मनोविज्ञाने आलोचनज्ञानानां सामान्यगुणाः

मनोविज्ञाने आलोचनज्ञानानां सामान्यगुणाः अतीव महत्त्वपूर्णाः सन्ति। तेषां ज्ञाने सति मनसः समस्यानां समाधानं शक्यम् अस्ति। आलोचनज्ञानानामपि केचन गुणविशेषा भवन्ति । तैर्गुणविशेषैर्विना निष्प्रकारकं ज्ञानमालोचनाख्यमपि नैव सविकल्पकप्रत्यक्षरूपतां कदाचनावाप्तुं शक्नोति, “नह्यसतः शक्तिः कर्तुमन्येन शक्यते” इति श्लोकवार्त्तिककारवचनात् । एते तर्हि गुणा भवन्ति- प्रकारविशेषत्वम्', तीव्रत्वम्', विस्तरत्वम्', अविरतत्वं' चेति। वयमेतान् क्रमशोऽनुव्याख्यास्यामः ।

प्रकारविशेषत्वम्

सम्पादयतु

आलोचनज्ञानानां प्रकारविषेषास्तत्तदिन्द्रियापेक्षया भिद्यन्ते । एतस्मादेव कारणाद् घ्राणजमालोचनं ज्ञानं चाक्षुषनिर्विकल्पकज्ञानाद् भिद्यते। स्पार्शनालोचनं ज्ञानं रासनालोचन- ज्ञानाद् भिन्नमित्युच्यते, यतो हि विशिष्टेन्द्रियजन्यत्वात्तयोः प्रकारभेदोऽप्यनुभवसिद्ध एव। अत: सिद्ध: प्रकारविशेषभेदस्येन्द्रियविशेषभेदः प्रयोजकः। एकेन्द्रियजन्यालोचन- ज्ञानेष्वपि च प्रकारभेदा भवन्ति। यथा हि नीलिमालोचनं ज्ञानं पीतिमालोचनज्ञानाद्भिन्नमेव भवति, प्रकारविशेषवत्त्वात् । पटहध्वनिः रणशृङ्गध्वनेः शङ्खध्वनेर्वा भिद्यते, प्रकार- विशेषवत्त्वात्। अत्रालोचनज्ञानस्य भेदजनकमिन्द्रियं नास्ति । श्रोत्रेन्द्रियन्तु तयोर्ध्वन्यो- रभिन्नमेव। आकाशीयोम्मिरूपोत्तेजकभेदादेव' ध्वनिभेदोऽप्यासादितः। नह्युत्तेजकप्रकारभेदं विनालोचनज्ञानभेद आपादयितुं शक्यते । अपि च, विविधप्रकारकध्वनिजनकोत्तेजका- नामाकाशोम्मिरूपाणां ग्रहणमप्येकेनाभिन्नेनेन्द्रियेणैवोपपद्यते । किन्तु विशिष्टप्रकारकोत्तेजक- जन्यालोचनज्ञानमपि विशिष्टप्रकारकनाडीकोषाणुकेनैव मस्तुलुङ्गमभिनीयते। अतः सिद्धमयुताधिकसंख्याकविशिष्टनाडीकोषाणुकानां सत्त्वं चक्षुषोः कर्णपटहे चान्तर्गतम् । नहि केवलं युक्तित उत्तेजकप्रकारभेदादासादितनाडीकोषाणुकभेद उपयुज्यतेऽपि तु प्रयोगैः प्रयोगशालीयैरणुवीक्षणयन्त्रैश्चालोडितं तथ्यम् । अत आलोचनज्ञानानां प्रकारभेदा उत्तेजकभेदादिन्द्रियप्रकारभेदाच्च जायन्त इति सिद्धम् ।

तीव्रत्वम्

सम्पादयतु

सन्ति ह्यालोचनज्ञानानां भेदास्तीव्रत्वव्यपेक्षया । नहि तीव्रत्वं ह्रस्वत्वं वा प्रकारविशेष एवेति मन्तव्यम्। उत्कटनीलिम्नः प्रगाढनीलिम्नो वा मृदुनीलिमा न्यूननीलिमा भिद्यते । कथम्? तीव्रत्वापेक्षयौत्कट्यापेक्षया वा । सत्यप्येकस्मिन्नालोचनज्ञानप्रकारे तीव्रमध्यमन्यूनादिप्रकर्षापेक्षया भेदा जायन्ते । तथा हि विद्युत्प्रकाशासादितालोचनं ज्ञानं दीपप्रकाशालोचनज्ञानाद् भिद्यते । किमस्ति तर्हि तत्प्रयोजकम् ? तीव्रत्वम्। वरयात्रायां तुमुलध्वनिः कन्यकाया हारमोनियमसंज्ञकवादनयन्त्रध्वनेर्भिद्यते। अयं भेदस्तीव्रतामादाय प्रथते। लघुतीव्राम्लरसयोरप्ययं भेदस्तीव्रत्वजन्यो भवति । आलोचनज्ञानस्य तीवत्वादि- भेदस्योत्तेजकतीव्रत्वादिरेव प्रयोजकोऽस्तीत्यवधार्यम्। उत्तेजकतीब्रत्वानुपातशो निर्विकल्पक- प्रत्यक्षस्यापि तस्य तद्वृद्ध्यनुरूपवृद्धिर्भविष्यतीति न वाच्यम्। आलोचनप्रत्यक्षस्य तदुत्तेजकस्य च तीव्रत्वविषयका बहवः प्रयोगा मनोवैज्ञानिकैः सम्पादिताः । विशेषत उल्लेखनीया वैबरफैचनरमहोदययोः प्रयोगाः सन्ति । वयं तद्विवरणं सङ्क्षेपतः समुपस्थापयामः ।

वैबरनियमः

सम्पादयतु

वैबरमहोदयप्रतिपादितनियमेनोत्तेजकालोचनज्ञानतीव्रत्वसम्बन्धो निश्चीयते । यदि कस्याप्यालोचनज्ञानस्य प्रत्यक्षयोग्या वृद्धिरभीप्सिता भवेत्तर्हि तस्योत्तेजकस्यापि नियतांशेन वृद्धिः करणीयेति जर्मनदेशीयशरीरारचनाविज्ञानवेत्तृभिः वैबरमहोदयैः प्रतिपादितो नियमः । आंशिकीयं वृद्धिश्च प्रतीन्द्रियं भिद्यते, अर्थादेकप्रचारकालोचनज्ञानजनकोत्तेजकं यदंशानुपातेन दृश्यालोचनज्ञानोत्पदानाय वर्धनीयम्, नह्यन्यप्रकारकालोचनज्ञानजनकोत्तेजकं तदंशानुपातश एव वृद्धिमपेक्षते। वैबरमहोदयो भारोत्क्षेपणाध्ययनेनेमं नियमं निर्णीतवान्। स यथा- पूर्वभारस्यैकेन त्रिंश(१/३०) भागेन यदि वृद्धिर्भवेत्तर्हि तदालोचनज्ञाने दृश्यालोचन- ज्ञानवृद्धिर्जायते। त्रिंशत्तोलकं सुवर्णं यदोदाहरणतयैकतोलकेन सुवर्णेन वृद्धिमवाप्नोति, तदैव भारवृद्धिविषयकञ्चालोचनं ज्ञानमुत्पद्यते, नेतरथा । यत्केवलं दृश्यमालोचनगम्यमात्रं वा तज्ज्ञानं भेदज्ञानदेहलीत्युच्यते । नहि सर्वाण्युत्तेजकानि निर्विकल्पकं प्रत्यक्षं जनयितुं समर्थानि। अतितीव्रोत्तेजकजनितोत्तेजनालोचनज्ञानविषया नैव भवन्ति । नापि निर्विकल्पकज्ञानगम्यमेवातिमन्दमुत्तेजकं भवति । केवलं मध्यममुत्तेजकमेवालोचनज्ञानं जनयितुं प्रभवति। यस्यां सीम्नि किमप्युत्तेजकमालोचनज्ञानगम्यामुत्तेजनां जनयितुं शक्नोति सा हि 'भेदज्ञानदेहली' इत्यभिधीयते । यस्यां सीम्नि तीव्रतमोत्तेजकं कष्टप्रदं जायते, सा “आलोचनज्ञानातिक्रमणबिन्दुः" इत्युच्यते । उपर्युक्तयोर्द्धयोर्मध्ये यत्र मध्यममुत्तेजकमुत्तेजनां प्रदत्ते तत् 'निर्विकल्पकप्रत्यक्षक्षेत्रम्' इत्याख्यायते। शब्दालोचने यदि शब्दध्वनावुत्तेजकभूते तृतीयांशस्य वृद्धिर्जायेत, तदैव ध्वन्यन्तरस्यालोचनं ज्ञानं भविष्यति । सामान्यत इदं वक्तुं शक्यते यद्धि वैबरनियमेन निखिलमानसिकजीवने सापेक्षतावादः ̧ प्रमाणीकृतः । रेखाणां दैर्ध्यान्तरालोचनं ज्ञानं तदैव भवति, यदैकस्या रेखाया वृद्धिः शतांशेनापररेखापेक्षया जायते । एवम्प्रकारेणैकशतं वितस्तिपरिमिताया रेखाया एकोत्तरशतं वितस्तिपरिमितरेखाभ्योऽन्तरं साक्षान्निर्विकल्पकज्ञानगम्यं भवति। यदि तयोर्दैर्घ्येऽन्तरं न्यूनं भवेत्तर्हि द्राघीयस्या रेखाया दीर्घाकारत्वमप्यालोचनज्ञानगम्यं नहि भविष्यतीति वैबरमहोदय' प्रतिपादितमानस्य रहस्यम् ।

