मनोविज्ञाने इच्छास्वरूपम्

मनोविज्ञाने इच्छास्वरूपम् अतीव महत्त्वपूर्णः विषयः अस्ति, तत्र इच्छायाः विशेषतया अध्ययनं भवति।

कामचैतन्यस्य शक्तिवेगरूपस्याभिव्यक्तिलाभे प्रयत्नो निष्पन्नो भवति । प्रयत्ने खल्वव्यक्ताः प्रेरणा:; निसर्गजानि शक्तिस्रोतांसि, यान्यत्र कामपदेन व्यपदेश्यानि, इच्छारूपेण परिणमन्ते । कामपदस्य प्रयोगः कदाचन व्यक्तेरिच्छामपि खल्वभिव्यञ्जयति।

तद्यथा-

न जातु कामः कामानामुपभोगेन शाम्यति ।

हविषा कृष्णवर्त्मेव भूय एवाभिवर्तते ॥ इति । (मनुस्मृतिः)

अस्तु तावत्, इच्छा कामस्य बीजभूतस्य स्फुटोऽभिव्यक्तरूपो मानसव्यापारविशेषः। बुभुक्षितो बालको महाविद्यालयभवने यदा भोजनं खादितुमिच्छति, स भोजनं खादितुं भोजनालयमुपसर्पति, स्वगृहं वाभिगच्छति। यदा कस्यचिद् वस्तुनोऽभावः दुःखाकरोति चेतः, तदैवेच्छायाः प्रादुर्भावो मानसपटले सञ्जायते। यदा मम पुस्तकं चोरितं जायते केनापि तस्करेण, तदैवाहं तन्मार्गणेच्छामनुभवामि, 'मदीयं पुस्तकमन्वेष्टव्यम्' इति सहवासिनं वा ब्रवीमि । यदि च मत्सकाशे पुंस्तकं भोजनं वा क्रेतुं धनं न भवेत्तर्हि जटिलसमस्या धनोपार्जनाय समुपस्थिता भवति । 'कुतो धनमवाप्तव्यम् ? ' - इति मे महती चिन्ता, अभिक्ष्णं दन्दह्यते चित्तम् । नूनमत्र मत्या भाविनः कार्यस्य वस्तुनो वा, येन तद्विषयकेच्छायाः सन्तृप्तिर्भविष्यति, समाधानमनुसन्धेयम् ।

येन वस्तुना येनोपकरणेनेच्छाविशेषस्य पूर्तिर्जायते, तस्य तस्य कल्पनाप्रतिमाक्षणं मानसपटलेऽवतीर्य तदुपादानविधिं प्रशस्तं करोति । सन्ति हि प्राय: समीचीनोपकरणप्राप्त्यर्थमनेका बाधा: किन्तु कथं ता दूरीभविष्यन्तीति सर्वं मत्या विचार्यते । स्मृतिरपि जटिलसमस्याग्रन्थि- विस्रंसनाय स्वकीयं साहाय्यं पुरस्करोति । पूर्वानुभवसहायं विचिन्त्यैव खल्विच्छापूर्त्तिः करणीया। किं मित्रमस्माकं साहाय्यं करिष्यति ? किं कार्यं कृत्वाचिरेण वयं भोजन लप्स्यामहे?–इति सर्वा विचारशृङ्खला इच्छापूर्त्तये समारब्धा भवन्ति । अत एवेच्छा विविधं शारीरिकक्रियाजातं कल्पनाचिन्तनस्मरणप्रभृतिमानसिकव्यापारजातं च प्रेरयति । इच्छामूलं निखिलं प्रयत्नजातमिति रहस्यम् ।

इच्छाऽभिलाषयोर्लक्षणम्

सम्पादयतु

प्राचीनाचार्यैः प्रायः कामेच्छाभिलाषादिशब्दानां प्रयोग: पर्यायवाचकत्वेन कृत: समुपलभ्यते, यद्यपि सूक्ष्मान्तरमपि कदाचन तेषां सम्प्रयोगेषु नूनमुद्घाटयितुं शक्यते । अत्र पारिभाषिकपदावलीं परिष्कर्तुं यदुपक्रम्यते, तन्नूनं मानसिकव्यापाराणां जटिलानां सूक्ष्मान्तरान्वितानां याथातथ्यनिरूपणायाऽलं भविष्यतीति वयमाशास्महे । अभिलाषो नाम इच्छाविशेष:, यस्मिन् प्रयत्नस्य भावि व्यावहारिकं रूपम्, इष्टफलावाप्तिश्च सन्दिग्धा भवति । अथवा यस्य फलभाक्त्वमव्यवहार्यम्, एतादृगभिलाषो वै कश्चन नाशु कार्यरूपतां धत्ते। यथा - अस्ति मेऽभिलाषो यदहं सार्वभौमप्रभुत्वसम्पन्नभारतीय- गणतन्त्रस्य राष्ट्रपतिर्भूयासमिति ।

अथवा कस्यचन अमेरिकादेशीयस्य सुरभारतीचरणसंसिक्त- मानसस्यायमभिलाषो भवेद् यद्वै देववाण्याः पुण्यसाहित्यसलिलेऽवगाहमानः कविकुलचूड़ा- मणिः कनिष्ठिकाधिष्ठितकविर्भूयासमिति । नहि खल्वभिलाषेच्छयोः लक्ष्यमव्यवहार्यं फलं वा सम्भावनाजुष्टं भवतीति गन्तव्यम् । इच्छाया लक्ष्याभिप्राप्त्यर्थं क्रियाः शीघ्रमेव जायन्ते। इच्छाविशेषे सति लक्ष्यसिद्ध्यर्थमितिकर्त्तव्यतानिश्चयपूर्वकं प्रयत्नविशेषो जायते। यथा-इदानीं यदि रामलीलाभिनयान्तर्गतभरतसम्मिलनं काश्यां 'जगतगञ्ज’मण्डले द्रष्टुमहमिच्छामि, तर्हि सद्योऽहमुत्तरीयकं गृहीत्वा गन्तुमारभे । इच्छात्र गमनपर्यवसाना। इच्छालक्ष्यं निर्दिष्टेतिकर्त्तव्यताविचारपुरस्सरं व्यवहार्यं च भवतीत्यवगन्तव्यम्।

क्रियाप्रयोजकस्य स्वरूपम्

सम्पादयतु

किन्नु खलु क्रियायाः प्रवर्त्तिका प्रेरिका प्रयोजिका वा' इच्छा भवति? अथवा किमप्यन्यदेव प्रयोजकम्? एवं सम्प्राप्तायामाशङ्कायामिदमुच्यते - येन कर्ता कस्मिन्नपि कर्मविशेषे प्रयुज्यते तत् प्रयोजकं प्रेरकं वेत्युच्यते। अत्र केचनाहुः - इच्छा प्रयत्नरूपक्रियायाः प्रयोजिका भवतीति। अन्ये त्वाहुः - सुखदुःखादिसंवेदनमेव क्रियायाः प्रयोजकमिति । सन्ति वै चान्ये, येषां मते लक्ष्यज्ञानमेव प्रयोजकं भवतीति । वयमत्र सर्वमेतत् प्रतिपदं विचारयामः ।

“प्रवर्तनालक्षणा दोषाः” [] इति सूत्रनिर्दिष्टं सूत्रकाराणां महर्षिगौतमप्रभृतीनां मतम्। इदं सूत्रं व्याचक्षाणो भाष्यकार आह- “प्रवर्तना प्रवृत्तिहेतुत्वम् । ज्ञातारं रागादयः प्रवर्तयन्ति पुण्ये पापे वा। यत्र मिथ्याज्ञानं तत्र रागद्वेषौ ” इति [] । अपि चाहुः - "कर्मलक्षणाः खलु रक्तद्विष्टमूढाः। रक्तो हि तत्कर्म कुरुते, येन कर्मणा सुखं दुःखं वा लभते। तथा द्विष्टस्तथा मूढ इति। दोषा रागद्वेषमोहा इत्युच्यमाने बहु नोक्तं भवति" इति । स्फुटत्वान्नेदं व्याक्रियते। रागद्वेषमोहाख्यदोषा एव पुण्यपापादिकर्मसु कर्तॄणां प्रवर्तका इति सूत्रकारभाष्यकारादिमतमनुसन्धेयम्। किञ्च प्रतीच्यविचारका बेन्थम' - मिल' -प्रभृतयोऽपि मन्यन्ते यद्धि संवेदनमेव क्रियाप्रयोजकम् । प्रयोजकं हि तत्, येन कर्त्ता कर्मणि प्रयुज्यते । अतः संवेदनप्रयोज्या वै क्रिया इति द्वितीयं मतम् । तदेव विचारसौकर्य्याय प्राग् विचार्यते ।

नेदं मतमस्मान् समीचीनं प्रतिभाति । मानवो हि खलु मननशीलो बुद्धिमान् प्राणी। नहि बुद्ध्युपेतमन्धं संवेदनं निरतिशयेन क्रियां जनयितुं प्रभवति । यावन्न संवेदनं सङ्कल्पविकल्पात्मकचिन्तनेच्छारूपेण परिणमते, तावन्नहि संवेदनं प्रयोजकपदवी- मधिरोहति। नूनं संवेदनं क्रियायाः प्रयत्नस्य वा निमित्तं भवति; किन्तु प्रयत्नाख्य- क्रियाकरणं तु फलविषयकः प्रत्यय एव भवतीति बोद्धव्यम् । अस्मिन् विषये न्यायभाष्य- वार्त्तिकतात्पर्यपरिशुद्धिकाराणामुदयनाचार्य्याणां व्याख्यानं नूनं विशेषेण समादरणीयम्।

