मनोविज्ञाने भ्रमस्वरूपम्
मनोविज्ञाने भ्रमस्वरूपम् अतीव महत्त्वपूर्णः विषयः वर्तते। अनेन विविधानां दर्शनानां माध्यमेन अथातो वयं भ्रमस्वरूपमनुव्याख्यास्यामः । प्रत्यक्षस्वरूप साङ्गोपाङ्गं व्याख्यात- चरम्। स्थाने खल्विदं यद्वयं भ्रमविभ्रमादिमिथ्याज्ञानप्रकाराणामपि विवेचनमत्र कुर्मः । भारतीयदर्शनसाहित्येऽर्वाचीने च मनोविज्ञानसाहित्ये भ्रमादिमिथ्याज्ञानस्य यादृशं प्रौढविवेचनं संवृत्तम्, तस्य निखिलस्य समालोचनात्मकविवेचनायैकोऽपरोऽप्येतादृशो ग्रन्थो नालम् । अतो वयं सङ्क्षेपेणैव तस्य सर्वस्यारुन्धतीन्यायेन स्थालीपुलाकन्यायेन वा विवेचनं करिष्यामः। भ्रममधिकृत्य भारतीयदार्शनिकानां निम्नलिखितानि मतानि भवन्ति । तानि यथा - १. विज्ञानवादिनामात्मख्यातिवादः । २. सांख्यानां सत्ख्यातिवादः, प्रसिद्धार्थख्यातिवादो वा । ३. प्राभाकराणामख्यातिवादः । ४. नैय्यायिकानामन्यथाख्यातिवादः । ५. भाट्टानां विपरीतख्यातिवादः । ६. शून्यवादिनां शून्यख्यातिवादः । ७. अद्वैतवादिनामनिर्वचनीयख्यातिवादः । एतेषां मतानां विस्तरतोऽध्ययनमस्माभिरद्वैतप्रमाणमीमांसायां समाश्रितम् । अत्र तु केवलं निर्देशमात्रमेवाश्रीयते ।
आत्मख्यातिवादः
सम्पादयतुविज्ञानवादिनो बौद्धमतावलम्बिन आत्मख्यातिमङ्गीकुर्वन्ति । तेषां मते बाह्यार्थ- प्रतीतिर्मिथ्या। केवलं विज्ञप्तिमात्रमेव चरमं तत्त्वम् । भ्रान्त्या ग्राह्यग्राहकभेदा उपलभ्यन्ते। वस्तुतो विज्ञाने केवलं ग्राह्यग्राहकस्य भेदावकाशो न विद्यते । तदुक्तं विज्ञप्तिमात्रता- सिद्धिनामके ग्रन्थे आचार्य्यवसुबन्धुना- अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ इति । [१] 'इदं रजतम्' इति स्थले आत्मख्यातिवादिनो 'रजतम्' इति ज्ञानं सत्यत्वेनाङ्गीकुर्वन्ति। ‘इदम्' इति ज्ञानन्तु मिथ्या, असत्त्वात्।
सत्ख्यातिवादः
सम्पादयतुअयं वादः सांख्याचार्याणां सत्कार्यवादिनां भवति । यदस्ति तदेवानुभूयते प्रतीयते वा। यन्नास्ति, यस्य सत्तैव नास्ति, कथं तस्य प्रत्यक्षं नाम ! अतः सत एव वस्तुनः प्रत्यक्षं जायते, न तु सर्वथालीकस्यासतो वा वस्तुनः । अतो युज्यते सत्कार्यवादाभिमता सत्ख्यातिः। कथं तर्हि भ्रम उत्पद्यते ? अविवेकात् । अपूर्णे ज्ञाने सति समीचीनं प्रत्यक्षं नोत्पद्यते। अत एव दृश्यते यदि भ्रमबाधे नाधीयते किमपि नवीनवस्तुज्ञानम्, अपि तु पूर्वमेव सद्वस्तुनो ज्ञानमविविक्तं