मनोविज्ञाने कल्पनास्वरूपविवेचनम्

मनोविज्ञाने कल्पनास्वरूपविवेचनम् अतीव महत्त्वपूर्णः विषयः वर्तते। अनेन मनुष्याणां मनसि विद्यमानस्य कल्पानजगतः ज्ञानं भवति, ततः अयोग्यकल्पनानां निवारणमार्गः प्राप्यते।

कल्पनास्वरूपम् सम्पादयतु

अथातो वयं कल्पनास्वरूपमनुव्याख्यास्यामः । पूर्वं प्रत्ययनिर्माणप्रकारविवेचना- वसरेऽस्माभिः कल्पनाप्रतिमानिर्माणं तदुपयोगश्च प्रत्ययनिर्माणे सम्यगनुव्याख्याते । तद्विवेचनेनैवेदं प्रतिफलति यद्धि पूर्वानुभवस्य कल्पनाप्रतिमानां देशकालस्मृतिपूर्वकमुद्बोधनं ‘स्मृति:' इत्याक्षते। आलोचनज्ञानस्य कल्पनाप्रतिमासाहाय्येनानुव्याख्यानं सविकल्पकं प्रत्यक्षम्। नूनमत्र कल्पनाप्रतिमासहकृतं प्रत्ययसम्बन्धादिकमप्यनुव्याख्यानेऽन्तर्भाव्यते । सामान्यप्रत्ययविशेषप्रत्ययादिनिर्माणे कल्पनाप्रतिमाक्रियाकलापस्तु व्याख्यातचरः । पूर्वानुभवानुगतदेशकालस्मृत्युद्बोधनं विनैव पूर्वानुभवकल्पनाप्रतिमानामभिनवरूपेण संयोजनं परिणामो वा 'कल्पना' इत्यभिधीयते । स्मरणे कल्पनाप्रतिमाशृङ्खला यथापूर्वं यथा- क्रममुद्बोध्यते; किन्तु कल्पनायां पूर्वानुभवकल्पनाप्रतिमानां क्रमो यथापूर्वं न भूत्वा किञ्चिदभिनवत्वमाधत्ते, तत्र रचनावैचित्र्यं समाविशति ।

कथं तर्हि कल्पना विचाराद् भिद्यते ? विचारणायां विचारे वा कल्पनाप्रतिमानां क्रमो यथापूर्वं नोपलभ्यते । तथापि सिद्धो हि भेदः कल्पनाविचारयोः । कल्पनायां प्रयोजनं स्पष्टं प्रत्यक्षगोचरं न भवति । विचारश्च प्रयोजनाभिप्रेरितो भवति । विचार आत्मनियन्त्रितः प्रयोजनान्वितो भवति । अस्ति हि कल्पनाया अपि प्रयोजनविशेष:, तथापि स सूक्ष्मचैतन्येन कारणचैतन्येन वाज्ञाततया नियन्त्रितो भवति । प्रत्यक्षतस्तु सोऽप्रत्यक्षगोचर इव प्रतिभाति । जङ्गमहोदयेन स्वकीये ग्रन्थे 'कारणचैतन्यमनोविज्ञानम्' [१] इत्याख्ये स्वनियन्त्रितविचारस्वछन्दविचारयोर्भेदः सुष्ठुतरमुपबृंहितः ।

किं तर्हि स्वच्छन्दविचार-प्रवाहः, किमुत स्वच्छन्दप्रत्ययसम्बन्ध एव कल्पनेति वक्तुं शक्यते ? नैतदिति वयं ब्रूमः | विचारस्तु प्रस्तुतविषयं प्रत्यक्षगोचरमधिकृत्य प्रवर्तते । प्रयोजनानुविद्धं विचारक्रियाविषयीभूतं वस्तु त्रैकालिकं भूतभविष्यद्वर्तमानकालिकमेव भवितुमर्हति । प्रत्यक्षप्रयोजनविशेषरहिता प्रस्तुतप्रत्यक्षज्ञानव्यतिरिक्ता पूर्वकल्पनाप्रतिमापुञ्जस्याभिनव- संयोजनात्मिका कल्पना भवति । तस्या विषयीभूताः पदार्थाः प्रायो भाविनः, यद्यपि त्रैकालिका अपि ते भवितुमर्हन्ति । अन्यच्च, स्वच्छन्दप्रत्ययसम्बन्धे नहि तथाविधं सौष्ठवम्, रचनाचातुर्यम्, अभिनवत्वं चोपलभ्यते; यादृशं कल्पनायां समुपलभ्यते।

कल्पनोदाहरणानि सम्पादयतु

वयं सम्प्रति स्मृतिविचारकल्पनानामुदाहरणैः स्पष्टीकरणं कुर्मः। विश्वनाथस्य भूतभावनस्य काशीस्थे मन्दिरे या मूर्त्तिर्वर्तते, तस्याः कल्पनाप्रतिमानामुद्बोधनं स्मृति जनयति। अथवा सम्प्रति स्वर्णमयी अन्नपूर्णादेवीमूर्त्तिरिति कल्पनाप्रतिमाविषयीभूता देशकालसंस्मरणसहकृता स्मृतिरित्यभिधीयते। किन्तु सुवर्णकुण्डलमस्माभिः पूर्वं दृष्टम् । सुवर्णदेवमूर्त्तिरप्यस्माभिः दृष्टपूर्वा । एवमेव मृगा अपि बहुवारमस्माभिः कान्तारेषूद्यानेषु च दृष्टचराः । यदा कश्चन ब्रवीति - 'सुवर्णमृगोऽयम्' इति, तदा वयं 'सुवर्णमृग: ' कदापि दृष्टपूर्व:' इति न स्मरामः । अत एव सुवर्णमृग: स्मृतिगोचरत्वं नापद्यते । नापि सुवर्णमृगस्य प्रत्यक्षज्ञानमेवोपपद्यते; अवस्तुभूतत्वात् । अत एव सुवर्णमृगप्रत्ययः कल्पनेत्यभिधीयते । कल्पनाऽवस्तुभूतत्वमेतावतोन्नेतुमर्हम्-

नीतो न केनापि न दृष्टपूर्वो न श्रूयते हेममयः कुरङ्गः।

तथापि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः ॥ इति ।

यद्यपि हेम्नः केयूरकुण्डलादीनि प्रत्यक्षानुभवास्पदीभूतानि, मृगोऽपि बहुवारं दृष्टः; तथापि ‘हेममयः कुरङ्गः' इत्यभिनवकल्पनामात्रम्। पूर्वानुभवोत्थप्रत्ययाः कल्पनाप्रतिमाश्चाभिनवसंयोजनव्यापारेण नवीनं रमणीयमदृष्टपूर्वं यद्रूपमापाद्यन्ते तत्कल्पनेति सञ्चक्षते। अन्यानि कल्पनोदाहरणानि - सुगन्धिसुवर्णम्, इक्षुफलम्, चन्दनपुष्पम्, आकाश- कुसुमम्, वन्ध्यापुत्रः - इत्यादीनि भवन्ति । तत्रोक्तं भवति-