फैचनरनियम

सम्पादयतु

वैबरप्रतिपादितनियमे तत्सहयोगिलिपजिग-विश्वविद्यालयीयभौतिकविज्ञान- प्राध्यापकफैचनरमहोदयो मानसिक-भौतिकघटनासु गणितोचिताकलनपुरस्सरं सम्बन्धनिर्धारणार्थं प्रवर्तितोऽभूत्। वर्षाणि यावत् परिश्रम्य तेन 'एलिमेन्ट्स आव साइकोफिजिक्स’६ (अध्यात्मभौतिकविज्ञानस्य मूलतत्त्वानि) इति नामधेयो ग्रन्थः प्रकाशितः । अस्मिन् ग्रन्थे बहव आलोचनप्रत्यक्षभेदज्ञानदेहलीविषयकाः प्रयोगा उल्लिखिताः । स्वकीयप्रयोगेषु फैचनरमहोदयो भारोत्क्षेपण - प्रकाशतीब्रत्वस्पार्शन- चाक्षुषप्रत्यक्षोप- योग्युत्तेजकानामध्ययनं चकार। तेन संशोधितो वैबरनियम एवम्प्रकारेण वर्णयितुं शक्यते। तद्यथा—‘नियतांशेनोत्तेजकवृद्ध्या तज्जनितोत्तेजनाविषयकालोचनप्रत्यक्षेऽपि नियतानुपातेन वृद्धिर्जायते' इति। यदि ह्युत्तेजकं ज्यामितिकविकासक्रमेण वर्धते, तर्हि तज्जनितोत्तेजनाया आलोचनप्रत्यक्षमङ्कगणितीयविकासक्रमेण' वृद्धिमवाप्नोतीति। अर्थाद् यदि निर्विकल्पके प्रत्यक्षे १, २, ३, ४, ५, क्रमाद् वृद्धिरभीष्टा भवेत्तर्हि नूनमुत्तेजके तज्जनकेऽपि १, २, ४, ८, १६, क्रमाद् वृद्धिः करणीया । यदि ह्युत्तेजक एतत्क्रमान्न्यूना वृद्धिर्भवेत्तर्हि तज्जनितालोचनज्ञानमपि भेदज्ञानदेहलीं नावाप्स्यतीति । फैचनरमहोदयानां बहुमूल्येषु प्रयोगेषु सत्स्वपि तस्येयं प्रतिज्ञा मनःशरीरयो स्वरूपवैशिष्ट्योत्पन्नखातपूरणपरा न साधिता तैस्तैः प्रयोगैः । भविष्यति कोऽपि लोकोत्तरो वैज्ञानिको य इमां प्रतिज्ञां साफल्येन साधयिष्यतीत्येवं वैज्ञानिक क्षेत्रेष्वाशास्यते ।

विस्तरत्वम्

सम्पादयतु

अस्ति हि विस्तरो निर्विकल्पकज्ञानस्यापरो विशेषः । न केवलं निर्विकल्पकज्ञानानि गुणविशेषेण तीव्रत्वविशेषेण वा परस्परं भिद्यन्तेऽपि तु विस्तरेणापि तानि परस्परं भिद्यन्ते। आङ्गलदेशीयमनोवैज्ञानिकप्रवरवार्डमहोदयानामिदं मतं विशेषत उल्लेखनीयम् । आलोचनज्ञानविस्तरत्वेन निर्विकल्पकप्रत्यक्षस्य विशालत्वं बृहदाकारत्वं वा वार्डमहोदयाना- मभिप्रेतं भवति। अस्ति हि तत्र निदर्शनम् - नह्यङ्गुलिमात्रं जले प्रक्षिप्तं तादृशमालोचनज्ञानं जनयति यादृशं गङ्गायां समस्तशरीरस्नानं जनयति। किमेकचम्पकेन तादृशमेव निर्विकल्पकं ज्ञानं जन्यते, यादृशं चम्पकवनेन जन्यते ? सिद्धं हि द्वयोरालोचनप्रकारयोरन्तरम् । प्रयोजकञ्चात्र निर्विकल्पकज्ञानस्य विस्तरत्वरूपवैशिष्ट्यम् । यद्यप्यालोचनज्ञानविस्तरे विषयविस्तरे च भवति हि महत् साम्यं सादृश्यं वा, तथापि तयोरभेदो नैव साधयितुं शक्यते । आलोचनज्ञानस्य विस्तरत्वं तु नयनयोरन्तरेण दूरत्वेन वा प्रयुक्तम्, किन्तु विषयस्योत्तेजकस्य वा विस्तरत्वं नेत्रदूरत्वसापेक्षं न भवति, नियतस्थिरस्वरूपत्वात्, वस्तुभूतत्वाच्च। तत्रोदाहरणमपि चेदमूह्यम्-यदि च वयं चन्द्रमसं पश्यामस्तर्हि विस्तरविशेषालोचनं ज्ञानं तदा जन्यते । यदि चक्षुषोः कियद्दूरमेक आदर्शः स्थापितो भवेत्तर्हि चन्द्रमसः प्रतिबिम्बालोचनज्ञानं तदपेक्षया विशेषेण विस्तरयुक्तं भवतीति । अतः सिद्धमालोचनज्ञानविस्तरत्वमुत्तेजकविस्तरत्वञ्च नैवानर्थान्तरमिति । यद्यपि चाक्षुषस्पार्शननिर्विकल्पकप्रत्यक्षेषु विस्तरत्वं लक्ष्यं साध्यमपि च, तथापि विस्तरत्वविशेषणमितरालोचनज्ञानेषु लक्षणां विहाय प्रयोक्तुं शक्यत इत्यपि सन्देहास्पदम्।

कालस्थायित्वम्

सम्पादयतु

निर्विकल्पकज्ञानानि कालस्थायित्वमधिकृत्यापि भिद्यन्ते। आलोचनं ज्ञानमधिकं कालं यावन्निर्विकल्पकज्ञानापेक्षया स्थायि भवति, अतस्तयोरन्तरमपि सुगममेव । नहि विपलं यावदनुभूयमानं ज्ञानं निर्विकल्पकं पलं यावदनुभूयमानालोचनज्ञानादभिन्नं भवितुमर्हति। स्मरणीयमत्र यद्ध्युत्तेजकस्थायित्वसापेक्षमेवालोचनं ज्ञानं न भवति । सत्यप्युत्तेजके तज्जनितालोचनज्ञानं कदाचन नैव जन्यते, ध्यानाभावात् । असत्यप्युत्तेजके किं वा विनिर्गतेऽप्युत्तेजके तज्जनितालोचनज्ञानं क्षणमनुभूयत एव । यतो हि संज्ञावाहिनाडी- कोषाणुकाणि नाडीकन्दाणुकाणि चोत्तेजके विनिर्गतेऽपि कियत्कालानन्तरं सक्रियाणि दृश्यन्ते, नह्युत्तेजनायामस्तङ्गतायां तज्जनितनिर्विकल्पकप्रत्यक्षप्रयोजिका नाडीक्रिया विरम्यते। चलचित्रेषु पात्रगतिरूपो भ्रमोऽप्येतस्मादेव कारणादुपपद्यते । अलातचक्रेऽपि यो भ्रम उपपद्यते, सोऽप्येतस्मादेव कारणादासाद्यत इत्यवसेयम्। यदि प्रकाशोत्तेजनासु सेकण्डाख्यविपलदशमांशमितं विपलविंशतितमांशमितं वाऽन्तरं भवेत्तर्हि द्वयोरालोचन- ज्ञानयोः पार्थक्यमपि द्रष्टुं न शक्यते, नाडीक्रियानवच्छिन्नत्वात्। अत एव गतिभ्रमोत्पत्तिर्बोद्धव्या ।