विविच्यते, सम्यक्तयोद्घाट्यते। [२] अर्वाचीनाः साङ्ख्याचार्याः सदसत्ख्यातिव्यपदेशेन प्रसिद्धार्थख्यातिसंज्ञया वास्य व्याख्यानं कुर्वन्ति । अयं वाद आचार्यप्रभाकरस्य तदनुयायिनाञ्च प्रथते । सत्यं रजतज्ञानं स्मरणरूपम्, सत्यञ्चास्ति इदमाकारकं प्रत्यक्षज्ञानम्। केवलं तयोर्भेदाग्रहनिबन्धनैव 'इदं रजतम्' इति भ्रान्तिः । तदुक्तं प्रकरणपञ्चिकायाम्'- नन्वत्र रजताभासः कथमेष घटिष्यते। उच्यते शुक्तिशकलं गृहीतं भेदवर्जितम् ॥ शुक्तिकाया विशेषा ये रजताद् भेदहेतवः । ते न ज्ञाता अभिभावाज्ज्ञाता सामान्यरूपता ॥ अनन्तरं च रजतस्मृतिर्जाता तथापि च । मनोदोषात्तदित्यंशपरामर्शविवर्जितम् ॥ रजतं विषयीकृत्य न तु शुक्तेर्विवेचितम् । स्मृत्यातो रजताभास उपपन्नो भविष्यति ॥ इति । अपि च- न ह्यसंनिहितं तावत्प्रत्यक्षं रजतं भवेत् । लिङ्गाद्यभावाच्चान्यस्य प्रमाणस्य न गोचरः । परिशेषात् स्मृतिरिति निश्चयो जायते पुनः ॥ इति । अत एवेदं रजतमिति ग्रहणस्मरणाभिधस्य बोधद्वयस्य व्यवहारकारणत्वाङ्गीकारात् शुक्तिकायां रजतार्थिनः प्रवृत्तिर्लक्ष्यते । स्मर्यमाणं तावद्रजतम्। स्मृतिसम्प्रमोषादासादित एवोपलभ्यमानेदम्पदार्थस्मर्यमाणरजतपदार्थयोः पारस्परिको भेदाग्रहः । ज्ञानयोर्विषययोश्च विवेकाग्रहाद् भ्रमः। विषयापेक्षातो रजतज्ञानं इदन्ताज्ञानञ्चेति द्वयमेव यथार्थम्। तदुक्तं हि प्रकरणपञ्चिकायाम्–“रजतमिदमिति नैकं ज्ञानम्, किन्तु द्वे एते विज्ञाने। तत्र रजतमिति स्मरणम्, तस्यानुभवरूपत्वान्न प्रामाण्यप्रसङ्गः । इदमिति विज्ञानमनुभवरूपं प्रामाण्य- मिष्यत एव। भ्रान्तिरूपता चात्र रजतज्ञानस्य स्मरणरूपस्यैव ग्रहणव्यवहारप्रवर्त्तकतया व्यवहारकाले विसंवादकत्वात्” इति [३] । सोऽयमख्यातिवादः विवेकाग्रहख्यातिव्यपदेशेनापि प्रथते । [४]
अन्यथाख्यातिवादः
सम्पादयतुअयं वादो नैय्यायिकानामभिमतः । अन्यस्य शुक्तिशकलस्यान्यस्येवावभास आपणस्थस्य रजतस्यावभासोऽन्यथाख्यातिरिति । तदुक्तं हि - “सर्वं ज्ञानं धर्मिण्यभ्रान्तम्, प्रकारे तु विपर्ययः " [५] इति । नूनं प्रतीयमानस्य रजतस्य देशान्तरसत्त्वं सम्भाव्यम्। अन्यथा तस्य प्रतिषेधप्रतियोगित्वानुपपत्तिर्भविष्यति । नहि कश्चित्प्रेक्षावान् गगनकुसुमं वन्ध्यापुत्रं शशविषाणं वा प्रतिषेद्धुं प्रभवति । उदनाचार्य्योऽप्येवं व्याचष्टे । तथा हि- व्यावर्त्याभाववत्तैव भाविकी हि विशेष्यता । अभावविरहात्मत्वं वस्तुनः प्रतियोगिता ॥ इति । [६] प्राभाकरमतं निराकुर्वाणैः जयन्तभट्टैरप्येवमुक्तम्- “रजतस्य ज्ञानमनुभूयमानतया ‘इदं रजतम्' इति भ्रमस्थले प्रकाशते, न त्वनुभूततया, येन तस्य स्मरणापत्तिः सम्भवेत्”। तदुक्तं ह तेन न्यायमञ्जार्याम् – “अनुभूततया हि न रजतमत्र प्रकाशते, किन्त्वनुभूयमानतया’ [७] इति। भ्रमस्तु व्यभिचारि ज्ञानमिति, प्रत्यक्षञ्च तस्माद् विलक्षणमिति 'अव्यभिचारि' पदस्य सूत्रोक्तस्यानुव्याख्यानं कुर्वता भाष्यकारेणोक्तम्-- "ग्रीष्मे मरीचयो भौमेनोष्मणा संसृष्टाः स्पन्दमाना दूरस्थस्य चक्षुषः सन्निकृष्यन्ते । तत्रेन्द्रियार्थसन्निकर्षादुदकमिति ज्ञानमुत्पद्यते। तच्च प्रत्यक्षं प्रसज्यत इत्यत आह- अव्यभिचारि” इति । वार्त्तिकारेणास्य टीकायामन्यथाख्यातिस्वरूपं सम्यक्तया विवेचितम् । [८] तच्च सर्वं तस्मादाकरादेवावगन्तव्यम् ।
विपरीतख्यातिवादः
सम्पादयतुअयं वादो भाट्टानाम्। अस्ति ह्यस्य नैयायिकमतेन सह महत्सादृश्यम्। अकार्यस्य कार्यतया भानमेव विपरीतख्यातिर्भाट्टानाम् । शुक्तिविषयकं ज्ञानं शुक्तित्वप्रकारकं भवति । रजतविषयकं ज्ञानञ्च रजतत्वप्रकारकं भवति । 'इदं रजतम्' इति भ्रमस्थलेऽन्यस्मिन् विषये शुक्तिकाशकलेऽन्यप्रकारकं ज्ञानमुत्पद्यत इत्यन्यथाख्यातिरेव विपरीतख्यातिर्नाम अस्ति हि भाट्टमतस्यैको विशेषः । नहि भाट्टा भ्रमप्रत्यक्षमलौकिकसन्निकर्षजन्यमित्यभ्युप- गच्छन्ति। तन्मते नहि शुक्तिरजतत्वसंवर्गोऽसन् भवतीति । मुरारिमिश्रा अपि विपरीतख्याति- मेवाङ्गीकुर्वन्ति। [९] स्मरणीयमत्र यद्ध्यसंसर्गग्रहरूपो गुरूणामख्यातिवादः। संसर्गाग्रहरूपश्च विपरीतख्यातिवादः कुमारिलभट्टमुरारिमिश्राणामिति ।
शून्यख्यातिवादः
सम्पादयतुवादोऽयं शून्यवादिनां माध्यमिकानाम्। तेषां मते रजतादिभ्रमालम्बनमसदिति प्राचीनाचार्य्याभिमतानुसारं व्याख्यानमस्माभिः कुत्रापि नागार्जुनाचार्य्यस्य मूलमाध्यमिक- कारिकायां चन्द्रकीर्तिरचितप्रसन्नपदाख्यतट्टीकायां वा शून्यख्यातिस्फोरणमेवंविधं नोपलब्धम्। निःस्वभावतावादिनां माध्यमिकानां शून्यताख्यातिरन्यथैव व्याख्येयेति वयं मन्यामहे । शून्यं नाम नैःस्वाभाव्यं माध्यमिकानां नागार्जुनप्रभृतीनाम्, न तु वस्तुमात्रशून्यत्वमसत्त्वं वेति । तदुक्तं हि मूलमाध्यमिककारिकायाम्- शून्यमिति न वक्तव्यमशून्यमिति नो भवेत् । उभयं नोभयञ्चेति प्रज्ञप्त्यर्थं तु कथ्यते ॥ इति । [१०] अन्यच्च- "येषां तु शून्यतादृष्टिस्तानसाध्यान् बभाषिरे " । इति । [११] शून्यतादृष्टिरत्र वस्तुमात्रराहित्यवादोऽवगन्तव्यः । तस्या दृष्टेरपि सर्वग्राहनिषेधमात्रार्थं परिहाणमेवेष्टं शून्यवादिनाम् । अपि चोक्तं चन्द्रकीर्तिना- "न कर्मकर्तृफलादिकं नास्तीति वयं ब्रूमः । किन्तर्हि ? नि:स्वभावमेतदिति व्यवस्थापयाम:’’ इति । [१२] अतो भ्रमपक्षेऽपि शून्यवादिनां नि:स्वभावताख्यातिरेव शून्यताख्यातिः सांवृतिकत्वादित्यवगन्तव्यम्। सर्वतन्त्रस्वतन्त्राचार्य्यवाचस्पतिप्रभृत्यास्तिकदार्शनिकानामेतद्रूपं शून्यवादिमतोपस्थापनं तदानीन्तनबौद्धग्रन्थप्रचाराभावजन्यमेवेत्यस्मान् प्रतिभातीति।
अनिर्वचनीयख्यातिः
सम्पादयतुअयं भ्रमस्वरूपपक्षोऽद्वैतवादिनामित्यवसेयम्। विशिष्टाद्वैतवादिनां रामानुजा- चार्य्याणामप्रसिद्धार्थख्यातिरूपं मतं साङ्ख्याचाय्यैरुद्धोषितसत्ख्यात्यभिन्नमेवेत्यन्यत्रास्माभिः स्फोरितं वैशद्येन। अद्वैतवादिनो भ्रमपक्षे रजतस्य प्रातिभासिकसत्तामङ्गीकुर्वन्ति । ननु शुक्तौ कथमनिर्वचीयस्य रजतस्य भानं जायते ? अस्य प्रश्नस्य समाधानं वेदान्तिन एवम्प्रकारेण कुर्वन्ति। तथा ह्युक्तं वेदान्तपरिभाषायाम्-“नहि लोकसिद्धसामग्री प्रातिभासिकरजतोत्पादिका, किन्तु विलक्षणैव । तथा हि काचादिदोषदूषितलोचनस्य पुरोवर्तिद्रव्यसंयोगादिदमाकारा चाकचिक्याकारा च काचिदन्तःकरणवृत्तिरुदेति। तस्याञ्च वृत्ताविदमंशावच्छिन्नं चैतन्यं प्रतिबिम्बते। तत्र पूर्वोक्तरीत्या वृत्तेर्बहिर्निगमनेनेदमंशावच्छिन्न- चैतन्यं वृत्त्यावच्छिन्नचैतन्यं प्रमातृचैतन्यं चाभिन्नं भवति। ततश्च प्रमातृचैतन्याभिन्नविषय- चैतन्यनिष्ठा शुक्तित्वप्रकारिकाऽविद्या चाकचिक्यादिसादृश्यसन्दर्शनसमुद्बोधितरजत- संस्कारसध्रीचीना काचादिदोषसमवहिता रजतरूपार्थाकारेण रजतज्ञानाभासाकारेण च परिणमते [१३] । इति। इदं प्रातिभासिकं रजतमविद्यापेक्षया परिणामोऽभिधीयते, चैतन्यापेक्षया च विवर्त इति कथ्यते। किं तर्हि विवर्तो नाम ? तदुच्यते - उपादानसमसत्ताककार्यापत्तिः परिणामः। उपादानविषयसत्ताककार्य्यापत्तिर्विवर्त इति । अथवा- सतत्त्वतोऽन्यथा प्रथा विकार इत्युदीरितः । अतत्त्वतोऽन्यथा प्रथा विवर्त इत्युदीरितः ॥ इति । [१४] सच्चेन्न बाधेत। असच्चेन्न प्रतीयेत । अत उभयविलक्षणैव शुक्तौ रजतभ्रान्ति:, रज्जौ वा सर्पप्रतीतिः। अत एव प्रातिभासिका एते रजतसर्पादिपदार्था अनिवर्चनीया इति निगद्यन्ते। तत्रभगवतां श्रीमच्छङ्कराचार्य्याणां प्रसन्नगम्भीरं शारीरकभाष्यं भ्रमस्वरूपणे- नैवारभ्यत इत्येतस्मादेव भ्रमस्य दार्शनिकतत्त्वनिरूपणे चरमं महत्त्वमस्तीत्यवसेयम्।