गन्धः सुवर्णे फलमिक्षुदण्डे नाकारि पुष्पं खलु चन्दनेषु ।

विद्वान् धनाढ्यो न च दीर्घजीवी धातुः पुरा कोऽपि न बुद्धिदोऽभूत् ॥ इति ।

अन्यच्च नारीप्रत्ययोऽहर्निशमनुभवास्पदीभूतः, एवमेव पुरुषप्रत्ययोऽपि सर्वेषामेवोपासकानामितरेषां च पुरुषाणामनुभवास्पदम्; किन्तु भगवतोऽर्धनारीश्वरस्य कल्पनायां कल्पनासौष्ठवस्य चरममुदाहरणमुपलभ्यते। शिवस्य देहवामार्धं नारीरूपम्, दक्षिणार्धं पुरुषरूपम्। निखिलं शिवस्वरूपं सकलचराचरप्रतीकभूतार्धनारीश्वरकल्पनायामेव समुपलभ्यते। तत्स्वरूपसौन्दर्यकल्पनां कालिदासोऽप्येवं विशिनष्टि-

एकैश्वर्ये स्थितोऽपि प्रणतबहुफलो यः स्वयं कृत्तिवासाः

कान्तासंमिश्रदेहोऽप्यविषयमनसां यः परस्ताद्यतीनाम् ।

अष्टाभिर्यस्य कृत्स्नं जगदपि तनुभिर्बिभ्रतो नाभिमानः

सन्मार्गालोकनाय व्यपनयतु स वस्तामसीं वृत्तिमीशः ॥ इति । [२]

एवम्प्रकारेणैव भगवन्नरसिंहावतारस्वरूपरचनायामपि कल्पनावैचित्र्यं किन्नर- गन्धर्वोर्वशीचित्रगुप्तादिवर्णनेषु कल्पनायाः क्रियाकलापं स्पष्टतरं जायते । अन्यच्च, शकुन्तलाया लोकोत्तरं सौन्दर्यं कविकुलगुरुर्महाकविः कालिदासोऽसम्भाव्यपदार्थकल्पनया कथमुद्भावयति-

अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः

शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः ।

वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो

निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः॥ इति। [३]

न चन्द्रः शकुन्तलां निर्मातुं शक्नोति, तथापि कविरसम्भाव्यकर्तृकतया लोकोत्तरत्वं तल्लावण्यस्योद्भावयति ।

विचारस्य विषयः प्रतिपदं प्रयोजनान्वितः कार्यकारणभावपुरस्सरः साध्यसाधनेति - कर्त्तव्यताचिन्तनमयो भवति । स यथा - सार्धद्विसहस्राब्दमहोत्सवे बुद्धजयन्त्याख्ये सारनाथ- मूलगन्धकुटीसकाशे रमणीयमुद्यानमेकं प्राक्तनमृगदावसङ्काशं योजनीयम्, यस्मिन् पालितेभ्यः कृष्णमृगेभ्योऽकृतोभयमास्पदमपि सुलभं भवेदिति विचार: । अत्र प्रतिपदं प्रयोजनानुकूल- कार्ययोजनाविकासक्रमो दृष्टिगोचरः । अन्यच्च, विचारभूमौ यथार्थवादो राजते । कल्पनाक्षेत्र आदर्शवादप्राचुर्य्यं समुपलभ्यते; यथा - सेयं धेनुः पयस्विनी, पुष्टवत्सा, मया अवश्यं क्रेतव्या, यया परिवारजनेभ्यः पुष्कलं दुग्धं सुलभं भवेदिति लौकिकविचारनिदर्शनम् ।

कल्पनाप्रतिमाभेदाः सम्पादयतु

कल्पनाप्रतिमा द्वेधा-

(अ) स्वस्थपुरुषाणां सामान्यकल्पनाप्रतिमा'।

(आ) मानसिकरोगिणामसामान्यकल्पनाप्रतिमा चेति ।

वयं सम्प्रत्येते संपरिकरमनुव्याख्यास्यामः।

स्वस्थपुरुषाणां सामान्यकल्पनाप्रतिमाभेदाः सम्पादयतु

स्वस्थपुरुषाणां कल्पनाप्रतिमानां समुपलभ्यमानानां पञ्चसु वर्गेषु वर्गीकरणं विवेचनसौकर्याय क्रियते -

(क) उत्तरकल्पनाप्रतिमाः सम्पादयतु

आलोचनज्ञानप्रकरणेऽस्माभिरेतासां विवेचनं साङ्गोपाङ्गं व्याख्यातचरम्। संज्ञावाहिनाडीकन्दाणुकानां वल्कस्थमस्तुलुङ्गोच्चस्तरेष्वत्यर्थं क्रियाशालित्वाद्धि उत्तरकल्पनाप्रतिमा जायन्ते । वस्तुतस्तु ता उत्तरनिर्विकल्पकज्ञानभूताः ।

ताश्च द्वेधा –

(१) अनुरूपोत्तरकल्पनाप्रतिमाः,

(२) पूरकोत्तरकल्पनाप्रतिमाश्चेति ।

अनुरूपोत्तरप्रतिमाः पूर्वालोचनज्ञानानुगतवर्णका भवन्ति । पूरकोत्तरकल्पनाप्रतिमास्तद्भिन्न- वर्णका भवन्तीति सर्वं वर्णितपूर्वम् । तासां हि द्वौ विशेषौ भवतः । आलोचनज्ञानानन्तरं यत्र कुत्रापि तासां प्रक्षेपानुभवः प्राप्तुं शक्यत इति तु प्रथमो विशेषः । अपरश्च तासामयं विशेषो यद्धि तासां प्रक्षेपोद्भवो' दैर्घ्यादिपरिमाणविशेषो द्रष्टुः प्रक्षेपस्थलविशेषदूरत्वाद्यायत्तो भवतीति ।