इन्द्रियानुकूलीकरणम्'

सम्पादयतु

यद्येकं विशिष्टमुत्तेजकमनवरतं किमपीन्द्रियमुत्तेजयति, तदा तदिन्द्रियं तेनोत्तेजकेन सहानुकूलीभवति, किं वा सात्म्यं लभते । सात्म्यभावस्येयत्ताप्येतावतानुमेया यद्धि कियत्कालानन्तरमपेक्षाकृतमुत्तेजनाविरहितमिवेदमिन्द्रियं प्रतिभाति । उदाहरणतो दीपप्रकाशे पठनशीलो यदि कश्चन ब्रह्मचारी वैद्युतप्रकाशान्विते कक्षे गच्छति, तदा प्रथमक्षणे तस्य चक्षुषी नितान्तमुत्तेजिते जायेते, किन्तु घटिकामेकां यावत् तस्मिन् कक्षेऽधीत्य तस्य चक्षुषी नहि तथाविधमुत्तेजिते जायेते । अपि च, द्वित्रघटिकानन्तरं तदुत्तेजकेन सार्धमभ्यस्ते सात्म्यभावापन्ने किं वानुकले जायेते । तदा वैद्युतप्रकाशजनितोग्रोत्तेजना तदभावाभिन्ना इव प्रतीयतेऽनुभूयतेऽपि च। नूनं हि कियत्कालानन्तरमिन्द्रियानुकूली- भवनत्वमेवास्त्यत्र प्रयोजकम् । एवम्प्रकारेणैव चक्षुरिन्द्रियं तमोऽनुकूलं जायते । प्रकाशित- कक्षाद् बहिरागत्य सूचीभेद्यं तम इत्यनुभव आसीत् । किन्तु सार्धैकघटिकानन्तरमस्माकं चक्षुरिन्द्रियं तमस्यपि पदार्थान् द्रष्टुं शक्नोति । चक्षुरिन्द्रियस्य तमोऽनुकूलीभवनं सात्म्यभावापन्नत्वमेवात्र कारणम्। अजापालकस्य गृहे नहीतरे जना अजामलमूत्रजदुर्गन्धा- नभ्यस्ता एकघटिकां यावदपि स्थातुमुत्सहन्ते । अन्ये च सुकोमला नरास्तत्र क्षणमपि स्थातुं नोत्सहन्ते; किन्त्वजापालकपारिवारिकजनास्तदुर्गन्धमहर्निशं घ्रात्वा तेन सहाभ्यस्ताः सात्म्यभावापन्ना जायन्तेऽत एवान्यथा स्वस्थान्यपि तेषां घ्राणेन्द्रियाण्यजामलमूत्रजदुर्गन्धेन नोद्वेजितानि जायन्ते। एवमेव चर्मकारस्य चर्मदुर्गन्धं प्रति सात्म्यापन्नत्वम्, रसायनविज्ञान- विशारदस्य विविधरसायनजदुर्गन्धं प्रत्यनुकूलीभावश्च व्याख्यातुं शक्यते । एकेनोत्तेजकेन सहानुकूलीभवनेनापि तदिन्द्रियस्यान्यैरुत्तेजकैरुत्तेजनार्हत्वं नोपहीयतेऽपि तूपचीयत एव । चाक्षुषनिर्विकल्पकप्रत्यक्षमधिकृत्येदं सँल्लक्ष्यते यद्धि बहुकालं यावदेकस्मिन् विशिष्ट- वर्णयुक्तपदार्थे समाहिता दृष्टिर्यदा तस्मात्पदार्थात् परावर्तते वर्णेतररञ्जितपदार्थं प्रति, तदा विचित्रं हि निर्विकल्पकं ज्ञानं क्षणमात्रं जायते। तदा प्रथमन्तु पूर्वालोचनज्ञानसमानमेव निर्विकल्पकं प्रत्यक्षं क्षणमात्रमवतिष्ठते; किन्त्वेतस्मिन्नेव क्षणे तदालोचनज्ञानानुयोगि- वर्णान्वितालोचनं ज्ञानमुत्पद्यते । एतस्मिन्नालोचनज्ञानद्वये प्रथममालोचनं ज्ञानं हि ‘अनुकार्युत्तरप्रतिमा' इति’ नाम्ना प्रथते । द्वितीयं निर्विकल्पकं प्रत्यक्षमनुयोगिवर्णान्वितम् 'अनुयोग्युत्तरप्रतिमा' इति नाम्ना चाख्यायते । यथा हि यदा रक्तिमवर्णं चित्रमनवरतं पश्यतो दृष्टिः परावर्तते, श्वेतपृष्ठे च केन्द्रिता जायते, तदान्तराले द्विविधमालोचनं ज्ञानमुत्पद्यते—प्रथममालोचनन्तु ईषद्रक्तवर्णमेव भवति, अन्यच्चालोचनं ज्ञानं खलु हरितवर्णं जायते। ईषद्रक्तालोचनं ज्ञानमनुकार्युत्तरप्रतिमेत्युच्यते। नह्युत्तरप्रतिमेत्यभिधानेनास्यालोचन- ज्ञानत्वं परिहीयते। हरितवर्णमितरदालोचनज्ञानमनुयोग्युत्तरप्रतिमेत्याचक्षते । वस्तुत इय- मालोचनज्ञानोत्तरप्रतिमा आलोचनज्ञानान्येव । उत्तेजके विनिर्गतेऽपि संज्ञावाहिनाडी-कोषाणुकानि सक्रियाणि कियत्क्षणं यावद् भवन्ति । तत्क्रियाजन्यमिदमौत्तरकालिक- मालोचनज्ञानं द्विप्रकारकं भवतीत्यवसेयम्।

चाक्षुषमालोचनज्ञानस्वरूपम्

सम्पादयतु

चक्षुरिन्द्रियं हि खलु सर्वज्ञानेन्द्रियाणां प्रवरं भवति । रूपसंज्ञाग्राहकं चक्षुरिन्द्रियं दूरत्वसंज्ञाग्राहकमपि भवति। अर्थाद् दूरस्थस्याप्युत्तेजकस्योत्तेजनां चक्षुरिन्द्रियं गृह्णाति । घ्राणेन्द्रियेण वयं कियद् दूरस्थमेव गन्धं घ्रातुं शक्नुमः, श्रोत्रेन्द्रियेण क्रोशार्धदूरात् क्रोशदूराद्वागतं शब्दमेव वयं श्रोतुं प्रभवामः; किन्तु चक्षुरिन्द्रियेण नहि वयं केवलं वृक्षान् आलेख्याट्टालिकाश्चैव द्रष्टुं शक्नुमोऽपि तु कोट्यधिकक्रोशदूरस्थं तारागणमपि वयं द्रष्टुं प्रभवामः। यथोच्चस्तरीयाः प्राणिनो निम्नस्तरीयप्राणिनां विकासशृङ्खलायामेवाविर्भवन्ति, तथैवेन्द्रियाणामपि प्राणिविकासक्रमानुसारं विकासो जायते । उच्चस्तरीयेषु प्राणिष्विन्द्रियाणां संख्या वर्धते। जटिलोत्तेजकानुभवक्षमता वर्धते, अपि चेन्द्रियजन्यप्रतिक्रियायां वैशिष्ट्य- माविर्भवति। आद्ये तु त्वगिन्द्रियमेवैकमिन्द्रियं भवति । तदेव सर्वेन्द्रियाणां यथावश्यकं स्वल्पं कार्यं सम्पादयति । तदुच्चस्तरीयेषु प्राणिषु त्वचि केचन मसीबिन्दव इवाङ्गानि भवन्ति । तदेवाद्यं चक्षुरिन्द्रियस्य रूपम् । तदनन्तरं प्राणिविकासशृङ्खलायां यथा यथा चक्षुरिन्द्रियस्योत्तेजकानि क्लिष्टानि जटिलतराणि जायन्ते, तथा तथा चक्षुरिन्द्रियस्य कार्येषु वैशिष्ट्यमप्याविर्भवति । अर्थाद् विशिष्टं विशिष्टं कार्यं सम्पादयितुं विशिष्टं विशिष्टमेव नाडीकोषाणुकजातं प्रादुर्भवति । एतावतेदमपि बोधगम्यं भवति यद्धि नाडीकन्दाणुकेषु विशिष्टेषु प्रादुर्भूतेषु चक्षुरिन्द्रियं रचनाविशेषेऽपि महत् परिवर्तनमाधत्ते । मध्यमवर्गीयप्राणिषु विकासशृङ्खलायां चक्षुरिन्द्रियं सामञ्जस्यात्मकव्यवहारगतिं पदार्थ- रूपादिकञ्च द्रष्टुं शक्नोति । मानवीयं चक्षुरिन्द्रियं तेषु सर्वेषु चरमं प्रौढिङ्गतम् ।

