मनोविज्ञाने ध्यानस्वरूपम्
मनोविज्ञाने ध्यानस्वरूपम् अतीव महत्त्वपूर्णः विषयः वर्तते, येन मनसः समस्यानां समाधानं भवितुम् अर्हति।
पतञ्जलिमतम्
सम्पादयतुननु किमिदं ध्यानं नाम? भगवता पतञ्जलिमहर्षिणा ध्यानमष्टाङ्गयोगव्याख्यानावसर एवम्प्रकारेण व्याख्यातम् - ' तत्र प्रत्ययस्यैकतानता ध्यानम्” [१] इति । तत्र तस्मिन् देशे विषयदेशे प्रत्ययस्यैकतानता सदृशः प्रवाहः प्रत्ययान्तरेणापरामृष्टो ध्यानमित्युच्यते। यदा चित्तं समाहितं भूत्वा कमपि विषयं समनस्कं ध्यायति पश्यति, तदा वयं ब्रूमः 'ध्यानेन स पश्यति' इति । समनस्कमिति ध्यानयुक्तम् । ध्यानस्य पूर्ववर्तिकारणद्वयं भवति, तद्यथा - एकस्मिन्नेव विषयदेशे बाह्ये आभ्यन्तरे वा चित्तबन्धत्वमिति प्रथमं कारणम्। तदेव महर्षिपतञ्जलिना धारणापदेनाभिहितम् । अपरञ्च ध्यानजनकं कारणमितर- विषयेभ्यः। चित्तवृत्तीनां प्रत्यावर्तनमिति । इदन्तु 'प्रत्याहार' इति पदेनाभिधीयते। यदा तु चित्तमेकेन विषयेणैव सम्प्रयुज्यतेऽपरैश्च विषयैर्विनिवर्तते, तदा यं विषयं चित्तमेकीभूय घनीभूय केन्द्रितं भूत्वा वा चिन्तयति, स ध्यानविषय इति कथ्यते । कथं हि चैतन्यं मनो वा केन्द्रितं घनीभूतं वैकस्मिन् विषये जायते कीदृशं वा ध्यानस्य स्वरूपमिति निर्वक्तुं न शक्यते। यत्किञ्चिद् वयं निर्वर्णयितुं शक्नुमस्तत्तु किं हि खलु ध्यानेन जायते, केन केन कारणजातेन चेतनस्य प्रत्ययैकतानत्वमापद्यत इति । अस्माभिर्ध्यान- मिति शब्दोऽतिविस्तृतमनोविज्ञानक्षेत्रोपयोगित्वेनात्र व्यवहृतः, न तु केवलमष्टाङ्गयोगपरत्वेन प्रसंख्यानपरत्वेन, यथा योगदर्शनाचार्यैरयं प्रयुज्यते। एवम्भूतोऽयं ध्यानशब्दश्चैतन्यस्य सामान्यं व्यापारमभिव्यञ्जयति । नहि ध्यानव्यतिरिक्तं किमपि ज्ञानं संवेदनं प्रयत्नो वा प्राकट्यं लभते। न ह्यस्माकमयमाग्रहः - 'ध्यानं क्षणमात्रस्थायि भवत्युत घटिकाद्वयपर्यवसायि' इति। यदस्माभिरभिप्रेतं तत्त्विदमेव यदेकस्मिन् विषये केन्द्रीभूते चैतन्यस्य तारतम्येन प्रवाहो विद्यत इति। एकस्मिन् विषयेऽनुभवैकतानत्वमेव ध्यानमित्यभिधीयते। ध्यानमवधान- मित्यनर्थान्तरम्।
चैतन्यध्यानयोः सम्बन्धः
सम्पादयतुमनोवृत्तीनां वर्गीकरणे ध्यानस्य किं स्थानं भवतीति प्रश्नस्य समाधानं मनोवैज्ञानिकानां परमसन्तोषप्रदं नोपलभ्यते । किन्तावद् ध्यानं चैतन्यमित्यनर्थान्तरम् ? यतो हि यत्र यत्र ध्यानं वर्तते, तत्र तत्र चैतन्योपलब्धिर्भवति । प्राध्यापकप्रवराणां वार्डमहोदयानां मते किञ्चिद् वस्तु प्रति चैतन्यानुभवः तद्ध्यानञ्चानर्थान्तरमिति । नेदं मतमस्मान् समीचीनं प्रतिभाति । यद्यपि जाग्रद्दशायां सर्वास्वेव मनोवृत्तिषु ध्यानसहकृतैव विषयानुभूतिर्जायते, तथापि ध्यानं चैतन्यपर्यायवाचकमिति नैव लोकसिद्धम्। चैतन्यं हि व्यापकतरम्, ध्यानञ्च चैतन्यस्य केन्द्रीभूतत्वं घनीभावो वा। यद्यपि स्वप्नेऽपि मनोवृत्तयो ध्यानोपेता एवोत्पद्यन्ते, तथापि सुषुप्तौ चैतन्ये तमोऽभिभूते चैतन्योच्छेदो नैवाभिमतोऽस्माभिः। अस्ति हि चैतन्यं सुषुप्तावपि । यदा हि वयं सङ्कल्पमिमं चेतस्याधाय ‘प्रातश्चतुर्वादने जागरिता भविष्यामः' इति सुषुप्ता भवेम, चतुर्वादनात् प्रागेव चोत्थिता विनिद्रा भवेम, तदा चैतन्येनाविरलसत्त्वेनैवासादितं तज्जागरणमिति वयं मन्यामहे । अस्तु तावत् चैतन्यक्षेत्रं व्यापकतरं ध्यानक्षेत्रञ्च चैतन्यवृत्तस्य केन्द्रीभूतमिति । वर्तुले (केन्द्रबिन्दुः) - ध्यानम् वर्तुलात् बहिः (चैतन्यक्षेत्रम्) - चैतन्यवृत्तम् केन्द्रबिन्दुश्चायं ध्यानाख्य इतस्ततः प्रविचलति । इदानीमस्मिन् विषये तदानीमपरे विलक्षणे विषये। यं विषयमभिमुखीकृत्य चैतन्यानुभवः प्रवर्तते, स एव चैतन्यवृत्तस्य केन्द्रबिन्दुत्वमापद्यते ।
चेतनाया द्विविधत्वम्
सम्पादयतुविलियमजेम्स-टिचनर-लॉयडमार्गनप्रभृतयो मनोवैज्ञानिका ध्यानस्वरूपव्याख्यानाय चेतनाद्वैविध्यमङ्गीकुर्वन्ति, तद्यथा - केन्द्रीयचेतना, प्रान्तीयचेतना चेति। केन्द्रीयचेतनया विचारप्रत्ययादीनां साक्षात् सम्बन्ध एव ध्यानम् । यथा हि यदा वैद्युतप्रदीपः कक्षमेकं प्रकाशयति, तदा कश्चन स्थानविशेषस्तु समीपतमत्वादुज्ज्वलतमप्रकाशान्वितो भवति, दूरस्थाः कक्षप्रान्तिकभागास्तु न्यूनप्रकाशयुक्ता एव भवन्ति । समीपतम उज्ज्वलप्रकाशयुक्तो भागः केन्द्रीयचेतनाविषय इव भवति । यथा स भागः प्रकाशकिरणैरन्वितो भवति, तथैव यं विषयं द्रष्टुं वयमुद्यता भवामः, स विषयो ध्यानोपेतः केन्द्रीयचेतनायुक्त इति यावदुच्यते। यां समस्यां वयं विचारयामः, सैव चैतन्यसामान्यव्यापारस्य केन्द्रबिन्दुः, किन्तु तद्व्यतिरिक्तान्यपि कानिचिद् वस्तूनि पार्श्वस्थानि भवन्त्येव, यथास्माकं वस्त्राणि, पीठासनम्, जलपात्रमित्यादि । एतानि वस्तून्यस्मत्सकाश एव सन्ति, तथापि न तान्यस्माकं चित्तं समाकर्षयन्ति। यद्यवसरो भवेत्तर्हि तेष्वपि वस्तुषु किमपि वस्तु अस्माकं ध्यानमाक्रष्टुं प्रभवति । एतानि दूरस्थानि वस्तूनि यान्यस्माकं चित्तस्य केन्द्रीभूतानि न वर्तन्ते प्रान्तिक- चेतनाविषयाणि बोद्धव्यानि । एकेन दृष्टान्तेनेदं विवरणं स्पष्टं भविष्यति । १९५५ ई० नवम्बरमासस्याष्टादशतारिकायां रात्रौ सपादाष्टवादनत आकाशवाण्या प्रसारितानि गीतवाद्यादिकान्यस्माकं प्रतिवेशिनो यन्त्रेण समापितानि । नहि तैरस्य ग्रन्थस्य लेखने सँल्लग्नमस्मच्चित्तं ध्यानावस्थं समाकर्षितम्। किन्तु यदाऽयं समाचारः प्रसारितो यद्धि राजकीय संस्कृतमहाविद्यालयस्य संस्कृतविश्वविद्यालयरूपतां प्रदानाय शिक्षामन्त्रि- महोदयाः श्रीयुतमाननीयहरगोविन्दसिंहमहाभागा राजकीयप्रस्तावमुपस्थापयिष्यन्तीति, तदा पुस्तकलेखने ध्यानावस्थितेन पूर्णत: समाहितेनाऽप्यस्मच्चित्तेन स समाचार एव केवलम्, न तु तदधिकम् श्रुतः । कथं केन च तत्सम्पादितम् ? प्रान्तिकचेतनायां स्थिमपीदं राजकीयसंस्कृतमहाविद्यालयविषयकं वृत्तं सहसा केन्द्रीयचेतनायामानीतम्। नहि वयं जानीमः–कथमिदं परिवर्तनं सञ्जातम्। किन्तु परिवर्तने जाते, केन्द्रीयचेतनया तद्वृत्तान्तस्य सम्बन्धे स्थापिते सति ध्यानमाकृष्टम्।
उपर्युक्तेन चित्रेण प्रान्तीयचेतनास्थितवस्तूनां विकीर्णानां केन्द्रीयचेतनान्तर्गतसमस्यां परितः दर्शनं कर्तुं शक्यते । सुतरां कस्यचिद् वस्तुनः प्रत्ययस्य केन्द्रीयचेतनया सह सम्बन्ध एव तर्हि ध्यानमित्यभिधीयते। चैतन्यव्यापारस्य ध्यानाख्यस्यास्ति हि महद् वैशिष्ट्यम्। कोऽपि दृष्टान्तस्तद्- वैशिष्ट्यमुन्नेतुं प्रभवति। चैतन्यव्यापारस्तु सर्वदा गतिशीलो भवति। कक्षस्थानि सर्वाणि वस्तूनि जडानि स्थिराणि भवन्ति । चैतन्यं तु प्रतिक्षणमेकस्मात् पदार्थादन्यं विषयं परिवर्तते, चैतन्यव्यापारस्य धारावाहिकत्वात्। चैतन्यव्यापाराश्चाभ्यन्तरेच्छामूलप्रकृति- जन्यवेगादिभिरेव प्रवर्तन्ते; किन्तु दृष्टान्तान्तर्गतजडपदार्थास्तु सर्वदा बाह्यपदार्थ- प्रभावैरेव परिवर्तनान्याधातुं प्रभवन्तीति ।
ध्यानस्य सक्रियत्वम्