(ख) प्रारम्भिकस्मृतिकल्पनाप्रतिमाः सम्पादयतु

एता: कल्पनाप्रतिमा उपर्युक्तकल्पना- प्रतिमाभ्यो व्यावृत्ताः। आलोचनज्ञानादनन्तरमेवोत्तरकल्पनाप्रतिमा जायन्ते। तदनन्तरं यदा संज्ञावाहिनाडीकन्दाणुकानां नाडीक्रियायास्तिरोभावो जायते, तदा पूर्वानुभूत- पदार्थस्मरणे प्रारम्भिकस्मृतिकल्पनाप्रतिमाः समुपलभ्यन्ते । आलोचनज्ञानापेक्षया वर्णोज्ज्वलत्वगभीरत्वह्रासो वै उत्तरकल्पनाप्रतिमासु जायते। तथापि तयोरल्पमेवास्त्यन्तरम्। उत्तरकल्पनाप्रतिमापेक्षया प्रारम्भिकस्मृतिकल्पनाप्रतिमासु वर्णोज्ज्वलत्वगभीरत्वह्रासो जायते। संज्ञावाहिनाडीकन्दाणुकानां समुत्तेजनानन्तरमेव प्रारम्भिकस्मृतिकल्पनाप्रतिमाः सुस्पष्टाः समुज्ज्वलवर्णाश्च सम्भवन्ति; किन्तु तासां वर्णप्राचुर्य्यं कालात्ययेन सह ह्रासोन्मुखः प्रतिक्षणं सँल्लक्ष्यते । पिपठिषुणा श्रुतलेखने' हि वयं प्रारम्भिकस्मृति- कल्पनाप्रतिमाया उत्कृष्टमुदाहरणं लभामहे। गुरुपाठध्वन्यनन्तरमपि प्रारम्भिकस्मृति- कल्पनाप्रतिमासाहाय्येन विद्यार्थी श्रुतपूर्वं यथार्हं लिखितुं प्रभवति । प्रारम्भिकस्मृति- कल्पनाप्रतिमास्वनुगत-ध्वनिवर्णाद्यनुकारित्वं प्रतिपुरुषं भिद्यते । निर्विकल्पकज्ञानानुगत- ध्वनिवर्णादिगभीरत्वं स्वच्छत्वमपि नोपलभ्यते ।

(ग) साधारणस्मृतिकल्पनाप्रतिमाः सम्पादयतु

एतास्तु प्रायेण सर्वैः सर्वदाऽनुभूयन्ते। पुरातनानुभवाहित-संस्कारमय्यसाधारणस्मृति-कल्पनाप्रतिमाः । यस्यानुभवस्य संस्कारसमुत्था एता:, स कालेन सन्निकृष्टं विप्रकृष्टं वेति नास्ति विशेषः । किन्तु प्रारम्भिकस्मृतिकल्पना- प्रतिमाभ्य एतासामयमेव विशेषो यद्धि प्रारम्भिकस्मृतिकल्पनाप्रतिमा अनुभवविशेषोत्तरं तत्क्षणमेव सङ्घटन्ते; किन्तु साधारणस्मृतिकल्पनाप्रतिमानामुत्पत्तिस्तदपेक्षया कियता चिरेण सम्भवति। एतादृशस्मृतिकल्पनाप्रतिमानामुपयोगस्त्रिविधो भवति । प्रथमोपयोगः साधारणस्मृतिकल्पनाप्रतिमानां भूतकालानुबन्धी दृश्यते प्रत्यभिज्ञारूप:, यस्मिन् पूर्वानु- भूतवस्तूनां स्मरणं तज्जन्यपूर्वसंस्कारोद्बोधनद्वाराभिसम्पद्यते । वयमग्रिमेऽध्याये प्रत्यभिज्ञास्वरूपमनुव्याख्यास्यामः ।

द्वितीयोपयोगः साधारणस्मृतिकल्पनाप्रतिमानां भविष्यत्कालिको दृश्यते । स यथा - दिवास्वप्ने कश्चन् कल्पते, “अहं वै खलु लोकसभाप्रतिनिधिभिः राष्ट्रपतिपदेऽभिमन्त्रितोऽस्मि । अहं श्वः सर्वान् वैदेशिकराजदूतान् समाह्वयितास्मि। तदनन्तरं काश्मीरप्रदेशभ्रमणाय सुरभिकेसरोद्यानहिमाच्छादितशुभ्रामर- कण्टकोत्तुङ्गशृङ्गदर्शनाय परिजनैः सह गन्तास्मि" इति ।

तृतीयोपयोगः साधारणस्मृति- कल्पनाप्रतिमानां नवीनविचारक्रियायां समुपलभ्यते । तत्र जटिलसमस्यासमाधानाय क्रमविशेषे प्रयोजनान्विते तासामभिव्यक्तिर्यथार्थवस्तुसमाकलनपुरस्सरा जायते । साधारण- स्मृतिकल्पनाप्रतिमातिशयेन प्रत्ययाः सुस्पष्टाः प्रचुराशया जायन्ते । प्रत्ययानामर्थवैशारद्ये संवृत्ते विचारसौष्ठवमभिनिर्वर्तते इति निष्प्रत्यूहम् । तासां विचारविकासे य उपयोगो जायते, स निखिलः पूर्वस्मिन्नध्यायेऽनुव्याख्यात एव।

(घ) पुनरावर्तककल्पनाप्रतिमाः सम्पादयतु

यदा वारं वारं प्रसभं पूर्वानुभवस्मृतिकल्पना- प्रतिमा अनुभूयन्ते, कालात्ययेऽपि भृशं पुनरावर्तन्ते तदा ताः पुनरावर्तककल्पनाप्रतिमा:’ इत्यभिधीयन्ते। यथा हि कदाचन अप्रियवस्तुदुर्गन्धश्चिरादनुभूयते । धनागारस्य कर्मचारिभिः कार्यालयकर्मचारिभिः कार्यालयायव्ययनिरीक्षकैश्च सततं संख्यापङ्क्तिसमनुगताङ्कानामावर्त्तक- कल्पनाप्रतिमाः प्रायेणानुभूयन्ते ।

(ङ) अभ्यस्तकल्पनाप्रतिमाः सम्पादयतु

एताः कल्पनाप्रतिमाः सामान्यप्रत्ययैः सह सन्निविष्टा भवन्ति ; यथा - ईश्वरप्रत्ययेन सह जगत्कर्तृत्वनियन्तृत्वादिमूर्त्तकल्पना चिरेणाभ्यस्ता भवति। इतरैरीश्वरामूर्त्तप्रत्ययेन सह दयालुत्वजगदधिष्ठानत्वादिजन्यमूर्त्तकल्पना स्वाभ्यासानुसारमनुभूयते। एवम्प्रकारेण धर्मपुण्यपापशौचसत्यादिविषयमधिकृत्यानेका अभ्यस्तकल्पनाप्रतिमा अभिनिर्वर्तन्ते ।

असामान्यकल्पनाप्रतिमाः सम्पादयतु

एताः कल्पनाप्रतिमा असामान्यमनोविज्ञानान्तर्गताः । तासां वर्गीकरणं त्रिधा कर्तुं शक्यते । ता यथा-