तैरुक्तम्-“फलगोचरौ मोहरागौ मोहद्वेषौ वा तत्तत्साधनविषयौ मोहरागौ मोहद्वेषौ वा जनयन्तौ पुरुषं प्रवर्तयतः' [] इति । एतावतेदं स्फुटं जायते यद्धि रागद्वेषाख्यसंवेदने मोहाभिरूढे फलगोचरज्ञानासहकृते ज्ञातारं न प्रवर्तयतः; किन्तु फलगोचरप्रत्ययोपेते मोहाभिरूढे संवेदने जायमाने सत्येव ज्ञाता कर्मणि प्रवर्तते । अस्माभिर्यद् विवक्षितं तत्त्विदमेव यत् संवेदनमात्रं क्रियायाः प्रयोजकमिति मतमेकान्ततो नोपपद्यते। अन्यच्च, प्रयोजकलक्षणे फलज्ञानस्य महत्त्वमुदयनाचार्य्येणापि नूनमुररीकृतम् । सुतरां तावत् संवेदनं प्रयत्नस्य प्रयोजकं प्रेरकं वेति मतं न युज्यते, यतो हि संवेदनं न प्रेरयितुमलम्, यावन्न तदिच्छारूपां परिणतिमाधते ।

किन्तर्हि इच्छा एवैच्छिकक्रियाणां प्रयत्नसंज्ञिकानां प्रयोजिका ? आहोस्वित् फलगोचरप्रत्ययः? यद्यपि सामान्यतो लोके इच्छायाः क्रियाप्रयोजकत्वमपि श्रूयते, तथापि द्वयोरेवेच्छाप्रयोजकयोर्लक्षणं स्पष्टीकरणमपेक्षते । लक्षणनिर्देशानन्तरं किमप्येकं मतं प्रतिपादयितुं निराकर्तुं वा शक्यते । इच्छा नाम कामाख्यशक्तिवेगस्यावबोधान्वितं रूपम्, येन शारीरिकं मानसं च विचारात्मकं (सङ्कल्पात्मकं चिन्तनात्मकं वा) प्रयतनं जन्यते । [] एवम्प्राप्ते इच्छालक्षणे इच्छा प्रयतनस्य प्रेरिका जनयित्रीति वक्तुं शक्यते।

प्रयोजकं हि तत्, येन कर्त्ता प्रयत्नविशेषे कर्मविशेषे प्रयुज्यते । श्रीमन्तों वुडवर्थमहोदयाः प्रयोजकपदमस्मिन्नेवार्थे प्रयुञ्जाना आहुः- “मूलप्रवृत्तयो नैसर्गिक्यो विश्वास्याः क्रियाणां प्रयोजिकाः” इति। अतः प्रयोजकस्य किमप्यधिकं स्पष्टीकरणमपेक्ष्यते। फलगोचरं ज्ञानम्, यदधिकृत्य कर्त्ता कर्मणि प्रवर्तते, तद्वै प्रयोजकम् । इष्टफलाधिगमार्था प्रवृत्तिः पुरुषाणां दृश्यतेऽनिष्टोपरमार्था वा । सूत्रकारोऽप्येवं व्याचष्टे - “यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम्” [] इति। अस्य सूत्रस्यानुव्याख्यानं वात्स्यायनाचार्य्येणैवम्प्रकारेण कृतम्। तथा हि-‘“यमर्थमाप्तव्यं हातव्यं वा व्यवसाय तदाप्तिहानोपायमनुतिष्ठति, प्रयोजनं तद्वेदितव्यम्; प्रवृत्तिहेतुत्वात् । 'इममर्थमाप्स्यामि हास्यामि वा' इति व्यवसायोऽर्थस्याधिकारः । एवं व्यवसीयमानोऽर्थोऽधिक्रियते” इति। [] अतः प्रयोजकं प्रयोजनमिति च फलविषयकं व्यवसायात्मकं ज्ञानम्। तच्चाधिकृत्य क्रिया प्रवर्तते, न त्विच्छामात्रेण, नापि संवेदनमात्रेण। संवेदनजन्येच्छाप्रयुक्तं फलगोचरं ज्ञानं क्रियायाः प्रेरकमित्यवधार्यम्।

प्राध्यापकमैकेञ्जीमहोदया अपि प्रयोजकस्य लक्षणमेवंविधमेव प्रतिपादयन्ति । तद्यथा – “यदा कश्चन पुरुषः कस्मिंश्चित् कर्मणि प्रवर्तते, स तदा संवेदनातिरिक्तं साध्यस्य प्रत्ययमप्याश्रयते । नूनं प्रयोजकं तदेव यत् काम्यप्रापणायालम्, येन वयमिष्टमुपादातुं प्रभवेम इति []

अत्रेदं विवेचनीयम्। प्रयोजिका इच्छा समानविषयत्वादिति न वाच्यम्; यतः तत्रैको विशेषो वर्तते। इच्छा प्रायोऽनुद्भूतरूपा अविस्पष्टरूपा मिश्रिता वा दृश्यते। कदाचन तु व्यक्तिः स्वकीयेच्छानां हेत्वारोपणेन विचाराध्यायव्याख्यातचरेण रूपं प्रत्यवच्छिन्नं करोति। विशेषतो यदा तस्या इच्छाः समाजविरोधिन्योऽनैतिक्यो वा तदादर्शविप्रतिकूला वा भवन्ति, तदा नूनं तासां हेत्वारोपणं समुपलभ्यते । इच्छानां दमनेन हेत्वारोपणेन च व्यक्ति: स्वप्रयोजनानि यथाभूतानि न प्रकाशयति; किन्तु यथा तानि प्रशस्तानि प्रतिभान्ति, तथा सान्येभ्यः स्वप्रयोजनं प्रकटीकरोति । अतः प्रयोजनं हि तद्यत् कर्त्रावबोधदशायामङ्गी- क्रियते, प्रकाश्यते च। कदाचन प्रयोजनसङ्घर्षोऽपि जन्यते; तदा व्यक्तिः किङ्कर्त्तव्यविमूढत्व- मापद्यते, व्यक्तित्वं द्वैधीभूतं वा जांयते, क्रियावरोधोऽकर्मण्यता वा दृश्यते। एतावतेच्छाया अपेक्षातः प्रयोजकस्य विशेषोऽवधारणीयः ।

इच्छामूलप्रवृत्त्योः सम्बन्धविमर्शः

सम्पादयतु

अस्माकं मुख्यतमानामिच्छानां यद्रूपं विद्यते, तत्सर्वं मूलप्रवृत्त्यनुबन्धि। मनुष्यो- भोजनमिच्छति, स्वस्य स्वपरिवारस्य च सुरक्षां कामयते, जिज्ञासापूर्त्यर्थं नवीनमज्ञातं वस्तु ज्ञातुं प्रवर्तते कामयते वा, कामाभिप्रेतः परिणेतुमिच्छति, वात्सल्येन शिशौ स्निह्यति त्रस्ताय बुभुक्षितायानाथाय वा धनं सुरक्षासाधनं वौषधं वा प्रयच्छति, आत्मनो वैभवबलविद्याप्रदर्शनार्थं विविधानां दम्भपूर्णसामाजिकायोजनानां समारभ्भं करोति, प्रतिद्वन्द्विनं विजेतुं कामयते च । सर्वाण्येतानि नूनमिच्छाख्याणि मूलतो मूलप्रवृत्तिसमुद्भवानि । अत एव ता इच्छा अपि 'मूलेच्छाः' इति व्यपदिश्यन्ते। अस्मिन् विषये स्मर्त्तव्यमिदं यद्धि मूलप्रवृत्तयो निसर्गजाः । नहि तासां सर्वासां जन्मत एवं विकसितं प्रोढं रूपं समुपलभ्यते । समुचितकाले शरीरधातूनामुपचये शारीरिकसंस्थानानां विकासे जाते मूलप्रवृत्तिविशेषानुबन्धीच्छानां समुदयोऽपि सञ्जायते।

किञ्च, स्वानुरूपोत्तेजक- पदार्थविशेषं सम्प्राप्यैव तन्मूलप्रवृत्त्यनुबन्धीच्छानां समुदयो जायते। कदाचन तूत्तेजकपदार्थ- विशेषो बाह्यपरिस्थित्यायत्तः कदाचिच्च प्रमातुराभ्यन्तरप्रत्ययविशेषानुचिन्तनेन स्मरणेन कल्पनेन च तादृशेच्छा उत्तेजिता जागृता वा सम्भवन्ति । उदाहरणतया मदीया भोजनेच्छा खल्वन्यं पुरुषं स्वादिष्टभोजनमुपभुञ्जानं दृष्ट्वा समभिनिर्वर्तते । अपरस्मिन् काले स्वादिष्टभोजनालयोत्थपुपूलिकाशष्कुलिनिर्माणसुगन्धमात्रजन्या हि मदीयेच्छा जायते। अपि चान्यस्मिन् काले भुक्तपूर्वस्य श्रीखण्डस्य प्रत्ययस्मरणमात्रेणैव मदीयोत्कटेच्छा तद्भोजनविशेषमुपादातुं समुत्पद्यते। मूलप्रवृत्तिविशेषे समुत्तेजिते सत्येव तद्विषयकेच्छा- समुद्भवो जायते।