सम्पादयतुध्यानाख्योऽयं चैतन्यव्यापार: सक्रियो भवति । न ह्यौदासीन्यसमन्वितेन चैतन्येन तानि कर्माणि सम्पाद्यन्ते, यानि ध्यानाख्यव्यापारस्य विषयीभवन्ति, केन्द्रीभूतानि जायन्ते। उपपद्यते तर्हि चैतन्यस्य मनसो वा सक्रियत्वं ध्यानाख्ये व्यापारे ध्यानावस्थायां वा। किन्तर्हि चैतन्येनान्यपदापाद्यते ? यद्यच्चैतन्यक्षेत्रं ध्यानान्वितं जायते, तत्स्वच्छतरं विमलमिति यावत्, प्रकाशान्वितं विषयमधिकृत्येन्द्रियाणां चक्षुरादीनां दूरत्वाद्यपेक्षया सन्धानं केन्द्रीकरणञ्चाऽनुभवति । नहि तथा प्रान्तिकभागेषु चैतन्यक्षेत्रस्य तादृशं वैमल्य- वैशारद्यादिकमनुभूयते, ध्यानविरहितत्वात् । अपि च, विलक्षणो मौलिकश्चायं ध्यानाख्यश्चैतन्यव्यापारः। नहि खल्वयमितरमनोवृत्तिषु ज्ञानसंवेदनप्रयत्नादिषु समावेशमर्हति, यतो हि ध्यानव्यतिरिक्ता काऽपि मनोवृत्तिर्नानुभूयते । ध्यानन्तु सर्वासामेव मनोवृत्तीनां नियतपूर्ववृत्तित्वोपेतं भवति । अतो मनस इतरवृत्त्यपेक्षया ध्यानस्य मूलभूतत्वं मौलिकत्वञ्चोपयुज्यते। किं बहुना, ध्यानं कस्यापि मनोवृत्तेरङ्गीभूतं परिणामो वा नैव भवति। इदन्तु चैतन्यानुभवस्य नियतपूर्ववर्ति मन्तव्यम्। न ह्येवम्प्रकारकेण व्याख्यानेनापि ध्यानस्य स्वरूपं स्फुटं भवति । ध्यानं पूर्वं जायते चैतन्यं तदनन्तरं सङ्घटत इति तु नैव वाच्यम् ; अस्ति हि ध्यानस्य चैतन्येन सह नियतसाहचर्यसम्बन्धः, यतो यदा वयं कामपि परिस्थितिमनुभवामस्तदा ध्यानान्विता भूत्वैव तां पश्यामो जानीमस्तद्विषये कञ्चिद् भावमनुभवामः, कञ्चित् प्रयत्नमारभामहे । नहि ध्यानव्यतिरिक्तं किञ्चिदप्य- नुभवजातमुत्पद्यते ।
नहि ध्यानं नाम मनसः शक्तिविशेषः
सम्पादयतुप्रागुक्तरीत्येदं वक्तुं शक्यते यद्धि ध्यानं चैतन्यस्य सामान्यव्यापारत्वेन सदपि विशिष्टैका मनोवृत्तिर्नैव भवति, या इतरमनोवृत्तिभ्यो भिद्यते, व्यावर्तकाभावात्। ध्यानन्तु चैतन्यानुभवाभिन्नस्वरूपमिति वयं मन्यामहे । नापीदं विशिष्टा मनसः शक्तिरेव भवति, यस्याः केनचित् कारणेनाधानं क्रियतेऽपरैश्च कारणैः परित्यागो वा क्रियते । ध्यानन्तु चैतन्यानुभवेन सह सर्वदैवानुभूयते, चैतन्यस्वरूपमिवेदं प्रतीयते । परिवर्तनशीलं सदपि ध्यानं धारावाहिकत्वेन प्रसरति । नहि ध्यानं नाम चैतन्यस्यागन्तुको गुणविशेषः । ध्यानं यद्यधुनास्य ध्यानस्वरूपस्य विवेचने केन्द्रितं सँल्लग्नं वा वर्तते तदेव क्षणान्तरे लेखन्यां पीठिकादिपदार्थेषु क्रमशः किन्त्वव्यवधानेन विचलति । नहि ध्यानं विद्युत्प्रभेव क्षणं प्रकाशते क्षणञ्च तिरोहितं जायते । ध्यानं परिवर्तनशीलं क्षणिकं सदपि धारावाहिकं तारतम्यप्रयुक्तं भवति, क्रमशोऽव्यवहितं प्रचलति । एकस्मिन्नपि पदार्थे कियच्चिरमेकतानतया ध्यानमवस्थातुं शक्यते। किं बहुना, तात्कालिकध्यानविषया एकस्मिन् पूर्णेऽनुभवे सुसम्बद्धया चैतन्यस्य ध्यानाख्यक्रियया सङ्ग्रथिताजायन्ते ।
ध्यानावस्थायां शारीरिकमुद्रा
सम्पादयतुध्यानावस्थायां विशिष्टं मुद्रापरिवर्तनं जायते । यद्यपि सर्वसुलभं मुद्रास्वरूप- निर्देशनं दुष्करम्, तथापि चाक्षुषविषये चक्षुषी तारस्वरेण स्तिमिते जायेते, चक्षुर्निमीलनमपि विस्मरति ध्याता। एवमेव प्रियवस्तुस्मृतिरूपविषये मानसिकध्यानसम्पन्नो मनुष्यः कदाचन निमील्यैव चक्षुषी स्मृतिस्वरूपविषयानुभवस्य रसास्वादं करोति । केचन पण्डिता: पद्मासनमुद्रायां ध्यानैकाग्र्यं सुखेन कर्तुं शक्नुवन्ति । सन्ति चापरे येषां ध्यानं पृष्ठपीठासने सुखेनैकाग्रीभूतं जायते। अस्मद्गुरुचरणाः शयाना एव कदाचनाद्वैतसिद्धिशारीरकभाष्यादि- ग्रन्थान् परमध्यानावस्थिता भूत्वा पाठयन्ति स्म । श्रवणकाले केचन दूरत आगतं सङ्गीतं तद्दिशि कर्णं परिवर्त्यैव शृण्वन्ति । सैनिकानान्तु 'सावधान' इत्यादेशानन्तर- मुल्लेखनीयं मुद्रापरिवर्तनं कस्य न गोचरीभूतम् । किन्तावत् ध्यानं शारीरिकमुद्रापरिवर्तनमात्रं नास्ति ? नहि ध्यानं शारीरिकमुद्रा- परिवर्तनमात्रेण व्याख्यातुं शक्यते । सन्ति हि नूनं केचन विद्यार्थिनो यो मुखमुद्रादिभिः सदैव ध्यानावस्थिता गुरुमुखमभिपश्यन्तो दृश्यन्ते, किन्तु तेषु कोऽपि मातृप्रेषितं छात्रावास- स्थितं मिष्ठान्नं चिन्तयति, अपरः कश्चन क्रीडार्थं गन्तुमेव योजनां निर्मिमीते, अन्यश्च कश्चन गुरुं पश्यन्नप्युन्मीलितचक्षुरर्धसुप्तो जायते। ध्यानं नास्ति शारीरिकक्रियामात्र- पर्यवसानम्। य एकदेशिनो मनोवैज्ञानिका शारीरिकमुद्रामात्रेण शारीरिकक्रियामात्रेण वा ध्यानं व्याख्यातुमिच्छन्ति, तेषां मतं नैव समीचीनम् । अस्ति हि खलु शारीरिकमुद्राया महान् प्रभावो ध्यानैकाग्र्ये । साहचर्यमपि तयोः प्रायो दृश्यते । तथापि ध्यानविषयानुसारं शारीरिकमुद्रास्वरूपविषयका बहवो भेदा जायन्ते । अपि चैकविषये ध्यानावस्थितानां पुरुषाणामपि शारीरिकमुद्रादिषु बहवो भेदा दरीदृश्यन्ते । शारीरिकक्रियामुद्रादिस्वरूपे ध्यानस्वरूपाधिगमे सति चैतन्यस्य विलक्षणं ध्यानमयं सक्रियं स्वरूपमपि तिरोहितं जायते। अस्तु तर्हि ध्यानेन सह मुखादिमुद्रासम्बन्धी महत्वपूर्णोऽनियतश्च । भगवता पतञ्जलिनापि ध्यानापेक्षयासनस्वातन्त्र्यं स्वीकृत्य शारीरिकमुद्रया सह ध्यानस्यानियत- सम्बन्धत्वं निदर्शितम्। तथा हि - 'स्थिरसुखमासनम् "" इति ।
ध्यानद्वैविध्यम्
सम्पादयतुप्राध्यापकप्रवरेणेन्द्रियविषयकं बुद्धिविषयकं चेति द्विप्रकारकं ध्यानं प्रतिपादितम्। नहीमौ ध्यानप्रकारौ ध्यानस्वरूपं स्पृशतः। विषयभेदमवलम्ब्यैवेमौ ध्यानभेदौ बोद्धव्यौ । यद्ध्यानमिन्द्रियविषयकप्रत्यक्षमवतम्ब्य बाह्यपदार्थेषु प्रवर्तते, तदिन्द्रियविषयकं ध्यान- मित्यभिधीयते। यथा चाक्षुषप्रत्यक्षे विषयदूरत्वापेक्षया नेत्रयोरवस्थानं केन्द्रितत्वमानु- कूल्योपेतमुत्पद्यते। श्रावणप्रत्यक्षे कर्णं दत्वा श्रोता श्रोतुमिच्छति। केन कारणेनेदं शारीरिकमुद्रापरिवर्तनं जायते ? यत्र कुत्रचिदप्यत्तेजकं भवेत्तज्जन्योत्तेजनातिशयमाधातु- मेवेदमिन्द्रियशारीरिकमुद्रापरिवर्तनं सञ्जायत इति । स्मरणीयमस्मिन् विषये प्राध्यापकवुडवर्थमहोदयाभिमता मानसिकसँल्लग्नंता, यया कोऽपि मनुष्यो विशिष्टविषये नियुज्यते, यस्यां समुपस्थितायाञ्च इन्द्रियाणि शरीराङ्गानि च विषयं प्रति केन्द्रितानि जायन्ते। इन्द्रियविषयके ध्याने सुतरां तावदिन्द्रियाणामनुकूलीकरणं केन्द्रीकरणं वा सञ्जायते।
बुद्धिविषयकं ध्यानम्
सम्पादयतुविषयापेक्षातोऽपरो ध्यानस्य प्रकारो बुद्धिविषयकं ध्यानं भवति । यदा ध्यानविषयीभूता काऽपि जटिला समस्या भवति, प्रश्नो वा भवति, तदा कविर्वा गणितज्ञो वा दार्शनिको वा विचारनिमग्नः सँल्लक्ष्यते । इन्द्रियाणां शरीराङ्गानामनुकूलीकरणमत्रापेक्षितं नैव भवति । प्रागुक्तमानसिकसँल्लग्नताया आवश्यकता त्वत्रापि बोद्धव्या । मानसिकसँल्लग्नतायां सत्यां द्विप्रकारको लाभो भवति, प्रथमस्तु- ध्यानं विषये केन्द्रीभूतमिव जायते, विषयस्य चैतावता परमाभिव्यक्ति: सम्पद्यते । द्वितीयश्च - इतरविषयेभ्यश्चित्तस्य प्रत्याहारः प्रत्यावर्तनंं वाऽभिसम्पद्यते। मन इतरविषयान् अभि नैव प्रवर्तत इति ।