(क) विभ्रमात्मककल्पनाप्रतिमाः ।

(ख) आलोचनेतरकल्पनाप्रतिमाः ।

(ग) सजीवकल्पनाप्रतिमाश्च ।

(क) विभ्रमात्मककल्पनाप्रतिमाः सम्पादयतु

एतासु कल्पनाप्रतिमासु विषयीभूताः पदार्थाः प्रत्यक्षानुगतप्रत्यया इवानुभूयन्ते । तेषां पदार्थानां चेन्द्रियसन्निहितं सत्त्वमप्यनुभूयते । वस्तुतः, तत्तु कुत्रापि नोपलभ्यते । उदाहरणतया विक्षिप्तो नर एवम्प्रकारेणाचरति व्यवहरति च येनेदमायाति यद्धि सोऽन्यपुरुषसन्निधानादेवमाचरति प्रतिवदति च। असत्यपि चान्यपुरुषे, स तस्मिन् क्रुद्धो जायते, ताडयितुं यतते, अपशब्दानुच्चारयति । स्मरणीयं यद्धि व्याख्यातपूर्वे विभ्रमेऽपि वास्तविकनिर्विकल्पकप्रत्यक्षोत्तेजकविषयाभावेऽपि निर्विकल्पकप्रत्यक्षसदृशोऽनुभवविशेषोऽभिनिर्वर्तते ।

स च 'विभ्रमः' इत्युच्यते । विभ्रमात्मककल्पनाप्रतिमास्वप्युत्तेजकविषयाभावे सति तादृशोऽनुभवः सङ्घटते । सम्मोहनदशायामपि प्रयोक्त्रा सम्मोहनसङ्केते प्रदत्ते सति तत्क्षणमेव वषयीभूतो बालकः साक्षात् प्रत्यक्षानुभवविषयीभूतानिव पदार्थान् वर्णयति । नहि तस्य प्रत्यया निर्वर्ण्यमानाः प्रत्यक्षजन्याः, तथापि प्रत्यक्षजन्यप्रत्ययसङ्काशा उज्ज्वलाः स्पष्टा वर्णगभीरत्वादियुक्ताश्च सम्भवन्ति। बाह्योत्तेजकाभावेऽपि विभ्रमात्मककल्पनाप्रतिमाः सङ्घटन्ते- इत्येव तासां विशेषः ।

(ख) आलोचनेतरकल्पनाप्रतिमाः सम्पादयतु

आलोचनेतरकल्पनाप्रतिमासु ज्ञानेन्द्रिय- विशेषसम्बन्ध्यालोचनज्ञानेनान्येन्द्रियजन्यप्रत्ययरूपं ज्ञानं निर्विकल्पकं जन्यते। स्वानुरूपयोग्यविषयाभावे तत्तु निर्विकल्पकं ज्ञानमिति न भवितुमर्हति । अतः कल्पना- प्रतिमारूपं तदिति वयं ब्रूमः । तदुदाहरणं च वर्णमयं श्रावणं प्रत्यक्षम्, यत्र शाब्दजज्ञानोत्तेजकं वर्णप्रकाशविशेषयुक्तं चाक्षुषप्रत्यक्षालोचनं ज्ञानं जनयति । केषाञ्चित् पुरुषाणां रणशृङ्गशब्देन रणभेरिशब्देन च वैद्युतप्रकाशालोचनमिव कल्पनाप्रतिमा साक्षाज्जन्यते। एकेनालोचनज्ञान- विशेषेण यदा भिन्नेन्द्रियप्रत्यक्षानुरूपप्रत्यया जन्यन्ते, तदा आलोचनेतरकल्पनाप्रतिमा जायत इति वयं ब्रूमः ।

लैङ्गफील्डमहोदयमतम् सम्पादयतु

लैङ्गफील्डमहोदयेन [४]  अमेरिकनदेशीयप्रिंसटनविश्वविद्यालयीयमनोविज्ञानप्राध्यापक- प्रवरेण आलोचनेतरकल्पनाप्रतिमाया एकस्योदाहरणस्य विशिष्टमध्ययनं सम्पादितम् । अध्ययनविषयीभूतेन पुरुषेण अष्टवर्षपर्यन्तमेकस्यैव ध्वनिविशेषस्य साहचर्य्यमेकेन वर्णविशेषेण सहानुभूतम् । यदि द्वयोः ध्वन्योः स्वरविशेषयोः सम्मिश्रणं युगपद् भवेत्तर्हि तस्य आलोचनेतरवर्णप्रतिमा अपि तदनुरूपवर्णसम्मिश्रणमाधत्ते स्म। आङ्गलभाषीयस्वर- सङ्केतसहितं तद् वयमग्रतोऽङ्कितं करिष्यामः । १९६२ वैक्रमाब्दे १९६९ वैक्रमाब्दे च द्विवारमिदं प्रयोगाभ्यां साहचर्य्यमुपोद्बलितम् ।

स     १९६२ वैक्र०

द रक्तवर्णः

द     केशरवर्णः

इ    नीलकृष्णवर्णः

इ    ईषन्नीलवर्णः

फ   सुवर्णाभपीतवर्णः

फ   ईषत्केसरवर्णः

फ    सुवर्णाभनीलवर्णः

ग    हरिततरनीलवर्ण:

ग     स्वच्छनीलवर्णः

अ    ईषत्पीतवर्णः

ब    नारङ्गकवर्णः

ब    उत्कटताम्रवर्णः ।

एवम्प्रकारेण आलोचनेतरकल्पनाप्रतिमोदाहरणभूतानि तथ्येतराण्यपि सम्प्राप्तानि । यथा–वर्णान्वितो गन्ध:, वर्णमयो वा गन्धः, स्वादो वेति ।

(ग) सजीवकल्पनाप्रतिमाः सम्पादयतु

एता आङ्गलभाषायाम् 'ईडेटिक' इत्यभिधीयन्ते। १९६४ वैक्रमाब्दे अरबैण्टिशमहोदयेनाविष्कृतं यद्वै केषाञ्चन बालकानां कल्पनाप्रतिमा वास्तविकप्रत्यक्षसङ्काशाः समुज्ज्वला भवन्तीति । ततो जर्मनदेशीयमारबर्गविश्वविद्यालयस्य मनोविज्ञानाचार्य्येण जेन्शमहोदयेन विशेषाध्ययनानन्तरम् 'ईडेटिक' इति विशेषणेन तादृश्यः समुज्ज्वलाः प्रतिमा अनुव्याख्याताः । एताः सजीवकल्पनाप्रतिमा आलपोर्टमहोदयानुसारं स्मृतिकल्पनाप्रतिमानामेको वर्गविशेषः ।

