मनोविज्ञाने मूलप्रवृत्तिः
मनोविज्ञाने मूलप्रवृत्तिः ज्ञातव्या भवति, येन मनुष्यस्य वास्तविकस्वभावः परिज्ञातः भवेत्। सम्प्रति वयं मूलप्रवृत्तिस्वरूपमनुव्याख्यास्यामः । मूलप्रवृत्तयः सहजक्रिया इव जन्मजाता वंशपारम्पर्यायत्ताः क्रिया भवन्ति; किन्तु ताः सहजक्रियाऽपेक्षया जटिलतरा भवन्ति। यतो हि सहजक्रियासु स्तोकेनैव चैतन्योपलब्धि:, चैतन्यस्यानुमानमेव कर्तुं शक्यते, यदस्मिन् सति सहजक्रिया प्रसूत इति; किन्तु मूलप्रवृत्तिषु चैतन्याऽन्वितत्वं स्पष्टतो लक्ष्यते, यद्यपि तस्य प्रवर्तनं नास्ति सुषुम्णया, नाऽपि मस्तिष्केण अपि तु वल्काधस्तनस्थलेभ्यः शीर्षण्यग्रन्थिभ्यः । सहजक्रियाः सरलतरा भवन्ति, सुषुम्णास्थनाडी- सम्बन्धजन्यत्वात्। अपि च सहजक्रिया अपरिवर्तनीया भवन्ति, मूलप्रवृत्तिषु च कालक्रमेण परिवर्तनं कर्तुं शक्यते। मूलप्रवृत्तयो नहि व्यक्तिविशेषवंशानुगतपारम्पर्यप्रभवा भवन्त्यपि तु निखिलजातिगतवंशानुक्रमपारम्पर्यसङ्क्रमणजन्या हि ताः । अतो मूलप्रवृत्तयो जाति- विशेषगतप्रत्येकव्यक्तौ जन्मना सहैवोपलभ्यन्ते । जन्मजाता हि मूलप्रवृत्तयो भवन्ति । यद्यपि ताः सहजक्रियाऽपेक्षया किञ्चिजटिलतरा भवन्ति, तथापि ता ऐच्छिकक्रियावन्नैव विचारविवेकप्रभवाः । अतो मूलप्रवृत्तयो विचारोत्थैच्छिकक्रियापेक्षया सरलतरा एव भवन्ति । मूलप्रवृत्तयः प्रयत्नापेक्षया द्रुततरा भवन्ति, अनायासेनैव प्रवर्तन्ते, यतो हि तासां नाडीसम्बन्धा जन्मत एव वंशपारम्पर्यसिद्धा: प्राणिषूपलभ्यन्ते ।
ननु मूलप्रवृत्तीनां सहजक्रियापेक्षया जाटिल्यं कथमुच्यते ? सहजक्रियासु संवेगाभावो भवति, मूलप्रवृत्तयश्च संवेगारूढा भवन्ति । अपि च मूलप्रवृत्तिषु नहि तथा ध्यानाभावोऽ- नवधानता वा विद्यते, यथायं सहजक्रियासु भवति । मूलप्रवृत्तिषु पलायनादिषु प्रथमतः प्रवृत्त्यधिष्ठानरूपस्य पदार्थस्य प्रत्यक्षं जायते, यथा वृक्कस्य जङ्गले निविडे वने वा । तदनन्तरं भयरूपसंवेगं पर्यटकोऽनुभवति । संवेगानुभूत्यनन्तरमेव पलायनरूपा क्रिया - नायासेनैव प्रसरति, हृद्गतिर्वर्धते, स्विद्यते च पर्यटको रोमाञ्चितो भृशं श्वसन्नेव स पलायते। संवेगानुभूतिः सहजक्रियायां नोपलभ्यते। सहजक्रियायामुत्तेजना बाह्यपदार्थात्तु जायते, किन्तु साऽपि प्रत्यक्षपदवीं नारोहति, सहजक्रियाया: सुषुम्णास्थितनाडीप्रभवत्वात् । प्रत्यक्षं सर्वदा ध्यानान्वितं भवति, नहि तथा सहजक्रिया ध्यानाऽन्विता भवति सर्वदा । अतः सिद्धं सहजक्रियामूलप्रवृत्त्योः पार्थक्यं जाटिल्योपोद्बलितम् ।
नन्वभ्यस्तक्रियाऽप्यनायासेनैव प्रवर्तते, कथन्तर्हि सा मूलप्रवृत्तिर्न भवितुमर्हति ? अभ्यस्तक्रिया त्वभ्यासजन्याऽधीताऽर्जिता वा क्रिया । मूलप्रवृत्तिर्नूनमनायासेन प्रवर्तते, किन्तु सा नैवाऽधीताऽर्जिता शिक्षिता क्रिया भवति । यत्तु पौनःपुन्येनाऽभ्यासेन शिक्षितुं शक्यते, तस्योन्मूलनमपि सम्भाव्यम्। नहि मूलप्रवृत्तीनां सर्वथान्मूलनं कर्तुं शक्यते । अपि च अभ्यस्तक्रियाः प्रतिपुरुषं भिद्यन्ते। निखिलजातिगतव्यक्तिषु कस्या अप्येकस्या अभ्यस्तक्रियाया नियतत्वं समरूपत्वं वा नैवोपलब्धुं शक्यते । अभ्यस्तक्रिया नहि जन्मजाता भवन्ति। तास्त्वनुकरणेन शिक्षणेनाऽभ्यासेन वाऽधीयन्ते । प्रतिकूलाऽभ्यासे - नैकदाऽभ्यस्तक्रियायाः कालान्तरे परित्यागोऽपि दृश्यते लोके । अपि चाऽभ्यस्तक्रियाया अनायासप्रवर्तनं मूलतस्तु विचारप्रभवम्, कालान्तरे चेदं यान्त्रिकक्रियासमं जायते । नहि यान्त्रिकक्रियारूपजातायामभ्यासक्रियायामस्ति कोऽप्यवकाशः संवेगानुभूतेर्यथा मूलप्रवृत्तौ दृश्यते। अतः सिद्धो मूलप्रवृत्त्यभ्यस्तक्रिययोः स्वरूपभेदः।
मूलप्रवृत्तिपरिभाषा
सम्पादयतुसहजक्रियाभ्यस्तक्रिययोर्भेदनिरूपणानन्तरं मूलप्रवृत्तेः परिभाषाऽपि व्याख्यातुं शक्यते। सम्यक्स्वरूपानवबोधेनैव मूलप्रवृत्तीनां स्वरूपविषये संख्याविषयेऽनेकानि भ्रान्तमतानि सञ्जातानि । वयं तेषां किञ्चिन्निदर्शनमग्रे करिष्यामः । अत्र तु वयं प्राध्यापक- मैकडुगलमहोदयाभिमतं मूलप्रवृत्तिलक्षणमेवमुपस्थापयामः-
“वयं मूलप्रवृत्तिमेवं व्याख्यातुं शक्नुमः - मूलप्रवृत्तिर्हि नामैको कायिकमानसिकः पैतृकगुणसङ्क्रमणजनितो जन्मजातो वा स्वभावो येन तदन्विता व्यक्तिर्विशिष्टप्रकारकाणि वस्तूनि पश्यति, तानि प्रत्यवहिता वा जायते, तत्प्रत्यक्षानन्तरं विशिष्टप्रकारकं संवेगञ्चानुभवति, तद्विषये च विशिष्टप्रकारेण प्रयतते, अथ वा तत्प्रयत्नानुरूपं क्रियावेगमेवानुभवति’। इति ।
श्वसनादिशारीरिकमात्रक्रियास्वतिव्याप्तिवारणाय कायिकमानसिकत्वमुपर्युक्तायां परिभाषायां मैकडुगलमहोदयेनाऽङ्गीकृतम्। नहि मूलप्रवृत्तिर्नाम क्रिया रासायिनकी क्रिया यथा भोजनपचनाद्रसनिर्वृत्तिः, रसाभिनिष्पत्तौ वा रक्तमांसभेदोऽस्थिमज्जाशुक्रादिधातूनां परिणामः। नापि मूलप्रवृत्तिः केवला मानसकक्रिया, यथा स्मृति: कल्पनाऽनुमितिर्वा, यतो हि मूलप्रवृत्तौ कायिको व्यापारोऽनिवार्यतो विद्यते । कायिकव्यवहारमन्तरा मूल- प्रवृत्तिर्नहि प्रवृत्त्याख्यां भोक्तुमर्हति। अतः समीचीनमेवेदं यद्धि मूलप्रवृत्तयः शारीरिक- मानसिकक्रिया भवन्ति ।