चक्षुरिन्द्रियरचना

सम्पादयतु

चक्षुरिन्द्रियस्य बाह्याधिष्ठानं नेत्रगोलकद्वयं भवति । तच्च दृष्टिनाड्योरग्रे सम्बद्धम् । एकैका हि दृष्टिनाडी एकैकं नेत्रगोलकं प्रविशति, तदन्तश्च दृष्टिवितानरूपेण प्रतायते । तत्रैव नानाविधानां पदार्थानां रूपाणि प्रतिबिम्बितानि भवन्ति । उभयोरेव नेत्रगोलक- प्रतिबिम्बयोः समन्वयेनैकमेव रूपं दृश्यते। आभ्यन्तराधिष्ठानन्तु दृष्टिनाडीप्रभवस्थानं द्विविधं भवति–मस्तिष्कान्तरीयभागोऽनुमस्तिष्कभागश्चेति । इदं हि चरमं रूपसंज्ञाधिष्ठानमिति पूर्वमेव द्वितीयाध्याये व्याख्यातम्। मानवीयं दर्शनेन्द्रियं हि खलु चित्रग्राहियन्त्र (कैमरा) मिव भवति। नाडीतन्तु- निर्मितमिदं नेत्रगोलकं तिसृभिर्वृतिभिरावृतम् । ताश्च बाह्यमध्यान्तरसंज्ञा ।

बहिर्वृतिः

सम्पादयतु

शुक्ला दृढस्नायुसूत्रनिम्मिता कठिनप्राया स्थूला च भवति । अस्या अपि द्वौ भागौ भवतः स्वच्छमण्डलं शुक्लवृतिश्चेति। तत्र शुक्लवृतिर्नेत्रगोलकस्य पश्चिमं(५/६) षड्भागपञ्चकमावृणोति । अग्रिमषड्भागावरणं तु स्वच्छमण्डलं समुन्नत- मध्यं भवति। निखिला बहिर्वृतिश्चित्रग्राहियन्त्रस्य बाह्यस्थकाष्ठस्थूलावरणमिव भवति । स्वच्छमण्डलं स्वच्छकाचवन्निर्मितं भवति । प्रतिभाति चेदमापातदृष्ट्या कृष्णमिव पिङ्गलं वा, पश्चिमस्थस्य तादृशतारामण्डलस्य तद्द्वारेण दर्शनात् । अत एव कृष्णभागोऽयमिति लौकिको व्यपदेशः। वस्तुतस्तु स्वच्छकाचवदस्य निर्माणमिति बोद्धव्यम् ।

मध्यमवृत्तिः

सम्पादयतु

मध्यमा वृतिर्नेत्रगोलकान्तः स्था बहिर्वृतेरन्तस्तलेन संसक्ता भवति। अस्य त्रयो भागा भवन्ति - तारामण्डलम्, सन्धानमण्डलम्, कर्बुरवृत्तिश्चेति ।

तारामण्डलम्

सम्पादयतु

तनुपेशीसूत्रमयी मण्डलाकारा जवनिका, या स्वच्छमण्डलस्य पश्चिमवर्तिनी जले संप्लवते, स्वपरिधिमात्रेण सर्वतो निबद्धा । सा यवोदरायता सङ्कोचविकासशीला च भवति । सा चित्रग्राहियन्त्रस्य 'डायफ्रेम' इति संज्ञकभागविशेषेण सार्धं सादृश्यं भजते। यदि तारामण्डलं कृष्णवर्णं पिङ्गलवर्णं वा भवति, तस्य प्रतिच्छाया स्वच्छमण्डले सङ्क्रमिता तत् श्यामीकरोतीति पूर्वमेवोक्तम्।

कनीनकम्

सम्पादयतु

तारामण्डलस्य मध्ये दैवकृतमेकं विवरं कनीनकाख्यं भवति येन तेजोरश्मय उज्ज्वलवस्तूनां किरणानि च प्रविशन्ति । तारामण्डलीयपेशीतन्तूनां प्रसारसङ्कोचाभ्यां तस्य विवरस्य सूक्ष्मता स्फारता वा सम्पद्यते । प्रकाशातिरेकागमे कनीनकं सूक्ष्मं जायते, प्रकाशलाघवे कनीनकं स्फारीभूतं जायत इति विशेषः ।

सन्धानमण्डलम्

सम्पादयतु

तारामण्डलकर्बुरवृत्योर्मध्यस्थं मण्डलमुभयतः सन्धायि भवति । पेशीसूत्रमयमिदं भवति ।

कर्बुरवृतिः

सम्पादयतु

मध्यवृतेः पश्चिमभागः कर्बुरवर्णबहुलो भवति । सा शुक्लवृतिदृष्टि- वितानयोर्मध्ये शोणितस्रोतोभिः प्राचुर्येणानुविद्धा भवति । इयं नेत्रगोलकाभ्यन्तरस्य षड्भागपञ्चक(५/६)मावृणोति, शुक्लवृत्या च सह संसृज्यते। यैर्नाडीकोषाणुकैर्निमितेयं कर्बुरवृतिर्भवति, तानि कर्बुरवर्णकप्रचुराणि भवन्ति । चित्रग्राहियन्त्रस्य कृष्णजवनिका इव कर्बुरवृत्तिरपि तेजोरश्मी निवारयति, आत्मन्यन्तर्हिताः करोति ।

अग्रिमा जलधानी

सम्पादयतु

स्वच्छमण्डलात् पश्चिमत: पुरतश्च तारामण्डलस्या- काशस्तनुजलपूर्णो भवति । तस्य ' अग्रिमा जलधानी' इति व्यपदेशो भवति ।

दृष्टिमण्डलम्

सम्पादयतु

दृष्टिमण्डलं दृष्टिमणिर्वा नाम चिपिटमौक्तिकाकारं यवकाचसदृशं वा पारदर्शकवस्तुमयं स्थूलमध्यं मण्डलं भवति । तद्धि तारामण्डलस्य पश्चान्नेत्रगोलकान्त- र्मध्येऽवलम्बते। तच्च समन्तात् सन्धानमण्डलनिबद्धया तद्बन्धन्या सन्धृतम्, तस्याग्रतः सकनीनकं तारामण्डलं पश्चिमजलधान्या व्यवहितं जायते । यस्य पश्चिमतः पश्चिमजलधानी' भवति। ननु किमर्थं दृष्टिमण्डलं काचमण्डलमिति नोक्तम्, काचवदपारदर्शकवस्तुमयत्वात् ? नहि दृष्टिमण्डलं काचमण्डलमिति वाच्यम्, काचसंज्ञा तु आयुर्वेदतन्त्रे नेत्ररोगविशेषाभिधायकत्वेन सुप्रसिद्धा। अपि च सुश्रुतेन दृष्टिपदमस्मिन्नर्थे प्रयुक्तमप्युपलभ्यते । दृष्टिमण्डलं हि खलु चित्रग्राहियन्त्रस्थपारदर्शककाच इव भवति । दृष्टिमण्डलस्य निर्माणमपि पलाण्डुकन्दवत् कोषस्तरैः समन्वितं भवति । एते स्तरकोषाश्चान्तरन्तर्गताः क्रमशः कठिनतराः, मध्ये च कठिनतमाः । तथापि पारदर्शितास्य न व्याहन्यते, सर्वाङ्गानां तुच्छस्वच्छत्वात्। दृष्टिमण्डलीयस्तरकोषाणां पोषणं धमनीशिरानाडीभिर्नैव भवति । लसिकामात्रेण परितः स्थितेनैव तत्पोषणं सम्पाद्यते । यदा वार्धकादिहेतोः स्वच्छत्वापगमाद् रूपग्रहणे व्याघातो जन्यते, तदा दृष्टिमण्डलानाविलत्वजन्यः सुप्रसिद्धो रोग : 'काच' संज्ञको जायते। स एवार्यभाषायां 'मोतियाबिन्द' किं वा 'मुक्ताबिन्दु:' इति व्यपदिश्यते । पश्चिमा जलधानी सान्द्रजलपूर्णा भवति । नेत्रगोलकाभ्यन्तरस्य चतुःपञ्चम (४/५)भागमापूरयति। अनया गोलकस्य सुसंहतवर्तुलाकाररक्षणं जायते। १. स्वच्छमण्डलम् २. अग्रिमा जलधानी ३. तारामण्डलम् ४. दृष्टिमण्डलम् ५. पश्चिमा जलधानी ६. शुक्लवृति: ७. कर्बुरवृतिः ८. अन्तर्वृतिः, दृष्टिवितानः ९. दृष्टिनाडी १०. अन्धबिन्दुः ११. दर्शनकेन्द्रं पीतबिम्बं वा १२. अक्षरेखा