नहि योग्योत्तेजकपदार्थसमुपस्थितिः सर्वदैव मूलप्रवृत्तिविशेषानुकूलेच्छामुत्पादयति । कदाचन त्विदं दृश्यते यद्धि इच्छाविशेषे समभिनिर्वृत्ते सतीच्छाऽभावो कियत्कालपर्यन्तं जायते । तथा हि-

अपां हि तृप्ताय न वारिधारा ।

स्वादुः सुगन्धिः स्वदते तुषारः ॥ इति ।

आकण्ठभुक्तश्रीखण्डशालिसुस्वादुशष्कुलिप्रभृतिपक्वान्नस्य नहि तदनन्तरमेव भोजनेच्छा समुत्पद्यते, तदभिनिर्वृत्तत्वात् । मूलप्रवृत्तिविशेषेऽपि तत्प्रतिकूलस्थायिभावादी समुपस्थिते सति नहि तदुत्तेजकस्य क्रियाकारित्वं समुपलभ्यते । नहि विरक्तपुरुषस्य दम्भपूर्णदुकूलेषु इच्छाविशेषः समुपलभ्यते, यथा हि भर्तृहरिवैराग्यशतके –

वयमिह परितुष्टा वल्कलैस्त्वं दुकूलैः

सममिह परितोषो निर्विशेषाविशेषः ।

स तु भवति दरिद्रो यस्य तृष्णा विशाला

मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः ॥ इति । []

नहि सर्वदा कामः कामानामुपभोगेन शाम्यति; किन्तु कदाचन अवदमनेनासादिते- च्छानामभावो जायते। केषुचित् परिशोधद्वारा प्रतिकूलोदात्तस्थायिभावनिर्माणेन, अथवा स्वानुकूलविषयानुपलम्भाच्चिरं यावत् मूलप्रवृत्त्यनुरूपशरीरसंस्थानानां कुण्ठितत्वादुप- निरोधाद् वा हीच्छाविशेषाणां तिरोभावो जायते । नैष्ठिकब्रह्मचारिणामाजीवनकुमारिकाणां च कामप्रवृत्तिजनितेच्छानां परिशोष एव जायते । आत्मसंयमेन स्वनियन्त्रिता इच्छा देवत्वाय कल्पन्त इत्यूह्यम् । सुतरामिच्छानां मूलप्रवृत्तिविशेषैः सहातीव सन्निकृष्टसम्बन्धो वर्तते; तथापीच्छानां समुद्भवो यान्त्रिकक्रियावन्नोपजायते यदा मूलप्रवृत्तिविशेषोत्तेजकपदार्थः सन्निधौ वर्तते। का हीच्छा प्रादुर्भविष्यति, का च नोत्पत्स्यत इति सर्वमुत्तेजकविषयायत्तमिति न वाच्यम्, यतो हि व्यक्तेः शारीरिकमानसिकावस्थाविशेषानुरोधेनेच्छाविशेषाः समुत्पद्यन्त इति ।

इच्छास्थायिभावयोः सम्बन्धः

सम्पादयतु

यदृच्छाप्राप्तोत्तेजकपदार्थजन्यवेगरूपा इच्छा: सुकुमारतरे बाल्ये कामं भवेयुः, किन्तु शैशवं विहाय तदुत्तरमिच्छानामीदृशं रूपं क्वचिदपि नोपलभ्यते, रागद्वेषमोहभावस्थायि- भावविशेषाकुलितत्वात्। पारिवारिकसामाजिकजीवनयापनशिक्षणाभ्यासादिना व्यक्तिसंस्था- समस्यावादविशेषमभि यादृशः स्थायिभावो व्यक्त्या सम्प्राप्यते, स एव तस्या इच्छानां रूपं निर्मिमीते। स्थायिभावाः सुदृविचारात्मकलोकदृष्टिप्रभवा भवन्तीति सर्वं व्याख्यात- चरम्।

नहि सुदृढविचार: भूमिमनादाय स्थायिभावा व्यक्तिसंस्थाविचारवादविशेषमुपरि नूनमभिनिर्वर्तन्ते। स्थायिभावानां निर्माणं व्यक्तेर्व्यक्तित्वस्य निर्णायके निश्चितरूपप्रदायकं यथा भवति तथा वयमग्रे वक्ष्यामः । यावच्चापल्यं वर्तते, शैशवं वर्तते । यावच्छैशवं वर्तते, विचाराणामदृढभूमिकत्वं वर्तते। यद्यपि शैशवेऽपि केचन स्थायिभावा अभिनिर्वर्तन्ते; यथा-मातृस्नेहः, पितृस्नेहः, भ्रातृस्नेहः; तथापि तेषु विचारविकासान्वितत्वमनुमातुं न शक्यते, नैसर्गिकमूलप्रवृत्तिप्रभवत्वात्। तदनन्तरं रागद्वेषभावस्थायिभावव्यापृता इच्छा: प्रादुर्भवन्ति । पशुजीवने मूलप्रवृत्तिवेगजन्या इच्छा विशेषेणोपलभ्यते । नहि तथा प्रौढ- व्यवहारानुगतमिच्छारूपं भवति । अहमिदं पुस्तकं लिखामि, यतो ह्यहं धनमुपार्जितुं काङ्क्षे। अथवा यशोलिप्सया प्रेरितोऽहं लिखामि ।

अथवा स्वान्तः सुखाय, आत्मज्ञान- वैशारद्याय, गुरुजनपरितोषाय वा पुस्तकं मया लिख्यते । येन येन विचारविशेषेण प्रेरिता मदीयेच्छा भवति, नूनं सा हि ममाभिनिवेशस्य, मम रागद्वेषमोहजनितस्थायिभावस्य केन्द्रबिन्दुर्भवतीति निरवद्यम् । पिता पुत्राय कल्याणं कामयते, वात्सल्यस्थायिभावा- न्वितत्वात्। पारिवारिकसुखं शान्तिश्च यः कामयते, स धनमुपार्जितुमिच्छति । अथवा वित्तोपार्जनेन ज्ञातिषु गौरवं लभते, अतः स धनोपार्जनलोलुपो भवति । स्वकीयं परिवारं प्रति यः स्थायिभावः समुत्पद्यते, स न केवलमभ्युदयप्रेप्सुत्वं करोति, प्रवासिनेऽपि धैर्यं व्याकुलतां वा प्रदत्ते। समानपरिस्थित्यामपि यदि वस्तुविशेषं प्रति दृष्टिभेदासादित- स्थायिभावभेदो द्वयोः पुरुषयोर्भवेत्, नूनं तद्विषये तयोरिच्छाभेदोऽपि भविष्यतीति निश्चप्रचम्। सुतरामस्माकं रागद्वेषौ प्रियाप्रियस्थायिभावा अस्माकमिच्छानां स्वरूपं निर्धारयन्तीति निर्गलितं तथ्यम्। अनुभवप्रकर्षजन्या रागद्वेषस्थायिभावा भवन्तीति सर्वं वर्णितपूर्वम्।

इच्छासङ्घर्षस्वरूपम्

सम्पादयतु

इच्छानां सङ्घर्षोऽपि कदाचन जायते । मानवानां स्थायिभावा नितान्तं जाटिल्यं बिभ्रति, तेषां विषया अपि बहुविधा भवन्ति । कदाचनेच्छानां भेद: स्थायिभावानां भेदादभिनिर्वर्तते। कदाचन चेच्छानां भेदः परिस्थितिभेदादुजायते, यद्यपि खल्विच्छ- विषयोऽभिन्न एवावतिष्ठते।

इच्छाविषयीभूते पदार्थे भिन्ने सत्यपि यथा दृष्टिभेदात् स्थायिभावभेदाद्वा विविधपुरुषाणां प्रतिक्रियासु वैविध्यमन्तर्निविशते । दृष्टिभेदोपोद्वलितं यद्भावानां सङ्घटनं व्यक्तिविशेषं वादविशेषं संस्थाविशेषं वादायाभिसम्पद्यते, तदेव रागात्मिकानां वृत्तीनां परिणतिरूपः ‘स्थायिभावः' इत्युच्यते; अभ्यासनैरन्तर्याच्चेदमुत्पद्यते। स्थायिभावशतानि हिं तत्र भवन्ति। अतस्तेषां सङ्घर्षोऽपि कदाचन परस्परं सञ्जायते । एवम्प्रकारेण इच्छानां परस्परं विरोधित्वमप्यापाद्यते । तच्च द्विधा - प्रथमत एकस्मिन्नेव स्थायिभावे सत्यपि विविधानां परस्परं विरोधिनीनामिच्छानां सद्भावो दृश्यते । द्वितीयत इच्छानां परस्परं विरोधिभावस्य कारणं विरोधिस्थायिभावप्रभवत्वं भवति । एतत्सर्वं सोदाहरणमधस्ताद् व्याक्रियते ।