भ्रमस्वरूपविषये निर्गलितं मतम्
सम्पादयतुभ्रमस्य यद्रूपं निष्पन्नं तत्त्विदमेव यत् 'परत्र पूर्वदृष्टावभासः'। परत्र शुक्तौ पूर्वदृष्टस्य रजतस्यावभास एव भ्रम इत्यभिधीयते । " अध्यासो नाम अतस्मिंस्तद्बुद्धिः” इति । भ्रमे हि सत्यानृते मिथुनीकृते उपलभ्येते । अर्वाचीनमनोविज्ञानाभिमतमेवेदं व्याख्यानम्। प्रागुक्तरीत्या प्रत्यक्षे न केवलमालोचनं ज्ञानमेव विद्यते, अपि तु केचन विशेषा अपि सक्रिया उपलभ्यन्ते; यथा पृष्ठभूम्याकृतिविशेष:, संयोजनं सङ्घट्टनं वा, मानसिकसँल्लग्नता, अनुमितिश्च; येषां विवेचनं व्याख्यातचरम् । एतेषु विशेषेषु यदा कश्चन प्रत्यक्षजनकसामग्रीविशेषो विकृतो जायते, तदा भ्रमो जन्यते । प्रत्यक्षजनक- सामग्रीविशेषोपोद्बलिता एव विविधा भ्रमभेदा जायन्ते । प्राचीनसंस्कृतदर्शनवाङ्मये भ्रमविभ्रमयोः किमपि भेदजनकं लक्षणं नोपलभ्यते । किन्त्वस्मिन् ग्रन्थेऽर्वाचीने च मनोविज्ञाने नहि तावनर्थान्तरौ । [१५] भ्रमे हि प्रत्यक्षगोचरं वस्तु यथापूर्वं विद्यते, किन्तु तज्जनितालोचनज्ञानमेव दुष्टं भवति, यथा-शुक्तौ रजताभासो भ्रमः । अस्ति हि शुक्तिश्चाकचिक्यादिलक्षणा प्रत्यक्षगोचरा; तस्या आलोचनं नूनं जायते; किन्तु तस्यानुव्याख्यानं तत्तद्विशेषविकृतिसमुपेतं दुष्टं भवति । अत्र रजतार्थिनो मानसिक- भावप्रवणता सँल्लग्नता वा तां शुक्तिं वस्तुभूतामपि रजतमिवानुव्याख्यातां करोति । 'कामी स्वतां पश्यति' इति न्यायानुसारं रजतार्थी शुक्तौ रजतमेव पश्यति, नेतरत् । एवमेव पिपासुर्मृगो जलं मार्गयमाणो मरुमरीचिषु जलप्रत्यक्षमनुभवति । नहि तत् प्रत्यक्षम्, अपि तु भ्रम एव। प्रागुक्तान्यथाख्यातिविपरीतख्यातिवादादिषु प्रत्यक्षानुभवविशेषा प्राग्वर्णिता नैव विविच्यन्ते । अत एव मानसिकसँल्लग्नताद्यासादिता एव रजतसर्प- जलादिभ्रमाः शुक्तिरज्जुमरुमरीच्यादिषु जायन्ते । नहि विभ्रमे' प्रत्यक्षगोचरं वस्तु वर्तमानं विद्यते । यथा अधिष्ठानं विना (रज्जुं विना) भ्रमस्य (सर्पभ्रमस्य ) उत्पत्तिर्न जायते, तथा नास्त्यपेक्षा सद्वस्तुभूतस्याधिष्ठानस्य विभ्रमे। वयमग्रे भ्रमस्य विभ्रमस्य च स्वरूपं कैश्चिदुदाहारणैरनुव्याख्यास्यामः ।