दृष्टिवितानः

सम्पादयतु

दृष्टिवितानो नाम अन्तर्वृतर्या नेत्रगोलकस्यान्तरतमातितन्वी वृतिर्भवति। साग्रिमषड्भागवर्जसमग्रमपि नेत्रगोलाभ्यन्तरं व्याप्नोति । इयं दृष्टिनाड्या नेत्रगोलकप्रविष्टायाः प्रतनुविस्तारस्वरूपा। दृष्टिनाडी च नेत्रगोलकस्याक्षरेखां' नानुसरति । किन्तु सा तत्पार्श्वतः प्रविशति, परितश्च विसारिभिः प्रतानैर्वितानरूपेण प्रतायते । येन छिद्रेण दृष्टिनाडी नेत्रान्तः प्रविशति, तस्य सितबिम्बमिति संज्ञा भवति । तदेवान्ध- बिन्दुरित्यप्याचक्षते, यतो हि तत्र दृष्टिशक्तेः सर्वथाभावो विद्यते । अक्षरेखास्पर्शस्थानन्तु सितबिम्बपार्श्वस्थं स्तोकेन निम्नस्थं पीतबिम्बं नाम भवति । तस्मिन् मध्यबिन्दौ ईषद्गभीरे तीक्ष्णतमा दृष्टिशक्तिर्भवति, अत एव तस्य दर्शनकेन्द्रमित्यपि व्यपदेशो भवति । दर्शनेन्द्रियस्यैते सर्वे भागा उपर्युक्तेन चित्रेण स्फुटीभवन्ति। दृष्टिवितानस्य दृष्टिनाडीविस्तारभूतप्रतानैर्नाडीकन्दाणुकैः सतन्तुकैश्च निर्माणं जायते। तस्य दशस्तरिकाः सूक्ष्मपरीक्षा दृश्या: । नवम्यां दशम्यां च स्तरिकायां रूपादानग्राहीणि द्विविधानि नाडी- कन्दाणुकानि भवन्ति - शूलाकांराणि, वेमाकाराणि चेति । तत्र शूलाकाराणि नाडी- कन्दाणुकानि प्रकाशहीनतामन्धकारं वा गृह्णन्ति। वेमाकाराणि च नाडीकन्दाणुकानि प्रकाशजन्यरूपग्राहीणि भवन्ति। वस्तुतस्त्वेतान्येवालोचनप्रत्यक्षस्य ग्राहीणि संज्ञावाहीनि वा नाडीकन्दाणुकानि भवन्ति । सूक्ष्मपरीक्षया ज्ञायते यत्तयोः प्रत्येकप्रकारकनाडीकन्दाणुकानां संख्यानेकायुतमिता भवति दृष्टिविताने । पीतबिम्बे मध्यबिन्दौ वा किमपि शूलाकारकं नाडीकन्दाणुकं नास्ति । अत एव तत्र रूपादानस्य चरममालोचनं ज्ञानं जायते, वेम़ाकारक- नाडीकन्दाणुकानामेव सत्त्वात्। स्मरणीयमत्र यत्पीतबिन्दौ तीक्ष्णतमा दृष्टिशक्तिर्भवति। आलोचनप्रत्यक्षवेलायां तत्रैव साम्मुख्यं विधातुं नेत्रचेष्टिन्य: पेश्यः, शिरोग्रीवापेश्यश्च शिरोविवर्तनादिना यथार्हं प्रयतन्ते। मध्यबिन्दावेव दृष्टिमण्डलेन प्रकाशरश्मीनां संव्यूहनं सम्पाद्यते। प्रकाशरश्मय एव तर्हि चाक्षुषप्रत्यक्षे योग्या उत्तेजका भवन्ति । रश्मीनां संव्यूहनञ्च दृष्टिमण्डलेन एकाग्रीकरणेन सम्पाद्यते । दृष्टिकेन्द्रं परितो दृष्टिशक्तेस्तीक्ष्णता परिहीयते । कि कारणम् प्रकाशरश्मीनामक्षं विहायान्यत्र तथाविधसंव्यूहनाभावादपि प्रागुक्ताभिर्दृष्टिवितानस्याष्टभिर्नाडी- कन्दाणुकविशेषैर्विनिम्मिताभि: स्तरिकाभी रूपादानिकाचित्रजवनिके नवमीदशम्यौ स्तरिके पिहिते, यद्यपि तासामतिस्वच्छत्वात् प्रतिबिम्बग्रहणं न बाध्यते । पीतबिम्बे चेदं व्यवधानमतीव तनूभूतं जायते। अत एव मध्यबिन्दौ तीक्ष्णतमा दृष्टिशक्ति: ।