कथं तावदिच्छानां विरोधित्वमेकस्मिन्नेव स्थायिभावे सत्यपि सङ्गच्छते ? अत्र वयं ब्रूमः-वात्सल्यस्थायिभावें प्रकर्षङ्गते पिता पुत्रं लालयति स्नेहेन स्नपयति च; किन्तु तस्यैव परीवादं श्रुत्वा, स्वाध्यायाद्विमुखं वा तं दृष्ट्वा ताडयत्यपि । नहि स्वपुत्रताडने वात्सल्यस्थायिभावस्य तिरोभावो जायते। वस्तुतो यथा लालने तथैव ताडने स्थायिभावः पुत्रस्नेहप्रकर्षात्मकोऽक्षुण्णोऽवतिष्ठते । तथापि दृश्यते हि तज्जन्येच्छानां परस्परं विरोधित्वम्, परिस्थितिविशेषापादितत्वात्। नह्येतादृशेच्छाभेदो व्यक्तेर्व्यक्तित्व- मसामान्यमनोविकारग्रस्तं करोति ।

यतो हि व्यक्तिः स्वयमेव तास्विच्छासु समन्वयं स्थापयितुं प्रभवति; किन्तु नहि तथा तादृशेच्छानां भेदो भवति, यादृश्यो विरोधिस्थायि- भावसुमुद्भवा भवन्ति। उदाहरणतो यदि वात्सल्येऽहङ्कारे च सङ्घर्षो जायेत, तर्हि नूनं तत्तत्स्थायिभावोत्थेच्छासु सङ्घर्षोऽपि भविष्यति । प्रह्लादहिरण्यकशिपुसंवादे वात्सल्यस्थायिभावं विजित्य हि खल्वहङ्कारस्थायिभावः सन्तिष्ठते । काः का यातना हिरण्यकशिपुना प्रह्लादाय बलाद् विरचिता इति कस्य सहृदयस्य चेतो न दुःखाकरोति । किन्तु खल्वहम्मन्यतायाः प्रकृष्टाया एवम्भूतं प्रदर्शनं मनोवैज्ञानिकदृष्ट्या नासम्भाव्यम्। महाराजदशरथेन प्रयाणकाले कैकेयिस्नेहरूपरतिभावस्य रामस्नेहरूपवात्सल्यस्थायिभावेन सह सङ्घर्षमवाप्य प्राणाः परित्यक्ता इति कस्य भारतीयस्य न श्रुतिगोचरम् ? जायते हि खलु नैतिकधार्मिकदृष्टिप्रभवोऽपि दार्शनिकचिन्तनोपोद्बलितोऽन्यः स्थायिभावः । यथा नैतिकस्थायिभावस्य वात्सल्येन सह सङ्घर्षो जायते, तदेच्छानां विरोधित्वेन महती विचिकित्सा किङ्कर्त्तव्यतापत्तिश्चापद्यते । प्रांय एतेषु स्थलेषु क्रियानिरोधो जायते, विलम्बाद्वा क्रिया प्रादुर्भवति, निर्णयविलम्बहेतुत्वाद्। अत्र वयं सुधन्वप्रह्लादवार्तालापनिदर्शनेन प्रह्लादस्य स्थायिभावविरोधेन जनितानामिच्छानां विरोधं स्फुटं करिष्यामः । तथा हि-

सुधन्वोवाच -

उदकं मधुपर्कं च पथिष्वेवार्पितं मम।

प्रह्लाद ! त्वं तु मे तथ्यं प्रश्नं प्रब्रूहि पृच्छतः ।

किं ब्रह्मणा स्विच्छ्रेयांस उताहो स्विद् विरोचनः ॥

प्रह्लाद उवाच-

पुत्र एको मम ब्रह्मंस्त्वं च साक्षादिहास्थितः ।

तयोर्विवदतोः प्रश्नं कथमस्मद्विधो वदेत् ॥

सुधन्वोवाच-

गां प्रदद्यास्त्वौरसाय यद्वान्यत् स्यात् प्रियं धनम् ।

द्वयोर्विवदतोस्तथ्यं वाच्यं च मतिमँस्त्वया ॥

अत्रेदं स्मरणीयं यद्धि केशिनीपरिणयोत्सुकौ सुधन्वविरोचनौ प्राणयोर्विपणे कृते क्रुद्धौ प्रह्लादं कः स्विच्छ्रेयान् ? इति निर्णयितुमाजग्मतुः । प्रह्लादस्य नैतिकधार्मिक- भावनायाः परिपाकः स्थायिभावरूप आसीदिति प्रागेव सुधन्वा “पुत्रस्यापि हेतोर्हि प्रह्लादो नानृतं वदेत्” इत्युक्त्वा साक्षीचकार।

प्रह्लाद उवाच-

मत्तः श्रेयानङ्गिरा वै सुधन्वा त्वद्विरोचन ।

माताऽस्य श्रेयसी मातुस्तस्मात् त्वं तेन वै जितः ॥

विरोचन ! सुधन्वायं प्राणानामीश्वरस्तव ।

सुधन्वन् पुनरिच्छामि त्वया दत्तं विरोचनम् ॥ इति । []

अत्र स्पष्टमेव बात्सल्यस्थायिभावस्य धार्मिकनैतिकस्थायिभावेन सह सङ्घर्ष: परिलक्ष्यते। तदर्थं प्रह्लादस्येच्छा अपि त्रिविधं मार्गमनुसरन्ती दृश्यते । अन्ततो गत्वा तेन महात्मना यो निर्णयः समावृत्तस्तेनापि तस्येच्छानां भेदस्तासां समन्वयश्च द्योत्येते। येषामिच्छाशक्ति: निर्णयशक्तिर्बलवती भवति, तेषामिच्छासु परस्परं विरोधिनीषु समन्वयो दुष्करो न भवति ।

किन्तु येषामिच्छासु समन्वयः पारितुं वा न शक्यते, तेषां विविधा असामान्यमनोविचारा जायन्ते । यदा द्वयोरिच्छयोर्विरोधो जायते, समन्वयाभावः प्रतीयते, तत्रेदं स्मरणीयं यद्धि इच्छाद्वयमात्रस्यायं विरोधो न वर्तते; किन्तु स्थायिभावविशेषान्तं- र्गतेच्छाग्राममयोऽयं सङ्घर्ष:, अथवैकस्य स्थायिभावस्यापरेण सह सङ्घर्षः किं वा स्थायिभावसमूहस्यैकस्यापरेण स्थायिभावसमूहेन सहायं सङ्घर्षः समुपजायते । नूनं बहवः स्थायिभावाः कदाचन मिलित्वेच्छाद्वन्द्वं जनयन्तीति नाविदितं मनोविज्ञानार्वाचीन- शेमुषीजुषाम्।

ऐच्छिकक्रियास्वरूपम्

सम्पादयतु

ऐच्छिकक्रियैव प्रयतनमित्याख्यायते । निश्चयपूर्वकमिच्छासमन्वितं यत् कर्म, तत् ‘प्रयतनम्' इति निगद्यते । किं मयेदं करणीयं न वेति प्रथमं विचिकित्सा जायते। यदा पक्षप्रतिपक्षविचारेण कश्चन निर्णयो जायते, तदा प्रयत्नस्य रूपमपि तेनैवावधार्यते। निश्चयाभावे हि क्रियानिरोधो जायते, दोलायति च कर्तुश्चेतः पक्षप्रतिपक्षदोलायाम्। कदाचन एव काँग्रेसप्रतिनिधिरनुमोदितव्य इति वितर्क उदेति । कदाचन तु एष प्रजासमाज- वादसंस्थाप्रतिनिधिः समर्थनीय इति वितर्कों जायते । पक्षप्रतिपक्षावधारणपूर्विका निरस्त- समस्तसंशयावकाशा या क्रिया प्रसरति सा प्रयतनम्' इति समाख्यां भजते । तस्यैते विशेषा मनोवैज्ञानिकप्रवरवुडवर्थमहोदयानुसारं वर्ण्यन्ते।

(१) एवं तावत्प्रथमो विशेष ऐच्छिकक्रियाणां यदेतासु सुनिश्चिताभिप्रायमभिमुखी- कृत्य क्रिया प्रवर्तते। विचारगोचरपूर्वाणां लक्ष्याणां सिद्ध्यै सप्रयोजना क्रिया प्रयत्नसंज्ञिका प्रवर्तते। परिस्थितिविशेषोपयुक्तसुनिश्चितानुकूल्योपस्थापनमिति प्रथमो विशेषः ।

(२) परिस्थितिविशेषोपयुक्तानुकूल्याभिनयत्वमितिः प्रयत्नस्य द्वितीयो विशेषः ।

अभ्यस्ताः क्रिया अनायासपूर्वकं प्रवर्तन्ते । ताश्च नहि विचारविवशसहकृता निर्णय- पूर्विका इति वयं पूर्वमवोचाम । अभ्यस्तक्रियारूपं यन्त्रवदेकरसं दृढीभूतमनायासमभि- सम्पद्यते; किन्तु नहि तथा ऐच्छिकक्रियाः। प्रयत्नेषु नवनवपरिस्थितिविशेषानुकूल्यस्थापनाय किञ्चित् कल्पनाविचोरोहापोहजन्यमभिनवत्वमनुप्रविशति । नह्यैच्छिकक्रिया अनायासं प्रवर्तन्ते, विचारनिर्णयसमुद्भूतत्वात्। नहि प्रयतनानि यान्त्रिकक्रियारूपाणि भवन्ति, विचारेच्छोपेतत्वात्।