जेन्शमहोदयानुसारं तास्तु कल्पनाप्रतिमा आलोचनोत्तरकल्पनाप्रतिमास्मृतिकल्पनाप्रतिमयोश्चान्तराले विशिष्टमेव रूपं बिभ्रतीति तासु ये ये प्रत्यया अनुभूयन्ते तेऽतीव सुस्पष्टाः साक्षात् प्रत्यक्षानुगता इव सजीवाः, गभीरवर्णप्रान्तीयरेखान्विता भवन्ति । शिशूनामनुभवे सबीजकल्पनाप्रतिमाः प्राचुर्य्येणोपलभ्यन्ते; किन्तु सर्वेषु बालकेष्वेव तदनुभवक्षमता नोपलभ्यते। आ अष्टमवर्षात् त्रयोदशवर्षं यावदस्या बालकैरनुभव: सुष्ठुतरं प्रयोगार्हः ; किन्तु अष्टवर्षान्न्यूनवर्षीयबालका- नामप्यनुभवो द्रष्टुमेव शक्यते । चित्राङ्कितं पृष्ठं दृष्ट्वा ते प्रत्येकं वर्णरेखाक्रमादिविशेषं वर्णयितुमारभन्ते। तेषां वर्णनं घटनानामेतादृशं भवति येनेदं प्रतिभाति यद्धि ते चित्रं पुरस्ताद् दृष्ट्वैव वर्णनं कुर्वन्तीति । सुकवीनाम्, सफलचित्रकाराणाम्, नृत्यसङ्गीताभिनय- कलाविदामेताः सजीवकल्पनाप्रतिमा नितरामुत्कृष्टा भवन्तीति बोद्धव्यम्।

कल्पनाप्रतिमापेक्षया व्यक्तिवर्गीकरणम् सम्पादयतु

किन्नु खलु वयं कल्पनाभेदविशेषमधिकृत्य पुरुषाणां व्यक्तीनामपि वर्गीकरणं कर्तुं शक्नुमः? चिरादेव मनोवैज्ञानिकानामियं धारणासीत्, मान्यतासीद् यद्धि विविधव्यक्तीनां कल्पनाविशेषानुसारं वर्गीकरणं कर्तुं शक्यत इति । जर्मनदेशीयप्रायोगिकमनोविज्ञानविशारदेन फैचनरमहोदयेनेदं तथ्यं १९१७ वैक्रमाब्दे प्रतिपादितं यद्धि कासुचिद् व्यक्तिषु कल्पना- प्रतिमानुभवाभावो विद्यते। विंशतिवर्षानन्तरं फ्रांसिसगाल्टनमहोदयेन विशदप्रश्नावलीपूर्वकं मानसिककल्पनाप्रतिमाविषयस्य गवेषणा समारब्धा । मनोविज्ञानक्षेत्रे प्रश्नावलीसम्प्रयोगस्यायं प्रथमोऽवसर आसीत्।

शुद्धोत्तराशया वैज्ञानिकप्रवराणां विदुषामेव समावेशमस्यां प्रश्नावलीतालिकायां गाल्टनमहोदयः कृतवान्, येन तेषामुत्तराणि यथातथानि भवेयुः । तेन समालोडितमिदं यद्धि केषुचिद् विख्यातवैज्ञानिकेषु कल्पनाप्रतिमाभावो विद्यते। अन्यच्च, अवैज्ञानिकपुरुषेषु कल्पनाप्रतिमान्तर्गतवर्णप्रकाशवर्णनविशेषादितथ्यानां प्राखर्य्यं सुस्पष्टत्वं चायातम्। अपि च, तत्प्रयोगेणेदमपि निष्पन्नं यद्धि कल्पनाप्रतिमाविशेषप्रकर्षमधिकृत्य विविधव्यक्तीनां वर्गीकरणं नैव कर्तुं शक्यते । तदनन्तरमेव कैश्चन मनोविज्ञानाचार्यैः प्रतिपादितं यद्धि केचन पुरुषाश्चाक्षुषालोचनज्ञानकल्पनाप्रतिमाप्राखर्य्यात् चाक्षुषकल्पनाप्रतिमाविशिष्टाः भवन्ति, अन्ये च केचन श्रावणकल्पनाप्रतिभान्विता भवन्ति। फ्रान्सदेशीयोपन्यासकार- ऐमिलजोलामहोदयस्याध्ययनेन विवृतं यद्धि स घ्राणजकल्पनाविशेषान्वित' आसादिति।

किन्तु, अमेरिकादेशीयबेट्समहोदयेन' माल्टनमहोदयापेक्षयात्यर्थं सुनिष्पन्नकल्पना- प्रतिभाप्रश्नावलीं रचयित्वा तदुत्तराणां गवेषणया स्फोरितमिदं रहस्यं यद्धि मनुष्याणां कल्पनाप्रतिमाविशेषानुसारं वर्गीकरणं नैवं कर्तुं शक्यते । सन्ति हि काश्चन व्यक्तयः, यांसु चाक्षुषकल्पनाप्रतिमाशाब्दजकल्पनाप्रतिमाभिः सह रासनकल्पनाप्रतिमाः समुपलभ्यन्ते, तथापि तेनेदं तथ्यं न निराकृतं यद्वै येष्वेकाधिकप्रकारककल्पनाप्रतिमाः समुपलभ्यन्ते, तेषु पुरुषेषु कल्पनाप्रतिमाप्रकारैकविशेषस्येतरापेक्षया प्राखर्य्यं समुपलभ्यत इति । अतः कल्पनाप्रतिमाविशेषमधिकृत्य पुरुषाणामितरेतव्यावृत्तवर्गीकरणं नैव समीचीनमिति सिद्धम् । ७. कल्पनाप्रकारविशेषाः

कल्पनाविकासे मौलिकतासङ्कल्पशक्तिविश्वोसोपयोगिताविशेषानधिकृत्य बहवः कल्पनाभेदा अभिनिर्वर्तन्ते; किन्तु तेषामन्यतमविशेषमधिकृत्येतरेतरव्यावृत्तलक्षणोपेतं कल्पनावर्गीकरणं न सम्भाव्यते। वयमत्र मनोविज्ञानविशारदद्वयेन प्रतिपादितं कल्पना- वर्गीकरणद्वयं क्रमशोऽनुव्याख्यास्यामः । प्रथमं तावन्मैकडूगलमहोदयाभिमतं कल्पना- वर्गीकरणम्। कल्पनाप्रकारा हि-

(अ) पुनरुत्पादनात्मिकाकल्पना

(आ) उत्पादनात्मिका कल्पना?