चाक्षुषोत्तेजकस्वरूपम्

सम्पादयतु

प्रागुक्तमेवास्माभिर्यत् तेजोरश्मय एव चाक्षुषालोचनज्ञानार्थं योग्य उत्तेजका भवन्ति । तेजोरश्मीनां गतिर्हि ९३०,०० कोशाः प्रतिसेकेण्डाख्यं विपलं भवति । अत्र क्रोशमानं मीलद्वयमितमवधार्यम् । येन माध्यमेनेमा: प्रविचलन्ति तद्धि नूनमाकाशो द्रव्यं यदाङ्गलभाषायाम् 'ईथर'नाम्ना' व्यपदिश्यते। स्मरणीयमस्मिन् विषये यदन्यप्रकारका अपि माध्यमा भवन्ति, यथा - आकाशवाण्यूर्म्मयः ६, ध्वन्यूर्म्मय' इत्यादयः। नहि चक्षुरिन्द्रियं आकाशोमिव्यतिरिक्ताभिरूमिभिरुत्तेजितं जायते। नहि सर्वा आकाशोर्म्मय एव योग्या उत्तेजिका, अपि तु यासां दैर्घ्यं 'मिलिमिटर' इति आङ्गलभाषीयमानस्य ३६२ तः ८०० प्रयुततमांशमध्ये वर्तते । 'मिलिमिटर' इति मानं वितस्तिपरिमाणस्य नवतितमो भागो भवति। एवम्प्रकारेण चक्षुरिन्द्रियमप्याकाशवाणीग्राहकयन्त्रमिव भवति यद्विशिष्ट- प्रकारकदैर्घ्ययुक्तप्रकाशोम्मिग्रहणे समर्थं भवति। ये सप्त वर्णाश्चक्षुरिन्द्रियेण रूपादानकाले ज्ञायन्ते, ते इन्द्रधनुषः सप्तवर्णसदृशा भवन्ति । दीर्घतमतेजोरश्मिनारक्तिमवर्णरूपादानं सम्पाद्यते। तद्ध्रस्वतरतेजोरश्मिना नारङ्गीवर्ण उत्पाद्यते। तदपेक्षया ह्रस्वतरतेजोरश्मिना पीतवर्ण उत्पाद्यते। तदपेक्षया ह्रस्वतररश्मिना हरितवर्णो जन्यते । तदपेक्षया ह्रस्वतररश्मिना च नीलवर्णालोचनज्ञानमुत्पाद्यते । एवम्प्रकारेणान्यद्वर्णद्वयालोचनज्ञानद्वयमपि ह्रस्वतर- रश्मिभ्यां जन्यते। सर्वे रूपवर्णाः, यान् वयं पश्यामः, रश्मीनां परस्परं सम्मिलनजन्या एव भवन्ति, तेषाञ्च रश्मीना दैर्घ्यपरिमाणभेदो विद्यते । शूलाकाराणि नाडीकन्दाणुकानि दृष्टिवितानान्तरीयस्थानि नीलादिमन्दप्रकाशवर्णालोचनज्ञानजनकोत्तेजनाग्रहणे समर्थानि भवन्ति। वेमाकाराणि च नाडीकन्दाणुकानि रक्तिमवर्णदिरूपालोचनज्ञानजनकोत्तेजनाग्रहणे समर्थानि भवन्ति। मिश्रितवर्णानुकूलोत्तेजना विविधदैर्घ्ययुक्तरश्मिभिर्जन्यते, ताश्च शूलाकाराणि वेमाकाराणि नाडीकन्दाणुकानि मिलित्वैव गृह्णन्ति । केचन पुरुषा वर्णरूपान्धाः भवन्ति। वर्णरूपान्धत्वप्रकारको रोगविशेषः कृष्णवर्णं कर्वुरं वा प्रत्येकं वस्तु ते सर्वदा पश्यन्ति। तेषां दृष्टिविताने शूलाकाराण्येव नाडीकन्दाणुकानि भवन्ति, वेमाकाराणां रूपग्राहिणां नाडीकन्दाणुकानां तत्राभाव एव विद्यत इति दर्शनेन्द्रियप्रयोगैः साधितम्। केचनान्ये पुरुषास्तमोऽन्धाः भवन्ति। तिमिररोगग्रस्तास्ते भवन्ति। तेषां दृष्टिविताने वेमाकाराण्येव नाडीकन्दाणुकानि भवन्ति । शूलाकाराणां मन्दप्रकाशग्राहिणां नाडीकन्दाणुकानामभाव एव तत्र विद्यत इत्यपि पौनःपुन्येन चक्षुरिन्द्रियप्रयोगैः साधितं शारीरकमनोविज्ञानविशारदैः। वयं तावन्निर्णेतुमर्हाः - शूलाकाराणि नाडीकन्दाणुकानि रूपवर्णाभावग्रहणक्षमाणि भवन्ति, वेमाकाराणि च नाडीकन्दाणुकानि रूपादानक्षमाणीति। सम्प्रति वयं तेजोरश्मिप्रतिबिम्बग्रहणप्रकारविशेषमनुव्याख्यास्यामः। प्रागुक्त- मेवास्माभिर्यद् नेत्रेन्द्रियमालोकचित्रग्राहकयन्त्रसदृशं भवति । दर्शनेन्द्रियस्थो दृष्टिवितानस्तु चित्रग्राहियन्त्रस्थप्रतिबिम्बग्राहिकाचवद्' भवति । दर्शनेन्द्रियस्थं तारामण्डलमपि सङ्कोचविस्फारशीलेन तद्यन्त्रस्थजवनिकाचक्रेण सह सादृश्यं बिभर्त्ति | जवनिकाचक्रेणापि तेजोरश्मीनामल्पाधिक्यं नियन्त्रितं जायते । आलोकचित्रग्राहियन्त्रस्य यथोर्ध्वाधःपार्श्वदेशेषु सन्निकटं दूरं वा स्थानपरिवर्तनेन बिम्बग्रहणायाभिकेन्द्रं स्थापयितुं शक्यते, तथैव नेत्रगोलकमपि शिरोग्रीवापेशीप्रचेष्टनेन नेत्रपेशीप्रचेष्टनेन च । तथाप्यस्ति ह्येको विशेष: । आलोकचित्रग्राहियन्त्रे यवकाच े एक एव भवति । स च समीपतो दूरतो वा यथाप्रयोजनं स्थापयितुं शक्यते, येन तेजोरश्मिसंव्यूहनं सुकरं भवेत् । किन्तु चक्षुरिन्द्रियगोलके रश्मिसंव्यूहनयन्त्रं द्विविधं भवति - एकं स्वच्छमण्डलम्, द्वितीयञ्च दृष्टिमणिः। प्रथमं तावत् स्वच्छमण्डलेनैवादीयन्ते तेजोरश्मयः संव्यूह्य । अग्रिमजलधान्यां तनुजलप्रवेशेन ते चेषद्भुग्नीकृतमार्गा' जायन्ते । इदं हि स्वच्छमण्डलं पुरस्तात् समुन्नतमध्यं भवति, पश्चाच्च कोरोदरं भवति। तदनन्तरं तारामण्डलसहितकनीनकमार्गस्य सङ्कोचनविस्फाराभ्यां ते रश्मयोऽल्पीकृतगुच्छा बहलीकृतगुच्छा वा जायन्ते, पतन्ति च दृष्टिमणेः पुरोभागे । दृष्टिमण्डलं चेदमुभयतस्तुन्दिलं भवति । कनीनकमार्गस्य सङ्कोचनसमनन्तरमेव दृष्टि- मण्डलमप्यधिकतुन्दिलं जायते, तद्विस्फारसहकृतमेवास्यापि दृश्यतेऽल्पतुन्दिलत्वम्। तारामण्डलस्य सङ्कोचनाविस्फाराभ्यां कनीनकमार्गस्य विस्फारसङ्कोचनमासाद्यते, आपद्यते च दृष्टिमण्डलस्य बन्धन्या अपि शिथिलीकरणम्, अशिथिलीकरणं वेति। बन्धन्याः शिथिलीभावेन दृष्टिमण्डलमल्पतुन्दिलं जायते, तच्च तदैव भवति यदा तेजोरश्मीनामाधिक्यं न भवति। बन्धन्योरशिथिलीभावेनापरथा दृष्टिमण्डलस्याधिकतुन्दिलत्वं जायते तच्च तदैव भवति यदा प्रकाशातिरेको भवति । तेजोरश्मीनां नियन्त्रणमावश्यकञ्च प्रतिभाति, तदभावेऽन्यथा रश्मिसंव्यूहनं नापद्यते, नापि प्रतिबिम्बग्रहणमेव सम्यक्तया जायते । नहि दृष्टिमण्डलस्य केन्द्रीकरणमन्तरा पदार्थानां सम्यक्तया प्रतिबिम्बं दृष्टिवितानेन गृह्यते। दृष्टिमण्डलस्योभयतस्तुन्दिलत्वात् तेजोरश्मयस्तत्प्रवेशनिर्गमाभ्यां द्वेधा भुग्नीभूय संव्यूढाः सन्तो दृष्टिविताने प्रतिबिम्बरूपं जनयन्ति । नहि तद्यथावस्तुरूपं भवत्यपि तु विपरीतमेव, यथा ह्यालोकचित्रग्राहियन्त्रस्थे प्रतिबिम्बग्राहिकाचे विपरीतमेव प्रतिबिम्बं जायते। रूपादानकाले चाक्षुषालोचनं तु यथार्हमेव जन्यते, यतो हि प्रतिबम्बस्यापि विपरीतस्य चित्रजवनिकायामासादितस्य मनस उपलब्धिस्तु स्वभावनियमाद् वस्तुरूपा- नुसारिण्येव भवति। अनुमातुमपि चेदं शक्यते वस्तुभूतरूपत्वमुपलब्धेः स्पर्शादिना ।