(३) परिस्थितिविशेषानुकूल्यगभीरत्वमित्यैच्छिकक्रियाणां तृतीयो विशेषः । यदि सप्रयोजनक्रियामार्गोऽनवरुद्धो भवेत्, क्रिया चाप्रतिहता प्रवर्तेत, तर्हि नानुकूल्यगभीरत्वस्य काप्यावश्यकता जायेत; किन्तु क्रियामार्गे यदि सकण्टको भवेत्, क्रिया वा प्रत्याशितफलमभिप्रवर्तते, तर्हि मानवा द्विगुणतरसमुत्साहपूर्वकं साध्यवसायं तत्प्राप्त्यर्थं प्रवर्तन्ते। तदा हि वयं ब्रूमः - अस्ति तस्यानुकूल्यविशेषगभीरत्वमिति', शक्तिसमुच्चयो- त्थितत्वात्।

(४) परिस्थितिविशेषोपयुक्तानुकूल्यव्यापकत्वमिति' खल्वैच्छिकक्रियाणां चतुर्थो विशेषः। सप्रयोजना क्रिया हि पूर्वनिर्दिष्टानां निर्धारितचराणां लक्ष्याणामवाप्त्यर्थं प्रवर्तते। तस्याङ्गभूतानि विविधानि स्वत: प्रयोजनविरहितानि प्रतीयमानान्यपि तत्क्रियासमष्टिरूपेण सप्रयोजनात्मकं रूपं बिभ्रति । जटिलं हि कर्म समग्रत ऐच्छिकं प्रयोजनान्वितमिति निगद्यते। यथा स्वकीयनामाक्षराणि लिखन् कोऽपि पुरुषो नहि प्रत्यक्षरं ध्यानं कुरुते, समग्रनामाङ्कने तस्योद्देश्यं भवति । पृथग्भूतानामक्षराणां क्रमागतानां तु लेखनमनायासेन स्वत एवाभिनिष्पद्यते। नहि प्रत्यक्षरं ध्यानमपेक्षते । नापि मानवः प्रत्यक्षरलेखने सावहितो दृश्यते। स्वनामलेखनरूपो जटिलो मानसव्यापार एवैच्छिकक्रियाया लक्ष्यं भवतीति बोद्धव्यम्। समग्रव्यापारस्यैच्छिकक्रियारूपस्याङ्गभूता अन्ये व्यापारा नहि विशेषेण प्रयोजनविशेषान्विता भवन्ति । सिद्धं तर्हि चतुर्थो विशेष आनुकूल्यव्यापकत्वमिति ।

ध्यानैच्छिकक्रिययोः सम्बन्धविमर्श:

सम्पादयतु

प्रयतनमिति नूनं ध्यानान्वितं कर्म । यद्ध्यानविरहितं कर्म तन्नैच्छिकक्रियारूपतामाधत्ते। ऐच्छिकानामुद्देश्यानां सङ्घर्षोऽपि ध्यानमपेक्षते । एकामिच्छां परित्यज्य तत्प्रतिकूलेच्छा- ग्रहणपरं निर्णयावधारणमपि ध्यानमपेक्षते । नहि ध्यानव्यतिरिक्तं पक्षप्रतिपक्षावधारणं सम्भाव्यते। गुणदोषविवेचनपूर्वको निर्णय: प्रतिपदं ध्यानमपेक्षते । नह्यनुपयुक्तोद्देश्यानां स परित्यागस्तावत् जायते, यावन्नाहङ्काराभिरूढो मानव एकमिच्छाविशेत्रमितिकर्त्तव्यता- विनिश्चयेन साधीयांसमभिमन्यते। अध्यवसायोऽपि ध्यानान्वितो भवति।

एञ्जेलमहोदयानां मते कोऽपि प्रत्ययः, यो नास्माकं ध्यानं समाक्रष्टुं प्रभवति, अस्माकं क्रिया अपि शासितुं नार्हति। वस्तुतो मानसिकव्यापारतयैच्छिकक्रिया ध्यानविषयापेक्षया न न्यूनाधिका भवति। यदस्माकं ध्यानविषयीभूतमेकं क्रियारूपं भवति, तदितरक्रियारूपाणि परित्यक्तानि च जायन्ते, तदा निर्णयस्तु सिद्धवस्त्येव । स्वविचारसाधनैर्वयं भाविक्रियारूपाणि निश्चिनुमः, स्वक्रियाध्यानैकाग्रतापूर्वकं हि वयं कमपि खल्वेकं विचारविशेषं क्रियारूपेण परिणमयितुं प्रभवामः । ध्यानं नाम तत्कर्म भवति, येन मानसिकसम्भावना क्रियात्मकवास्तविकतामाधत्ते । [१०] अतो ध्यानोपेताः प्रयत्नाः । प्रायो ध्यानोपेताश्चानायास- क्रियाः, अभ्यासाः, सहजक्रियाः प्रयत्नाख्या व्यक्तेरात्माभिव्यक्तेः सर्वोत्कृष्टरूपाणि; ध्यानान्वितत्वादित्यवधार्यम् ।

इच्छाशक्तिस्वरूपम्

सम्पादयतु

श्रूयते हि श्रीमद्भगवद्गीतायाम्-

चञ्चलं हि मनः कृष्ण ! प्रमाथि बलवद् दृढम्।

तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ इति । गीता ६/३४

मनः सततं विषयप्रलोभनैः समाकृष्यते । कथङ्कारं तस्य निग्रहः कर्तुं शक्यते ? जना वदन्ति–‘इच्छाशक्त्या मनोनिग्रहः कर्तुं शक्यते' इति । उदाहरणस्वरूपेण वयमेकां घटनां निदर्शयामः । एको मदीयमित्रवर्यः समागतः । तेन प्रार्थितोऽहं यत् 'झांसी की रानी' इति संज्ञकं चलचित्रं द्रष्टुं मया सह समागच्छ इति । मत्सविधे कार्यद्वयमधुना वर्तते-अयमध्यायोऽद्य समापनीयः, अथवा मित्रवर्यस्याग्रहमङ्गीकृत्य तेन सार्धं चलचित्र - दर्शनाय गन्तव्यम्। विकल्पद्वये किमप्येकं स्वीकर्तुमहं स्वातन्त्र्यमनुभवामि । क्षणद्वयं मदीया विचिकित्सा जायते - किं मित्रेण सह गन्तव्यम्, गृहे वा स्थातव्यमध्ययन-समाप्त्यर्थमिति। नहि चलचित्रं मह्यं रोचते । अतो मयाऽन्ततोगत्वाध्यवसीयते ‘नहि मयाद्य गमनीयम्’ इति। क्षन्तव्योऽस्मि मित्रवर्य ! लेखनभारादहमद्य गन्तुं नेच्छामि' इति।

स्फुटमेवेदं यद्धि चलचित्रदर्शनजन्यप्रलोभनाद् भिन्नं निर्णयं कर्तुं किञ्चिदात्म- निग्रहोऽपेक्ष्यते। स चेच्छाशक्तिप्रभव इति प्रायो जना अभिमन्यन्ते। किं तावदिच्छाशक्तिस्वरूपम् । किं चास्य निग्रहस्य स्वरूपम् ? किं मनसो निग्रहो मनसैव सम्पाद्यते? किंस्विदिच्छाशक्त्या ? किं तावदिच्छाशक्तिर्मनस एव शक्तिविशेषो व्यापार- विशेषो वा नास्ति? एवंविधा बहवः प्रश्नाः समुपस्थिता जायन्ते, तेषां समाधानं कर्तुं वयमुत्सहामहे। अत्रेदं सर्वदा स्मरणीयम् - “शुभाशुभाभ्यां मार्गाभ्यां बहन्ती वासनासरित्” इति योगभाष्यकारमतानुसारं सर्वदा मनुष्यैः शुभाशुभप्रवृत्तिसङ्घर्षोऽनुभूयते ।

यदा सङ्घर्षं विजित्याध्यवसीयते-‘अयं शुभो मार्ग : ', ' स एव मयाऽनुसरणीयः' इति निर्णयानन्तरं प्रवृत्तिरुदेति; सैव प्रयत्नाख्यां भजते । इच्छाप्रभवत्वात्सा ऐच्छिकी क्रियेति निगद्यते। किं मानवा: स्वतन्त्रेच्छासम्पन्नाः, अथवा कार्यकारणभावनियतिनिगडितस्तेषां व्यवहारो भवति? स्वातन्त्र्यवादिनां कार्यकारणभावोपोद्बलितनियतिवादिनां तुमुलसङ्घर्षोऽपीच्छाशक्ति- स्वरूपविमर्शेन समाधातुं शक्यते ।