अधीतक्रियास्वतिव्याप्तिवारणाय मूलप्रवृत्तिपरिभाषायां जन्मजातेति विशेषणपदं सन्निवेशितम्। मूलप्रवृत्तयो हि खलु नैसर्गिकाः प्रवृत्तयो भवन्ति, नहि तासां मौलिकं रूपमध्ययनव्यवहारादिसापेक्षम्। नहि नवजातशिशुं कथं स्तनपानं कर्त्तव्यमिति कोऽपि शिक्षयति । ननु शिक्षते तु, यद्धि बालको मातुः स्तनसविधे नीयते ? एवं प्राप्ते वयं ब्रूमः-नहि स्तनपानं शिक्ष्यते, बालकस्तु नीयत एव । यावन्न तस्याङ्गुलिपेश्यः स्थिरा भवन्ति, तावदेव चिरं शिशुर्मातुः साहाय्यमपेक्षते स्तनसामीप्ये मात्रा नीयत एव । स्तनगवेषणं स्तनपानञ्च मूलप्रवृत्तिजन्ये, ते तु नैसर्गिके । चर्चरीकाः स्वकीयनीडमति- कौशलपूर्वकं निर्मिमते। नहि कोऽपि शिक्षयति ताः । नीडनिर्माणन्तु मूलप्रवृत्तिजन्यं सांसिद्धिकं जन्मजातं कर्म । मधुमक्षिका मधु सञ्चिनोति, तद्रक्षणञ्च स्वनिम्मितमधुनीड़े करोति। किमस्ति तद् व्यवहारजन्यमनुकरणजन्यं वा ? मनुष्योऽपि व्याघ्रदर्शने चौरागमे वा भयात् पलायते। स्वेदरोमाञ्चरक्तातिशीघ्रप्रसरणादीनि च लक्षणानि तस्य शरीरे आविर्भवन्ति। नहि सर्वमेतत् पलायनादिक्रियाजातं व्यवहारजन्यमनुकरणजन्यं वा । शिशुरपि मार्जारभयात् पलायते । तस्य मृत्तिकाशिशुस्फोरणे क्रुद्धश्च सञ्जायते । शिशुं प्रति मातुर्वात्सल्यं नैसर्गिकमेवेति सुप्रथितमेव सर्वेषां विदुषाम् । मर्कपत्नी स्वक्रोडे शिशुमेकहस्तेन निधाय विंशत्युत्तरशतवितस्त्यधिकोत्तुङ्गभवनादन्यभवनस्योपर्युत्क्षिपति । कस्माद्धेतोः? वात्सल्यवशात्। अतः सिद्धं वात्सल्यस्य नैसर्गिकत्वं जन्मजातत्वमिति यावत्। तिरश्चां शीतकाले ग्रीष्मदेशगमनं ग्रीष्मकाले च शीतप्रदेशगमनं मूलप्रवृत्तिजन्यम्। अमेरिकादेशीयकृषिविभागस्य वार्षिक विवरणे 'गोल्डन फ्लावर' नामकचर्चरीकाविषये महदाश्चर्यजनकं तथ्यं प्राकट्यमानीतम्। तद्यथा - 'गोल्डन फ्लावर' इति नामिकाश्चर्चरीका:, या उत्तरीयामेरिकादेशस्थे अलास्काप्रदेशे निवसन्ति ग्रीष्मकाले, तास्तु शैत्यागमे 'हवाई' - नामके द्वीपसमूहे सहस्राधिकक्रोशानतिक्रम्य समागच्छन्ति। याश्च चर्चरीकास्तन्नामधेया ग्रीष्मकाले उत्तरीयकैनाडादेशे निवसन्ति, तास्तु शैत्यागमेऽर्जेण्टाइनाप्रदेशे दक्षिणीया- मेरिकास्थे, 'व्यूनिसियर्स' नामकं नगरं परितः समागच्छन्ति। या चर्चरीकास्तन्नीडेभ्य आकृष्यान्यत्र परित्यक्तास्तास्तु पुनः स्वकीयं नीडं तद्देश एव समागच्छन्ति । तासामियं मूलप्रवृत्तिर्नैसर्गिकत्वमन्तरेण नैव व्याख्यातुं शक्यते। अतो मूलप्रवृत्तीनां जन्मजातत्वं वंशपरम्परायत्तत्वञ्च सुनिश्चितमेव ।
नह्येतावतेदमुक्तं भवति यद्धि मूलप्रवृत्तयोऽपरिवर्तनीया भवन्ति। अस्माकमभिप्रायस्तु केवलमेष एव यद्धि ताः सन्ति जन्मजाता नैसर्गिकाः । तासां मूलप्रवृत्तीनामपरिवर्तनीयं रूपन्तु निम्नस्तरीयेषु प्राणिषु कीटपतङ्गसरीसृपादिषूपलभ्यते । उच्चस्तरीयप्राणिषु शिक्षणादिना परिष्कारः सञ्जायते। उच्चस्तरीयपृष्ठवंशवतां प्राणिनां मूर्धन्ये मानवे तु व्यवहारानुकरणशिक्षणाभ्यासादिना महत् परिवर्तनं तासां स्वरूपं बिभर्ति । नहि तस्येयत्ताऽनुमातुं शक्यते । किन्तु प्राम्भिकजीवने शिशोः कासाञ्चिन्मूलप्रवृत्तीनां परिवर्तनं शिक्षणाभ्यासजन्यं द्रष्टुं शक्यते । नहि मूलप्रवृत्तीनामुन्मूलनं कथमपि भवितुमर्हति जन्मजातत्वात् नैसर्गिकत्वाच्च । आस्ट्रियादेशीयमनोविश्लेषणाविष्कारकर्तृभिः स्वनामधन्यफ्रायडमहोदयैर्वज्रलेपायितमिदं तथ्यं यद्धि कामादिमूलप्रवृत्तीनामुन्मूलनं कथमपि कर्तुं नैव शक्यते। तासां दमनं मार्गान्तरीकरणं शोधनं वा यथा कर्तुं शक्यते, तत्तु वयमप्यग्रे वक्ष्यामः। मानवव्यवहारे मूलप्रवृत्तीनां यद्रूपं समुपलभ्यते, तत्तु शिक्षणाभ्यास- संस्कृतिसंस्कारंप्रभवत्वान्महत् परिवर्तितं भवति, किन्तु नहि तेन तासां मूलप्रवृत्तीनां निराकरणं कर्तुं शक्यते । तासां नैसर्गिकत्वन्तु युक्तिबलोपेतत्वात् सुनिर्णीतम् ।
नाऽपीदं वक्तुं शक्यते यद्धि यतो हि जन्मकाले सर्वासां मूलप्रवृत्तीनां युगपदाविर्भावा- भावान्नैव तासां जन्मजातत्वं सिद्धमिति । मूलप्रवृत्तीनामाविर्भावो देशकालावपेक्षते । यथा यथा मानवानां शरीरसंस्थानं यासां मूलप्रवृत्तीनां व्यापारे कार्यक्षमं जायते, तथा तथा तासामाविर्भावोऽपि सँल्लक्ष्यते । यतो हि मूलप्रवृत्तीनामाविर्भावो नहि केनाऽपि सर्वथा निवारयितुं शक्यते, यतो हि तासामनुकूलपात्रदेशकालादिसम्प्राप्तौ समुद्गमो भवत्येवेति सुनिश्चितं तासां जन्मजातत्वम्। जन्मकाले बालकस्य रोदने क्षुत्पिपासादिमूल- प्रवृत्तीनामाविर्भावो भवति। शैशवे पलायनक्रोधताडनादीनां मूलप्रवृत्तीनां क्रोधद्वेषघृणादि- संवेगारूढानामाविर्भावोऽपि सँल्लक्ष्यते । वयःसन्धिकाले तारुण्ये च कामप्रवृत्तेरुद्गमोऽपि सञ्जायते। यौवने च वात्सल्यं स्त्रीपुरुषाणामाविर्भवति, यद्यपि तस्य प्राथमिकरूपं स्वभ्रातृभगनीप्रेम्णि दरीदृश्यत एव । बालिकाभिः कृत्रिमपुत्रपरिपालने तासां वात्सल्य- मूलप्रवृत्तेः किञ्चिदुन्मेषरूपमुपलभ्यते । अतो यदि मूलप्रवृत्तयो देशकालपात्रशरीर- पेशीधात्वादिपरिपाकमाविर्भावेऽपेक्षन्ते, नहि तेन तासां नैसर्गिकत्वं जन्मजातरूपत्वं वा निराकर्तुं शक्यते, यतो हि प्रयोजककारणानि परिस्थित्यङ्गत्वेन प्रविशन्ति । पशूनां शरीरव्यवहारस्याधिकतमांशे मूलप्रवृत्त्यायत्तत्वात्तेष्वधिकतमानां मूलप्रवृत्तीनामाविर्भावो जन्मसमकालमेवोपभ्यते। कामादिमूलप्रवृत्तयस्तु कालान्तरे स्वत एवाविर्भवन्ति ।
मूलप्रवृत्तीनां जन्मजातत्वादिदमपि वक्तुं न शक्यते यद्धि कस्या अपि मूलप्रवृत्त्याः सर्वेषु प्राणिषु किमुतैकस्या जातेरन्तर्भूतसर्वप्राणिषु समानमात्रायामभिव्यक्तिर्भवेदिति । नहि विभिन्नेषु मानवेषु कामक्रोधादिमूलप्रवृत्तयः समानमात्रायां समुपलभ्यन्ते, वंशानुक्रमायत्तत्वाद्धि मूलप्रवृत्तीनाम् । यथा वंशपारम्पर्यगुणायत्तत्वात् प्रतिपुरुषं शरीररचनाधातुपरिपाके इन्द्रियतीव्रत्वादीनि भिद्यन्ते, तथैव मूलप्रवृत्तीनां ह्रासोत्कर्षमात्राऽपि प्रतिपुरुषं भिद्यते। दृश्यते हि कालान्तरे मूलप्रवृत्तीनां ह्रासोत्कर्षवृद्धिर्वातावरणप्रभावात्, किन्तु तासां मात्राभेदस्तु जन्मजात एव।