चाक्षुषालोचनज्ञानविशेषाः

सम्पादयतु

दर्शनेन्द्रियनिर्माणं चाक्षुषप्रत्यक्षोत्तेजकस्वरूपञ्च रूपादानप्रकारश्चेति सर्वं प्रतिपदं व्याख्यातचरम्। साम्प्रतं वयं चाक्षुषनिर्विकल्पकप्रत्यक्षस्वरूपगतविशेषाननुव्याख्यातु- मारभामहे। चाक्षुषालोचनज्ञानानां द्विधा वर्गीकरणं कर्तुं शक्यते, यथा-वर्णात्मकान्यालोचन- ज्ञानानि वर्णरहितान्यालोचनज्ञानानि चेति । वर्णात्मकालोचनज्ञानमपि सप्तविधमिन्द्र- धनुरन्तर्गतवर्णानुसारम्। तेषां मिश्रीकृतरूपाणि च । वर्णरहितालोचनज्ञानस्यानेके प्रकारा भवन्ति चाकचिक्याद्यालोचनज्ञानेभ्य आरभ्य प्रगाढकृष्णवर्णपर्यन्तम्। वर्णानां भेदा अपि भवन्ति तद्गुणविशेषापेक्षया । अत्र त्रयो गुणा विशेषेणोल्लेख- नीयाः–वर्णरूपम्, चाकचिक्यम्”, गभीरत्वञ्चेति'। वर्णरूपं तूत्तेजकस्य रश्मिदैर्ध्यानुसारं भिद्यते। चाकचिक्यमपि खलूत्तेजकस्य तीक्ष्णत्वव्यपेक्षमवसेयम्। गभीरत्वञ्च विविधदैर्घ्ययुक्तरश्मीनां परस्परं मिश्रणेन जन्यते । विशुद्धैकस्तेजोरश्मिः प्रकाशोम्मिरिति यावत् पूर्णतो गभीरवर्णो भवति, किन्तु चक्षुरिन्द्रियं प्रायेण सवर्णकेनोत्तेजितं न जायतेऽत एव पूर्णतो गभीरस्य रश्मेरालोचनं ज्ञानमपि नोत्पद्यते । यद्वयं निर्विकल्पके प्रत्यक्षेऽनुभवामस्तत्सर्वं रश्मीनां परस्परं मिश्रणमेव।

उत्तरप्रतिमा

सम्पादयतु

आलोचनज्ञानस्य चाक्षुषरूपस्योत्तरप्रतिमापि जायते । यदि वयं कियन्तं कालं यावत् तीब्रे प्रकाशे पठामस्तदनन्तरञ्च तमसि गच्छामस्तदानीं क्षणं यावत्पूर्वप्रकारकमालोचनं ज्ञानमव्यवहितं प्रचलति । तदानुवर्त्यालोचनं ज्ञानम् 'अनुरूपोत्तरप्रतिमा'" इति व्यपदिश्यते। तच्च क्षणानन्तरं तिरोभूय पुनरनुयोगिनमालोचनं ज्ञानं जनयति, ‘विपरीतोत्तरप्रतिमा’’ इति चाभिधीयते। मूलतमा वर्णाश्चत्वारः सन्ति - रक्तिमा, हरीतिमा, पीतिमा, नीलिमा चेति। तेषां वर्णानां युगलद्वये विपरीतोत्तरप्रतिमोत्पादनाय वर्गीकरणं सम्पाद्यते। रक्तिमहरीतिम्नोः पीतिमनीलिम्नोश्च विपरीतोत्तरप्रतिभाजनने युगलद्वयं जायते । विपरीतोत्तरप्रतिमोत्पादनायानुपूरकवर्णावपेक्षेते। कौ तर्ह्यनुपूरकवर्णौ ? यौ वर्णौ मिश्रीभाव- मापद्यमानौ विशिष्टमात्रायामीषत्पाण्डुरवर्णं जनयतः, तौ च समीपस्थौ परस्परमेकैकं संवर्धयतः। एतस्मादेव कारणात्तयोरनुपूरकाविति विशेषणम्। यदि कोऽपि पुरुषो नीलं पदार्थं चिरं यावत् पश्यति, ततश्च तस्य दृष्टिस्तत्पदार्थस्येषत्पाण्डुरायां पृष्ठभूमावापतति, तत्र विपरीतोत्तरप्रतिमायां पीतिमा भासते, पीतं पृष्ठभूमिभागं वा स पश्यति। एवम्प्रकारेण यदि कोऽपि पुरुषः कियन्तं कालं यावद् रक्तिमवर्णं पदार्थं पश्यति, तर्हि तस्मात् पदार्थाद् दृष्टिविचलनाद् ईषपाण्डुरायां' पृष्ठभूमौ हरीतिमानमेवं स पश्यति, हरिताभं वा पृष्ठभूभिभागं स पश्यति । एवम्प्रकारेणान्येषां वर्णानामपि मिश्रीभावमापद्यमानानामपि परस्परमनुपूरकत्वं जायते ।

श्रवणेन्द्रियम्

सम्पादयतु

सम्प्रति वयं सङ्क्षेपतः श्रवणेन्द्रियरचनाशब्दसंज्ञादावप्रकारादिकमनुव्याख्यास्यामः । शाब्दालोचनज्ञानसाधनं हि खलु श्रोत्रेन्द्रियम् । तस्य श्रुतिकर्णावपरपर्यायौ । तस्य बाह्य- गोलकं तु शिरःपार्श्वे शङ्खास्थिसँल्लग्नं तद्बहिरन्तश्च द्रष्टुं शक्यते । आभ्यन्तरमधिष्ठानं तु मस्तिष्कापरार्धे उत्तरशङ्खिकाख्यकणिकाश्रितं शब्दसंज्ञाबोधनक्षेत्रमिति द्वियीयाध्याये व्याख्यातचरम्। श्रवणेन्द्रियस्य बाह्याधिष्ठानस्य तावत्त्रयो भागा भवन्ति । ते यथा - बहि: कर्णः १ मध्यकर्णःर्, अन्तःकर्णश्चेति। वयमेतान् सम्प्रति प्रतिपदं विवेचयामः ।

बहिःकर्णः

सम्पादयतु

श्रवणेन्द्रियस्यायं बाह्यतमो भागः । तस्य द्वावंशौ मुख्यौ भवतः - कर्णशष्कुली॰, कर्णकुहरञ्चेति । कर्णकुहरनामसार्धाङ्गुलदीर्घा वक्रसुरङ्गा कर्णपटहावधि विस्तृता।

मध्यकर्णः

सम्पादयतु

अस्य ‘मध्यमा कर्णगुहा' इत्यप्यपरो व्यपदेशः। सेयं क्षुद्रविषमायतना गुहा पटहकलया प्रच्छन्नमुखी भवति । अङ्गुलमात्रविस्तारा चेयम् । वर्णनसौकर्य्याय मध्यकर्णस्य द्वौ भागौ विशेषत उल्लेखनीयौ - मध्यभागः, पटहभागश्चेति। मध्यभागस्तत्र' कर्णास्थित्रितयस्याधरार्द्धं वक्त्रनाड्यादिकं क्रोडीकृत्य वायुपूर्णस्तिष्ठति। पटहः श्रुतिपटहो वा नाम तनुदृढमसृणा स्वच्छप्राया मण्डलाकारा कला भवति । बहि:कर्णमध्यकर्णयोर्मध्ये पटहनेमिस्थेऽर्धशायितभावेनातिष्ठते। अस्ति हि श्रुतिपटहस्य कार्यविशेषः। वायुवाहितैः शब्दतरङ्गः कर्णशष्कुल्यवच्छिन्ने आकाशे समुत्थितैः कर्णपटहः प्रकम्पितो जायते, तथाभूतश्चायं स्वसंसक्तकर्णास्थित्रयतरङ्गवेगान् कर्णान्तः प्रापणाय नुदति । त्रीणि क्षुद्रतमान्यस्थीनि, यानि मध्यमकर्णगुहान्तर्निगूढानि भवन्ति, पटहकम्पनोत्थितवेगतरङ्गा- नन्तःकर्णं प्रापयन्ति। तेषां नामानि हि ' मुद्गरकमङ्कुशकं धरणकञ्चेति । तत्र क्षुद्रमुद्गराकारकत्वान्मुद्गरकमस्थि पटहपृष्ठे संसक्तं भवति । तदेवादौ पटहोत्थकम्पनवेगं गृहणाति। अङ्कुशकं नाम शिखरस्थं मध्यवर्णगुहायां कर्णास्थिशकलं यत्किञ्चिद् वक्रमङ्कुशाकृति च भवति। धरणकमिति क्षुद्रतमश्चरमः कर्णास्थिखण्डो यस्याकारोऽश्वपृष्ठ- निबद्धपर्य्याणस्य पार्श्वस्थपादधरणीसदृशो भवति । इदमेव कर्णपटहोत्थवेगतरङ्गान् साक्षा- दन्तःकरणयन्त्रेषु प्रेषयति प्रापयति वा । शब्दतरङ्गाणां वेगः कर्णास्थित्रयस्य क्रियया भूम्ना संवर्धते। मनोवैज्ञानिकैराकलय्य निर्धारितं यद्धि शब्दतरङ्गाणां वेगोऽन्तः कर्णप्रवेशकाले बहिःकर्णप्रवेशकालापेक्षया त्रिशद्वारं संवर्धितो जायते ।