इच्छाशक्तिविषये विलियमजेम्समतम्

सम्पादयतु

प्राध्यापकवरेण्या विलियमजेम्समहाभागा लोकप्रचरितमिच्छाशक्तिविषयकं मतं स्वकीये ‘मनोविज्ञानस्य सिद्धान्ताः' इति नामके ग्रन्थे समुद्घाटयन्ति । तन्मते, अस्ति हि प्रायो दृष्टिगोचरो नैसर्गिकमूलप्रवृत्तिजन्येच्छाया वादर्शोद्देश्येन सह सङ्घर्षः । सामान्यतो दृश्यते यद्धि मूलप्रवृत्तिजन्येच्छा आदर्शजन्येच्छाया अपेक्षातो बलीयसी भवति; किन्तु कदाचन, विशेषतो नैतिकधार्मिकमर्यादासम्पन्नेषु बुद्ध्युत्कर्षालङ्कृतेषु प्राणिषु, आदर्शों- द्देश्यर्जनितेच्छानां बलीयस्त्वं दृष्टिगोचरं भवति। जेम्समहोदयानां मते पुण्यानुगाः प्रवृत्तयो हि तीव्रतमविरुद्धदिशि क्रियाविशेषा इति भवन्ति । तेऽनुमन्यन्ते यद्धीच्छाशक्तिरिति काचन अव्यक्ता रहस्यमयी शक्तिः, तदनुगृहीतं निर्बलमपि ह्यादर्शोद्देश्यं मूलप्रवृत्त्यपेक्षया बलवत्तरेच्छां जनयितुमलम् । तथा च पुण्यवर्गीयाः प्रवृत्तय एवम्प्रकारेणासुरी: प्रवृत्तीर्विजयन्ते।

जेम्समतपरीक्षा

सम्पादयतु

नैतन्मतं समीचीनं प्रतिभाति । अवैज्ञानिकं ग्राम्यकल्पनामण्डितं हि जेम्समहोदयाभि- मतमिच्छाशक्तिस्वरूपव्याख्यानम् । नैसर्गिकशक्तिवेगात्मकमूलप्रवृत्तीनामभ्युपगमो यदि स्वीकृतो भवेत् तर्हि मूलप्रवृत्तिविरोधिशक्तिग्रहणाय कोऽप्यवकाशो नावशिष्यते । इच्छा- शक्तिस्तर्हि इच्छायाः प्रकारविशेष एवेत्यवगन्तव्य: । अत इच्छाशक्तिर्मूलप्रवृत्तिनियामिका, अथवा अशुभप्रवृत्तिनियामिका, किं वा सर्वासामिच्छानां निग्रहे समर्था शक्तिर्भवतीति न वाच्यम्। यदा लोके इदं श्रूयते - 'दुर्बलेच्छाशक्तिरयं माणवकः; यतो हि स कामप्रवृत्तेर्निग्रहं कर्तुं न प्रभवति' इति, तदैतावदेवावबोध्यं यद्धि तस्य ब्रह्मचर्य्यव्रतानुष्ठानेच्छा काममूल- प्रवृत्तिजन्येच्छापेक्षातो दुर्बलतरा, यद्वा तस्य माणवकस्य शुभकर्मेच्छाऽशुभकर्मेच्छापेक्षया दुर्बलतरा भवति. वस्तुत इच्छाशक्तिस्वरूपावगमे लोके महान् व्यामोहः प्रचलति ।

नैतिकभावनां धार्मिकीमिच्छां वा वयं सर्वोपरि प्रतिष्ठाप्य तामिच्छाशक्तिरिति ह्यलङ्कार- भूतव्यपदेशेन सज्जीकर्तुं प्रयतामहे । एतावता शुभकर्मानुगेच्छा सर्वाभ्य इतरेच्छाभ्यः पृथक्कृता इव प्रतीयते, यद्यपि इच्छात्वं समानमेव शुभाशुभेच्छयोः । यदा लोका वदन्ति-‘दुर्बलेच्छाशक्तिरयं माणवको धनाभावेऽपि चलचित्रदर्शनव्यसनलोलुपः' इति, तदा 'माणवको दुर्बलेच्छाशक्ति:' इति न साधु व्याख्यानम्, अपि त्वेतद् वक्तव्यं यत्तस्य शुभकर्मानुगेच्छाऽशुभकर्मेच्छाया व्यपेक्षातो दुर्बलतरेति ।

अर्वाचीनमनोविज्ञानाचार्य्याणां मते इच्छा नहीच्छाशक्तिविशेषप्रवर्त्या, नापि शक्तिविशेष एव। तत्त्वत इच्छाशक्तिरिति वेगमात्रम्, येन कर्म आरभ्यते । नहीच्छाशक्ति: कश्चन शक्तिविशेषो येन मयेतिकर्त्तव्यमिति निश्चीयते । अध्यवसायो बुद्धिधर्मः। स च नेच्छाशक्तिव्यपाश्रितः। ननु किं कर्म करणीयमिति न इच्छाशक्त्या निर्णीयते । यदिच्छाश्क्त्या द्योत्यते तत्तु क्रियावेगरूपम्, येन कश्चन निर्णयः कार्यरूपतामाधत्ते । यदोद्देश्यद्वयं परस्परं विरुध्यते, तदा यदन्यदुद्देश्यमतिशेते, तदेव गरीयो भवति, विजयीभवति। एकस्य कर्मप्रचोदक़ोद्देश्यविशेषस्यान्यापेक्षया गरीयस्त्वमेव इच्छाशक्तिरिति तात्पर्यम्। यदि कश्चनोद्देश्यविशेष इतरोद्देश्यापेक्षया बलीयान् भवति, तर्हि तस्य बलाबलमात्रामपेक्ष्यैवेच्छाशक्तिवेगो भवतीत्यध्यवसेयम्। यदि खलूद्देश्यद्वयं समानबलं भवेत्तर्हि तज्जन्येच्छाशक्तिर्दुर्बला, क्रियाह्रासो क्रियानिरोधो वा जायते ।

अत्रेदं स्मर्त्तव्यम्-- नहीदृशो विरोध एकस्येच्छाविशेषस्यान्येनैकेनेच्छाविशेषेण सहैव भवति, अपि तु परस्परं विरुध्यमानेच्छाग्रामयोरयं सङ्घर्षो भवति । यदि कदाचन खल्वादर्शोद्देश्यं दुर्बलं प्रतीयेत, तर्हि तस्य कारणं तदिच्छासमूहविशेषे आत्मप्रतिष्ठात्मकस्थायिभावस्य स्वाभिमानाख्यस्य महत्त्वमस्माकं दृष्टिपथं नायाति। आत्मप्रतिष्ठात्मकस्थायिभावस्वरूपं वयमग्रे पञ्चदेशेऽध्याये व्यक्तिस्वरूपव्याख्यानावसरेऽनुव्याख्यास्यामः । इच्छाशक्तिस्तर्हि विविधबलाबलयुक्तानामुद्देश्यानां सङ्घर्षसमुत्था। सा च बलिष्ठस्थायिभावनिरूढेच्छासमूहस्य दुर्बलस्थायिभावानुगतेच्छाजालस्योपरि विजयस्य चरमा कोटिरिति ।

अन्यच्च, यदा बुद्धिप्रयुक्तहेतुभिरुपोद्बलितः कश्चन निर्णयो जायते, तदनन्तरं तेन निर्णयेन चाभिप्रेरितः सन् कर्मण्यभिप्रवृत्तो भवति; तदा तेषां हेतूनां बलाबलोयत्तो हि खल्विच्छाशक्तिवेगो भवति । भावप्रकर्षो नूनमिच्छाशक्तिं वर्धयति ; किन्तु स फल्गुत्वमापद्यते, यदि तद्विरोधिहेतुसामर्थ्यमतिरिच्यते। भावप्रकर्षो ज्ञानारूढः सन्निच्छाशक्तिं द्रढयति। यदि कश्चन मनुष्यः कस्याश्चित् समस्यायाः पक्षविपक्षसमर्थकहेतुविमर्शं कर्तुं शक्नोति, तर्हि नूनमस्य क्रियाशैथिल्यं जायते, उभयपक्षदोषगुणज्ञानं भावप्रकर्षजन्यं क्रियावेगह्रासं नयति।

१९९९ वैक्रमाब्दे श्रावणमासे यदा अखिलभारतीयकाँग्रेसेन महात्मनां प्रातःस्मरणीयानां गान्धिमहोदयानां नेतृत्वे 'भारताद् गच्छत' इति डिण्डिमघोष- पूर्वकमान्दोलनं प्रवर्तितम्, तदाऽस्माभिर्दृष्टं यद् भारतीयसैनिकाः कूपमण्डूका इव तदानीन्तनैराङ्गलशासकैर्निखिलराष्ट्रियक्रान्तिसमाचाराविदिताः कृताः । कस्मात् ? ज्ञायमानाः पक्षविपक्षगुणदोषा भावप्रकर्षजन्यां राजभक्तिं शिथिलीकुर्वन्ति, स्वजनान् प्रति सहानुभूतिं च भारतीयसैनिकेषु जनयन्तितराम्।

सुतरां तावद् यदा निर्णयोऽध्यवसीयते, तदा तत्कारणसामग्र्यां तात्कालिकानु- भवितुर्भावसंवेदनादिप्रकर्षावस्थाजन्येच्छाः, हानोपादानादिप्रभावोत्पादकविचारानुभवस्मृति- विशेषाः प्रस्तुतविषयस्य पूर्वार्जितज्ञानसंस्काराश्च अन्तर्भावयिष्यन्ते, निर्णायकस्य च ते तदानीन्तनमानसिकावस्थानिर्माणमापादयन्ति । अथवा वयं पक्षविपक्षविमर्शानन्तरं निर्णयं कर्तुं प्रभवामः, किन्तु स निर्णयोऽप्यस्माकं नैसर्गिकप्रकृतिशिक्षणाभ्यासार्जितस्वभाव-प्रभृतिसम्प्रद्रूपैर्भावैरेव मीयते । एतावता प्रतिफलितमेतद् यद्धि नूनस्माकं निर्णयो नियतकारणसामग्रीजन्य एव । इच्छाशक्तिश्चेत्थं निर्णयतुलाया मानाध्ययनम्, प्रतिफलितं मानं वेति। न तु किञ्चिदन्यत्, यत्प्रतिफलितमानस्यैच्छिकक्रियारूपस्य पूर्ववर्ति वक्तुं शक्यत इति ।