ध्यानोपयोगिशारीरिकमुद्रया सहाभ्यासस्य सम्बन्धः
सम्पादयतुदृश्यते हि कदाचन ध्यानेन सहाभ्यस्तक्रियाणां सम्बन्धोऽपि, यथा शारीरिकमुद्राया इन्द्रियमुद्रापरिवर्तनस्य च सम्बन्धः पूर्वमस्माभिर्वर्णितः । केचन मानवाः सङ्गीतश्रवण एवं ध्यानस्थिता जायन्ते यद्धि शिरः कम्पनेन दोलनेन वा ते सङ्गीतस्वरारोहावरोहमूर्च्छनादीनां तालस्वरेणानुमोदनं कुर्वन्ति। अपरे च हस्तवादनेनाङ्गुलिवादनेन च सङ्गीतस्वारस्यानुभवा- भिव्यञ्जनाय प्रवर्तन्ते। केचन वार्तालापे यदा ध्याननिमग्ना जायन्ते तदा जानुकम्पनं पादकम्पनं वा कुर्वन्ति । एतादृश्यः क्रियाः कालान्तरेऽभ्यस्ता जायन्ते । तासामवरोधोऽपि ध्यानप्रत्यवायं जनयति। योगिनां हृत्पुण्डरीक उपासनार्थं ध्यानावस्थानमप्यस्त्यभ्यास एव। दृष्टं हि सहस्रारे नाभिकमले वा ध्यानैकाग्र्यीकरणमितरेषां योगिनाम् ।
ध्यानकारणम्
सम्पादयतुद्विविधं हि खलु ध्यानस्य कारणं भवति, बाह्यमाभ्यन्तरञ्चेति । यद्यदुत्तेजकवैशिष्ट्यं बाह्यपरिस्थितिवैलक्षण्यं वा ध्यानं जनयितुं समर्थं भवति, तद्वाह्यकारणेष्वन्तर्भाव्यते। उत्तेजकवैशिष्ट्यानुसारं बाह्यकारणान्यष्टविधानि भवन्ति। तानि यथा-
(अ) विषयस्य तीब्रत्वमौग्र्यं वा
सम्पादयतुतीव्रमुत्तेजकं ध्यनाकर्षणाय सर्वोपरि समर्थं भवति, यथा तीब्रो वैद्युतः प्रकाशो ध्यानमाक्रष्टुं प्रभवति, नहि तथा साधारणो दीपप्रकाशः। उच्चैः स्वरं सर्वे शृण्वन्ति, न तु मन्दं स्वरम् । योऽध्यापको मन्दस्वरेण पाठयति, तस्य छात्रा अनवहिता जायन्ते । आक्रोशनं क्रन्दनं ध्यानमाक्रष्टुमलम् । तीब्रा वस्त्रवर्णा उच्चैः डिण्डिमघोषाः कस्य न चेतः प्रसभं हरन्ति ।
(आ) परिवर्तनम्
सम्पादयतुअस्ति हि परिवर्तनमपरं महत्त्वपूर्णं कारणम्। उग्रमप्युत्तेजकं यद्यविरलं भवेत्, तदपि नैव ध्यानाकर्षणाय क्षमं भवति । लोहकारस्य घनताडनमुच्चैः सदपि ध्यानं सर्वदा नैवाकर्षति । केन कारणेन ? अविरलमुग्रमप्युत्तेजकं सात्म्यीभावमापद्यते। एतावतैव तद् ध्यानोत्पादनेऽसमर्थं जायते। अतोऽपेक्षते हि परिवर्तनमपि ध्यानजननाय । यदा हि लोहकार एकस्मिन् दिनेऽस्वस्थो जायते, पृच्छन्ति हि प्रतिवेशिनस्तस्य, 'कुत्र वै लोहकारो गतः? अपि सन्ति सर्वे कुशलिनस्तस्य परिवारे ?' लोहकारस्य घनताडना- भावादेव ध्यानं तदभावे प्रसभमाकृष्टम् । घनताडनाभावरूपं परिस्थितौ यत्परिवर्तनं सञ्जायते, तेन ध्यानं विशेषतः समाकृष्टम्। घटिकायन्त्रस्य 'टिक्टिक्' इति शब्दो नैव ध्यानपथमारोहति। यदा तु स शब्दः शान्तो जायते, तस्य स्थगनसमकालमेव ध्यानमपि तद्विषये समाकृष्यते । परिवर्तनमेव तीव्रस्यानवरतस्योत्तेजकस्य निर्जीवतां निष्प्रभावतां वाऽपनेतुमलम्। चलचित्राणां परमरमणीयमनोरञ्जनसाधनत्वमपि चित्रपरिवर्तनमेवेत्यव- सेयमिति ।
(इ) अभिनवत्वम्
सम्पादयतुयदुत्तेजकं सर्वदाऽपरिवर्त्यं भवति, तस्य ध्यानाकर्षण- क्षमतापि परिहीयते। नारीणां बालकानां सुरुचिसम्पन्नपुरुषाणां प्रतिदिनमभिनववस्त्र- धारणमपीतरेषां पुरुषाणां ध्यानाकर्षणायैव भवति । प्रशंसन्ति च द्रष्टारो नित्यमभिनवं रमणीयं परिधानमयं पुरुषो धारयतीति। 'क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः’ इति तु सुविदितमेवास्ति सर्वेषां विपश्चिताम्। रमणीयत्वसर्वस्वं हि नूनं ध्यानाकर्षणक्षमत्वम्, तच्च नित्यं नित्याभिनवत्वे सन्निहितमित्यवधेयम्। अपि चास्ति प्राचीनेयमुक्तिः “नवनवरसानुरागी प्रायशो जीवलोकः" इति । नहि सर्वदैकप्रकारकं भोजनं रोचते कस्मैचिदपि पुरुषाय। नह्यभिनवताया मनागपि तीव्रताया अपेक्षातो गौरवन्यूनत्वं विद्यत इति ।
(ई) पुनरावर्तनम्
सम्पादयतुउत्तेजकस्य पुनरावर्तनमप्यस्ति ध्यानाकर्षणस्य कारणम्, यद्येकदैकमुत्तेजकं ध्यानमाक्रष्टुं न प्रभवति, नूनमन्यस्मिन् काले वारं वारं समागतमुत्तेजकं ध्यानाकर्षणक्षमामुत्तेजनां जनयिष्यति। अनेनैव कारणेन समाचारपत्रेषु पौनःपुन्येन विज्ञापनानि प्रकाशितानि भवन्ति। चलचित्राणां विज्ञापनमपि बहुवारं डिण्डिमघोषपूर्वकं क्रियते । अतः पुनरावर्तनमपि ध्यानजनकमित्युन्नेयम्।
(उ) साम्यम्
सम्पादयतुअस्ति हि खलु साम्यं ध्यानजनकम्। विलक्षणेषु पदार्थेष्वसङ्ख्येषु योऽस्माकं पूर्वदृष्टवस्तुसमानो भवति, स एव ध्यानमुत्पादयितुं शक्नोति न हीतरे । ‘समानशीलव्यसनेषु सख्यम्' इति सूक्तिरपि निर्दिशति यद्धि असमानशीलव्यवहारवतां पुरुषाणां सविधे ध्यानं नैवोत्पद्यते। विलक्षणेष्वपि यद्वस्तु पूर्वानुभवसमानं भवति, तदेव ध्यानजननाय कल्पते ।
(ऊ) वैषम्यम्
सम्पादयतुविषममुत्तेजकं ध्यानाय कल्पते । प्रायः समानपदार्थेषु यः पदार्थो विषमो विलक्षणो वा भवति, सोऽपि ध्यानमाक्रष्टुं प्रभवति । एकसहस्राधिक- समानवस्तुषु विलक्षणमसमानमेव वस्त्वञ्जसा ध्यानं समाकर्षति । तथा हि- बहुषु व्याख्यानेषु प्रतिपाद्यमानेषु यद्व्याख्यानमितरेभ्यो भिन्नं विषमं विलक्षणं नवीनं वा युक्तिप्रवाहं प्रदर्शयति, तदेव व्याख्यानं श्रोतॄणामवधानं समाकर्षति। दत्तचिता भूत्वा श्रोतारस्तदेव प्रवचनं शृण्वन्ति। श्रीविश्वनाथमन्दिरपार्श्वे तिष्ठत्येको वामनः पण्डितो भिक्षुकवर्गे । क्षण एव स भगवद्दर्शनार्थं समागतानां ध्यानविषयीभूतः सञ्जायते । स्त्रीणां परिधानेषु वर्णवैषम्यं विशेषेण सुरुचिचयनमपेक्षते । उत्तेजकवैषम्यं हि खलूत्तेजकाभिनवत्वेऽन्तर्भावयितुं शक्यते। वैषम्यमप्यभिनवत्व- स्यास्ति प्रकारविशेषः । तद्विशेषत्वादेव ध्यानजनकसामग्र्यां तस्य पृथङ्गिर्देश: कृत: ।
(ए) गतिशीलत्वम्
सम्पादयतुउत्तेजकस्य गतिशीलत्वमपि ध्यानैकाग्र्या कल्पते । चलचित्राणां लोकप्रियताया मनोरञ्जनस्यानन्यतमसाधनत्वस्य साधकं तत्र प्रदर्शितचित्राणां गतिशीलत्वमेव भवति। नह्येकस्मिन् चित्रे परमरमणीयेऽपि बहुकालं यावद् जनानां ध्यानैकाग्र्यं भवितुमर्हति। अत उत्तेजकपदार्थानामुत्तेजकपरिस्थितेर्वा गतिशीलत्वं प्रगति- शीलसंविधानकयुक्तत्वं चितैकाग्र्याय नितरामपेक्ष्यते । नहि गतिशीलत्वगुणस्य परिवर्तनवत्त्वगुणेऽन्तर्भावो जायते । गतिशीलत्वं सामान्यपरिवर्तनवत्त्वादतिरिच्यते। चलचित्राणां यत्किञ्चिदपि सौन्दर्यं मनोहारित्वञ्च भवति, तत्सर्वं 'चित्रद्वयम्' ‘चित्रावस्थानम्’ इत्यादीनि प्रयुज्येतादृशी भ्रान्ति जनयति, यया दर्शका मन्यन्ते 'इयमेव तारिकाऽस्मत्सम्मुखीना वर्तते' इति । 'अयं गच्छति' ' ' स पलायते' इत्यादिकं केवलं चित्राणां गतिशीलत्वेनैवासाद्यते। दर्शकाश्च चलचित्रप्रदर्शनवेलायां घटिकात्रयपरिमितायां मन्त्रमुग्धा इव सम्मोहनवशीभूता इव वा सन्तिष्ठन्ते।
(ऐ) परिमाणम्
