया' इत्याङ्गलभाषायां प्रथितरोगविशेषः । केवलं सान्निपातिकोऽपस्मारो मस्तुलुङ्गीयायतन- विशेषाघातजन्यो वाऽपस्मार एव शरीररचनानुबन्धित्वेनावसेयः । उपर्युद्धृते सुश्रुतवचने 'चेतस्यभिहते' इति तु भावग्रन्थिजन्यमानसिकाघातविशेष एवाभिप्रेतः, न तु तद्व्यतिरिक्तं किञ्चिदन्यत्। शरीरसम्बन्धीनि पूर्वलक्षणानि वस्तुतो मानसिककारणविशेषेषूपरिनिर्दिष्टेषु सम्भूतेष्वभिर्वर्तन्ते, तत्पूरकत्वेनेत्यध्यवसेयम् ।
‘मिथ्यादियोग' इति इन्द्रियाणां श्रवणस्पर्शनदर्शनरसनघ्राणानामर्था विषयाः शब्दस्पर्शरूपरसगन्धाः, तेषां मिथ्यादिसेवनात् । तत्र पुरुषस्येष्टविनाशादिश्रवणं ‘मिथ्यायोगः’। पटहादीनां अतिशब्दश्रवणम् 'अतियोगः' । सर्वशोऽश्रवणम् ‘अयोगः’। अयं मिथ्यायोगोऽस्माभिरुपरि वर्णितेषु विभ्रमाख्येष्वसामान्यमानसिकविकारभूतेष्वन्तर्भावित इत्यवगन्तव्यम्। तत्रैव 'आकाशवाणी' नामकशब्दश्रवणस्य कारणमनुव्याख्यातम्, भावग्रन्थिविशेषस्य क्रियाकलापानुरोधात्।
‘आध्यानं’ नाम जिह्यानम्। 'मूर्च्छा' नाम मनोमोहः । 'प्रमूढता' नाम इन्द्रियमोहः । ननु किं 'हिस्टीरिया' संज्ञकव्याधिविशेषोऽपतन्त्रकवातव्याधिरेवेति ? एवम्प्राप्तायामाशङ्कायां वयं ब्रूमः - नह्यपतन्त्रकवातव्याधिरेव 'हिस्टीरिया' इत्यभिधो गदो भवितुमर्हति; लक्षणभेदात् ।
कुद्धः स्वैः कोपनैर्वायुः स्थानादूर्ध्वं प्रपद्यते ॥
पीडयन् हृदयं गत्वा शिरः शङ्खौ च पीडयन् ।
धनुर्वन्नमयेद् गात्राण्याक्षिपेन्मोहयेत्तदा ॥
स कृच्छादुछ्वसंश्चापि स्तब्धाक्षोऽथ निमीलकः ।
कपोत इव कूजेच्च निःसंज्ञः सोऽपतन्त्रकः ॥ इति । [७]
‘अपस्मार’ इति शब्दस्य निरुक्तिरेव 'हिस्टीरिया' संज्ञकस्य रोगस्य मानसिककारण- जन्यस्य सारूप्यमावहतीति बोद्धव्यम् । नहि मानसिकाघात एव मस्तिष्काघातो मस्तुलुङ्गीयायतनविशेषघातो वेति सर्वदा स्मर्तव्यम् ।
उन्मादगदस्य लक्षणम्
सम्पादयतुअपस्माररोग इव उन्मादस्य कारणमप्यस्माकमृषीणामायुर्वेदाचार्य्याणां च मते मनोवैज्ञानिकमेवेति निश्चप्रचम् । तथा हि-
मदयन्त्युद्गता दोषा यस्मादुन्मार्गमागताः ।
मानसोऽयमतो व्याधिरुन्माद इति कीर्तितः ॥
एकैकशः सर्वशश्च दोषैरत्यर्थमूच्छितैः ।
मानसेन च दुःखेन स च पञ्चावेधः स्मृतः ॥
विषाद्भवति षष्ठश्च यथास्वं तत्र भेषजम् ।
स चाप्रवृद्धस्तरुणो मदसंज्ञां बिभर्त्ति च ॥ इति। उद्धरणे दोषः : समाप्तिः </ref>
<ref>
शृङ्खला लुप्ता</ref>
वातजपित्तजकफसन्निपातजादिभेदेन षड्विधस्योन्मादस्य सामान्यलक्षणान्युदाहरति-
विरुद्धदुष्टाशुचिभोजनानि प्रधर्षणं देवगुरुद्विजानाम् ।
उन्मादहेतुर्भयहर्षपूर्वी मनोऽभिघातो विषमाश्च चेष्टाः ॥ इति । उद्धरणे दोषः : समाप्तिः </ref>
<ref>