म्यूलरलायरस्य भ्रमोदाहरणम्
सम्पादयतुजर्मनदेशीयमनोवैज्ञानिकेन म्यूलरलायरमहोदयेन' भ्रमस्यैकमतिरमणीयमुदारहरणं प्रदत्तम्। निम्नलिखितरेखयोर्या रेखा वामतो विद्यते सा यद्यपि दक्षिणस्थरेखासमानैव वस्तुत आयतत्वापेक्षया, तथापि सा ह्रस्वतरा दृश्यते। किं कारणम् ? <----> >-----< बहिर्मुखानां कर्णाकाराणां रेखायां यो दैर्घ्यप्रभावो दर्शनोत्थो जायते, सोऽन्तर्मुख- रेखाणां प्रत्यक्षापेक्षया नूनं महीयान् । कुतः ? दक्षिणतः स्थिता रेखा बृहत्तराकृत्यङ्गत्वेन प्रतीयमाना दीर्घतरा प्रतीयते । इदमनुव्याख्यानं समष्टिवादाभिमतम्, अधिकतमैश्च मनोवैज्ञानिकैरनुमोदितमवतिष्ठते, यद्यप्यस्यान्यप्रकारकाणि स्पष्टीकरणानि समुपलभ्यन्ते ।
पौगेनडोर्फजूलनरमहोदययोर्भ्रमोदाहरणानि
सम्पादयतुपौगेनडोर्फमहोदयो' जूलनरमहोदयश्च दिग्भ्रमोत्पादकरेखाचित्रद्वयं निर्मितवन्तौ। तद्यथा - श्रीपौगेनडोर्फोद्भावितम् श्रीजूलनरोद्भावितम् पौगेनडोर्फमहोदयस्याकृतौ या कर्णाकारा रेखा वर्तते, यद्यपि सा एकैव तारतम्येन विद्यते, तथापि तस्याः प्रत्यक्षरूपता ईषच्छिन्नेव । निम्नो भागः सातत्यापेक्षया निम्नतरो दृश्यते। जूलनरमहोदयस्य रेखाचित्रेषु भ्रमोदाहरणभूतेषूर्ध्वं प्रसरन्त्यो रेखा वस्तुतः समानान्तराः सन्ति, तथापि प्रत्यक्षेण तद्रूपं संव्यूहनात्मकं विशरणरूपं वा दृश्यते। नन्वेतेषां भ्रमाणां किं कारणम् ? प्रायः सर्वानुमोदितमनोवैज्ञानिकानां मतमिदं यद्धि वयं ह्रस्वकोणानां परिणामं वर्धयामः, दीर्घकोणानाञ्च परिमाणं लघूकर्तुं तद्दैर्घ्यं वापाकर्तुमिच्छाम इति ।
विभ्रमोदाहरणम्
सम्पादयतुप्रत्यक्षज्ञानस्य विकृतं रूपं भ्रमाख्यम्। विभ्रमश्च वस्त्वभावेऽपि प्रत्यक्षानुभवनमिति सामान्यतया भ्रमविभ्रयोर्भेदं स्फुटीकरोति, तथापि सूक्ष्मान्वेषणं नेदं प्रयोजकं सोढुं समर्थम्। विभ्रमो हि नूनं भ्रमस्य विशिष्टं प्रकृष्टं वा रूपं भवति यस्मिन्नुत्तेजकस्य स्पष्टं निर्देशनं न सम्भवति । तथापि विभ्रमा मानसरोगग्रस्तानामेव प्राय उत्पद्यन्ते । अपि च, प्रगाढक्लमेऽपि शारीरिकरोगेषु च विभ्रमा रोगिभिरनुभूयन्ते। सम्मोहनावस्थायामपि विभ्रमविशेषा अनुभूयन्ते। अन्यच्च, सर्वे स्वप्ना विभ्रमभूता एव भवन्ति, यतो ह्यधिष्ठानस्य स्पष्टज्ञानाभावेऽपि पदार्थानामनुभवनं तु स्वप्नेषु जायत एव । विभ्रमेषु ह्येकेन्द्रियक्रिया किं वा बह्विन्द्रियव्यापारापेक्षा तु यथार्थं दृश्यते । विभ्रममनुभवन्तं पुरुषं प्राय: सामान्यजनाः 'भूताविष्टो हि सः' इति व्यवहरन्ति । आकाशवाणीश्रवणमेको विभ्रम एवंविध एव । पापकलुषिताः स्वयमेव शत्रूणां प्रतिशोधपराणि वाक्यानि शृण्वन्ति । श्रावणप्रत्यक्षमिव प्रतीयमाना विभ्रमाः प्रायोऽनुभूयन्ते । 