उपर्युक्तविवेचनेनेदमपि स्फुटीभवति यद्धि मूलप्रवृत्तीनां जन्मजातानामपि समुद्गम- कालो भवति। यदि तत्काले समीचीनावसराभावो भवेत्तर्हि केचन विकारा जायन्ते । शिक्षणविधौ तु मूलप्रवृत्त्यानुकूल्यं विशेषतः शिक्षकेण स्मर्तव्यम् । तेन हि पिपठिषूणा- मौत्सुक्यमवधानञ्चाक्रष्टुमध्यापको प्रभवतीत्यवदातमेव । प्रपञ्चितमेवेदमग्रेऽस्माभिरप्यवधान- प्रकरणेऽसामान्यमनोविज्ञानप्रकरणे च । सम्यगवसराभावान्मूलप्रवृत्तीनां तैक्ष्ण्यमपि कुण्ठितं जायतेऽक्रियाशीलत्वाद् यथौत्सुक्यं बालकानां प्रजननं च गर्भाशयादीनाम्।
मैकडूगलमते मूलप्रवृत्तीनां रचनायां त्रिविधान्यङ्गानि सम्मिलन्ति। तद्यथा-- प्रत्यक्षम्, संवेगः, क्रिया च । मूलप्रवृत्त्यनधीताजन्मजाताऽनायासेन सम्पाद्यमाना क्रिया भवति, किन्तु मूलप्रवृत्तिः कस्मान्नैवाविर्भवति ? अपेक्षते हि खलु मूलप्रवृत्तिर्वातावरणात् किञ्चिदुत्तेजनम्, यथा श्वानं ताडयितुकामस्य पुरुषस्य प्रवृत्तिस्तदैवाविर्भवति यदा स पुरस्तात् स्थाल्या ओदनं खादन्तं श्वानं चक्षुषा पश्यति । शुन ओदनभक्षणमस्त्यत्र उत्तेजकम्। तस्य प्रत्यक्षमनिवार्यमस्ति मूलप्रवृत्त्याविर्भावाय । नहि केवलमोदनभक्षणमेव तत्प्रत्यक्षं वा ताडनात्मकमूलप्रवृत्तिं जनयितुं प्रभवति । प्रत्यक्षानन्तरं स परुषः क्रोधसंवेगमनुभवति। यदि श्वा पालितोऽस्ति नहि तदा ताडनरूपमूलप्रवृत्त्या अवसरः सम्भवति। शुनोऽनधिकारचेष्टां दृष्ट्वैव क्रोधसंवेगोऽनुभूयते । नहि क्रोधसंवेगानुभूतिमन्तरा प्रवृत्तिः प्रादुर्भवितुं शक्यते । अनुभूयमानः क्रोधसंवेग एव ताडनात्मकयष्टिप्रहारक्षमतां बिभर्त्ति। क्रोधसंवेगानुभूत्यनन्तरमनायासेन स पुरुषो यष्टिप्रहारं करोति। एतस्मिन्नेवान्तराले `श्वाऽपि पलायते। पलायनमपि शुनोऽस्त्यपरा मूलप्रवृत्तिः । कथं हि साविर्भवति ? श्वाऽपि पश्यति यद्धि दृष्टो हि स ओदनं स्थाल्या भक्षयन् इति । तं पश्यन्तं पुरुषं दृष्ट्वा स सचेता जायते । यदा श्वा यष्टिं पश्यन्तमाहरन्तञ्च तं पश्यति, तत्प्रत्यक्षमेवोत्तेजनं प्रदत्ते। यष्ट्याहरणन्तूत्तेजकम् । नहि तत्प्रत्यक्षेणैव पलायनमूलप्रवृत्तिः सम्भाव्यते, भयसंवेगानुभवादृते।
भयसंवेगमनुभूय कम्पते हि खलु श्वा, सहसा पलायतेऽप्रताडित एव। एवं ताडनपलायनमूलप्रवृत्तिद्वयविश्लेषणेनावधार्यते यद्धि मूलप्रवृत्तिस्वरूपे ज्ञानसंवेगक्रियाङ्गत्रयस्य सन्निवेशोऽनायासेन विद्यते । प्रत्यक्षन्तु ज्ञानमभिव्यञ्जयति। संवेगोऽपि स्वत एव विद्यते । क्रिया तु मूलप्रवृत्तिस्वरूपमेवाऽर्थवत् करोति । जन्मजाताऽनायास-प्रवर्तिता सत्यपि मूलप्रवृत्तिर्नहि प्रत्यक्षविरहिता क्षणमवस्थातुं शक्नोति, नाऽपि संवेगानुभूतिव्यतिरिक्ता । संवेगो हि खलु प्रवृत्तिवेगमुग्रत्वं वा निश्चिनोति।
ननु ज्ञानसंवेगवती मूलप्रवृत्तिः कथं प्रवृत्तिरूपतां प्रयत्नार्थवत्तां नैव भजते ? नहि मूलप्रवृत्तिः प्रयत्नः । प्रयत्नस्तु विचारतर्केच्छासमन्विता क्रिया, सैव प्रवृत्तिः । नहि मूलप्रवृत्त्यां विविधविकल्पनां विचारावसरो धर्माधर्मविवेको वा विद्यते । सा त्वनायासेन प्रवर्तते प्रत्यक्षपूर्विका संवेगाऽभिरूढा । नहि प्रत्यक्षं सविचारोहापोहप्रौढिमभिव्यञ्जयति । प्रत्यक्षमात्रेण मूलप्रवृत्त्यङ्गेन तूत्तेजकज्ञानमेव सम्पाद्यते । तदनन्तरं संवेगानुभवपर्यन्तं मूलप्रवृत्तिः स्वत एव प्रवर्तते । नास्त्यत्रैच्छिकनिर्णयः प्रवर्तमानस्य पुरुषस्य । यदि पलायनादिमूलप्रवृत्तेः प्राग् विविधविकल्पचिन्तनं धर्माधर्मविवेकपुरस्सरं भवेत्तर्हि मूलप्रवृत्तिरपि मूलप्रवृत्तितां विहाय प्रयत्नाख्यां बिभर्ति । मूलप्रवृत्तिस्तु जन्मसिद्धनाडीसम्बन्धेभ्यः प्रवर्तते। ननु कुतस्ते नाडीसम्बन्धाः ? नहि सुषुम्णायामस्ति तेषां सत्त्वम्, तत्र तु सहजक्रियाणां नाडीसम्बन्धो भवति ।
नाऽपि मस्तिष्के, तत्तु विचारविवेकेच्छापूर्वक- प्रयत्नादिक्रियाणामायतनं प्रत्यक्षशारीरवेतृभिर्निरवद्यं साधितम् । मूलप्रवृत्तीनां नाडीसम्बन्धाः शीर्षण्यग्रन्थिजालेः स्वतन्त्रनाडीमण्डले भवन्ति । इटालीदेशवासिभिः प्राणिविज्ञानविशारदैः पैगानोमहोदयैर्विशेषतोऽयं विषयो विशदीकृतः । शीर्षण्यनाडीजालं हि खलु संज्ञावाहिचेष्टावाहिनाडीसम्बन्धयुतमेवेदं मूलप्रवृत्तिरूपं कार्यं सम्पादयति । व्याख्यातमनेनैव मूलप्रवृत्त्यां सहजक्रियाऽपेक्षया चैतन्याभिव्यक्त्युत्कृष्टरूपम्, प्रयत्नाऽपेक्षातश्चैतद् यूनश्चैतन्याभिव्यक्तिरूपमिति ।
प्रागुक्तमेवाऽस्माभिर्यन्मूलप्रवृत्तिर्निखिलमनोवृत्तीनां त्रिविधवर्गीकरणस्य समस्तं रूपमभिव्यञ्जयति। अस्त्यत्रैको विशेषः । अध्ययनशिक्षणार्जितक्रियायादिभिर्मूलप्रवृत्ति- प्रथमाङ्गं प्रत्यक्षनिर्मितं संज्ञावाहिनाडीसंस्थानं वा नाडीतन्त्रपक्षेऽन्तिमं चाङ्गं चेष्टारूपं चेष्टावाहिनाडीसंस्थानं वा नाडीतन्त्रपक्षे कालान्तरे मानवेषु सभ्यतासंस्कृति- सामाजिकशिष्टाचारोत्कर्षापेक्षया महत् परिवर्तनं बिभ्रतः । किन्तु मध्यमाङ्गं संवेगात्मकं मूलप्रवृत्तीनां कक्ष एव । मानवानामितरपशुभ्यो नास्ति कोऽप्यन्तरविशेषप्रयोजकः । मूलप्रवृत्तयो हि पशुषु मानवेषु च समानरूपेण समुपलभ्यन्ते । अत एवाऽस्ति प्राचीनमाभाणकम्। तद्यथा-
आहारनिद्राभयमैथुनञ्च सामान्यमेतत् पशुभिर्नराणाम् ।
धर्मो हि तेषामधिको विशेषो धर्मेण हीनाः पशुभिः समानाः । । इति ।
सुतरां संवेगाख्यो मूलप्रवृत्तिभागोऽहमहमिकयाऽभिनिविष्टानामुत सभ्यम्मन्यानामपि सदैव विद्यते। तस्य च नग्नं रूपं विधुरे काले स्फुटीभवति । अनुभूयते चेदं सर्वदा तेन तेन मानवेन तत्तन्मूलप्रवृत्त्यवसरे । प्रतिशोधावसरे दुर्भिक्षे वा मानवोऽपि पश्वभिन्नव्यवहारमाचरति । उक्तं हि-
"बुभुक्षितः किं न करोति पापं क्षीणा जना निष्करुणा भवन्ति” इति।
अपि च - "कामातुराणां न भयं न लज्जा" इति।
अतो व्याख्यातं जन्मजातानायासप्रवर्तितप्रत्यक्षसंवेगक्रियासंवलितमूलप्रवृत्ति-रूपमिति ।
कति मूलप्रवृत्तीनां संख्या ?