इच्छास्वातन्त्र्यस्वरूपम्

सम्पादयतु

उपर्युक्तविवेचनेन इच्छास्वातन्त्र्यवादिनां कार्यकारणनियतिवादिनाञ्च विचारवैषम्यं समाधानमर्हति। अस्ति हीच्छास्वातन्त्र्यम्, यतो हि तज्जनकनिर्णयोऽस्माकं भवति, नहि केनाऽप्यन्येनादिष्टोऽयं भवति, किञ्च निर्णयं कर्तुमकर्तुमन्यथाकर्तुं वा सर्वमस्मदायत्तम्। अत एवैच्छिकः प्रयत्नोऽपि स्वतन्त्र एवेति । परपुरुषानधीनत्वात्, निसर्गजन्यान्धमूल- प्रवृत्तिवेगापरिचालित्वाच्च सार्थकमैच्छिकाचरणस्य स्वातन्त्र्यम्।

किन्तु कार्यकारणात्मकनियतिवादिनामभ्युपगमोऽपि फल्गुतां नापद्यते । ऐच्छिक- माचरणं नहि कारणविरहिता घटना । नापीदं यदृच्छाया प्राप्तम् अपि तु तात्कालिक - मस्माकं विचारेच्छाभावसंवेदनकल्पनास्मृतिप्रभृतिमानसिकावस्थाविशेषं हेतुस्वरूपमुपादाय निर्णयः प्रतिफलितो भवति । कारणं नियतम् । नियतपूर्ववर्तिकारणजन्यं कार्यम् । अस्माकं स्वरूपमस्मिताख्यमप्यभिन्नमेव। सुनिश्चिताश्च तत्तन्मानसिकावस्थाविशेषाः कारण- जातान्तर्गताः। नियते कारणे नियतं सुनिश्चितं कार्यं समुत्पद्येत, तर्हि कथङ्कारं कार्यकारण- भावनियतिवादिनां मतस्यापलापः कर्तुं शक्येत ।

ननु समानपरिस्थितौ प्रतिपुरुषं भिद्यमान- माचरणं द्योतयति यद्धि इच्छास्वातन्त्र्यवादिनां मतमुपपद्यते, न तु कार्यकारणभाव- नियतिवादिनां मतमिति ? नेदं वाच्यम्। ऐच्छिकप्रयतनस्य स्वरूपावबोधो यदि सम्यक्तया भवेत्तर्हि खल्वस्य आशङ्काया अवकाशो नावशिष्यते । वस्तुतोऽस्माकमाचरणमेव, ऐच्छिकं प्रयतनमेवेति यावत्, कार्यकारणभावगर्भितम् । कस्मात् ? अस्माकं विचारेच्छानिर्णय- नियन्त्रितत्वादाचरणमेव कार्यकारणभावान्वितं तत्त्वतो भवति । अनैच्छिकं यदृच्छया प्राप्तं वा प्रयतनम् - नहि तत्प्रयतनमपीति वक्तुं शक्यते, क्रियेति तत्स्वरूपत्वात्- अन्धमूलप्रवृत्तिजन्यं वा कर्म स्वतन्त्रं भवतीति सर्वमवदातम् । ऐच्छिकं प्रयतनमाचरणाख्यं स्वतन्त्रम्, आत्मनियन्त्रितम्, आत्माभिव्यञ्जकञ्चेति । न च तत्कारणविरहितम्, पूर्वोक्तहेतोः ।

अस्माकं व्यक्तित्वं पराकाष्ठां नूनमैच्छिकप्रयतने स्वात्माभिव्यञ्जके स्वात्मनियन्त्रित एव

लभत इत्यवधार्यम्।

इच्छाशक्तिसम्प्रयोगः

सम्पादयतु

ननु कदा खल्विच्छाशक्तिसम्प्रयोगावसरो जायते ? कदाचन निर्णयो महदाभ्यन्तर- द्वन्द्वानुभवनानन्तरमापद्यते। नाचिकेतोपाख्याने श्रूयते—

श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ सम्परीत्य विविनक्ति धीरः ।

श्रेयोऽपि धीरोऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाद् वृणीते ॥ इति । [११]

अयं पुरुषो विवेकपूर्वकं यदाचरति, श्रेयस्करमार्गमनुसरति। यदा न्वस्येन्द्रिय- सुखप्रलोभनेन चेतः समाकृष्यते, तदा लोभनीयं प्रियं पदार्थमुपादातुं प्रवर्तते। स्वकीये व्यवहारे सर्वत्र शुभाशुभकर्माणि पुरुषं बध्नन्ति । लोकसिद्धं शास्त्रप्रतिपादितं श्रुत्याम्नात तयोः श्रेयःप्रेयसोः पार्थक्यम्। तथा हिः-

अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषं सिनीतः ।

तयोः श्रेय आददानस्य साधु भवति हीतयेऽर्थाद्य उ प्रेयो वृणीते ॥ इति । [१२]

श्रेयस्करं मार्गं नहि सर्वदा सौकर्येण प्राप्तुमर्हति । महच्चिन्तनम्, आत्मद्वन्द्वं- मनुभूय, विवेकपूर्वकं यदा पुरुषो निर्णयं कुरुते, तदा प्रेयांसि विन्दते । यदा बुद्धेन बोधित्वं संम्प्राप्तम्, तथा 'मार' इति संज्ञकेन कामदेवेन भूयसी प्रताडना कारिता । नैषा प्रताड़ना शारीरिकी, प्रत्युत मानसिकी आसीत्, कामप्रवृत्तिप्रभृतिमूलप्रवृत्तिजन्या वेति । देवासुरसङ्ग्रामोऽहर्निशं प्रवर्तते सर्वेषां कर्त्तव्यपरायणानां चेतःसु । इच्छाशक्तिसम्प्रयोगस्य विशेषावसरो नूनं यदा आयाति, तदा निगूढस्थायिभावोपात्तेच्छाजालयोः द्वन्द्वेन सङ्कलिता भूत्वा वयमायासविशेषपूर्वकं कर्मणि प्रवृत्ता भवामः । तदा कर्तव्यनिश्चये, येन नैतिकं कर्म समारभ्यते, अभूतपूर्वा तितिक्षा च प्रदर्श्यते । यदा हरिश्चन्द्रेण सत्यसन्धेन राज्यमपि सकोषं महर्षिविश्वामित्राय प्रदत्तम्, तदा तस्येच्छासम्प्रयोगस्य नूनं विशेषावसर आसीत्।

ये हि खलु धार्मिकवरेण्याः, तेषां धर्माचरणं विशेषेणाभ्यस्तकर्म इव प्रतीयते । बहुकालं यावच्चिन्तनेन, अनिश्चयेन चायासो जन्यते, अत्यधिकविवेकपूर्वकत्वान्निर्णयस्य । प्रबलतर- विरोधिस्थायिभावजनितेच्छाजालप्रशमनायाऽभूतपूर्वं प्रयत्नमपेक्ष्यते । अतो यदा इच्छाद्वयस्य तीव्रं द्वन्द्वं भवति, तदा इच्छाशक्तिरपि विशेषेण सम्प्रयुक्तेव प्रतिभाति । विरोधिस्थायि- भावस्य परिशोधेन तदनुबन्धीच्छाजातं प्रशाम्यति; किन्तु यदा मूलप्रवृत्तिप्रकर्षेण स्थायिभावोपात्तेन इच्छाजालं बलवत्तरं भवति, तदा तस्य निग्रहो दुःसाध्यः ।

तेन क्षीयते चास्य क्रियोत्साहः । अक्रमो वा क्रियासमूहो दृश्यते । कदाचनैकप्रकारकमुद्देश्यं क्रियामारभते, कदाचनान्यप्रकारकम् । एष हि दुर्निवारोऽसामान्यमनोविकारः । तस्य वर्णन-मग्रिमे षोडशेऽध्याये वयं करिष्यामहे । प्रबलतरेच्छादमनं निरन्तरं पश्चात्तापं जनयति। तिरस्कृतेच्छजालं यतो ह्यस्माकमेव, अस्माकं व्यक्तित्वस्याङ्गभूतमेव; अत एव यदा तत्प्रशाम्यते निराक्रियते वा तदा महद्दुःखमनुभूयते, आयासपूर्वकं च इच्छाशक्तिसम्प्रयोगेण निर्णीतं कार्यमारभ्यते । अशुभप्रवृत्तिपरिशोध आयासं ह्रासमानयति, शुभकार्यसमारम्भे सौकर्य्यमावहति चेति तात्पर्यम्।

क्रतुस्वरूपम्

सम्पादयतु

कामक्रतुकर्मादिकस्य क्रमनिर्देश एवम्प्रकारेण पूर्वाचायैर्वर्णित उपलभ्यते । तथा हि शब्दकल्पद्रुमे–