अन्तःकर्णः

सम्पादयतु

अस्य कान्तारकमित्यप्यपरं नाम । अयं हि श्रवणेन्द्रियस्य मुख्यतमो निगूढतमो भागः। अयं हि शङ्खास्थ्नो श्मकूटभागान्तः प्रच्छन्नो भवति । अतिगहनवर्त्म- रूपेणावस्थितत्वात्तस्य कान्तारकमिति व्यपदेशो भवति । अन्तः कर्णे हि जलपूर्णभागोऽपि वर्तते, यस्मिन्नन्तर्जलपूर्ण: कलामयोंऽशः प्लवते । तदन्तरेव श्रुतिनाड्यः प्रतानाः प्रतायन्ते। अस्थिमयांशे तृत्कीर्णगुहागृहाणीय भागा भवन्ति । वस्तुतस्तु शब्दसंज्ञावाहिनाड्यः श्रुतिशम्बूक एवावतिष्ठन्ते । श्रुतिशम्बूकं नाम अन्त:कर्णभागे शङ्खाकृतिकं भवति। अत्रेदं स्मरणीयं यद्धि कान्तारकस्य द्वावंशौ - अस्थिमयांशः, कलामयांशश्चेति। अस्थिमय- कान्तारकं हि तनुलसीकापूर्णं भवति । तस्या लसीकाया नाम परिजलमिति भवति । तस्मिन्नेव चान्तःकर्णस्य कलामयांशः प्लवते सपरिकरम्। सोऽपि “अन्तर्जला' ख्यलसीका- पूर्णो भवति। तस्मिन्नेव सूक्ष्मतमाः श्रुतिनाड्याः प्रतानाः प्लवन्ते । श्रुतिनाडी चाप्यत्रैव संसक्ता जायते।

श्रुतिनाडीप्रसरक्रमः

सम्पादयतु

श्रुतिनाडी सप्तमनाड्या सह प्राणगुहायाश्चतुरस्रखात- धरातलात् समुत्तिष्ठति, मस्तिष्कादुष्णीषकसुषुम्णाशीर्षकमार्गेण च निर्गच्छति । इयं सप्तमनाड्या सहैव कर्णान्तर्द्वारं प्रविश्य पृथग्भवति, द्विधा च विभज्यते । अस्यैका शाखा तुम्बिकाभिगा नाडी भवति, अपरा च शम्बूकाभिगा नाडी भवति । तिम्बिकाभिगा श्रुतिनाडी विविधैः प्रतानैर्दिग्देशज्ञानाय स्थानासनसन्तुलनरक्षणाय च प्रभवति । नहि तत्सम्बद्धा मस्तिष्क भागाः शब्दालोचनज्ञानाय कल्पन्ते । श्रुतिनाड्या अपरा शाखा शम्बूकाभिगा नाम श्रवणालोचनज्ञानाय कल्पते। तद्विशेषविवरणमुपरि व्याख्यातचरम् । एते सर्वे कर्णेन्द्रियावयवा निम्नलिखितेन चित्रेण प्रदर्शिता :- मानवीयश्रवणेन्द्रियम् १- बहिःकर्णः २-कर्णकुहरम् ३-मध्यकर्णः ४-शम्बूकनाडी ५ - श्रुतिपटहः

शब्दसंज्ञादानप्रकारः

सम्पादयतु

श्रवणेन्द्रियरचना व्याख्याता । वयं सम्प्रति शब्दालोचनं ज्ञानं कथमुद्य इत्यधिकृत्य किञ्चिद्विवेचनं पुरस्कुर्मः । शब्दालोचनज्ञानस्य योग्या उत्तेजकास्तु वायु वस्तुप्रतीघातकृतप्रकम्पनसमुत्थिताः । शब्दो वायुतरङ्गैः सह कर्णकुहरं प्रविष्य पटहकलामभिहन्ति। कर्णपटहाभिघातेन मुद्गरिकोन्नमनात् कर्णास्थित्रिकं चाल्यत ततश्चोत्पद्यतेऽस्थिमयकान्तारकान्तरीये परिजले सर्वतः प्रकम्पनम्। परिजलोत्थतरङ्गवेगाश्च द्वेधा प्रसरन्ति - पुरस्तात् शम्बूकान्तः पश्चाच्च शुण्डिकाधारिकान्तरिति । अन्तर्जलीय- प्रकम्पनैस्तन्मध्यस्था कलामयी शम्बूकी अन्तर्जलेन साकं प्रकम्पिता जायते । अन्तर्जलञ्चेदं प्रकम्पमानं स्वरग्राह्यवयवान् प्रागुक्तान् वीणातन्त्रीराजिमिव प्रकम्पयति, ततश्चोत्पद्यन्ते षड्जर्षभगान्धारमध्यमादिसप्तस्वरास्तेषां ग्राममण्डलमूर्च्छनादयश्च। ते चादीयन्ते सुसूक्ष्मैः शम्बूकाभिगनाडीसुसूक्ष्मप्रतानैः संज्ञावहवर्त्मभिर्मस्तिष्कमभि प्रापणाय । एवम्प्रकारेण जायते शब्दालोचनं ज्ञानम्। ये तु पुनः परिजलीयास्तरङ्गवेगास्तुम्बिकामार्गेण पश्चादुपसर्पन्ति, ते तु शुण्डिकान्तरीयं परिजलं प्रकम्पयन्ति। परिजलप्रकम्पनैस्तदन्तःप्लवमानशुण्डिका- भ्यन्तरीयजलसंसक्तरोमवत् कोषाणुकानि कम्पनं संज्ञादानप्रकारकमवाप्नुवन्ति । शुण्डिका-कोषाणुकानि दिग्देशाद्यालोचनज्ञानं स्थानासनसन्तुलनाद्यालोचनज्ञानमुत्पादयितुं प्रभवन्तीति विशेषः। एतानि रोमवन्ति कोषाणुकानि एकैकस्यां शुण्डिकायां सार्द्धपञ्चदशसहस्रं भवन्ति । नहि सर्वे वायुतरङ्गोत्थाः शब्दा आलोचनज्ञानविषया भवितुमर्हन्ति । दृष्टिवितानोऽपि तथा समग्रतेजोरश्मीनां संव्यूहनं केन्द्रीकरणञ्च कर्तुं न प्रभवत्येवमेव श्रुतियन्त्रमपि सर्वानेव तरङ्गवेगानादातुं न प्रभवति। मध्यमकक्षीयवायुतरङ्गवेगानेव कर्णेन्द्रियं योग्योत्तेजक- रूपेणाङ्गीकरोति न हि तदवरान्, नापि तदुत्तरान् । सूक्ष्मप्रयोगैर्निधारितं हीदं यद्धि प्रतिसेकण्डाभिधविपलं विंशतिः कम्पनानि न्यूनातिन्यूनं श्रोतुमर्हाणि । प्रतिसेकण्डाभिध- विपलमधिकतमसंख्या प्रकम्पनानां विंशतिसहस्त्रमिति गणयन्ति सूक्ष्मपरीक्षकाः । अपि च, मानवीयश्रवणेन्द्रियं ३००,००० ध्वनिलक्षत्रयमालोचनज्ञानमवाप्तुं शक्नोतीत्यपि तद्विवेकिनामाकलनम्। वायुतरङ्गा वस्तुप्रतिघातवेगक्रमाद्यनुसारं भिद्यन्ते । तदनुसारमेव ध्वनीनामपि तीब्रत्वं पौनःपुन्यञ्च जायत इत्यवसेयम् । तीब्रवस्तुप्रतिघातेन वायुरपि तीव्रतरं विशीर्यते, अत एव वायुतरङ्गा अपि तीब्रवेगाः समुत्थिता भवन्ति । तज्जनितकर्णपटहप्रकम्पनादिषु तीव्रवेगः स्वत एवोत्पद्यते । उच्चैःस्वरञ्च तीव्रान्त:कर्ण- प्रकम्पनानां नियतं कार्यमिति सर्वमवदातम् ।

सन्दर्भाः

सम्पादयतु

सम्बद्धाः लेखाः

सम्पादयतु