'कदाचन अनुभूयते, कोऽपि दिवङ्गतः पुरुषो वदति 'एवमेवम्' इति। नहीमे श्रावणविभ्रमा अन्तःकरणध्वनिसमानाः । अन्तःकरणध्वनयस्तु सत्त्वगुणोद्रेकात् प्रेक्षावतां पश्यन्तीवाग्रूपाः पौनःपुन्येन शब्दं बाह्योत्तेजकं विना भावनाप्रधानावसरेष्वनुभूयन्ते । एतद्विषय एवेदमुक्तं भवति - "सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः” इति । नहि तथाविधा विभ्रमाः येषु शब्दप्रत्यक्षमिव प्रतिवचनान्यनुभवगोचराणि भवन्ति । तथा ह्येकदा कस्मिश्चिद्वने निशीथे भयत्रस्तेनैकेन पुरुषेण भूतास्थिपञ्जरप्रोद्भूता इयं वाणी साक्षात् श्रुता - " तिष्ठ ! तिष्ठ !! भो गच्छन् पुरुष ! तिष्ठ !!! अन्यथाहं त्वां कालकवलितमचिरादेव करिष्यामि " इति । एतस्मिन्नेवान्तराले स तस्य भूतपञ्जरस्य अस्थिघर्षणोत्थं 'चट चट ' इति ध्वनिमपि श्रुतवान्। वस्तुतो विषयाभावेऽपि यदैवंविधा ध्वनय एव श्रूयन्ते, ते ध्वनयो नहि वस्तुभूता भवन्ति, प्रत्युत विभ्रमरूपा हि ते । लौकिका जना विभ्रमोत्थाननेकानेवम्भूता- ननुभवान् सत्यानिव विश्वसन्ति । चाक्षुषा विभ्रमा अपि भवन्ति । प्रोषितमित्रस्य दर्शनं कदाचन विभ्रमरूपेण जायते । चाक्षुषविभ्रमेषु विषयोऽवस्तुभूतः कदाचन दीर्घः, कदाचन ह्रस्वः, एकदा स्थितः, अन्यदा गतिशीलोऽपि जायते। भावनाप्रधानमानसिकसँल्लग्नतया या पृष्ठभूमिः प्रस्तूयते तयैव विभ्रमस्वरूपं निर्धायत इत्यस्माकं मतम्। फ्रांसदेशीमनोवैज्ञानिकप्रवरेण बिनेमहोदयेन सर्वप्रथमं भ्रमविभ्रमयोर्भेदजनकं प्रागुक्तं प्रयोजकं दुर्बलीकृतम्। तत्प्रतिपादितारम्भकबिन्दु' मतानुसारमतिन्यूनमपि सर्वदैवा- रम्भकबिन्दुभूतमुत्तेजकं भ्रमे विभ्रमे समानमुपलभ्यते । बिनेमहोदयेन चित्ररहितपत्रकेषु स्वप्रयोगाः समारब्धाः। सम्मोहनविषयीभूताः केचन पुरुषा नैपोलियनप्रभृतीनां चित्राणि द्रष्टुं प्रभवन्ति स्म, 'तेषु महापुरुषाणां चित्राणि सन्ति' इति तत्सङ्केतं श्रुत्वा । यदा च नेपोलियनसंज्ञकचित्रं परावर्तितम्, तदापि सम्मोहनविषयीभूतेन पुरुषेणोक्तम्-“इदं नैपोलियनचित्रं