शृङ्खला लुप्ता</ref>
नहि विषमाश्चेष्टाः कारणानि भवितुमर्हन्ति; तासां तु पूर्वलक्षणादिष्वन्तर्भावितत्वात् । मनोविकारजन्यास्ता भवन्ति; पूर्वोक्तहेतुत्वात्।
'प्रधर्षणम्' इति अभिभवस्तिरस्कारो वेति ।
'भयहर्षपूर्वी मनोभिघात उन्मादहेतु:’ इति नैव विजयरक्षितेन मधुकोश- व्याख्याकारेण, न चापि वाचस्पतिमिश्रेण आतङ्कदर्पणाख्यव्याख्याकारेणैव सम्यगनुव्याख्यातम्। भयं हर्षश्च उन्मादगदस्य लक्षणं पूर्वलक्षणं च भवतः, न तु तत्कारणम्। उन्मादगदस्यात्र निर्दिष्टं कारणं तु मनोऽभिघात एव भवतीति प्रतिपत्तव्यम्। नहि पूर्वमिति पदं कारणावाचकत्वेन योजनीयम्, अपि तु 'युक्तम्' इत्यर्थे नूनमिदं योज्यम्। भयं हर्षश्च द्वे भावग्रन्थिसङ्घर्षजे अभिघातस्यानुपूरकत्वेन पूर्वलक्षणेषु शेषत्वमापद्येते। अस्थाने भयानुभवनं हर्षातिशयानुभवनं वा नूनमुन्मादगदस्य परमं लक्षणं भवतीति निरस्तसमस्तशङ्कम्। अतो भयहर्षपूर्वो भयहर्षयुक्तो मनोऽभिघातो मानसिकद्वन्द्वजन्याघातविशेष उन्मादहेतुरिति पदयोजना युक्ता ।
अपि चाहु:-
तैरल्पसत्त्वस्य मलाः प्रदुष्टा बुद्धेर्निवासं हृदयं प्रदूष्य ।
स्त्रोतांस्यधिष्ठाय मनोवहानि प्रमोहन्त्याशु नरस्य चेतः ॥ इति । उद्धरणे दोषः : समाप्तिः </ref>
<ref>
शृङ्खला लुप्ता</ref>
'बुद्धेर्निवासो हृदयम्” इति मतं द्वितीयाध्यायेऽस्माभिर्बहुयुक्तिप्रपञ्चपूर्वकं निराकृतम्। स्यादेतद् यदुपासनायां ध्यानस्य हृदयस्थानीये कमलदले समवधानादेव हृदयं चेतनास्थानमिति मतं स्वीकृतम्। अथवा मृत्युर्हृदयस्पन्दनाभावाज्जायते, अत एव हृदयं बुद्धेर्निवासो भवतीति मतवमलम्बितम् । कारणं नाम किमपि भवत्वस्या मान्यतायाः, नेयं परीक्षकैः प्रत्यक्षशारीरोपबृंहितनाडीतन्त्रविज्ञानविशारदैरनुमोद्यते। प्रत्यक्षं हि विज्ञानस्य परमं शरणम् । प्रत्यक्षोपमर्देन काऽपि वाचोयुक्तिर्वैज्ञानिकपदाभिधेया भवितुं नार्हतीति विशेषः। बुद्धिनिवासस्तु सविशेषं मस्तुलुङ्गमेवेति बोद्धव्यम्।
किञ्च-
धीविभ्रमः सत्त्वपरिप्लवश्च पर्याकूला दृष्टिरधीरता च ।
अबद्धवाक्त्वं हृदयं च शून्यं सामान्यमुन्मादगदस्य लिङ्गम् ॥ रूक्षाल्पशीतान्नविरेकधातुक्षयोपवासैरनिलोऽतिवृद्धः ।
चिन्तादिदुष्टं हृदयं प्रदूष्य बुद्धिं स्मृति चाप्यपहन्ति शीघ्रम् ॥
अस्थानहासस्मितनृत्यगीतवागङ्गविक्षेपणरोदनानि
पारुष्यकार्यारुणवर्णताश्च जीर्णे बले चानिलजस्य रूपम् ॥ इति । [८]