(क) रचनात्मिका

(ख) सर्जनात्मिका

(अ) पुनरुत्पादनात्मिका कल्पना सम्पादयतु

सोऽयं कल्पनाप्रकारविशेषः स्मृत्यविशेषः, यतो ह्यस्मिन् पुरातनानुभवस्य कल्पनाप्रतिमा यथापूर्वमाधीयन्ते । उदाहरणतो मया ह्यो वाराणसेयभारतमातृमन्दिरं दृष्टम् । अद्य यदाहं तत्कल्पनाप्रतिमां स्मरामि, सा यथापूर्वमेवायाति तत्तद्विशेषणोपेता । पुनरुत्पादनात्मिकायां कल्पनायां पूर्वानुभवसंस्काराणा- मुद्बोधनमात्रमनुभूयते।

(आ) उत्पादनात्मिका कल्पना सम्पादयतु

सर्वा: कल्पना नहि पूर्वानुभवप्रतिकृतिरूपाः, प्रत्युत नवीनमैक्यं कल्पनाप्रतिमासंयोजनात्मकं तेषु समुपलभ्यते । पूर्वानुगतक्रमविशेषं विहाय नवीनः क्रमस्तासु कलात्मकत्वेनाभिनिर्वर्तते। अंतस्तासामुत्पादनात्मिका अभिनव- कल्पनापदार्थोत्पादनात्मिकेति व्यपदेश: सार्थकः । सोऽयं पदार्थः पूर्वं तद्रूपेण नोपलभ्यते। अभिनवपदार्थस्य कल्पनासृष्टिरत्र विधीयते, अत एवेयमुत्पादनात्मिका कल्पनेति सुप्रथिता । अस्या द्वौ विभागावपरावपि कर्तुं शक्येते –

(क) रचनात्मिका कल्पना, (ख) सर्जनात्मिका कल्पना चेति । वस्तुतो रचनात्मकसर्जनात्मकोत्पादनात्मकादिविशेषणपदैरनर्थान्तरैरैकैव सर्जनात्मिका कल्पना संसूच्यते, तथापि लक्ष्यविशेषमधिकृत्य तत्सूक्ष्मभेदाः स्वीक्रियन्ते ।

(क) रचनात्मिका कल्पना सम्पादयतु

अत्रोपयोगिताविशेषमभिलक्ष्य विचारान्वितं कल्पनारूपं निष्पन्नं भवति । अस्या: कल्पनाया उदाहरणं चरमं वैज्ञानिकानुसन्धानेष्वभिलक्ष्यते। सरगङ्गाराममहोदयैः स्वनामधन्यैः काशीस्थहिन्दूविश्वविद्यालयस्यादर्शमानचित्र- मलभ्यपूर्वं रचनात्मककल्पनारूपमतिरमणीयं निम्मितम्। नूनं तत्र महामनोमालवीय- महोदयानामपि कल्पनासौष्ठवं सुलभमासीत् । तन्निष्पादितं चित्रं विचारसहकृतं क्षणिकावश्यकतानिर्वाहक्षमं किल कलाकल्पनासूक्ष्मक्षिकायाश्चरममुत्कृष्टं रूपम्। रचनात्मक- कल्पनायां भौतिकपदार्थकल्पनाप्राधान्यं विशेषेण वर्तत इति विशेषः । अस्यां कल्पना- वाटिकायां दर्शनविज्ञानधर्मशास्त्ररूपः कल्पवृक्षो यथाकामं सुरभिपुष्पफलानि प्रदत्ते ।

सर्जनात्मिका कल्पना सम्पादयतु

सोऽयं कल्पनाविशेषः सुकवीनां कलाविदाञ्च रसात्मकः शेवधिः। यथा काशीहिन्दूविश्वविद्यालयस्य कल्पनायां कस्यचिदेकस्यं प्राक्तनपदार्थस्य कल्पनानुकृतिर्नासीत्, एवम्प्रकारेणैव काशीविद्यापीठसन्निकृष्टे भारतमातृमन्दिरे यद् भारतमातुः मानचित्रं स्फटिकाङ्कितम्, तस्यापि कल्पनायामेकस्य कस्यचित् प्राक्तनचित्रस्यानु- कृतिमात्रं नासीत्; विविधकल्पनाप्रतिमानां विचित्रसंयोजनविशेषमुत्थं समञ्जसं वै तन्निदर्शनम्। तथैव साहित्यसङ्गीतकलाक्षेत्र उत्पादनात्मिकायाः कल्पनया यद्रूपमुपलभ्यते, तत् ‘सर्जनात्मकम्’ इति विशेषणपदेन विशिष्यते । नहि पूर्वं दुग्धकुल्या केनापि दृष्टा, नापि स्नेहेन कमपि कोऽपि स्नपयितुमर्हति, नैव च स्नेहस्यामूर्त्तप्रत्ययस्य मूर्त्तपयस्विनी प्रवहमाना केनापि दृष्टपूर्वा, यद्यपि दुग्धस्नेहनिष्यन्दिकुल्यास्नानादिप्रत्ययविशेषाः पूर्वं विविधस्थलेष्वनुभूता आसन् । महाकविभवभूते रसमयी तूलिका कियद्रमणीयं सर्जनात्मिकायाः कल्पनायाः सुनिष्पन्नं चित्रं मूर्त्तमिव प्रतीयमानममूर्त्तकल्पनाप्रतिमाभिर्विनिर्मितं रचयति । तथा हि-

"स्नपयति हृदयेशं स्नेहनिष्यन्दिनी ते

धवलबहलमुग्धा दुग्धकुल्येव दृष्टिः" ॥ इति । [५]

सीतामभिमुखीकृत्य भगवतो रामचन्द्रस्य खल्वियमुक्तिर्वस्तुतो दाम्पत्यप्रणयस्य परमाभिरामं चित्रं पुरस्करोति । अन्यच्च, भगवत्याः शैलाधिराजतनयायाः पार्वत्या हृदयाभिरामं स्मितं कविकुलगुरुः कियत्सौष्ठवेन निर्वर्णयति । तथा हि-

पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् ।

ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य ॥ इति । [६]

अन्यच्च, इटैलीदेशीयपुनरुत्थानकालिकश्चित्रकार: स्वनामधन्यो धन्यो माइकेल - एञ्जेलोमहोदयो मोनालिसा महाभागाया यथार्थभूतामिव यां सस्मितां स्फटिकमूर्ति निम्मितवान्, सा हि खलु सम्प्रत्यपि कोटिशो दर्शकान् चित्रकलाविशेषज्ञाँश्च स्मर्यमाणैव नन्दयति ।

ड्रेवरमहोदयाभिमतं कल्पनावर्गीकरणम् सम्पादयतु

प्राध्यापकवरेण्या मनोविज्ञानधुरन्धरा ड्रेवरमहाभागाः कल्पनावर्गीकरणमन्य- प्रकारेणाङ्गीकुर्वन्ति। एतन्मतानुसारं कल्पना प्रथमतो द्विधा विभजनीया; यथा-आदानात्मिका कल्पना ४, सर्जनात्मिका कल्पना" चेति । आदानात्मिका कल्पना तदा भवति यदाऽदृष्ट- पूर्वाः पदार्थाः कल्प्यन्ते। यदा शिक्षकः पृथिवीं नारङ्गसङ्काशां निर्वर्ण्य पृथिव्या वर्तुलाकारत्वं छात्रकल्पनाभूमाववतारयति । कल्प्यते च छात्रैरियं वर्तुलाकारा पृथिवी नारङ्गकभिव भवतीति। तदा नारङ्गकफलानुभवजन्यप्रत्ययेन सह सादृश्यं स्पष्टीकृत्य पृथिव्या वर्तुलाकारत्वं स्फुटमेव बालसुलभसुकुमारकल्पनायै भवतीत्यवगन्तव्यम्। सेयमादानात्मिका कल्पनेत्युच्यते।