परावर्तितमवतिष्ठते" इति। एतेन प्रयोगेण साधितवान् बिनेमहोदयो यद्धि चित्ररहितेषु पत्रकेष्वपि कश्चन बिन्दुरेवम्प्रकारकोऽवश्यमेव भवति, येन परावर्तित- मपरावर्तितं वा विभ्रमस्वरूपं सम्मोहनविषयेणावधार्यते । [१६] अतस्तमन्ते विभ्रमेष्वप्यारम्भको बिन्दुर्भ्रमेष्विव अवश्यमेव वर्तते । अस्तु तावद् भ्रमविभ्रमयोर्भेदः स्वल्प एव । किन्तु केषाञ्चिन्मनोवैज्ञानिकानां मते विभ्रमा असामान्यावस्थारम्भकस्य व्यक्तित्वस्य द्वैधीभावजनिता भवन्ति [१७] । नहि पूर्णद्वैधीभावं विभ्रमोऽपेक्षते । व्यक्तित्वद्वैधीभावो लघुमात्रायां स्वस्थेषु पुरुषेष्वपि कदाचन जायत इति तु वयमग्रेऽनुव्याख्यास्यामः । स्वस्थमानसिकशक्तिसम्पन्नानां क्लमे भावनाप्रकर्षेऽर्धसुषुप्तिदशायामपि व्यक्तित्वद्वैधीभवनं कदाचन दृश्यते । सन्ति हि विभ्रमव्याख्यानपराण्यपराणि मतानि । यथा मनोविश्लेषणाख्यमनोविज्ञान- सम्प्रदायानुसारं मानसिकसङ्घर्षोत्थपूर्वेच्छावदमनस्य प्रतीकभूता विभ्रमा इति । अयं हि विशुद्धो मनोवैज्ञानिको वादः । अत एवास्य समीचीनत्वं दुर्निवारम्। व्यक्तित्वद्वैधीभवनमपि प्राक्तनेच्छावदमनजनितमिति त्ववदातम् । इच्छाभावनारुचिविशेषेण मानसिकसँल्लग्न- स्वरूपनिर्धारणे कियान् प्रभावो जायत इति तु सर्वं स्पष्टमेव। अतो यथा भ्रमेषु दुर्निवार्यपरिस्थित्यासादितमानसिकसँल्लग्नता कारणं भवति, सैव विभ्रमेष्वपि कारणं बोद्धव्या, किन्त्वत्र व्यक्तित्वस्य मनागधिकं वा द्वैधीभवनं जायते । व्यक्तित्वे द्वैधीभूते सुप्तवासना अदमिता इच्छाश्च विभ्रमनाट्यमभिनयन्ति ।
सन्दर्भाः
सम्पादयतु- ↑ विज्ञप्तिमात्रतासिद्धिः
- ↑ योगसू० २।२६, योगसूत्र - भोजवृत्ति: ४ । ३३
- ↑ प्रकरणपञ्चिका, पृ० ४३
- ↑ नयविवेकः, पृ० ८६ - ९३
- ↑ सप्तपदार्थी, पृ० २५ (विजयनगरसंस्कृतग्रन्थमालासंस्करणम्) ।
- ↑ न्यायकुसुमाञ्जलिः ३ । २
- ↑ न्यायमञ्जरी, पृ० १८०
- ↑ न्यायसूत्रभाष्यवार्त्तिकतात्पर्यटीका १ | १|४
- ↑ श्लोकवार्त्तिकम्, पृ० ३४५, श्लो० ११७
- ↑ मूलमाध्यमिककारिका, २२ । ११
- ↑ मूलमाध्यमिककारिका, २५।२४
- ↑ प्रसन्नपदा, पृ० ३२९
- ↑ वेदान्तपरिभाषा, पृ०३६-३७
- ↑ वेदान्तसारः, पृ० ८० मुम्बईसंस्करणम्
- ↑ ब्र० सू० शारीरकभाष्यम् १|१|१
- ↑ Alfred Binet and Charles Fire "Animal megnetism" (1888) pp. 211-276.
- ↑ Edward Parish "Hallucinations ans Illusions". (Scribrner, 1897)