एवम्प्रकारेण पञ्चोन्मादा भवन्ति-वातोन्मादः, पित्तोन्मादः, कफोन्मादः, सन्निपातजो- न्मादः, आगन्तुकोन्मादश्चेति। "उन्मादं पुनर्मनोबुद्धिसंज्ञानस्मृतिभक्तिशीलचेष्टाचारविभ्रमं विद्यात्” [९] इति। अतिस्फुटं हि खल्वसामान्यमनोविज्ञानाभिमतमिदं मतम्ः किन्नु खलु चरकाचार्यप्रभृतिप्रतिपादितो यो देवर्षिपितृगन्धर्वयक्षराक्षसपिशाचादिनिमित्तक आगन्तुक उन्मादविशेषः, सोऽर्वाचीनमनोवैज्ञानिकशैल्योपपद्यते ? किं तावदिदं विज्ञानेन सहानुकूल्यं भजते ? अत्र वयं ब्रूमः -प्राचीनानामयमन्धविश्वासो नैवास्माभिरनुमोद्यते' नेदं विचारनिकर्षं सहते।
अत्रेदं स्मर्त्तव्यं यत् प्राचीनानां सर्वेषामयमन्धविश्वास: सामानरूपेणादृतो नैवासीत् । यतो हि -
न ते मनुष्यैः सह संविशन्ति
न वा मनुष्यान् क्वचिदाविशन्ति ।
ये त्वाविशन्तीति वदन्ति मोहात्
ते भूतविद्याविषयादपोह्याः ॥ इति ।
अत्रोक्तं यद्धि देवादयो नहि कथञ्चन मनुष्यैः सह विशन्ति, नैकीभवन्तीत्यर्थः । न चापि ते देवगन्धर्वयक्षराक्षसादयो मनुष्यान् मानुषदेहान् क्वचिदपि कथमप्यनुप्रविशन्ति । ये पुनर्वैद्या आविशन्तीति मोहादज्ञानाभिनिवेशात् प्रवदन्ति, ते वैद्या भूतविद्याविषयात् तज्ज्ञानादपोह्या अपसारणीयास्त्याज्या इत्यर्थः।
उपसंहारः
सम्पादयतुफ्रायडमहोदयानां मनोविश्लेशषणवादः, एडलरमहोदयानां व्यक्तिगतं मनोविज्ञानम् युङ्गमहोदयानां विश्लेषणात्मकं मनोविज्ञानम्, तदितरेषां केषाञ्चन मनोवैज्ञानिकानां भारतीयायुर्वेदस्य प्राचीनाचार्याणाञ्च मतान्यस्माभिरुपरि सङ्क्षेपतोऽनुव्याख्यातानि । सङ्क्षिप्तमपि सपरिकरमिदमनुव्याख्यानम् । एतेषामाचार्य्याणां गवेषणाभिर्मानवजातेर्नून- मसामान्यमनोविकाराणां स्वरूपसङ्घटनचिकित्सादिविषये दृष्टिकोणमामूलचूडं परिवर्तितं जातम्। विक्षिप्तो वोन्मत्तो वा नहि सम्प्रति दण्ड्यः, अपि तु दयनीयः, सहानुभूत्या चिकित्स्यः। असामान्यमनोविकाराणां प्राचुर्य्यं नूनं जटिलसामाजिकसम्बन्धार्थिकवैषम्य- धार्मिकादशाऽस्थैर्यसभ्यताजन्यसङ्घर्षेणाहर्निशं वर्धिष्णु दृश्यते। अतः सामान्यमनोविकाराणां कारणविशेषाणामुद्घाटनेन विज्ञानेन च 'कथं ते निवारयितुं शक्यन्ते" ? इति सुकरं जातम्। न केवलं रोगाणां चिकित्सा, प्रत्युत 'कथं रोगोत्पत्तेः प्राक् तन्निवारणं कर्तुं शक्यते? इति नूनमस्माकं गम्भीरश्चिन्ताविषयः । यथा शारीरिकी स्वास्थ्यरक्षा अपि व्यक्तेः सामाजिकवातावरणसमुत्कर्षेण पारवारिकपरिस्थितेश्च समुननयेन परिष्कारेण वा करणीया, येन स्वस्थसन्तुलितव्यक्तिवोन्मेषोपयोग्यवसराः प्रयुर्य्येणोपलभ्यमाना भवेयुः । असामान्यमनोविज्ञानस्यैतादृशश्चतुरस्रो विकासः सञ्जातो यदस्योपयोगित्वं शशूनां लालनपालने जटिलबालकानाम् अपराधोन्मुखप्रवृत्तिनामुन्नयने निरस्तसमस्तशङ्कं साधितम्। चिकित्साविज्ञाने, शिक्षाविज्ञाने, औद्यिकसंस्थानेष्वपराधिनां परिशोधनाय राजपुरुषैः सर्वत्र असामान्यमनोविज्ञानस्यानुसन्धानजातस्य फलवत्ताया आवितथ्यमुररीक्रियते।
सन्दर्भाः
सम्पादयतु