सम्पादयतुउत्तेजकस्य परिमाणमपि ध्यानोत्पादनाय कारणं भवति । विशालभवनेषु काशीस्नानार्थं समागतानां स्तिमितदृष्टिसमाहितचित्तानां यात्रिणां प्रतिपर्व दर्शनं कर्तुं शक्यते । विशालकायमागन्तुकं पुरुषं सर्वे छात्रा दत्तचित्ता अवलोकयन्ति। परिमाणन्यूनानि वस्तूनि प्रायो ध्यानमाक्रष्टुं न प्रभवन्ति। तेषां स्वरूपं तिरोहितमिव जायते। बालकानां प्रारम्भिकपुस्तकेषु स्थूलतमान्यक्षराणि मुद्रितानि भवन्ति, तेषां पट्टिकास्वपि तदध्यापकैश्च स्थूलाक्षराण्येव लिख्यन्ते । किं कारणम् ? परिमाणं हि ध्यानाकर्षणाय परमं कल्पते । कैश्चिद् मनोवैज्ञानिकैः परिमाणस्योत्तेजकतीव्रतायामेवान्तर्भावः क्रियते । परिमाणस्तु पदाथांकारमभिप्रैति। तीब्रत्वमौग्र्यं वा वर्णध्वनिरसाद्याधिक्यगाम्भीर्यादिकमभिव्यञ्जयतीति विशेषः । अत एवास्य पृथङ्गिर्देशोऽत्र कृतः । एवं तीब्रत्वपरिवर्तनत्वाभिनवत्वपुनरार्वतनत्वसाम्यवैषम्यगतिशीलत्वपरिमाणादिगुण- विशेषैर्बाह्यपरिस्थित्यामुत्तेजकेषु समुपस्थितेषु ध्यानं बलान्नीयते।
ध्यानस्याभ्यन्तरकारणम्'
सम्पादयतुअस्ति हि खलु ध्यानस्याभ्यन्तरमपि कारणम् । तच्चात्यन्तं प्रभावशालि भवति । बाह्योपकरणेषु सत्स्वपि कदाचन ध्यानं नोत्पद्यते। क्षुधातुराणां नहि दर्शनव्याख्याने ध्यानैकाग्र्यं जायते। ऋषिपुत्री शकुन्तलाऽभ्यागतानामातिथ्यसत्कारे सदैव समुत्सुका आसीत्, किन्तु कारणवशाद् महर्षेर्दुर्वाससः 'अयमहं भोः' इत्युक्तिस्तया कथमपि न श्रुता। दुष्यन्तध्यानमग्ना नूनं हि सा आसीत्। ध्यानस्याभ्यन्तरकारणजन्यत्वमतो युज्यते। ध्यानस्य परमं कारणं खलु रुचिर्भवति । साऽपि द्विविधा भवति - नैसर्गिकी रुचि:, अर्जिता रुचिश्चेति । नैसर्गिकी रुचिर्मूलप्रवृत्तिजन्या भवति । यथा मातुर्ध्यानं शिशोर्नीचस्वरक्रन्दनमपि दूरादेव आकर्षति; किन्तु परिवारस्यान्ये जनास्तत्क्रन्दनं न शृण्वन्ति। मातृसुलभवृत्तान्तेषु वात्सल्यमयपुरन्ध्रीणां रुचिः स्वभावतो जायते । क्षुधाकाले भोजने भोजनविषये वा रुचिर्भवति, किन्तु तृप्तपुरुषो भोजनविषये विशेषरुचिं न प्रदर्शयति । उक्तं हि - "अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारः" ॥ सामान्यजनाः कामप्रवृत्तिविषयकवार्तासु रुचिं प्रदर्शयन्ति, कामप्रवृत्तेर्मूल- प्रवृत्तिषु प्रधानत्वात्। अत एव समाचारपत्राणां विज्ञापनस्तम्भेषु प्रायः स्त्रीणां तारिकाणां मनोहार्यवयवानां प्रदर्शनपूर्वकाणि चित्राणि प्रदर्श्यन्ते । बालकानामपि रुचिः खेलाप्रिया दरीदृश्यते। हस्तकलाकौशलेषु विशेषतो पिपठिषूणां छात्राणां नैसर्गिकविधायकमूल- प्रवृत्तिरभिव्यक्तिं लभते । दृश्यते चैतादृशेषु कार्येषु तेषां रुचिसमुपेता ध्यानसँल्लग्नता । यदि द्वे मूलप्रवृत्तिविषयकोत्तेजके भवेतां तर्हि नूनं या तात्कालिकी मूलप्रवृत्तिः प्रभावशालिनी भविष्यति, तत्सम्बन्ध्युत्तेजकमेव ध्यानं समाक्रष्टुं प्रभविष्यति यथा - बुभुक्षिताय रसिककवीनां शृङ्गाररससान्द्रा काव्यरचनाऽपि न रोचतेऽत एव तस्य ध्यानमपि नाकर्षयति। अतः सिद्धं मूलप्रवृत्तीनां सर्वोत्कृष्टध्यानजनकत्वम्। यदि नैसर्गिकरुचिर्न भवेत्, नाप्यर्जिता, तर्हि तीव्रमप्युत्तेजकं ध्यानपथमनारुयैवाघटितमिव भविष्यति ।
अर्जिता रुचिः
सम्पादयतुआभ्यन्तरकारणेषु द्वितीयं कारणमर्जिता रुचिर्भवति। सा हि प्रयोजनविशेषमूला । यदा हि कश्चन बालकः पुरुषो वा जानाति 'गृञ्जनं रक्तवर्धकम्' इति, तदनन्तरं स ‘गाजर’ इति लोकभाषायां प्रसिद्धेषु गृञ्जनेषु तन्निमितपदार्थेषु च रुचिविशेषं प्रदर्शयति । यदा च कोऽपि गृञ्जनविक्रयार्थं समागच्छति, तस्य ध्यानं तं प्रति विशेषेण समाकृष्यते । ननु गृञ्जनं तु भोजनान्वेषणात्मिकां मूलप्रवृत्तिमनुबध्नाति, तत्तु नैसर्गिकरुचिविशेषान्तर्गतमेवेति तु न वाच्यम्; ध्यानन्तु चयनात्मकश्चैतन्यव्यापारः। विभिन्नेषूपस्थितेषु पदार्थेष्वेको ध्यानमाकर्षयति। यदा च स मूलप्रवृत्तिमात्रविषयीभूतस्तदा तु स ध्यानस्य नैसर्गिकं कारणं भवति। यदा च गुणविशेषत्वात्तस्य चयनं क्रियते, ध्यानविषयीभूतश्च जायते, तदा तस्य मूलमर्जिता रुचिरेव मन्तव्या। एवम्प्रकारेण मूलप्रवृत्तिसम्बन्धादन्यविषयेष्वप्यर्जिता रुचिर्जायते मानवानाम्। पादपान् प्रति पार्वत्याः शकुन्तलाया वा रुचिः स्त्रीसुलभवात्सल्य- सम्बद्धत्वादेवावसेया। तथा हि कण्वोक्तिः - पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या नादत्ते प्रियमण्डनाऽपि भवतां स्नेहेन या पल्लवम् । आद्ये वः कुसुमप्रसूतिसमये तस्या भवत्युत्सवः सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ॥ इति । [२] मूलप्रवृत्त्या मार्गान्तरीकरणस्य परममिदमुदाहरणमर्जितरुचिस्वरूपमप्यभिव्यञ्जयति । यो विषयो मूलप्रवृत्तिविषयेण सह सम्बद्धो जायते, स कालान्तरे ध्यानं प्रसभमाक्रष्टुं प्रभवति। बाल्यकाल इन्द्रियसंवेदनस्य प्रभावो विशेषेणोपलभ्यते, यतो हि बालकाना- मिन्द्रियविषयेषु तत्तन्मूलप्रवृत्तिसम्बन्धिषु रुचिर्मुख्यतया जायते । अत एव शैशवकालीन- शिक्षाविधौ माण्टेसरीसंज्ञके विशेषेणेन्द्रियसंवेदनस्य नैसर्गिकरुचिजनकस्योपयोगं बालकानां ध्यानमाक्रष्टुं क्रियते । अर्जिता रुचिस्तु तदोत्पद्यते यदा बालक इन्द्रियसंवेदनमतीत्य भावसंवेदने समारूढो जायते । कटुभाषिमित्रं प्रति कस्यारुचिर्न जायते। अत एव मनुनोक्तं ‘न ब्रूयात् सत्यमप्रियम्' इति । यः पुरुषोऽस्माकं स्वाभिमानमवमन्यते, तस्य मृदूनि श्लिष्टानि हितकराणि वाक्यान्यप्यस्माकमरुचिमेवोत्पादयन्ति, न च भावसंवेदनात्तं प्रति, तच्चरित्रवैशिष्ट्यं प्रति, तद्वचांसि प्रत्यस्माकं ध्यानमाकृष्यतेऽपि तु विरोधिसङ्केतादुपेक्षा जायते। अतः सिद्धमर्जितरुचीनामपि ध्यानजनकत्वम् । किन्तु स्मरणीयं यद्धि नैसर्गिकरुचीनामपेक्षयार्जितरुचीनां प्रभावो न्यूनतर एव भवति । तथापि प्रकृष्टतमा अर्जितरुचयो नैसर्गिकरुचय इवाचरितुं ध्यानमाक्रष्टुं क्षमन्ते ।
मानसिकसँल्लग्नता
सम्पादयतुमानसिकसँल्लग्नताऽप्यस्ति तृतीयमाभ्यन्तरं कारणम् । यद्यपि रुचिविशेषादपि मानसिकसँल्लग्नता जायते, तया च भाविध्यानविषयस्योत्तेजकस्य वातावरणाच्चयनं क्रियते, तथाप्यस्ति तात्कालिकप्रयोजनविशेषसंवेगादिजन्यापरा मानसिकसँल्लग्नता यास्माभिरभिप्रेता। कदाचनैवं भवति यद्वयं प्रयोजनविशेषादापणं गन्तुकामा नहि दूरादागच्छन्मित्रमपि पश्यामस्तस्य सम्बोधनं वा शृणुमः । अत्र प्रयोजनकल्पनयाभिभूता वयमुद्देशचिन्तन एव समाहितचेतसो न तद्वाक्यश्रवणध्यानं कर्तुं शक्नुमः । मृतापत्या स्त्री न मृदूनि वाक्यान्यप्यन्यस्याः स्त्रियाः शृणोति, यतो हि तस्या मानसिकसँल्लग्नतेतर- वस्तूनामापणविक्रयविषयकाणां ध्यानं सर्वथा वारयति तिरोहति वा । सेयं सँल्लग्नता तात्कालिकप्रयोजनात् समुपस्थितसंवेदगादिभ्यः पूर्वोक्ताभ्यन्तरकारणेभ्यश्च जायते ।
ध्यानभेदाः
सम्पादयतुध्यानं हि द्वेधा भवत्यनैच्छिक मैच्छिकञ्चेति। अनैच्छिकं ध्यानं मूलप्रवृत्तिसामान्य- प्रवृत्त्यादिसम्बद्धोत्तेजकजन्यं भवति । ऐच्छिकं ध्यानं तदुच्यते यत्किञ्चिदायासजन्यमुपर्युक्त- प्रकारकोत्तेजकभिन्नजन्यञ्च भवति ।
(अ) सहजमनैच्छिकं ध्यानम्