सम्पादयतुसम्प्रति वयं मैकडूगलमहोदयाभिमतमूलप्रवृत्तीनां विशेषेणोल्लेखं करिष्यामः। प्रधानतमाः सन्ति हि खलु चतुर्दश मूलप्रवृत्तयः । पूर्वास्तु त्रयोदश समाना: पशुषु मानवेषु च। अन्तिमा तु केवलं मानवेष्वेवोपलभ्यते । एता मूलप्रवृत्तयो निम्नलिखित- तालिकया संवेगविवरणोपेता विवृता भवन्ति - [१]
संख्या | मूलप्रवृत्तिनामानि | तत्सम्बद्धसंवेगनामानि | आङ्ग्लनाम |
१ | भोजनान्वेषणम् | बुभुक्षा | The instinct of food-seeking and the emotion of appetite. |
२ | पलायनम् | भयम् | The instinct of flight and the emotion of fear. |
३ | युयुत्सा | क्रोधः | The instinct of pugnacity and the emotion of anger. |
४ | औत्सुक्यम् | आश्चर्यम् | The instinct of curiosity and the emotion of wonder. |
५ | सर्जनमुत विधायकत्वम् | रचनात्मक आनन्दः | The instinct of construction and the emotion of creativeness. |
६ | सञ्चयः सङ्ग्रहो वा | स्वत्वम्, लोभः | The instinct of acquisition and the emotion of possession. |
७ | विकर्षणम् | घृणा | The instinct of repulsion and the emotion of disgust. |
८ | समवेदनाप्रकाशनम् | करुणा | The instinct of appeal and the emotion of helplessness. |
९ | पुत्रैषणा | वात्सल्यम् | The instinct of parenthood and the emotion of tenderness. |
१० | प्रजननं कामप्रवृत्तिर्वा | वासना | The instinct of mating and the emotion of sexuality. |
११ | सामूहिकजीवनैषणा | एकाकिभाव: | The instinct of gregariousness and the emotion of nostalgia. |
१२ | आत्मगौरवप्रदर्शनम् | अहङ्कारः | The instinct of self-assertion and the emotion of self-elation. |
१३ | दैन्यम् | आत्महीनता | The instinct of self-abasement and the emotion of subjection. |
१४ | परिहासः | हर्षः, आमोदः | The instinct of laughter and the emotion of amusement. |
एता मूलप्रवृत्तयस्त्रिधा वर्गीकर्तुं शक्यन्ते । तद्यथा-
(अ) आत्मरक्षासम्बन्धिन्यो मूलप्रवृत्तयो यथा - भोजनान्वेषणम्, पलायनम्, युयुत्सा, औत्सुक्यम्, विधायकत्वम्, सङ्ग्रहः, विकर्षणम्, समवेदना च ।
आ) जातिसंरक्षणात्मिका मूलप्रवृत्तयो यथा - व्यवायः, पुत्रैषणा च ।
(इ) सामाजिकमूलप्रवृत्तयो यथा - सामूहिकजीवनैषणा, दैन्यम्, आत्मगौरवः, परिहासः ।
एतासु मूलप्रवृत्तिषु भोजनान्वेषणं जन्मत एवोपलभ्यते। यत्किञ्चिदपि बालकः स्वहस्तयोर्गृह्णाति तत्सर्वं कन्दुकमङ्गुलिं तृणं यष्टिं वा, मुख एव निवेशयति । स्तनपानन्तु तस्य सांसिद्धिकी प्रवृत्तिं द्योतयति । जन्मत एव शूकरशुनोर्वैरभावजन्या युयुत्सामूलप्रवृत्तिरपि सँल्लक्ष्या। प्रौढमानवे तरुणे वा मूलप्रवृत्तिकार्याणि परिवर्तितानि जायन्ते सामाजिक- नियन्त्रणनैतिकनियन्त्रणादिभिः।
मैकडुगलमहोदयानां मतेऽन्याश्चतस्रः सामान्यप्रवृत्तयोऽपि जन्मजाता उपलभ्यन्ते, किन्तु तासु संवेगाभावो भवति । स यथा - सङ्केतः, सहानुभूति: २, अनुकरणम्', क्रीडनमिति । दृश्यते हि तास्वप्यनायासप्रवृत्तिर्बालकानाम्, अतस्तासां सत्त्वमप्यनिवार्य- मिति तेषां मतम्। वयं सामान्यप्रवृत्तीनां पृथक्तः सविस्तरं विवेचनमग्रे करिष्यामः। प्रथमं तावद् विविधमतानां मूलप्रवृत्तिस्वरूपनिर्धारणविषये महत्त्वपूर्णमुल्लेखनं करणीयमेव ।
मूलप्रवृत्तिविषयकेतरमतोपन्यासः
सम्पादयतुमूलप्रवृत्तिस्वरूपविषये हि खलु महान् विवादः समजायत । सम्भवतोऽन्या काचिदेवम्भूता जटिला विवादास्पदीभूता समस्याधुनिकमनोविज्ञाने नोद्भाविता। व्यवहार- वादिनो मूलप्रवृत्तीनामस्तित्वं नैवाङ्गीकुर्वन्ति । मनोवैज्ञानिकैश्च मूलप्रवृत्तीनां वर्गीकरणमपि स्वेच्छानुसारं पृथगेव निदर्शितम् । वयमत्र तद्विवादस्य काञ्चिद् रूपरेखां प्रदर्शयामहे । आङ्गलदेशीया महान्तोऽर्थशास्त्रिण एडमस्मिथमहोदयाः सहानुभूतिरूपां मूलप्रवृत्तिमेव मानवव्यवहारस्य आधारभूतामनुमन्यन्ते । ट्राटरमहाभागाः [२] सामाजिकजीवनेच्छारूपा मूलप्रवृत्तिरेव निखिलमानवव्यवहारस्य चूलिकेति मन्यन्ते । फ्रायडमहोदयाः कामप्रवृत्ति- समग्रमानवजीवनस्य स्रोतस्विननीतिमन्यन्ते । यद्यपि ते महाभागा उत्तरकालीनग्रन्थेष्वात्म- रक्षात्मकप्रवृत्तिमृत्युमूलप्रवृत्तिद्वयस्य सत्तामपि स्वीचक्रुः । जेम्समहोदया द्वात्रिंश- न्मूलप्रवृत्तीनां सत्त्वं स्वीकृतवन्तः। तासु स्तनपानम्, क्रन्दनम्, गमनमुपसर्पणं वा, जिज्ञासा, मिलनसारित्वम्, लज्जालुत्वम्, स्वच्छताप्रियत्वम्, पादाधःसम्भारदानम्', अनुकरणम्, युयुत्सा, सहानुभूतिः, अन्धकारमयस्थलभयः, जिज्ञासा, प्रेम, ईर्ष्यत्यादीनां समावेशोऽपि कृतः। स्पष्टमेवेदं यत्तासु स्वच्छताप्रियत्वादिकाधीतक्रियाणामप्यन्तर्भावः सञ्जातः।
विलयमजेम्समहोदयेन मूलप्रवृत्तीनां परिवर्त्तनशीलत्वानुकारितत्वमपि समुल्लिखितम् । तदनन्तरं मैकडूगलमहोदयेन यथापूर्वं वर्णितं मतमुल्लिखितम्। अमेरिकनदेशीयैः थार्नडाइकमहोदयैरपि मूलप्रवृत्तीनां द्विविधं वर्गीकरणं कृतम्। तद्यथा-वैयक्तिकमूलप्रवृत्तयः, सामाजिकमूलप्रवृत्तयश्चेति। तासु मूलप्रवृत्तिषु तैर्महाभागैः शताधिकानां मूलप्रवृत्तीनां समावेशः कृतः'। कालान्तरे थार्नडाइकमहोदयाश्चत्वारिंशन्मूलप्रवृत्तीरेवाऽङ्गीकृतवन्तः। अस्ति हि तेषां मतस्य मैकडुगलमहोदयमतान्महान् भेदः। संवेगाभिरूढैव मूलप्रवृत्तिर्भवति, यद्वा संवेगं विना मूलप्रवृत्तिनैवं स्वरूपं लभत इति मतं तैरपास्तम्। तन्मते मूलप्रवृत्तेरियं परिभाषैव पर्याप्ता यद्धि मूलप्रवृत्तिरनधीता क्रिया भवतीति । तत्सूच्यां प्रायो मैकडुगल- परिगणितसमग्रमूलप्रवृत्तीनामन्तर्भावो लक्ष्यते। सङ्क्षिप्तसंस्करणे परिगणिता मूलप्रवृत्तयः काश्चनैवंप्रकारेण वर्गीकृताः समुपलभ्यन्ते । तथा हि-
(अ) वैयक्तिकाः – मौलिकं ध्यानान्वितत्वम्, स्थूलशरीरनियन्त्रणम्, भोजनप्राप्तिः, संरक्षात्मकप्रतिक्रिया, क्रोधः - इत्यादयः ।
(आ) सामाजिकाः - मातृव्यवहारः, मानवेषूपस्थितेषु सत्सु प्रतिक्रिया, तेषां प्रशंसायां प्राप्तायां सत्यां प्रतिक्रिया, तेषां निन्दायां प्राप्तायां सत्यां प्रति- क्रिया, आत्मगौरवप्रवृत्ति, दैन्यभाव:, अनुकरणमित्यादयो मूलप्रवृत्तयः ।
वारेनमहोदयैः षड्विंशतिर्मूलप्रवृत्तयोऽङ्गीकृताः। सामाजिकमनोविज्ञानविशारदा वर्नार्डमहाभागाः स्वकीये ग्रन्थे दशोत्तरशतं मूलप्रवृत्तयोऽङ्गीकर्त्तव्या भवन्तीति स्वीकुर्वन्ति [३]। ड्रेवरमहोदया मैकडुगलप्रदर्शितशैलीमेवानुसरन्ति तथापि तैर्मूलप्रवृत्तीनां वर्गीकरणमन्य- प्रकारेणैवोद्भावितम्।