सर्जनात्मिकया कल्पनयाभिनववस्तुनिर्माणाविष्कारादयोऽभिनिर्वर्तन्ते। सेयं कल्पना द्विधा विभज्यते तैर्महानुभावैः, यथा - उपयोगितान्विता कल्पना, रसात्मिका' कल्पना चेति। उपयोगितान्विता कल्पना तु प्रागुक्तमैकडुगलाभिमतरचनात्मककल्पनासदृशी भवति । तस्याश्चरममुदाहरणमणुबमनिर्माणे सँल्लक्ष्यते । यथा यथा सामाजिकप्रबन्धजनिता आवश्यकताविशेषा अनुभूयन्ते, तथा तथा यान्त्रिकवैज्ञानिकानुसन्धानजातमप्याविष्कृतं संवर्धितञ्च जायते ।

सेयमुपयोगितान्विता कल्पना पुनर्द्विधा विभक्तुं शक्यते - सैद्धान्तकी उपयोगितान्विता कल्पना, व्यावहारिकी उपयोगितान्विता कल्पना चेति । सैद्धान्तिकी उपयोगितान्विता कल्पना तु सिद्धान्तपरायणा सामान्यक्रियोपयोगिनियमनिर्धारणसंसक्ता भवति। व्यावहारिकी उपयोगितान्विता कल्पना किल 'व्यवहारे सिद्धान्तानां कथं परमोपयोगः कर्तुं शक्यते?' इति सर्वे कल्पते । प्रागुक्तभारतमातृमन्दिरनिर्माणमेवंविधकल्पनाभि- व्यक्तिरूपम्। रसात्मिका कल्पना मैकडुगलमहोदयोक्तसर्जनात्मककल्पनासदृशी। तस्या वर्गीकरणं पुनः द्विधा क्रियते - कलात्मिका रसान्विता कल्पना, उन्मुक्तकल्पना' चेति । यदा स्वनिम्मिते स्वर्गे मानवोऽयं रमते यथार्थसम्बन्धविनिर्मुक्तः, तदोन्मुक्तकल्पना तस्येति कथ्यते। दिवास्वप्नेष्वर्धनिमीलितनेत्राः पुरुषाः प्रायेण स्वच्छन्दकल्पनाप्रवाहं विश्रान्तिकाले च प्रकाममनुभवन्ति । कलात्मिका रसान्विता कल्पना विशेषेण साहित्यसङ्गीतकलाप्रवीणेषु दरीदृश्यते ।

वस्तुतो निखिलं मानवजीवनमेव कल्पनारङ्गभूमिः । पशुजीवनान्मानवसभ्यता- संस्कृतिसाहित्यरूपोत्कर्षस्यैकमेव मूलकारणं मानवस्य कल्पनाक्षमतेति वयं मन्यामहे । ड्रेवरमहोदयप्रतिपादितं वर्गीकरणं निम्नलिखितरेखाचित्रेण स्फुटतां लभते-

0 कल्पना

0.1 आदानात्मिका

0.2 सर्जनात्मिका

0.2.1 उपयोगितान्विता

0.2.2 रसात्मिका

0.2.1.1 सैद्धान्तिकी

0.2.1.2 व्यावहारिकी

0.2.2.1 कलात्मिका

0.2.2.2 उन्मुक्ता

उन्मुक्तकल्पना सम्पादयतु

उन्मुक्तकल्पनायां कल्पनातिशय्यं वर्तते । दिवास्वप्नेषु विश्रान्तिकाले चास्या अभिव्यक्तिर्जायते। कैशोरावस्थाया ये ये गगनप्रासादा निर्माणं लभन्ते चिन्तानिरस्त- विश्रामक्षणेषु, ते सर्वे उन्मुक्तकल्पनया निष्पद्यन्ते । शैशवे विशेषेण उन्मुक्तकल्पनायाः प्रत्यक्षानुभूतवस्तुभ्यो भेदप्रयोजकं नोपलभ्यते; यतो हि बाल्यकाले कल्पनाया अतिस्वच्छाश्रयत्वं वर्तते । शिशुः बालको वा काल्पनिकक्रीडनसहयोगिनां रचनां करोति । स वै तेन कल्पितसहयोगिना सह तं ताडयित्वा रोदिति, शाययति च तं स्नेहमयहस्तावलेपेन सह, दुग्धं च पाययति । बालिकाः कृत्रिमा: पुत्तलिका निर्माय तासां विवाहं रचयन्ति, प्रसाधनस्नानादिकं कारयन्ति, भोजनं पचन्ति ।

मध्ये मध्ये कदाचन विवदमानास्ताः परस्परं क्रुध्यन्ति। पुच्छं धारयित्वा हनुमतो रूपं विरचय्य लङ्कादहनमभिनयन्ति शैशवसुलभा कल्पना इयती उर्वरोन्मुक्तानर्गला च भवति यद्वै वृद्धमातामह्या कथिता बह्वयः कथास्तेषां सन्तृप्त्यै न कल्पन्ते। तेषां विश्वासश्च जायते पशुवृक्षादिकथासु । पञ्चतन्त्रजातककथा हितोपदेशकथाश्च सर्वाः शिशुभ्यो वस्तुभूताः सत्याः सर्वांशेन । सप्तवर्षोत्तरं विचार- प्रकर्षे सत्युन्मुक्तकल्पना ह्रासं नीयते । शिशुः कदाचन कुड्यप्रतिबिम्बितं स्वचित्रानुगत- प्रतिद्वन्द्विनं दृष्ट्वा रोदिति, परावर्तते, ताडयति, लालयति, शामयति चेति । उन्मुक्त- कल्पनासौख्यं दुर्लभं लोके । तच्च शैशवे निसर्गतोऽनुभूयते, तत्स्मृतिमात्रं तदनन्तरं सुखयति ।

उन्मुक्तकल्पना भावप्रचयेच्छाप्रयत्नाभिलाषजन्या भवन्ति । तास्त्ववदमितेच्छानां शैशवोचितानां सामाजिकवस्तुस्थितिमभिमुखीकृत्यासम्भाव्यानां वा परम्परया सन्तृप्तिजनिकाः। साक्षात्सन्तृप्तिस्तु तथाविधेच्छादीनां यथार्थभूते जीवने सँल्लक्ष्यते । तन्मार्गस्य चावरुद्धत्वाद् उन्मुक्तकल्पनाद्वारमनर्गलं सर्वसुलभमप्रत्यक्षसन्तृप्तिजनकम् । उन्मुक्तकल्पनासु खल्वहम्भावोत्कर्षोचितवासनापूर्तिरनायासेनाभिसम्पद्यत इत्यर्वाचीनानां मनोवैज्ञानिकानां मतम्। प्राचामायुर्वेदज्ञानां मते वातपित्तकफादिविकाराश्रया उन्मुक्तकल्पनाः । तत्तु सर्वं तत्तदाकरग्रन्थेभ्य: चरकसंहितासुश्रुतसंहिता-अष्टाङ्गहृदय-भावप्रकाशादिभ्य उन्नेयम्।