सम्पादयतुअनैच्छिकं ध्यानमपि द्विधा विभक्तुं शक्यते- सहजमनैच्छिकं ध्यानम्, प्रसभं बाध्यं वाऽनैच्छिकं ध्यानञ्चेति । सहजमनैच्छिकं ध्यानं मूलप्रवृत्त्यादिजन्यम्, यथा - भोजनं तत्स्वादश्च स्वयमेव ध्यानमाकर्षयति। बालाकानां ध्यानं स्वकीयप्रशंसावस्त्राध्ययनसौजन्यालोचनायामात्मप्रकाशने च निसर्गत एवोपलभ्यते । शिक्षका नैसर्गिकानैछिक ध्यानस्य विशेषतः स्वकक्षाध्यानसमाकर्षणाय प्रयोगं कुर्वन्ति । इदं ध्यानमनायासं भवति, वंशपारम्पर्यगुणमूलप्रवृत्त्यादिजन्यत्वात्।
(आ) बाध्यमनैच्छिकं ध्यानम्
सम्पादयतुबाध्यं प्रसभमाकृष्टं बलादानीतं वा ध्यानमनैच्छिक- ध्यानस्यापरः प्रकारः। इदं ध्यानमुग्रेणोत्तेजकेनाविरलेन गतिशीलेन पुनरावर्तनशीलेन वोत्तेजकेन जन्यते। तीब्रो वैद्युतः प्रकाशः, घोरः स्वन:, डिण्डिमघोषः, वरयात्रायां भेर्यादिवादनम्, चलचित्रादिकञ्च कस्य चित्तं न समाहरन्ति । एतत्प्रकारकं ध्यानं प्रखरोत्तेजकेन बाह्यस्थेन बलादानीयते। अनैच्छिकं ध्यानमनायासेनोत्पद्यते, ध्याता चापेक्षाकृतं निष्क्रिय इवावतिष्ठते।
ऐच्छिकं ध्यानम्
सम्पादयतु(अ) प्रयत्नात्मकमैच्छिकं ध्यानम्
सम्पादयतुऐच्छिकं ध्यानमर्जितरुचिप्रयोजनादर्शादि- प्रभवम्। आदर्शो हि लक्ष्यम् । ऐच्छिकं ध्यानमपि द्वेधा - प्रयत्नात्मकं निष्प्रयत्नात्मकञ्च। नह्यैच्छिके ध्याने प्रबलमुत्तेजकमस्माकं ध्यानं बाधते, अस्मान् वा ध्यानार्थं प्रवर्तयितुं बाधते, यथा हि पूर्वोक्तानैच्छिकव्याख्यानेऽस्माभिरुक्तम् । नाप्यैच्छिके ध्याने मूलप्रवृत्तिजन्या नैसर्गिकी रुचिरेवोत्तेजकेन स्वभावत आपाद्यते । किन्तु प्रकृते तु ध्यानमन्यप्रयोजनादर्शादि- साहचर्य्येण परम्परया जन्यते, न तु साक्षात्, यथानैच्छिके ध्याने। उदाहरणतया मनो- विज्ञानविषये पिपठिषूणां प्रवृत्तिंर्ध्यानञ्च दृढेच्छाजन्यमेव नहीच्छाऽपि प्रयोजनं विनैव जायते। यदि विद्यार्थी निश्चयपूर्वकं जानाति–‘मनोविज्ञानस्य सम्यगध्ययनं विना परीक्षायां प्रथमा श्रेणी कथमपि नावाप्स्यते, प्रथमा च श्रेणी भाविजीवनक्षेत्रे स्पृहणीयोच्चपदप्राप्त्यर्थ- मवश्यमेव प्राप्तव्या' इति, तदा स अध्ययनं ध्यानान्वितं मनोविज्ञानविषये कालातिक्रमेणापि रात्रौ द्वादशवादनं यावद् वितनुते। आचार्यवोपदेवस्य जीवनवृत्तान्तं सुविदितमेव सर्वेषां गीर्वाणवाणीशेमुषीजुषाम्। क्लिष्टमपि व्याकरणशास्त्रं तेनैवम्प्रकारेणाधिगतं यद् वयं तं मुग्धबोधव्याकरणस्य प्रणेतारं विश्वविश्रुतमेव जानीमः। अत एवोक्तं भवति- यथा खनन् खनित्रेण नरो वार्यधिगच्छति । तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥ स्वनामधन्येश्वरचन्द्रविद्यासागरमहाभागानां प्राक्तनकलिकातानगरस्थसंस्कृतमहा- विद्यालयप्रधानाचार्याणां जीवनं व्याकरणशास्त्राध्ययनञ्चैच्छिकध्यानस्य प्रयत्नोपेतस्य चरममुदाहरणम्।
(आ) निष्प्रयत्नात्मकमैच्छिकं ध्यानम्
सम्पादयतुप्रयत्नात्मकमैच्छिकध्यानमेव यदा पराकाष्ठामवाप्नोति, तदा निष्प्रयत्नात्मकमिव परिणमते । यदा बालको लिखितुमारभते, प्रतिपदं प्रत्यक्षरं प्रत्यङ्गुलिंगतिमभि तस्य ध्यानमपेक्षते, किन्तु कालान्तरे यदा लेखनाभ्यासः परिपाकावस्थां लभते, नहि तदा ध्यानं लेखनकर्मणि प्रत्यङ्गुलिंगतिं प्रति प्रतिपदं जायतेऽपि तु ये ये विचारा मनसि समागच्छन्ति, ते ते पृथक्तः किन्तु क्रमशस्तारम्येनैकैकशो ध्यानस्य विषयीभूता जायन्ते । लेखनकर्मणि तु कालान्तरे निष्प्रयत्नात्मकमेव ध्यानं जायते। बालकेभ्यो भूगोलेतिहासपठनमारम्भिकावस्थायां न समारोचते। किञ्चिदभ्यासानन्तर- मर्जिता रुचिस्तेषु विषयेषूत्पद्यते, तदनन्तरमितिहासघटनासु ध्यानमनायासेनैव जायते। प्रयत्नात्मकं ध्यानमायासजन्यम्, निष्प्रयत्नात्मकं ध्यानञ्चानायासप्रभवमित्येव तयोर्विशेषः । प्रयोजनादर्शलक्ष्यज्ञानपूर्वके तु द्वे एव । प्रयोजनज्ञानं त्विच्छोत्पादकम्, इच्छा चानायासेनायासेन वा केनचिद् ध्यानं समाकर्षयति ।
ध्यानविषयविस्तरः
सम्पादयतुध्यास्वरूपप्रकारादिकं विचार्याधुना वयं विचारयामः किन्नु खलु ध्यानस्य क्षेत्रमिति? कियती तेषां पदार्थानां संख्या ये युगपद् ध्यानस्य विषयीभूता जायन्ते ? ‘एकस्मिन्नेव क्षणे वयं कियतः पदार्थान् ध्यातुं शक्नुमः' इति प्रश्ने विचार्यमाणे नैयायिकाः प्रतिपादयन्ति यद्धि वयमेकस्मिन् क्षण एकमेव वस्तु पदार्थं वा ध्यातुं शक्नुमः। तन्मतमिदं मनसो लक्षणावसर इत्थमभिव्यक्तम्- “युगपज्ज्ञानानुत्पत्तिर्हि मनसो लिङ्गम्” इति। किं वा "ज्ञानायौगपद्यादेकं मनः” इति । श्रीहैमिल्टनमहोदयेन शताधिकवर्षपूर्वं निर्णीतं यद् वयं षट् सप्त वा पदार्थानेकस्मिन्नेव क्षणे द्रष्टुं शक्नुमः । तदनन्तरं विश्वविश्रुतेनाङ्गलदेशीयार्थशास्त्रिन्याय-शास्त्राचार्यजिव्होन्स' महाभागेनापि परीक्षणानि समारभ्य निर्णीतं यद्धि पिटके त्रयाणां चतुर्णां वा चणकानां प्रक्षेपणेन तदनन्तरं तदवलोकनेन च नहि तस्यैकमपि स्खलितं जातम्। किन्तु पञ्चचणकप्रक्षेपणेन तस्य कानिचित् स्खलितानि जातानि । अष्टानां दशानां वा चणकानां प्रक्षेपणेऽर्धसङ्ख्याकानां चणकानां युगपदेव प्रत्यक्षं जातम् । एवम्प्रकारकेभ्यः प्रयोगेभ्यो ध्यानविस्तारविषयिणी जिज्ञासा समुद्भूता । कैटल प्रभृतिभि- र्विशिष्टप्रयोगशालासाधनसम्पन्नैर्निणीतमिदं तथ्यं यद्वयस्क एकस्मिन् सेकण्डसंज्ञकविपलांश एव त्रिंशदधिकवर्णान् सार्थकलघुवाक्यावयवीभूतान् युगपद् द्रष्टुं शक्नोति। वयस्कास्तु षट्त एकादश यावत् पदार्थान् युगपद् द्रष्टुं शक्नुवन्ति । समान्यतः किं वाऽनुपातशोऽष्टौ पदार्थान् द्रष्टुं वयस्कः शक्नोति । अस्ति हि नूनं ठैकिस्टोस्कोपसंज्ञकमेकं यन्त्रं येन श्वेतपृष्ठभूमौ कृष्णाबिन्दवो वर्णमालाया अक्षराणि वोद्घाट्यन्ते क्षणमात्रमेव सेकण्डसंज्ञकविपलांशमात्रमेव। ध्याता च पृच्छ्यते कियन्तः कृष्णबिन्दवः कियन्त्यक्षराणि वा तेन दृष्टानीति? उत्तराणामध्ययनेनायमुपर्युक्तो निष्कर्षो निष्पन्नः। एतावता स्पष्टमिदं जायते यद्धि ध्याता समन्वितवाक्यान्तर्गतान् वर्णान् पङ्क्तिबद्धान् बिन्दून् वाऽधिकसंख्यायां द्रष्टुं शक्नोति । अनन्विता वर्णा विकीर्णाः क्रमरहिता वा बिन्दवो नाधिकसंख्यायां युगपद् ध्यातुं शक्यन्त इति । श्रूयते च यत्पुरा सम्राट् आगस्टससीजरो रोमसाम्राज्याधिपतिर्नेपोलियनवोनापार्टश्च फ्रांसदेशीयाधिपतिर्विश्वविश्रुत- विजेता चतुःपञ्चकान् लेखकान् युगपत् स्वपत्राणि लेखयतः स्म । उपर्युक्तानि सर्वाणि तथ्यान्यालोच्यापि वयं नैयायिकानां मतमेव समीचीनं मन्यामहे। चैतन्यप्रयुक्तं ध्यानमाशुगतिस्वरूपं भवति । नूनं बालाकानां ध्यानमेकस्मिन्नेव वस्तुन्येकस्मिन् क्षणे केन्द्रितं जायते । सूत्रकारेण महर्षिणा गौतमेनाप्यपरेण सूत्रेणैताः शङ्का निवारिताः। तद्यथा - "अलातचक्रदर्शनवदुपलब्धिराशुसञ्चारवत्" [३] । भाष्य- कारोऽप्येवमिदं व्याचष्टे–“आशुसञ्चारादलातस्य भ्रमतो विद्यमानस्य क्रमो न गृह्यते क्रमस्याग्रहणादविच्छेदबुद्ध्या चक्रवद्वुद्धिर्भवति । तथा बुद्धीनां क्रियाणां