===ड्रैवरमहोदयानां वर्गीकरणम्=== [४]
जन्मजाताः प्रवृत्तयः –
1) संवेदनात्मिकाः
1.1) सामान्याः – यथा – सुखवेदनीये प्रवृत्तिः दुःखवेदनीयान्निवृत्तिः
1.2) विशिष्टाः – बुभुक्षा, पिपिसा, निद्रा, कामवृत्तिः, वमनम्
2) प्रतिक्रियात्मिकाः
2.1) विशेषाः –
2.1.1) विशुद्धाः (स्युरपरिमेयाः, सहजक्रियाभ्यश्चाव्यावर्त्याः। तासां किञ्चिन्निर्दशनम्) यथा- सामञ्जस्यस्थापनप्रतिक्रिया, ध्यानम्, भयप्रतिक्रिया, गमनप्रतिक्रिया, ध्वन्यात्मकप्रतिक्रिया
2.1.2) संवेगात्मिका – क्रोधः, आखेटः, सङ्ग्रहप्रवृत्तिः, जिज्ञासा, सामूहिकजीवनेच्छा, कामवृत्तिः, आत्मप्रदर्शनम्, आत्मदैन्यम्, वात्सल्यम्।
2.2) सामान्याः – क्रीडनम्, प्रयोगकरणम्, अनुकरणम्, सहानुभूतिः, सङ्केतार्हत्वम्
उपर्युद्धृतया तालिकयेदं स्फुटीभवति यद्धि ड्रेवरमहोदयानां वर्गीकरणं मनोवैज्ञानिकीं शैलीं विशेषेणाऽनुसरति। तन्मते संवेदनात्मिका मूलप्रवृत्तयस्ता भवन्ति यादृशासु सुखवेदनीयेनोत्तेजकेनोत्पादिता सुखसंवेदनानुभवपरिमितैव मूलप्रवृत्तिर्भवति, किमुत दुःखवेदनीयेनोत्तेजकेनोत्पादिता दुःखसंवेदनानुभवपरिमितैव मूलप्रवृत्तिर्भवतीति।
प्रतिक्रियात्मिका मूलप्रवृत्तयस्त्वपरथा ता भवन्ति यादृशासु सुखवेदनीयेनोत्तेजकेनो- त्पादिता सुखसंवेदनानुभवपरिमितैव मूलप्रवृत्तिर्भवति, किमुत दुःखवेदनीयेनोत्तेजकेनो- त्पादिता दुःखसंवेदनानुभवपरिमितैव मूलप्रवृत्तिर्भवतीति प्रतिक्रियात्मका मूलप्रवृत्तय- स्त्वपरथा ता भवन्ति यादृशीषु विशेषपदार्थेन परिस्थितिवेशेषण वा जन्यमानो- त्तेजनायाः प्रतिक्रियामुखेन प्रवृत्तिः प्रवर्तते, तस्याः प्रवृत्त्याश्च लक्ष्यं तत्पदार्थसम्बन्धि तत्परिस्थित्यनुबन्धि वा भवत्येवेति [५] । वस्तुतः प्रतिक्रियात्मिका जन्मजाताः क्रियैव मूलप्रवृत्तिरूपतां भजन्ते । प्राध्यापकमैकडुगलमहाभागानां वर्गीकरणं स्वरूपविवेचनञ्च मूलप्रवृत्तीनां सङ्क्षिप्तं सारवच्च प्रतिभाति । तदेव विशेषेणाद्रियते विद्वद्भिः ।
मूलप्रवृत्तीनां जन्मजातरूपवत्त्वमपरे नाङ्गीकुर्वन्ति। ते विशेषतो व्यवहारवादा- नुसारिणः । १९८१ वैक्रमाब्दे वर्नार्डमहोदयः [६], यस्य मतं पूर्वमुद्धृतम्, 'मूलप्रवृत्ति' नामकं स्वकीयं ग्रन्थं प्रकाशितवान् । तस्मिँश्च ग्रन्थे शतचतुष्टयलेखकानां कृतिषु 'मूलप्रवृत्तिः' इति शब्दस्य प्रयोगं व्यवहृतं समालोच्योपहासपूर्णत्वं मूलप्रवृत्तिसिद्धान्तस्य प्रदर्शितवान्। तेनाकलितं यद्धि मूलप्रवृत्तिशब्दस्य ६००० षट्सहस्रप्रेरणासु क्रियासु वा प्रयोगो दरीदृश्यते। प्राध्यापकयर्कीस-ब्लूमफील्डमहोदयाभ्यां प्रदर्शितं यद्धि मार्जारैर्मूषकहनन-मंशतोऽधीतमेवास्ति । प्राध्यापकडनलप - वाट्सनमहोदयाभ्यां जानहापकिन्सविश्व- विद्यालयीयमनोवैज्ञानिकप्रवराभ्यां प्रचालितं मैकडुगलादिभिरभिमतं मूलप्रवृत्तिविषयकं मतं भृशमालोचितम्। द्वाभ्यामेव साग्रहं समदं प्रतिपादितं यद्धि मानवव्यवहारोऽ- धिकतमांशे, विशेषतश्च प्रौढव्यवहारे, शिक्षणप्रभावान्वितत्वान्नास्ति सहजं जन्मजातं वेति । वाट्सनमहोदयस्तु शिशुवृत्ताध्ययनपूर्वकमिदं मतमुद्भावितवान् यद्धि भयं वामहस्तवत्त्वं दक्षिणहस्तवत्त्वं वाऽनुभवाभ्यामनियतं भवति । जानूपसर्पणम्, स्थानम्, गमनमित्यादीनि बहूनि क्रियाजातान्यंशतोऽधीतानि सन्तीति ।
तदनन्तरं कैश्चिन्मनोवैज्ञानिकैर्मूलप्रवृत्तिशब्दप्रयोगेऽर्थद्वयास्तित्वमुद्धाटितम्। यथा कदाचन तु मूलप्रवृत्तिशब्दप्रयोगः स्तन्यपानयुयुत्साऽन्धकारस्थलभयादिषु दृश्यते । कदाचन चापरथा कामप्रवृत्तिबुभुक्षासङ्ग्रहादिप्रेरणासु व्यवहारजनकास्वयं शब्दो व्यवह्रियत इति। राबर्टवुडवर्थमहोदयेन [७] उपर्युक्तार्थद्वयानुसारं 'मैकेनिज्म' किं वा यान्त्रिकक्रियेति प्रथमार्थप्रदर्शनाय, ‘ड्राईव ' किं वा प्रेरणेति द्वितीयार्थप्रदर्शनाय च द्वौ शब्दौ व्यवहृतौ । प्रथमवर्गीयाः क्रिया 'यान्त्रिकक्रिया' भवन्ति, यतो हि व्यापारः क्रिया वा यन्त्रवत् केनचिदपरेण कर्त्रा परिचालयितुमपेक्षते । द्वितीयवर्गान्तर्गता: प्रेरणानामधेयाक्तय विद्युच्छक्तय इव भवन्ति, यया परिचाल्यते । वस्तुतो नहि वर्गद्वये कोऽपि विनिगमकविशेषो वर्तते यतो ह्येकदा परिचालितं यन्त्रं स्वकीयां प्रेरणां शक्तिरूपामवाप्तुमर्हति यथा हि सङ्गीतमधीयानः शिशुः स्वयमेव गानेन प्रोत्साहनं सम्प्राप्तसाफल्यप्रशंसनहर्षजनितं प्राप्नोति। एवं प्रकारेणान्या अपि अर्जितक्रिया विशिष्टव्यवहारश्च कमपि मानवं नूतनतरां प्रेरणां भाविनि कार्ये जनयन्त्येव । वुडवर्थमहोदयो मैकडुगलमहोदयं तदनुकारिणश्चान्यान् मनोवैज्ञानिकान् समालोचितवान्, यतो हि ते नियतसंख्याकमूलप्रवृत्त्या दिभिर्निखिलमानव- व्यवहारो जन्यत इति मन्यन्ते।
सन्ति हि खल्वन्ये ये नियतसंख्याकमूलप्रवृत्तिसमाश्रयणेन मनो विविधशक्तिजाते विभक्तमिति ज्ञात्वा भयभीता जायन्ते । यथा हि प्राध्यापकप्रवरौ गाल्टहावर्डमहोदयौ मैकडूगलमतसमालोचनावसरे कथयतः [८]।
अपि च सन्त्यन्ये प्राध्यापकसरजूप्रसादचौबेमहोदया [९] इव ये मैकडूगलमतं तिरस्कुर्वन्ति, यतो हि तैः कोऽपि प्रयोगशालीयप्रयोगोऽस्मिन् मूलप्रवृत्तिविषये न समाश्रितः । आश्चर्यं हि महत्खल्विदं यद्धि ते महाभागा मानवव्यापारस्य सूक्ष्मनिरीक्षणं मनोविज्ञानस्य चरमं साधनं नैव मन्यन्ते । प्रयोगोऽपि निरीक्षणप्रकार एव । प्रयोगस्तु निरीक्षणपूरकत्वेन प्रयुज्यते । मानवव्यवहारस्य यावत् सुसूक्ष्मपर्यवेक्षणं प्राध्यापकप्रवरेण मैकडूगलमहोदयेन समाश्रितं विश्लेषितञ्च तच्च तेषां ग्रन्थद्वयस्य 'मनोविज्ञानस्य रूपरेखा' ‘सामाजिकमनोविज्ञानस्य भूमिका' संज्ञकस्य प्रतिपृष्ठं साक्षीकरोति । नहि चौबेमहोदयैः काऽपि स्वकीया युक्तिः प्रयोगनिरीक्षणपुरस्सरा मैकडुगलमतखण्डनाय प्रस्तुताः। मूलप्रवृत्तिविषयस्त्वेतावान् विवादग्रस्तः सञ्जातो यद्धि तस्य समाधानं कैण्टरप्रभृतिमनो- विज्ञानाचार्याणामुल्लेखनमात्रेणैव कर्तुं न पार्यते ।
तथाकथितार्वाचीनमतानां समालोचनम्
सम्पादयतुव्यवहारवादिनां मूलप्रवृत्तिमस्वीकुर्वाणानां ग्रन्थेषु तेषां मतमर्वाचीनमिति प्रथते । वयमप्यत्र तथाकथितमर्वाचीनमतं सङ्क्षेपत आलोचयामो येन तज्जनितभ्रान्तीनां परिहारः सम्भवेत्, असमीचीनत्वञ्चार्वाचीनमतस्य सम्भवेत्।
यान्त्रिकवादसप्रयोजनवादयोर्भेदजनकत्वम्