रुचेरतिशयः काम्ये वस्तुनि क्रतुरीर्यते ।

कामः क्रतुः कर्म जन्म इत्येतेषां क्रमो भवेत् ॥ इति ।

इच्छाशक्तिसंवर्धनम्

सम्पादयतु

ननु किमिच्छाशक्ति: संवर्धयितुं शक्यते ? अथवा किं तावदिच्छाशक्तेः प्रशिक्षणं सम्भाव्यते? लोकानुगृहीतमिदं मतं यद्धि खल्विच्छाशक्तिप्रशिक्षणं जायते, इच्छाशक्तिः संवर्धतेऽपि चेति। प्रायो जनाः शिक्षायाश्चरममुद्देश्यमिच्छाशक्तिसंवर्धनमेवेति मन्यन्ते ।

इच्छाशक्तिस्वरूपमस्माभिवर्णितपूर्वम्। नहीच्छाशक्ति: दैवी काचिद्रहस्यगर्भिता शक्तिः, अथवा मानसिकशक्तिविशेष एव यस्य संवर्धनं प्रशिक्षणं वा सम्पाद्येत। इच्छाशक्तिर्नाम निर्णीते कर्मणि इच्छातिशयजन्यवेगपूर्विका प्रवृत्तिरेवेति । अतो लोकानुरञ्जनपरं मतमिच्छा- शक्तिविषयकं निरसनीयम् ।

अस्ति ह्येकं निदर्शनं सामान्यलोकानुगृहीतमतोपोद्बलकम् । प्रतिदिनं किमप्यप्रियकार्यसमाचरणेन इच्छाशक्ति: संवर्धते । यथा रमणीयां चित्रावलीं रमणीयं वा चलचित्रं द्रष्टुं यदि कामना भवेत्, तर्हि सेच्छा परिहर्त्तव्या । यद्यल्लोभनीयं रमणीय- मिन्द्रियस्पर्शजन्यं सुखं तत् परित्यज्य तितिक्षा सम्पाद्यते, तितक्षयात्मवशित्वमात्मनिग्रहो वा जितेन्द्रियत्वं प्रापयति । तथा हि मनुर्भगवानब्रवीत्-

दृष्ट्वा श्रुत्वा च स्पृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः ।

न हृष्यति वा ग्लायति स विज्ञेयो जितेन्द्रियः॥ इति। [१३]

किञ्च, भगवान् हृषीकेशोऽप्याह श्रीमद्भगवद्गीतायाम्-

मात्रास्पर्शास्तु कौन्तेय ! शीतोष्णसुखदुःखदाः ।

आगमापायिनो नित्यास्ताँस्तितिक्षस्व भारत ॥

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ !

समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ इति । [१४]

नूनमिन्द्रियसंयमः शिक्षायाश्चरमं लक्ष्यम् । ननु कथङ्कारमिच्छाशक्तिविषयक- सामान्यजनमते निराकृते तत्सम्भाव्यते। अत्रोच्यते-प्रागुक्तमेवाऽस्माभिरभ्यासशिक्षणादि- विवेचनीयेऽध्याये यद्धि भवन्ति हि खल्वभ्यासविशेषाः; यथा - शारीरिकाभ्यासाः, मानसिकाभ्यासाः, सामाजिकव्यवहाराभ्यासा इति । तस्यैते गुणविशेषा भवन्ति -

(१) अभ्यासनिर्माणेन क्रिया विलम्बेन प्रवर्तते ।

(२) कार्यसम्पादनविधौ सौकर्य्यं समानरूपत्वञ्चायाति।

(३) अभ्यस्ताः क्रियाः स्खलितविरहिता विशुद्धाश्च भवन्ति ।

(४) प्रौढाभ्यासेषु ध्यानापेक्षा प्रतिपदं न विद्यते ।

(५) तथापि क्रियासौष्ठवं सौकर्य्यञ्चाबाधितमवतिष्ठते। अभ्यासध्यानविशेषापेता अपि अनायासेन सम्पाद्यन्ते ।

(६) अभ्यासा महत्कष्टेन कालेन चापाकर्तुं शक्यन्ते ।

(७) अभ्यासानां परिपाके क्लान्त्यभावोऽनुभूयते ।

क्लान्तिकारणं मृदुनाडीद्रव्यस्य स्थायिसंस्काराभावे विरोधो भवति । यदा कश्चनाभ्यासः सञ्जायते, तदा मृदुनाडीद्रव्ये क्रियोपयोगि चेष्टावाहिनाडीकन्दाणुकाना- मविरोधात्मकक्रियाकारित्वमपाक्रियते। नवीनाभ्यासोपयोगिमार्गश्च प्रशस्तो जायते । एतत्सर्वं प्रागेवास्माभिः प्रपञ्चितम्। एतावतेदमायाति यद्धीन्द्रियजन्यसुखतिरस्कारेण आत्मनिग्रह- जन्यात्मप्रतिष्ठारूपस्थायिभावो द्रढिमानं लभते । शमदमतपःप्रभृतिनियमानामनुपालनं नहि केवलमिन्द्रियसुखमात्रविवर्जनेन कृतकृत्यतां लभते, अपि तु शुभाभ्याससंस्कार- क्षमत्वप्रदानेन। यद्यस्माकमात्मप्रतिष्ठाभावः स्थायिभावत्वमवाप्नोति, अवश्यं तर्ह्यस्मास्वियं योग्यता समुत्पत्स्यते-किं शुभम्, किं चाशुभम्, किं मदीयं हितमावहति ? किं च मां विपत्तिकुक्षौ निपातयिष्यति ? किं वा मदीयाय निःश्रेयसे कल्पते, किञ्चाऽभ्युदयाय? इति।

आत्मप्रतिष्ठाभावे समुत्पन्ने सुस्थिरे च जाते, सर्वगुणनिधिरूपाणां शुभाभ्यासानां बीजवपनाय भूमिः सुलभा जायते । स्मरणीयं यद् विषयोपरतिः विषयपरित्यागो वा यदि स्वेच्छाजन्यः स्वविचारोहापोहसमन्वितो भवेत्, तर्हि स आत्मवशित्वाय ब्रह्मचर्य्य- प्रतिष्ठायै च कल्पते; किन्तु यदि परपुरुषप्रयुक्तमिच्छाविषयपरित्यागाय नियन्त्रणं बालकोऽवाप्नोति, तस्यापकाराय तदनुशासनं भवति । औचित्यमार्यादामतिक्रम्य दण्ड- विधानपूर्वकं यदा बालकानामनुशासनं क्रियते, नियन्त्रणं सम्पाद्यते, तदा तेषां मूलप्रवृत्तिजन्येच्छाग्रामः सङ्कोचविशेषात् त्रासाच्च गुरुजनप्रभृतिलोकभयादन्तश्चैतन्ये तैजसाख्येऽवदमितो जायते । परप्रयुक्तमवदमनं बालकानां हि विषम्। अनैतिकभावनानां स्तेयाशौचानृतवादित्वविश्वासघातपारदारिकत्वाद्यसामाजिकदोषाणां नूनमवदमनमेव बीजम् । तच्च वर्ज्यम्, सर्वैरव हातव्यम् । अशुभप्रवृत्तीनां परिशोध आत्मप्रतिष्ठारूपस्थायि- भावोत्पादनेन करणीयः । नहि सर्वेन्द्रियविषयाणां परित्यागेन, अपि तु विवेकपूर्वकं हितावहविषयाणां सम्यक्तयावचयनेन, अहितोपघातिपदार्थवर्जनेन च सदाचारबीजारोपणं क्रियते। विवेकविकासः सुस्थिरनिर्णयाय कल्पते, इच्छाशक्तिश्च संवर्धत इत्याभासः समुत्पद्यते। येषामीदृशः सदाचारशेवधिः, त एव मनस्विनः, तेषां किमपि दुर्लभं नास्ति। तदुक्तं हि महाकविमाघेन-

तुङ्गत्वमितरा नाद्रौ नेदं सिन्धावगाधता ।

अलङ्घनीयताहेतुरुभयं तन्मनस्विनि ॥ इति । [१५]

सन्दर्भाः

सम्पादयतु
  1. न्यायसूत्रम् १।१।१८
  2. न्यायसूत्रभाष्यम् १ । १ । १८
  3. न्यायसूत्रभाष्यवार्त्तिकतात्पर्यपरिशुद्धिः १ । १ । १८
  4. A desire is a conscious drive or urge which prompts activity by way of action or thought.
  5. न्यायसूत्रम् १।१।२४
  6. न्यायसूत्रभाष्यम् १।१।२४
  7. Mackenzie, manual of Ethics, PP. 51-52. "When a man is moved to action which he must have, besides the mere feeling, the conception of an end, to be attained. The motive that which induces us to act, is the thought of the desirable end."
  8. भर्तृहरिवैराग्यशतकम् श्लो. ५०
  9. महाभारतम्, पृ० २१४४, श्लो० २६.१.३८ ( गीताप्रेससंस्करणम्)
  10. Angell, Psychology, PP. 402-403
  11. कठोपनिषद् २/२
  12. कठोपनिषद् २/१
  13. मनुस्मृतिः
  14. गीता २/१४-१५
  15. शिशुपालवधम् २।४८


सम्बद्धाः लेखाः

सम्पादयतु