चाशुवृत्तित्वाद्विद्यमानः क्रमो न लक्ष्यते। क्रमस्याग्रहणाद्युगपत् क्रिया भवन्तीत्यभिमानो भवति [४] । इति । यान्त्रिकप्रयोगेषु न तु ध्यात्रा नापि प्रयोक्त्रैवाशुवृत्तिमद्ध्यानं विपलांशैर्मातुमाकलयितुं वा पार्यते। कथं ह्येकाधिकवर्णान् स युगपन्नैव द्रष्टुं शक्नोति ? कथञ्च विशिष्टवस्तूनां युगपत् प्रत्यक्षाभासो जायते ? इत्येतत्सर्वं भाष्यकारेणेत्थमनुव्याख्यातम्-“वाक्यस्थेषु खलु वर्णेषूच्चरत्सु प्रतिवर्णं तावच्छ्रवणं भवति । श्रुतं वर्णमेकमनेकं वा पदभावेन प्रतिसन्धते। प्रतिसन्धाय पदं व्यवस्यति । पदव्यवसायेन स्मृत्या पदार्थं प्रतिपद्यते । पदसमूहप्रतिसन्धानाच्च वाक्यं व्यवस्यति । सम्बद्धाश्च पदार्थान् गृहीत्वा वाक्यार्थं प्रतिपद्यते । न चासां क्रमेण वर्तमानानां बुद्धीनामाशुवृत्तित्वात् क्रमो गृह्यते । तदेतदनुमानमन्यत्र बुद्धिक्रियायौगपद्यस्य’२। इति स्पष्टमेव बालकानामपेक्षया वयस्कानां प्रौढानां वा ध्यानं प्रकृष्टमाशुतरञ्च जायते, अत एव विपलांशेऽपि ते क्रमशोऽनेकानि वस्तूनि द्रष्टुं शक्नुवन्ति। क्रमशो जायमानं ज्ञानमपि कालसौक्ष्म्याद् युगपज्जायमानं ज्ञानमिवोच्यते, किन्तु तत्त्वतो ध्यानं बहुषु वस्तुषु युगपन्नैव जायते, यथा--प्रयोगेषूपर्युक्तेषु साधितमिवा- भियुक्तैः प्रतीयते। अतः सिद्धो ध्यानविस्तरः सिद्धं वा ध्यानक्षेत्रमेकस्मिन्क्षण एकवस्तु- परिमितमेव। स्मरणीयमत्र क्षणमिति प्रतिपुरुषं भिद्यते । बुद्धिप्रकर्षापेक्षा तो ध्यानस्याशु- सञ्चारित्वमपि वर्धते। स्थूलबुद्धिमतां ध्यानं नहि तथाशुसञ्चारि भवति यथा विपश्चितां दूरदर्शिनाम्। क्षणमिति विपलविशेषपरिमितमिति नातो वाच्यम् । क्षणं त्वत्रापेक्षिकमिति बोद्धव्यम्। यदा च युगपदेकस्यैव बृहदाकारपदार्थस्य ज्ञानं जायते, तदा स्मरणीयं यद्ध्यानविषयीभूतं क्रमशो विशिष्टमङ्गं गुणविशेषो वा जायते । किन्त्वाशुसञ्चारित्वाद् ध्यानमेकगुणादपरगुणमभि नितान्तं वेगेन प्रचलतीत्यस्माकं मतम्। वस्तुतस्तु यत्किञ्चिदपि ध्यानस्य विषयीभूतं जायते, तदेकत्वमेवावाप्नोति, तन्निसर्गतो विषयैकरूमतां प्राप्नोतीति वयमग्रे प्रत्यक्षविवेचनीयेऽध्यायेऽनुव्याख्यास्यामः ।
ध्यानस्य विचलनम्
सम्पादयतुसम्प्रति ध्यानविषयेऽपरः प्रश्नः समुद्भवति - 'कियत्कालपर्यन्तं नु खल्वेकस्मिन् विषये वस्तुनि वा ध्यानमवस्थातुं शक्यते' इति ? प्राच्यैः प्रतीच्यैश्चाचार्यैरस्य प्रश्नस्याध्ययनं बहुविधं सम्पादितम् । प्रायः पुरुषा मन्यन्ते यद् बहुकालं यावद् घटिकापर्यन्तं वा ध्यानमेकस्मिन् पदार्थेऽवस्थातुं शक्यत इति । सूक्ष्मविचारानन्तरमेतन्मतं नहि समीचीनं प्रतिभाति। चञ्चलं मनोऽत एव ध्यानमपि चलायमानं प्रतिक्षणं भवति, एकस्मात्पदार्थात्क्षण एव प्रविचलति । उपर्युक्तमेव यत्क्षणमानमत्रावस्थामानसिकविकासाभ्याससापेक्षमिति बोद्धव्यम्। आशुतरं ध्यानं सेकण्डसंज्ञकक्षणैकं यावदेवैकस्मिन् पदार्थेऽवतिष्ठते। जर्मन- देशीयवैज्ञानिकेन अरवैण्टशिट्शमहाभागेनैकं' घटिकायन्त्रं तावद्दूरं स्थापितं यावदस्य मन्दटिक्टिक्ध्वनिमात्रमेव श्रोतुं शक्यते । दृष्टं हि तेनाचार्येण यत्कदाचन तु घटिकायन्त्र-शब्दः श्रूयते, कदाचन च न श्रूयते । एतदेव ध्यानविलचनमित्याख्यायते । स्विट्जरलैण्ड-देशीयपदार्थविज्ञानविशारदेन नैकरमहोदयेन र घनचित्राध्ययनपूर्वकमिदं साधितं यदेकदा त्वेकघनपार्श्वसम्मुखीनो जायते, क्षणानन्तरं घनचित्रं परिवर्तितमिव प्रतीयतेऽपरः पार्श्वश्च सम्मुखीन इव जायते । वस्तुतो नहि घनचित्रं परिवर्ततेऽपि तु ध्यानविचलनात्तत्प्रत्ययोऽपि परिवर्तित इवास्मान् प्रतिभाति । अमेरिकादेशीयमिशिगनविश्वविद्यालयस्य प्राध्यापक प्रवरेण पिल्सबरीमहाभागेन' केचन विद्यार्थिन एकस्मिन् मसिचिह्नरूपे बिन्दौ ध्यानं समाधातु- मादिष्टाः, यदा च तेषां ध्यानविचलनं जायते, तदा कुञ्जिकामवपीडनाय त आदिष्टा । सामान्यतोऽयं निष्कर्षो निष्पन्नो यदेकविपलानन्तरं सेकण्डसंज्ञकविपलद्वयानन्तरं तेषां ध्यानं प्रविचलति । स्पष्टत इदं जातं यत्कियद्विपलानन्तरं द्वित्रविपलानन्तरं वा ध्यानं विचलति। प्रायो ये जना विश्वसन्ति जानन्ति यत्तेषां ध्यानं बहुकालं यावदेकस्मिन्नेव पदार्थे समाहितं जायते, त एकस्यैव वस्तुनो विविधपार्थैर्नैकस्या एव समस्याया वा विविधपक्षान् वा पश्यन्ति विचारयन्ति ध्यायन्ति वा । यं पक्षमधिकृत्य ध्यानं समाहितं जायते, स एव तदानी ध्यानस्य विषयीभूतो जायते । विषयक्रमो ध्यानस्याशुतरत्वात् कदाचिद्विवेकिभिरपि विषयचिन्तायां सँल्लग्नत्वान्निमग्नत्वाद्वा ज्ञातुं न शक्यते । अत एव भ्रान्तिर्जायते बहुकालं यावत् ध्यानस्यैक एव विषयोऽपरिवर्तितोऽवतिष्ठत इति ।
समाधिः
सम्पादयतुचित्तविचलनविषये समाधिस्वरूपविवेचनं प्रकृतान्तर्गतमेवेदमस्मान् प्रतिभाति। प्रतीच्यमनोविज्ञानविशारदैः समाधिविषये काऽपि रुचिर्नाद्यावधि लक्षिता। अस्माकं महर्षिभिर्नूनं योगदर्शनपरम्परायां यो प्रयत्नोऽष्टाङ्गयोगरूपोऽनुव्याख्यातः, स सर्वो ध्यानविषयक एवास्ति। योगश्चित्तवृत्तिनिरोधो भवति पातञ्जलमते। योगस्याष्टावङ्गानि च यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो भवन्ति [५]। तत्राद्यपञ्चकानि तु बहिरङ्गसाधनानि, अन्तिमत्रीणि चान्तरङ्गसाधनानि भवन्ति । चितैकाग्र्याय प्राणायामस्य सर्वत उपरि महत्त्वं भवति। 'अहिंसासत्यास्तेयब्रह्मचर्यपरिग्रहाः यमा: " [६], “शौचसन्तोषतप:- स्वाध्यायेश्वरप्रणिधानानि नियमाः’ [७]। इति यमनियमानामनुपालनेन बुद्धिः सत्त्वगुणसम्पन्ना जायते । सत्त्वोद्रेकाद् व्यवसायात्मिका बुद्धिर्जायते । सैव ध्यानादियोगाङ्गानुपालने समर्था भवति। उक्तं हि भगवता श्रीकृष्णेनापि श्रीमद्भगवद्गीतासु - भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ [८] इति । यमनियमादिविशुद्धमपि चित्तं प्राणायामाभ्यासात् सर्वथा नियन्त्रितं भवति । ‘तपो न परं प्राणायामात्' इत्यस्माकं महर्षीणां यन्मतं तत्सर्वं समीचीनम्। महर्षिव्यासेनापि भाष्यः उक्तम्- "तपो न परं प्राणायामात्ततो विशुद्धिमलानां दीप्तिश्च ज्ञानस्य" इति । प्राणायामा- भ्यासेन चित्तैकाग्र्यं सुकरं भवतीत्यत्र नास्ति सन्देहावकाशः मनुनाप्युक्तम्- दह्यन्ते ध्यायमानानां धातूनां हि यथा मलाः । तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥ इति । कस्तावदयं प्राणायामो येन पतञ्जलिमहर्षीणां मते प्रकाशावरणं क्षीयते ? यत्र बाह्यो वायुराचम्यान्तर्धार्यते स पूरकसंज्ञकः प्राणायामः। यत्र च कोष्ठस्य वायुर्विरेच्य बहिर्निःसार्यते स रेचकाख्यः प्राणायामः । कुम्भके स्तम्भवृत्तिः कोष्ठस्य वायुर्गतिविच्छिन्न- स्तत्रैव स्थास्यति। एवम्प्रकारेण यथा रेचके तथा पूरके तथैव च कुम्भके श्वासप्रश्वासयोः स्वाभाविकगतिविच्छेदः सञ्जायते। अत एवेयं व्याख्याप्यवसेया सूत्रकृताम्–“तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः” इति। ज्ञानिनान्तु ध्यानप्रकर्षे