सम्पादयतुमूलप्रवृत्त्यादिसहितनिखिलमानवव्यवहारस्य प्रयोजनात्मकत्वम्। अस्ति हि खलु मनोविज्ञानेतरविज्ञानानां यान्त्रिकवादात्मिका प्रवृत्तिः । इतराणि भौतिकविज्ञानरसायन- विज्ञानादीनि निष्क्रियं जडं तत्त्वं विवेचयन्ति, तस्य रासायनिकपरिवर्तनादिषु संवेगेच्छादीनां प्रभावो नैव लक्ष्यते। अतस्तेषां परमं वस्तुतन्त्रात्मकत्वं यानि विज्ञानानि नियतकार्यकारण-
साहचर्यान्वितं स्वस्वविषयजातं मन्यन्ते, ते यान्त्रिकवादसंज्ञयाऽभिधीयन्ते। तां यान्त्रिकवादा- भिमतां प्रवृत्तिं केचन मनोवैज्ञानिका मनोविज्ञानक्षेत्रेऽप्यावहन्ति । तत्र द्वे विचारधारे एका ‘निखिलं मानवव्यवहारजातं मूलप्रवृत्त्यादिसहितं सप्रयोजनात्मकम्' इति मतमाश्रयते, द्वितीया च ‘सर्वो मानवव्यवहारो यान्त्रिकवादाभिमतरीत्या सहजक्रियापुञ्जीभूत एव' इति मतमातनोति'। सहजक्रिया प्रागुक्तरीत्या शारीरिकी क्रिया, नहि तस्यां विचारेच्छानिश्चयादयः प्रवर्तन्ते, तत्सौषुम्णिकनाडीसम्बन्धजनितत्वाद् मस्तिष्कस्य चेच्छाविचाराद्यधिष्ठानत्वात्। जडीभूतानामिव मानसिकक्रियाणां यदध्ययनम्, यद्धा जडशरीरस्य रासायनिकविकारहेतुतां निखिलमानवव्यापारस्य, चैतन्यस्याऽपि यत्स्वीकरोति, तदस्ति यान्त्रिकवादात्मकं मनोविज्ञानम्। तद्विलक्षणमस्ति सप्रयोजनात्मकत्ववादिशैण्डमैकडुगलननटिचनरड्रेवर- प्रभृतीनां मनोवैज्ञानिकपुङ्गवानाम्। नहि यान्त्रिकवादात्मकं मनोविज्ञानाध्ययनं समीचीनम्, विकल्पासहत्वात्। मानवीयो व्यवहारो यथा नैतिकमाचरणम्, विचारः, धर्माधर्मविवेकः, इत्यादिः सर्व एव सप्रयोजनात्मकः ।
नहि यान्त्रिकवादोऽन्येषु मानवीयेषु शास्त्रेषु विज्ञानेषु चैकान्ततः समाश्रीयते, यथा नीतिशास्त्रे, सौन्दर्यशास्त्रे, राजशास्त्रे, समाजशास्त्रे वेति। सन्ति हि खलु केचन मानवविकासविज्ञानवेत्तारः प्राणिविज्ञानविशारदाश्च यैर्यान्त्रिकवादो मानवविकासाध्ययनेऽप्यवलम्ब्यते, येषां च स्खलितमतानां विस्तारोऽर्वाचीनमतोद्भावकैः स्वे स्वे ग्रन्थे क्रियते यत्र तत्र । तद्व्याख्याऽपि विरूपा जायते । नहि मानवः स्थाणुः, नापि परमाणुः, नापि द्रवः, नापि सम्मिश्रितं तत्त्वम्, येन यान्त्रिकवादसरणिर्मानव- व्यवहाराध्ययनात्मकेषु मनोविज्ञाननीतिशास्त्रसमाजशास्त्रादिषु समादरणीया भवेत् । पदे पदे स्वनिश्चयपूर्वकं मानवः परिस्थित्याः स्वामी भवति, स्वानुकूलाञ्च तां करोति, तदनुकूलो वा स्वयमेव जायते । नहि प्रयोजनविरहितस्य कोऽपि व्यापारः । 'प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते' इति हि प्राचीनमाभाणकम् । ननमहोदयानामग्रगण्याङ्गल- देशीयविश्वविश्रुतशिक्षाविशेषज्ञानामिदं वचनं सर्वथोपयुज्यते यद्ध्यस्ति निखिलो मानवव्यापारः प्रयोजनान्वितः । प्राणिविज्ञानविशारदलीबमहोदयानामालोचनावसरे तेषां वचनान्यतीवोल्लेखनीयानि [१०]। तथा हि लीबमहोदयानां कृत्रिमगर्भाधाने कृत्रिमपशुसंवर्धने च मूलप्रवृत्तिरचनायां रासायनिकाङ्गान्वितत्वे सम्पादिताः प्रयोगा निःसन्देहमतीव प्रभावोत्पादकाः। तैस्तेभ्यो या आशा प्रदत्ता ननु सा केवला पुण्याशैवासीदिति वयं वक्तुं प्रभेवम-यद्धि कालान्तरे निखिलाभिलाषप्रयत्नसङ्घर्षनैराश्यकष्टा(तपस्या?)- दीनामाजन्मनो मृत्युपर्यन्तं जीवनस्य विषयीभूतानां किमपि भौतिकरासायनिकं व्याख्यानामवाप्स्यत' इति। पुण्याशैवेत्यनेन मोघा आशा निष्फला आशेति सूचितम्। प्रथमाऽध्यायेऽस्माभिः प्राणिविज्ञानमनोविज्ञानसम्बन्धप्रदर्शनावसरे प्राणिविज्ञानस्येयं यान्त्रिकवादाभिनिवेशयुक्ताऽध्ययनदृष्टिः सङ्केतिता ।
केवलभौतिकरासायनिकक्रियापुञ्जीभूतं स्वेच्छानिर्णयविवेकस्वातन्त्र्यविरहितमेव निखिलं मानवव्यवहारजातमिति मतं नैवोपयुज्यते । मन्येऽर्वाचीनमतोद्भावका मनोवैज्ञानिकं व्याख्यानं पदार्थविज्ञानानामितरेषां व्याख्यानमिव प्रतीयेत। मन्ये प्रवृत्तिरियं मनोविज्ञानस्य वास्तविकं मौलिकं स्वरूपं वैशिष्ट्यञ्चा- पाततस्तिरोहति। सर्व एव मानवीयो व्यवहारश्चैतन्यरूपमनसो वृत्तिव्यापारेणोतप्रोतः । एतस्मिन्नेवास्त्यस्य मनोविज्ञानाध्ययनस्य वैशिष्ट्यं यद्धीदं मानवसुलभसत्यत्व-शिवत्व- सौन्दर्यविषयकप्रतिमानानां तत्तद्व्यक्तिविचारेच्छाप्रवर्तमानानां निश्चितानां समादरं करोति । नह्यनेनेदमनुमेयं यद् वयं चरमयान्त्रिकवादस्य मनोविज्ञानक्षेत्रेऽनुप्रवेशविगर्हणायां कार्यकारणनियतत्वमपि विगर्हामः ।
अस्ति कार्यकारणनियमापेक्षा तादृशी मनोविज्ञानेऽपि यादृशीयं पदार्थविज्ञानेषु भवति । किन्तु मनोविज्ञानस्य पदार्थविज्ञानादस्यैकं महद् वैशिष्ट्यम्, यद्धीदं कारणसङ्घाते मनुष्यस्य भावनाविचारसंवेगेच्छोद्भूतपरिस्थितेरपि समावेशं समीचीनं मन्यते । एवं प्रकारेण मनोविज्ञानस्य कार्यकारणनियमो जडापरिवर्त्यनिष्क्रियप्रतिपाद्यविषयमात्र एव नास्ति । स्थाने खल्विदं मनोवैज्ञानिकं तथ्यं यत्र हि कोऽपि मानवीयो व्यवहारो मानसिको वा व्यापारोऽकारणं न जायते । किन्तु कारणमिति वचने मानसिककारणान्यप्यन्तर्भूतान्यूह्यानि । बाढम्, नहि किञ्चिदकस्माद- कारणाज्जायते। एवं व्याख्यातं मनोविज्ञानं सप्रयोजनात्मकं मनोविज्ञानमिति संज्ञां बिभर्ति। आङ्गलभाषायां 'हार्मिक साइकोलॉजी' इत्यभिधानेन प्रथते । मनोविज्ञानस्य समुदारायां व्याख्यायामन्यमनोविज्ञानसम्प्रदायप्रवर्तितसमीचीनतथ्यान्यपि सामञ्जस्यं लभन्ते। अतः सिद्धो मूलप्रवृत्तिसमाश्रयविरोधो यान्त्रिकवादाभिभूतव्यवहारवादजन्य:, मानवसुलभ- प्रकृतेर्महोपेक्षागर्भितः।
ननु किमस्ति प्रयोजनं मूलप्रवृत्तिसिद्धान्तसमाश्रयणे ? आत्मसंरक्षणं जातिक्रमाऽ- व्यवच्छेदश्च द्वौ पशुमनुष्यसुलभौ नैसर्गिकौ हेतू, याभ्यां प्रेरिताः प्राणिनो मूलप्रवृत्तिरूपां प्रतिक्रियामाचरन्ति । एते नैसर्गिके प्रयोजने विधात्रा प्राणिनां जीवनधारणार्थं जन्मतः प्रागेव नियोजिते, अथवा चिरन्तनसञ्चितानुभववासनानां वंशानुक्रमागतोपयोगिक्रिया- सङ्ग्राहकत्वजनिते एते प्रयोजने इति विकासवादिनो मन्यन्ते। यस्याञ्च परिस्थितौ त्वरिता प्रतिक्रियाऽनिवार्या भवति, तदर्थमेव प्रकृत्याऽयं प्रबन्धो मूलप्रवृत्तिरूपोऽङ्गीकृतः । मनुष्याय सामाजिकी मूलप्रवृत्तिर्हासप्रवृत्तिश्च विशेषेण नियोजिते, यतो हि तयोरावश्यकता परस्परसम्मेलनसहयोगसम्भाषणादिष्वनुदिनमनुभूयते। नहि पशुजीवनमपि सर्वथा सामाजिक- प्रवृत्तिविरहितम्। दृश्यते हि गवामियं प्रवृत्तिर्यद्धि ता इतरगवादिपशुभिः सहैव बहिश्चरणाय प्रस्थातुमिच्छन्ति, तदभावे चातिव्याकुला भवन्ति ।