स्वप्नस्वरूपम् सम्पादयतु

कल्पनोत्कर्षस्य रमणीयं प्रकृतिप्रदत्तं साधनं वै स्वप्नः । स्वप्नावस्थाभिमानि सूक्ष्मचैतन्यं तैजसांख्यमिति तु वयं पूर्वमवोचाम। आङ्गलभाषायां सूक्ष्मचैतन्यम् 'सब- काँशस' इति निगद्यते । फ्रायडमहोदयः स्वप्नानां व्यक्तविषयत्वमव्यक्तविषयत्वं चानुव्याख्यातवान्। वयमत्र कल्पनां विशेषेणाधिकृत्य व्यक्तविषयत्वमेव स्वप्नस्य प्रतिपादयिष्यामः ।

स्वप्नेषु प्रायश्चाक्षुषकल्पनाप्रतिमानामेव सद्भावो विद्यते । तदर्थं प्रायः शाब्दज- कल्पनाप्रतिमा आविर्भवन्ति । अनियन्त्रितस्वच्छन्दविचारमयः स्वप्नो भवति । स्वप्ने प्रत्यया इतस्ततो विकीर्णा बौद्धिकप्रयोजनान्वितविरहिताश्च भवन्ति । दृश्यानामाविर्भावः स्वप्नेऽभिनयात्मकरीत्या सङ्घटते। पेशीजन्यालोचनज्ञानप्रत्ययानां मृदुस्पर्शपुलकादीना- मनुभवोऽपि तत्राभिनिर्वर्तते ।

स्वप्नद्रष्टा स्वप्ने मृदुसङ्गीतं प्रेयस्याः कलनादं मञ्जुलवं सानन्दं शृणोति। बाह्यसामाजिकनैतिकमर्यादाविनिर्मुक्तोऽयं कल्पनाप्रवाहोऽबाधगत्या प्रसरति। स्वप्नद्रष्टा आत्मानं चलन्तं भ्रमन्तं ब्रुवन्तं युध्यन्तमाकाशे वायुयानेन विहरन्तमुत्पतन्तञ्च स्वप्ने पश्यति, तत्तद्भावसहकृतानुभवविशेषानप्यनुभवति । स्मरणीयं यद्धि प्रत्ययाः कल्पनाप्रतिमाश्च स्वप्नावस्थायां यथार्थवस्तुप्रत्यक्षमिव प्रतीयन्ते, अनुभूयन्ते च सत्यत्वेन युक्ताः। जागरणापादितावबोधेन तेषामलीकतमवस्तुभूतत्वं बुद्ध्या विविच्यते। अतः स्वप्नविभ्रमयोः सादृश्यं सिद्धं भवति । वस्त्वभावे सत्यपि विभ्रमा जायन्ते प्रत्ययमात्रजन्या इति तु व्याख्यातपूर्वम् ।

ननु कथं केन कारणेन वा स्वप्ना आविर्भवन्ति ? फ्रायडमहोदयानां मते मानसिकसङ्घर्षाणामवदमितेच्छानां तिरोहितं स्वरूपं प्रतीकभूताः स्वप्ना अभिव्यञ्जयितुं प्रवर्तन्ते। [७] वयमिदं सर्वमग्रेऽनुव्याख्यास्यामः ।

एडलरमहोदयानां मते स्वप्नेषु विषमसमस्यानाम्, यासां समाधानं पूर्वं सम्यक्तया नोपलब्धम्, विचारो जायते, अभिनवसमस्यानां वा कल्पनाधीयते । ताश्च समस्या: प्रतीकरूपैरभिव्यज्यन्ते । यथा काचन भाविन्यापत्तिर्गर्त्तपतनेन किं वा गर्त्तेनाभिव्यज्यते । इदं मतमस्माभिरप्यनुमोद्यते ।

समष्टिवादिनां मनोवैज्ञानिकानां मतानुसारमपूर्णकायैरेको मानसिकचिन्ताविशेषो जायते, यस्य समाधानं स्वप्नेषूपलभ्यते । विशेषत उल्लेखनीयमस्मिन् विषयेऽस्ति बालकानामपूर्णकार्यसम्बन्धि स्वप्नदर्शनम् ।

स्वप्नगोचरकल्पनाप्रतिमास्तर्हि पूर्वानुभवसंस्कारजन्याः । स्वप्नगतविषयाणां प्रातिभासिकं सत्त्वमित्यवगन्तव्यम् । यत् प्रतीतिमात्ररूपतया सत्यमवभासते, अवबोधे च बाध्यते, तत् प्रातिभासिकसत्त्वस्य लक्षणम् । तथापि कल्पना मनोव्यापाररूपेण सर्वा वस्तुभूताः। अतो मनोविज्ञानविषयीभूतत्वात् कल्पनाप्रतिमानां प्रातिभासिकं सत्त्वमिति न वाच्यम्। तत्त्वज्ञानदृष्ट्या पदार्थविज्ञानदृष्ट्या वा कल्पनायाः कल्पनाप्रतिमानां वा प्रातिभासिकं सत्त्वं भवतु नाम; किन्तु मनोवृत्तितया कल्पनायाः कल्पनाप्रतिमानां स्वप्नगतविषयाणां च पारमार्थिकसत्त्वं निष्प्रत्यूहमायातं भवति । स्मरणीयमत्र यद्धि तत्त्वज्ञानपरकदर्शनेषु कल्पनाविषयीभूतपदार्थसत्त्वमवधार्यते, प्रस्तुते मनोविज्ञानतन्त्रे च मनोव्यापारतया वस्तुभूतकल्पनास्वरूपप्रपञ्चनमुपपद्यत इति ।

सन्दर्भाः सम्पादयतु

  1. C. G. Jung, 'Psychology of the unconcious" Chepter I.
  2. मालविकाग्निमित्रम् १/१
  3. विक्रमोर्वशीयम् १/१०
  4. H.S.langfield of Princeton University. (Psychologil Bulletin 1914)
  5. उत्तररामचरितम् ३।२३।
  6. कुमारसम्भवम् १/४४
  7. Sigmund frend, "The Interpretation of Dreams" by A. A. Brill (macmillan & Co. 1962)


सम्बद्धाः लेखाः सम्पादयतु