सहजप्राणायामो जायत इत्यनुभवसिद्धमेवेति वयं मन्यामहे; किन्तु मानसिकबाह्याभ्यन्तरजीवने प्राणायामे सत्यपि ध्यानं जायते, तं विनापि च । समाधौ प्राणायामस्य विशेषोपयोगित्वमुपपद्यते । समाधिर्हि द्विविधो भवति - सबीज: समाधिर्निर्बीजश्चेति। सबीजः समाधिः सम्प्रज्ञातोऽप्युच्यते। निर्बीजश्चासम्प्रज्ञातोऽप्यभिधीयते। सम्प्रज्ञातसमाधौ विविधचित्तवृत्तीनां तत्संस्काराणाच्च निरोधो जायते, ध्यातृध्येयध्याना- नामेकत्रावस्थानात्। तथोक्तं हि भोजवृत्त्याम्- “ऐकाग्र्यं हि वृत्तिनिरोधः । विरुद्धे च सर्वासां वृत्तीनां संस्काराणाञ्च इत्यनयोरेव भूम्योर्योगस्य सम्भवः” इति । [९] चित्तस्य भूमिपञ्चके ऐकाग्र्यभूमिश्चतुर्थी भवति । सैवात्र 'एकाग्र' इति पदेन विवक्षिता । सम्प्रज्ञात-समाधिश्चैवं व्याख्यातो व्यासभाष्ये–“यस्त्वेकाग्रे चेतसि सद्भूतमर्थं प्रद्योतयति, क्षिणोति च क्लेशान्, कर्मबन्धनानि श्लथयति, निरोधमभिमुखं करोति, स सम्प्रज्ञातो योग इत्याख्यायते” इति। [१०] मन्ये प्रज्ञाप्येका चितवृत्तिरेव । तस्या अपि निरोधाच्चित्तैकाग्र्यस्य परमा कोटिर्निर्विषयाख्याऽसम्प्रज्ञातसमाधावेवोपलभ्यते । चित्तवृत्तिपरमनिरोधे सति किमप्या- लम्बनमसम्प्रज्ञातसमाधौ ध्यानस्य नोपलभ्यते। तत्र ध्यातृध्येयध्यानानामेकीभावो जायते। “तदा द्रष्टुः स्वरूपेऽवस्थानम्" [११] इति योगसूत्रकारा: । न तत्र किञ्चिदपि सम्प्रज्ञायते वृत्तिव्यापारेणातोऽसम्प्रज्ञातः । स एव धर्ममेघसमाधिर्ध्यानस्य लोकोत्तरा चरमावस्थेत्या- चक्षते ध्यायिनः। तस्मिन् समाधौ ध्यानविचलनस्य सम्भावना नैव विद्यते ।
ध्यानेऽन्तरायाः
सम्पादयतुके के खलु ध्यानस्य अन्तराया भवन्ति ? योगसूत्रकारैर्महर्षिपतञ्जलिभिर्नव चित्तविक्षेपा ध्यानान्तरायाः परिगणिताः । ते यथा - "व्याधिस्त्यानसंशयप्रमादालस्या- विरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः" इति । [१२] एतेषा- मन्तरायाणामभावे ध्यानं समाहितं जायते । १. व्याधिः – धातुरसकरणवैषम्यं किं वा रोगः । यदा कोऽपि मानवो रोगपीडितो भवति, नहि तस्य चित्तं पठने समाहितं भवति । २. स्त्यानम् - अकर्मण्यता चित्तस्य किं वा कर्मानर्हता । ३. संशयः – उभयकोटिस्पृग्विज्ञानं स्यादिदमेवं नैवं स्यादिति । संशयात्मकस्य दोलायमानं चित्तं ध्याने समाहितं नैव भवति । ४. प्रमादः – समाधिसाधनानामभावनम्। लक्ष्यपूर्त्यर्थं साधनानामध्ययन- द्रव्यादिकानामचिन्तनम्। ‘तातस्य कूपोऽयमिति ब्रुवाणाः क्षारं जलं कापुरुषाः पिबन्ति” इति प्राचीनमाभाणकम्। येन पुरुषेण यथाकालमुपर्युक्तसाधनानां सङ्ग्रहो न कृतः, प्रमादात्तस्य ध्यानं समीचीनपरिस्थितौ कार्ये समुत्पन्ने वा समाहितं नैव जायते। किं वा कार्यानर्हत्वादेव ध्यानाभावो जायते । अप्रमत्तेन सता लक्ष्यं चिन्तनीयम्। अन्यथा ध्यानाभावोऽनिवार्य्यः । ५. आलस्यम् - कायस्य चित्तस्य च गुरुत्वादप्रवृत्तिः । नह्यालस्येन मानवो ध्यानावस्थितो भवति । 'आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः' इति सुप्रसिद्धमभियुक्तवचनम्। ६. अविरतिः - चित्तस्य विषयसम्प्रयोगात्मा गर्धस्तृष्णेति यावत् । ७. भ्रान्तिदर्शनम् । ८. अलब्धभूमिकत्वम् - समाधिभूमेरलाभः । ध्यानसामान्ये तु प्रकृतमेवं व्याख्येयम् । यदि कस्यचिद् बालकस्य पूर्वज्ञानं मनोविज्ञानविषये किमपि न भवेत्तर्हि तस्य प्रारम्भ- कालिकेऽध्ययने प्रारम्भिकज्ञानभूमेरभावादलब्धत्वान्नहि ध्यानं समाहितं जायते, अत एव पूर्वज्ञानभूमावेव नवीनं ज्ञानभवनं निर्माणार्हम् । ज्ञातवस्तुसम्बन्धादेवाज्ञातवस्तुज्ञानं सम्पाद्यते। न ह्यलब्धभूमिना नवीनं ज्ञानमासादयितुं शक्यते । समाधिपक्षे- “मधुमत्यादयः समाधिभूमयः। लब्धभूमेर्यदि तावतैव सुस्थितम्मन्यस्य समाधिभ्रंसः स्यात्ततस्तस्या अपि भूमेरपायः स्यात्। यस्मात् समाधिप्रतिलम्भे तदवस्थितं स्यात्तस्मात्तत्र प्रयतितव्यम्” इति वाचस्पतिमिश्राः । ९. अनवस्थितत्वम् - चञ्चलचित्तयुक्तत्वम् । नहि चञ्चलचेता गभीरतत्त्वदर्शनं ध्यातुमर्हति। अनवस्थितत्वमिति यल्लब्धायां भूमौ चित्तस्याप्रतिष्ठा । एते चित्तविक्षेण ध्यानान्तराया योगप्रतिपक्षा योगमला ध्यानबाधका इत्यभिधीयन्ते । एतेऽन्तराया आभ्यन्तराः । सन्ति हि बाह्यपरिस्थितिजन्यानि बाधकानि यैर्ध्यानं सततं बाध्यते, यथोत्कटं वादनम्, बालानां पार्श्वतः क्रन्दनमिति बाधकैर्जातुचित् कार्यसम्पादने विलम्बो जायते । नापि कार्यमेव तथाविधं सुन्दरं निष्पन्नं भवति यथा पूर्णमनस्कतया सम्पादितं कार्यं सुन्दरं भवति । यथा बाधकेषु सत्स्वपि कदाचनेच्छा- प्राखर्याल्लाभ एव जायते । बाधकानां वारणाय प्रतिपक्षाभावनोदेति । सा चेच्छाप्राबल्योपेता यदि भवेत्तर्हि बाधका अगण्याः शक्तिहीना निरस्ता वा भविष्यन्ति । अपि च बाधकैः स्वशक्तिं परीक्ष्य समुत्साही पुरुषोऽधिकतरवेगेन कार्ये सँल्लग्नो भवति । तदानीं तस्य ध्यानं सक्रियं प्रकृष्टञ्च जायते। प्रकृष्टध्यानेच्छावन्तः पुरुषा बाधकानतिक्रम्य समीहितार्थान्नैवाप्नुवन्ति। का अपि बाधा मनस्विनां मार्गावरोधं कर्तुं न शक्नुवन्ति । तथा हि- तुङ्गत्वमितरा नाद्रौ नेदं सिन्धावगाधता । अलङ्घनीयता हेतुरुभयं तन्मनस्विनि' ॥ इति । [१३] अतो ध्यानं बाधा विजित्य सुदृढां भूमिमवाप्नोति । नहि प्रयोजनविहीनं ध्यानं सुदृढं भवति। बाधकोपस्थित्या प्रयोजनं निश्चितं स्पष्टं जायते, तदनन्तरं ध्यानमपि सुदृढभूमिकं भवतीति स्मरणीयम् ।
ध्याने क्लान्तिप्रभावः
सम्पादयतुप्रागुक्तरीत्या विवृतमस्माभिर्यद् रुच्यभावे ध्यानं समाहितं न जायते । अस्ति ह्येकमपरं कारणं येन ध्यानभङ्गो जायते, ध्यानं वा समाहितं न जायते । एकस्मिन् कार्येऽनवरतं यदि वयं चिरं यावल्लग्ना भवेम तर्हि क्लान्तिर्जायते । सा तु द्विविधा- शरीरक्लान्ति:, मानसिकी क्लान्तिः । क्लान्तिः श्रान्ति: श्रम इति यावत् । निरन्तरं कार्ये सँल्लग्ना: पेश्यः थकिताः श्रान्ता वा जायन्ते । चिरं यावत्कार्ये परिश्रमेण शरीरे कानिचिद्रासायनिकानि `परिवर्तनानि जायन्ते । पेशीनां घर्षणेन धातूनां परिपाकजन्यपरिणामेन कानिचित् कोषाणुकानि विनष्टानि जायन्ते, रक्तमपि विषाक्तं दूषितं वा जायते, धमनीभिरानीतं रक्तं फुफ्फुसाभ्यां विशुद्ध्यति । प्रश्वासेनोषीजनद्वारेण रक्तं विशुद्धं भवति । निःश्वासेन रक्तात् ‘कार्बनडियाक्साइड' इत्याख्यविषाक्तवायुर्बहिर्निस्सार्यते । यदि शरीरे उपर्युक्तविषस्याधिक्यं रक्ते भवति, तदा तमोऽभिभूतोऽयं प्राणी मानवो वा श्रान्तं क्लान्तमात्मानं मन्यते। इयं क्लान्तिर्मानसिककार्याधिक्यादपि जायते, शारीरिककार्यादपि। नूनं रुच्यभावे ध्यानं समाहितं नैव जायते, किन्तु श्रान्तः क्लान्तः पुरुषो बालको वापि कञ्चिद् विषयं चिरं ध्यातुं न शक्नोति । रमणीयमपि वृत्तं श्रान्ताय क्लान्ताय न रोचते, तस्य ध्यानं समाक्रष्टुं न शक्नोति । ध्यानं हि समुपयुक्तं कालमपेक्षते । कथं हि बालकानां क्लमापनोदो