मानवेष्वपि बालकः शुशुर्वा स्ववयस्कैः साकमेव क्रीडतुमिच्छति । दृश्यते हि लोके द्वित्रवर्षीयो शुशुरन्यशिशुभिः सार्धं क्रीडन्नतीवानन्दं लभते, स्वभोजनादिकमपि न स्मरति । हासस्तु मानवजीवनस्य विशेषानन्दप्रदर्शिका प्रवृत्तिः । मैकडुगलमहोदया मन्यन्ते यदतीव महत्त्वपूर्णेयं प्रवृत्तिर्यतोऽनया मानवः सर्वप्राणिभिरभिलषितां सुखानुभूति प्रकाशयतीति । अतः सिद्धं प्रयोजनत्रयं मूलप्रवृत्तीनाम्। तद्यथा- आत्मसंरक्षणम्, जातिपारम्पर्यव्यवच्छेदः, सामाजिकसम्बन्धनिर्वाहश्चेति। ये ये भावा व्यापाराः क्रियाः प्रतिक्रिया वोपयोगिन्योऽनुभूयन्ते, ते ते तस्यां तस्यां जातौ वंशपारम्पर्यगुणसङ्क्रमणेन आजन्म सुलभा जायन्ते । स्मरणीयं मूलप्रवृत्तिरिति शब्देनानायासा नैसर्गिका स्वतः प्रवृत्ताः क्रिया एवाभिव्यज्यन्ते ।
नहि मूलप्रवृत्तयः प्रतिनियतसहजक्रियाः
सम्पादयतुननु मूलप्रवृत्तयौऽनधीताः क्रिया भवन्ति, नैसर्गिकत्वात्तासाम्, अतस्ता: प्रतिनियताः सहजक्रिया भवितुमर्हन्ति । एवं व्यवहारवादिनो मूलप्रवृत्तिं प्रतिनियतसहजक्रियारूपत्वेन व्याख्यान्ति। एवं सम्प्राप्तायां शङ्कायां वयं ब्रूमः - नहि मूलप्रवृत्तिः प्रतिनियतसहजक्रिया- रूपतां भजते। सहजक्रिया हि खलु मूलप्रवृत्त्यपेक्षातो निम्नस्तरीयाः क्रिया भवन्ति । सहजक्रियायां प्रागुक्तरीत्या भवन्त्येतानि कारणानि - उत्तेजकम्, उत्तेजना, तद्वाहि संज्ञावहनाडीकन्दाणुकम्, सुषुम्णायां नाडीसम्बन्धस्थलविशेषस्तत्र च प्रतिसङ्क्रान्ति- कारकमपरनाडीकन्दाणुकम्, तदनन्तरं चेष्टावाहि नाडीकन्दाणुकम्, मांसपेशी, चेष्टास्थानम्। ततः प्रसरति सहजक्रिया प्रतिसङ्क्रमितक्रियाभिधाना । नहि तादृशी मूलप्रवृत्तिर्भवति । मूलप्रवृत्तौ निस्सन्देहमुत्तेजकजनितोत्तेजनायाः प्रत्यक्षं जायते । कदाचन तु तत्प्रत्यक्षमेका- धिकेन्द्रियजन्यं भवति। भयस्थले वृक्कादिदर्शनेन दूरागतेन सह तज्जान् हुङ्कारादिगर्जनशब्दा- नाकर्णयन् पूर्वकृतहिंसाजनितदुर्गन्धं जिघ्रन् भयसंवेगमनुभूय पलायनमाचरति । अत्र न केवलमस्ति चाक्षुषं प्रत्यक्षमपि तु प्राणजं श्रोत्रजञ्च प्रत्यक्षे । सङ्क्षेपत इदं वक्तुं शक्यते- नहि सकलपरिस्थित्यवलोकनमन्तरा मूलप्रवृत्तिजन्या प्रतिक्रिया प्रादुर्भवति । निखिल- परिस्थितीनां सम्यगवलोकनान्तरमेव संवेगानुभूतेराशा सम्भवति। सम्प्रति प्रागुक्तप्रत्यक्षत्रयेण सुनिश्चितमिदं भवति यद्धि प्रत्यक्षेण' चाक्षुषाज्ञाकन्दभागा समुत्तेजिता भवन्ति ।
संवेगानुभूत्यर्थमपि शारीरिकमनोविज्ञानविशारदै रासायनिकवैद्युतिकोत्तेजनप्रकारकप्रयोगशतैः सुनिर्णीतमिदं तथ्यं यत्तस्मिन् मस्तिष्कादधस्तरीया मस्तुलुङ्गभागाः किमुत आज्ञाकन्दाः सक्रिया जायन्ते। नहि तद्विना तादृशी संवेगानुभूतिः सम्भवति यादृशी पलायने, व्यवाये, पुत्रवात्सल्ये, सहानुभूतिजनितकरुणानुभवे, युयुत्सायां वाऽनुभूयते । कुतस्तस्मात् पलायनादयो मूलप्रवृत्तय आदिष्टा भवन्ति । नहि खलु मस्तिष्कात्, तस्य विचारविवेकेच्छा- संवलितप्रयत्नायनत्वात्। प्रयोगैः सिद्धम्, स्वीक्रियते चेदं मनोवैज्ञानिकैर्यद्धि मूलप्रवृत्ति- प्रभवस्थानं शीषर्ण्यनाड्यो भवन्ति । सुतरां मूलप्रवृत्तयः सहजक्रियापेक्षया जटिलतरा भवन्ति। यदि सहजक्रिया प्रतिनियता कर्तुं शक्यते, समीचीनं हि तत् ।
नहि तेन मूलप्रवृत्तिसहजप्रवृत्तिस्वरूपभेदमपि तिरोहितुं शक्यते । सहजक्रिया: प्रतिनियता भवन्ति, इत्येतावता सिद्ध्यति यत् स्यान्मूलप्रवृत्तीनां मार्गान्तरीकरणं परिशोधनं दमनं वा परिस्थितिषु नियन्त्रणेन, यथा पैवलोवमहोदयाभ्यां प्रदर्शितप्रयोगजातैः सहजक्रियाणां प्रतिनियतत्वं सम्भाव्यते। यथा सहजक्रियाणामस्ति शिक्षणविधावुपयोगस्तथैव मूलप्रवृत्तीनामपि परिशोधनेन मार्गान्तरीकरणेन यादृशी मानवसामाजिकसंस्कृतिविज्ञानसंस्थासभ्यतोत्कर्षावस्था साम्प्रतं वर्तते, सा तस्मादप्यूर्ध्वं या काचिद् दैवी पराकाष्ठा भाविनि काले सम्भवेत् सा च सर्वथैव सम्भाव्यते । अतः सहजक्रिया स्वरूपतो निम्मस्तरीयानधीतक्रियात्वान्नहि मूलप्रवृत्तेः स्थानापन्ना भवितुमर्हति । ये तथा कर्तुमुत्सहन्ते, ते मूलप्रवृत्तिस्वरूपमनवधार्यैव तथाविधां भ्रान्तिं जनयन्ति ।
नहि मूलप्रवृत्तयोऽभ्यासरूपाः
सम्पादयतुननु सर्व एव प्रौढमानवस्य व्यवहारोऽधीतक्रियाणां पुञ्जीभूत एव लक्ष्यते । किन्तर्हि मूलप्रवृत्तिसत्त्वसमाश्रयणस्य कारणम् ? नहि काचन मूलप्रवृत्तिः स्वकीये मूलरूपे मानवेषूपलभ्यन्ते; प्रौढानां तु वार्ता कुतो बालकेष्वपि नोपलभ्यते। अतो मूलप्रवृत्तीनामङ्गी- करणं व्यर्थमेवेत्याशङ्कायां सम्प्राप्तायां वयं ब्रूमः - सन्ति हि खलु मूलप्रवृत्तयो यथा पशुषु तथा मानवेषु नैसर्गिकाऽनधीताऽनायासप्रवर्तिताऽप्रतिनियतसहजक्रियारूपा।
तुलनात्मकमनोविज्ञानविशारदैरुद्घाटितं तथ्यमिदं यदस्ति हि सुदृढं साम्यं मानवपशु- स्वभावयोः, मूलप्रवृत्तिभागित्वात्तेषाम्। ये व्यवहारवादिनो मूलप्रवृत्तिशङ्घटने वंशपारम्पर्य- जनितगुणसङ्क्रमणभीत्या मूलप्रवृत्तीनामङ्गीकारेऽप्यव्यवस्थितचेतसः प्रतीयन्ते, ते पक्षपाता- देवैवं कुर्वन्तीति वयं मन्यामहे । नहि केनाननुभूतमिदं सारल्यसमन्वितं बालकानामौत्सुक्यम्, येन ते परिस्थित्युपलब्धनिखिलवस्तूनामध्ययनं साक्षात् कर्तुमिच्छन्ति, औत्सुक्यमूलप्रवृत्ते- नैसर्गिकत्वादनधीतत्वाच्च । बालिकाः पञ्चषड्वर्षीया एव द्वित्रचतुर्वर्षीया वा पुत्तलिकाशिशुं मृत्तिकानिर्मितं शिशुं गणेशं वा स्वक्रोडेषु कृत्वा वात्सल्यभावान्वितां मूलप्रवृत्तिमूलरूप- मनुभवन्ति। कालान्तरे तस्य भावस्य परिष्कार एव जायते, यथा स्तन्यपानादिमूलप्रवृत्तेः परिवर्तितं रूपमधुना प्रौढावस्थायां सर्वथैव विलक्षणं भोजनखादनं किं वा दुग्धपानमुप- लभ्यते।
शिशूनामात्मप्रदर्शनं क्रोधप्रेरितसम्प्रहारप्रवृत्तिः, सहानुभूतिप्रदर्शनं यदा माता भगिनी वा रोदिति। माता भगिनी तु बालकं किमपि प्रदत्तेऽपि शिशुस्तु द्वित्रवर्षीय ‘थर्मस’-नामकं. दुग्धपात्रं ताडयित्वा तं रुदन्तं मन्यमानः स्वयं रोदितुं तं लालयितुं (चतुर्वर्षीयकन्यावृत्तमिदं) चोपक्रमते । स्मरणीयमत्र यद्धि यतो मूलप्रवृत्तयो नैसर्गिकाः कार्यक्षमा प्रवृत्तयोऽतस्तासामपरिवर्तनीयत्वमपि भवितव्यमिति युक्तिर्नोपयुज्यते। अनेनाग्रहेण व्यवहारवादिनां मैकडूगलमहोदयानां ग्रन्थानां सम्यक्परिशीलनाभाव एव संसूच्यते । प्राध्यापकप्रवरा मैकडुगलड्रेवरप्रभृतयः सर्वे एवेदमुद्धोषयन्ति यद् वातावरणनियन्त्रणात् मूलप्रवृत्तीनां परिशोधनं मार्गान्तरीकरणं' दमनं वा कर्त्तुं शक्यते, यतो हि मनुष्यः पशूनामपेक्षया बुद्धिविवेकेच्छाकल्पनास्मृतिभाषाविलसितः प्राणी भवति । यदि बुद्धिविवेक- पुरस्सरं मूलप्रवृत्तीनां परिवर्तनं सम्भाव्यते, तत्तु प्राणिनां परिस्थित्या साकं सामञ्जस्यस्थापन- क्षमतामेव नितरां प्रदर्शयति । मन्ये तेषामयमभिनिवेशो यान्त्रिकवादनिगडितत्वात् प्रसूयते । न चाप्ययं तुलनात्मकमनोविज्ञानेन सह सङ्गच्छते । उपपद्यते च मानवमनोविज्ञानपशुमनो- विज्ञानसम्यङ्गिरीक्षणप्रसूतमिदं मूलप्रवृत्तिस्वरूपव्याख्यानम् ।