जायते, इत्येदप्यस्माभिर्विचारणीयम्। क्लमो हि कार्यक्षमताया: परमः शत्रुः। कार्यक्षमताया जीवनसर्वस्वं हि ध्यानम्। ध्यानञ्च रुचिजन्यम्। कार्यक्षमता हि प्रतिपुरुषं भिद्यते, प्रतिकार्यस्वरूपमपि चेयं भिद्यते । विद्याध्ययने यथा परीक्षार्थी कृतपरिकरो भवति, नहि तथान्यः परीक्षासन्निकृष्टो बालकः । एवमेव विषमपरिस्थिति- गतोऽध्यापकः शकटवाहने कार्यक्षमतां तथाविधां प्रदर्शयितुं नार्हति । जापानदेशीयेन शारीरविज्ञानप्राध्यापकेन ‘त्सुरू अराई' इत्यभिधानेन विदुषा निर्णीतं यत्प्रथमघटिकानन्तरं ५ प्रतिशतं कार्यक्षमताहासो जायते । ३१ घटिकानन्तरं ( अनवरतं ११ घटिकापर्यन्तं कार्यसम्पादनेन) १०० प्रतिशतं कार्यक्षमताहासो वर्धते। कार्यराशिसमयापेक्षया ध्यानं विचलति, क्लान्तिर्जायते। कार्यक्षमताया हासोऽप्यनुपातशो वर्धते । नूनं मध्ये मध्ये प्रशंसापुरस्कारादयः क्लमापनोदनाय कल्पन्ते। मानसिकश्रान्तावपि रक्तगतरासायनिकपरिवर्तनान्येव कारणानि । शारीरिक- क्लान्तिर्मानसिकक्लान्त्याः प्राग्भवति । इदमपि सर्वं दैनन्दिनकार्याभ्यासरुच्यादिव्यपेक्षमिति बोद्धव्यम्। शारीरिककार्यं प्रायो मानसिक श्रमापनोदनाय कल्पते ।
श्रमापनोदनसाधनम्
सम्पादयतुश्रमापनोदनायोपायपञ्चकमाश्रयणीयम्। तद्यथा- (१) निद्रा, (२) कार्यान्तरालेऽवकाश:, (३) कार्यपरिवर्तनम्, (४) रुचिसंवर्धनम्, (५) कार्याभ्यासश्च । अतः परं वयमेतान् प्रतिपदमनुव्याख्यास्यामः ।
(१) निद्रा
सम्पादयतुश्रमापनोदनाय प्रकृतिसुलभ उपायो हि खलु निद्रा । नहि निद्रा चैतन्योच्छेदोऽपि तु चैतन्यस्यैका वृत्तिरेवेति स्पष्टीकृतमस्माभिः पूर्वम्। निद्रावस्थायां पेश्यो मस्तुलुङ्गसहितं सर्वं नाडीतन्त्रं पूर्णतो विश्राम्यन्ति । तदानीं निःश्वासद्वारा प्रभूतं ‘कार्वनडियाक्साइड’ नामकं विषाक्तं तत्त्वं बहिर्निःसरति, रक्तस्य शुद्धिश्च सम्पद्यते । निद्रायां क्षीणकोषाणुकाणि प्रस्वेदमलमूत्रादिद्वारेणापि पृथग्भूतानि जायन्ते । निद्रा हि परमपोषणिका सङ्ग्राहिका। निद्रायां विश्रान्तशरीराङ्गानि पुनः शक्तिमाधातुं शक्नुवन्त्यपि। एतस्मात्कारणादेव प्रातःकलिकेऽध्ययने बालकानां रुचिः प्रकृष्टतमा जायते । थकिता बालका दिनान्ते च एतस्मादेव कारणाद् गणितदर्शनादिक्लिष्टविषयान् पठितुं न प्रभवन्ति । नहि निद्राकालसङ्कोचनं कथमपि कार्यम् । यद्यपि दिवास्वापो वर्ज्यस्तथापि श्रान्ताय दिवास्वापः सुश्रुतादिभिरप्यनुमतः । दृष्टं हि निद्राभ्रंशो निद्रालोपो वाऽसामान्यमानसिका- वस्थाग्रस्तानां मानसिकद्वन्द्वाभिभूतानाञ्च मानवानाम् । अतो निद्रा ध्यानसंरक्षिका, ध्यानस्य स्वास्थ्यप्रदात्री, श्रमापनोदनक्षमा च भवति । निद्रा श्रमापनोदनस्य सर्वोपरि साधनं सिद्धम्।
(२) कार्यान्तरालेऽवकाशः
सम्पादयतुअनवरतं कार्यं श्रममावहति । यदि मध्ये मध्येऽवकाशो भवेत्तर्हि या कार्यक्षमतानवरतेन कार्येण न्यूना हासोन्मुखी विनष्टा वा जायते, सा नूनं यौवनमापद्यते, पुनरावर्तते। दृष्टं हि बालकानां पाठ्यक्रमविषयकसमय- विभागचक्रेऽवकाशनिवेशनाद् बालकानां ध्यानवृद्धिरन्तिमासु घटिकासु। यदि कोऽपि मानवः पूर्णतया विश्रान्तो भवेत्तर्हि तस्मा अन्तरालेऽवकाशस्तथाविधं श्रमापनोदनं न करोति यादृशमिदं सामिश्रान्ताय श्रमापनोदनं कुरुते । पूर्णतो विश्रान्तस्य निद्रैवौषधम्। यद्यवकाशोऽपि किञ्चिन्मनोरञ्जनयुक्तो भवेत्तर्हि तस्य श्रमापनोदनक्षमतातिशयेन वर्धते। औद्योगिकक्षेत्रेषु श्रमिकानां कार्यक्षमताया अध्ययनं कुर्वद्भिः प्रोफेनवर्गरमहाशयैर्निर्णीतं यद्धि यदा कदावकाशप्रदानेन सामग्र्युत्पादनं किल वर्धते । अपि चावकाशकालः श्रमिककार्यविशेषानुसारं भिद्यते । तन्मते सामान्यतया घटिकापादैकमितोऽवकाशकालः पर्याप्तः। श्रीवर्नेनमहोदयैरपि' कार्यक्षमतायां ५% किं वा १०% प्रतिशतं वृद्धिर्लक्षिता, यदावकाशो नियतकार्यकाले मध्ये भवति । वस्तुतोऽवकाशकाले शारीरिकमानसिक- कार्यात्सर्वथा भिन्नं वातावरणं भवेत्तदैवावकाशस्य श्रमापनोदने परमोपयोगित्वं सिध्यतीत्यवसेयम्।
(३) कार्यपरिवर्तनम्
सम्पादयतुयद्येकमेव कार्यमनवरतं क्रियमाणं भवेत्तर्हि श्रमोऽप्यधिको जायते। यदि च कार्यपरिवर्तनं कियत्कालान्तरं जायेत, तर्हि तथाविधोऽधिकः श्रमो नोत्पद्यते। कार्यप्रकारपरिवर्तनेन किञ्चिन्मनोरञ्जनं जायते । यद्युत्तरकालिकं कार्यं पूर्व- सदृशमेव भवेत्तर्हि श्रमापनोदनमपि तदपेक्षया न्यूनमात्रमेव भविष्यति। वस्तुत: क्लान्तौ पेशीनां नाडीनाञ्च किमपि कर्षणमिव (Tension) कार्याधिक्याज्जायते। एकं कार्यं विहायेतरत्कार्यं तद्भिन्नं तत्कर्षणमपनुदति, श्लथयति । अत एव बालकानां पाठ्यविषयोऽपि प्रतिघटिकानुसारं परिवर्त्यते । एवम्प्रकारेण मानसिककार्यजन्यः श्रमः शारीरिककार्यमात्र- मपनुदति। शारीरिककार्ये हस्तकलाकौशले वा ध्यानं पूर्ववदेव स्वस्थं समाहितञ्च जायते।
(४) रुचिसंवर्धनम्
सम्पादयतुयथा कार्यं कुर्वन्नेव पुरुषोऽन्यैर्गुरुजनैः स्वामिना वा प्रशस्यते, तत्प्रदत्तं पुरस्कारं वा मध्ये मध्येऽवाप्नोति, तदा तस्य श्रमापनोदनमपि जायते। लक्ष्यसिद्धिरपि सर्वं श्रमं परिहरति । दृश्यते हि लोके यो बालको धावने स्वमित्रैर्गुरुभिश्च प्रशंसामवाप्नोति स द्रुततरं धावति । क्लान्तोऽपि सोऽन्यान् पराजित्य सर्वप्रथममागच्छति निर्णायकसविधे । अपि चाह कालिदासः - "अह्नाय सा नियमजं क्लममुत्ससर्ज क्लेशः फलेन हि पुनर्नवतां विधत्ते ॥ इति । [१४] पूर्वं पार्वत्या बहुविधा तपस्या कृता आसीत्, किन्तु भगवन्तं दृष्ट्वा, स्वकीयाराध्यमभीप्सितं देवं शिवं दृष्ट्वा, सर्व एव तपस्याजन्य: श्रमस्तस्या विनष्टः । सा पूर्ववदेव स्वस्था सञ्जातेति । एवमेव ताडनं भर्त्सनमपि श्रममौदासीन्यमुत्पादयती- त्यवधार्यम्। एतावता स्मरणीयं यद्येन येन साधनेन रुचि: संवर्धते तत्तत् साधनं श्रमापहारीति । थार्नडाइकमहोदयानां मते यदि कस्मिंश्चित् कार्ये रुचिः कस्यापि पुरुषस्याग्रहीणा भवेत्तर्हि स द्वादशघटिकापर्यन्तमप्यनवरतं कार्यं कर्तुं शक्नोति । श्रमस्तु नूनं रुच्यभावाज्जायतेऽत एव रुचिसंवर्धनेनैव श्रममपनोदितुं ध्यानमासादयितुञ्च शक्यत इति विशेषः ।
(५) कार्याभ्यासः
सम्पादयतुकार्याभ्यासेनापि श्रमह्रासो भवति । अभ्यस्ता क्रिया अभ्यासो वा मूलप्रवृत्तिरिवानायासो भवतीति वयमवोचाम। पूर्वं यत्कार्यं श्रमजनकमिच्छाजन्यञ्चासीत् क़ालान्तरे तदेव सरलं सुगमनायासं स्वाभाविकञ्च जायते। अत एवाभ्यासः श्रमापनोदनाय कल्पते। यदि चाभ्यासमनपेक्ष्यापि श्रमो जायते स एव वास्तविकः श्रमः । विवेकिभिः पूर्णा क्लान्तिर्यथा न जायेत, तथैव प्रयततिव्यम् । यदि सम्यग्रीत्या श्रमवारणाय चिन्ता क्रियेत, तर्हि श्रमिकानां बालकानां ध्यानमुपयुक्तकार्येषु नूनं यथाकालं समाहितं भविष्यति, तदपेक्षया च कार्यक्षमताध्ययनप्रियतापि वर्धिष्यते। ध्यानोपेतं चिन्तनमनुभवनं संवेदनं प्रयतनं वोपादेयमेव भवति, नेतरत्; तच्चैव कालान्तरे स्मर्तुं शक्यत इति ।