मूलप्रवृत्त्यभ्युपगमेनापि मनस एकत्वमक्षुण्णम्
सम्पादयतुननु विशिष्टमूलप्रवृत्तिसमाश्रयणेन मनस एकत्वमक्षुण्णं नैव सम्भवति । किमुत जीवधारिण एकीभूता समन्विता वा क्रिया नैव सम्भवति, यतो जायते तस्य विविधासु मूलप्रवृत्तिसु विभाजनम्, यथा मनसो विविधासु शक्तिषु विभाजनं मन्यमानाः शक्तिवादिनो मनसः समन्वितैकीभावविरहितत्वमापाततोऽङ्गीकुर्वन्ति, एवम्प्रकारेण गाल्टहावर्डप्राध्यापक- प्रवरा [११] मूलप्रवृत्तीनामस्तित्वमङ्गीकुर्वाणा अपि मैकडुगलप्रदर्शितचतुर्दशसंख्याकमूल- प्रवृत्तिसिद्धान्तमभि स्वकीयामुपेक्षां प्रदर्शयन्ति । इयं समालोचना मैकडुगलमतासम्यगध्ययन- प्रोद्भूतेति वयं मन्यामहे । मैकडुगलमहाशयानां मूलप्रवृत्तिव्याख्यानमुदारमस्ति । नहि मूलप्रवृत्तय इतरेतरसम्पर्कसहयोगव्यावृता भवन्ति मैकडुगलमते।
नापि मनसोऽनेन निरङ्कुशविभाजनमापतति, येन प्राक्तनशक्तिवाद इव मनसो विविधपरस्परासहिष्णुविभागेषु विभक्तत्वापत्तिर्भवेत्। अस्ति हि मनसः संयोजनात्मिका शक्तिः, सङ्ग्राहिका शक्ति:, यस्या अस्तित्वमस्माभिर्मनसो विकासविवेचनावसरे द्वितीयाऽध्याये विवृतम्। तया सङ्ग्राहिकया शक्त्या विविधासु प्रतिक्रियासु तज्जनकप्रत्यक्षविचारसंवेगस्थायिभावादिषु सामञ्जस्यं स्थाप्यते। नहि तद्विरहित: प्राणी एकीभूतमद्वेतं व्यक्तित्वमपि धारयितुं क्षमते । यदि सर्वाः शक्तयः सन्नियुक्ताः स्युः, संयोजनशक्त्यधीना भवेयुस्तर्हि नास्त्यत्र काऽपि क्षतिः। मूलप्रवृत्तिस्वरूपं हि तौ स्वीकुरुत: । सन्ति हि ताः । तासां जन्मजातत्वमनायास- प्रवर्तितत्वमपि तावाचार्य्यावङ्गीकुरुतः। एवमेव मैकडुगलमहोदयोऽपि विविधमूलप्रवृत्तीनां मनसा संयोजनं स्वीकरोति, तासां परिवर्तनमपि शिक्षणाभ्यासादिनाऽनुमतमेव, नहि स मूलप्रवृत्ती: स्वतन्त्रेष्वितरेतरनिरपेक्षकक्षेषु विभक्ता मन्यते। अत इयं समालोचनाऽपि नोपपद्यते।
आधुनिकमनोविज्ञाने दृश्यते ह्येका प्रवृत्तिर्यत् केचन मनोवैज्ञानिका मनसो विविधशक्तीनां प्रत्याख्यानं कुर्वन्ति । ते शक्तिस्थाने व्यापारपदं प्रयुञ्जते। तथा हि ते कथयन्ति यन्नास्ति स्मृतिर्नाम काऽपि मनसः शक्तिः । अस्ति वै मनसो व्यापारः स्मरणमिति। एवमेव ते इच्छारूपशक्तिविशेषमपि निराकुर्वन्ति । त इच्छाऽनुभवनमेषण- मिच्छाकरणं वेति व्यापारतया व्यपदिशन्ति । समासत इदं वक्तुं शक्यते यत्ते मनसः शक्तीर्नानुमन्यन्ते। तत्स्थाने मनसः क्रिया व्यापारा वा तैरभिमताः। इयं समालोचनापि स्वारस्यविरहितेति वयं मन्यामहे । नहि कोऽपि व्यापारः स्वजनकशक्तिमन्तराविर्भवति । तदुक्तं हि कुमारिलभट्टाचार्यै: श्लोकवार्त्तिके - " न ह्यसती शक्तिः कर्तुमन्येन शक्यते " इति। अपि चास्त्ययं सत्कार्यवादस्य मूलभूतः सिद्धान्तः। तदुक्तं वै सत्कार्यवादप्रतिपादन- वेलायां सांख्याचार्येण ईश्वरकृष्णेन सांख्यकारिकायाम्-
असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् ।
शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ।। इति ।
शक्तिनिरपेक्षस्तु कोऽपि व्यापारो न प्रसरति । यदि मनसः स्मरणेच्छाकल्पनादिशक्तयो न भवेयुः, कथं तर्हि स्मरणेच्छाव्यापाराणां प्रादुर्भावोऽपि सम्भवेत् । अस्यां समालोचनायां यदभीष्टं तत्त्विदमेव यच्छक्तयः परस्परनिरपेक्षाः स्वतन्त्रा नावगन्तव्याः। सन्ति हि ताः सङ्ग्राहिकाशक्त्यधीनाः, मनसः संयोजनशक्तिपरिनियन्त्रिताः । तन्नियन्त्रणं न केवलं विचाराणामेव भवत्यपि तु क्रियाणां संवेदनादिभावानामपि। विचारेच्छास्थायिभावादयो यदि मनोव्यापारतया भवितुमर्हन्ति, किन्तेषामुत्पादनक्षमा मनसः काऽपि शक्तिर्नास्ति ? भेदात्मकेऽनुभवें एकत्वग्रहणं जीवस्य लक्षणम्। युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति स्थाने। अयुगपद्घटितानां मनोव्यापाराणामेकीभावेन ग्रहणम्, संयोजनमिति यावत्, मनस एव कार्यम्। अत्र 'मनः' इति पदं चैतन्यसमानार्थकम्। तेषां वचने विरोधाभास- प्रदर्शनाय नातीव प्रपञ्चयिष्यते, इत्युक्त्वा वयं विरमामहे । यदि मूलप्रवृत्तयोऽपि मनसो विविधाः शक्तयो भवेयुस्तर्हि नास्त्यत्र किमपि वचनीयमिति वयं मन्यामहे। अन्यच्च स्मरणीयमस्मिन् विषये यन्मैकडुगलमहोदयैर्मूलप्रवृत्तिव्याख्यानावसरे 'कायिक- मानसिकः स्वभावः' इति पदं मूलप्रवृत्तिपरिभाषायां व्यवहृतम्। 'स्वभाव' इत्युक्ते शक्त्यन्तरभावोऽपि जायते, नहि तस्य निराकरणमपि समञ्जसमिति त्ववदातमेव ।
मूलप्रवृत्तित्रयमतस्यासमीचीनत्वम्
सम्पादयतुसन्ति हि खलु केचन मनोवैज्ञानिका ये चतुर्दशमूलप्रवृत्तीनां स्थाने केवलं मूलप्रवृत्तित्रयमेवाङ्गीकुर्वन्ति । तथा हि तेऽभ्युपगच्छन्ति यन्मानवव्यवहारस्यानुव्याख्यानं तिसृभिरेव मूलप्रवृत्तिभिरहङ्कारकामप्रवृत्तिसमूहप्रवृत्तिरेव कर्तुं शक्यत इति । तन्मते त्र्यधिकमूलप्रवृत्तीनामङ्गीकरणमनावश्यकमेव । अस्य मतस्य समालोचनात् प्रागेवेदं स्पष्टीकरणं समीचीनं प्रतिभाति यन्मूलप्रवृत्तिरिति वचनेन किमस्ति तेषां तात्पर्यमिति । मूलप्रवृत्तीनां समीहितपुरुषार्थानाञ्च ते त्रिधा वर्गीकरणं प्रतिपादयन्ति । तद्यथा-
(क) मानवस्य अहङ्कारप्रवृत्तयस्ता भवन्ति यास्तस्याहम्भावं संरक्षन्ति संवर्धयन्ति च। प्रकृत्या सह तुमुलसङ्घर्षेऽन्यैः प्राणिभिश्च सह स्वकीयमस्तित्वं स्वकीयां सम्पत्तिं संरक्षितुं स एतासां मूलप्रवृत्तीनामनिवार्य्योपयोगित्वमनुभवति ।
(ख) कामप्रवृत्त्यादयस्ते शक्तिवेगाः सन्ति येभ्यो मानवो विपरीतलिङ्गिकप्राणिभिः सार्धं प्रेमसम्बन्धं विस्तारयति, प्रगाढीकरोति च ।
(ग) समूहप्रवृत्तयस्ते शक्तिवेगाः सन्ति यैः प्रवर्तितः कोऽपि मानवोऽन्यैः सामाजिकैः प्राणिभिः सह योगं प्रदत्ते, सामाजिकहितगोपनाय च युद्धादिकेषु प्रवर्तते । आभिः प्रवृत्तिभिः स्वसमूहहितचिन्तनमेव करोत्येतदस्माभिरभिप्रेतम् ।
सम्प्रति वयमिदं मतं समालोचयामः । इमास्त्रिविधा मूलप्रवृत्तयस्त्रिसंख्याका मूलप्रवृत्तयो नैव सन्तीति सुनिश्चितम् । इमाः प्रवृत्तयो मैकडुगलमहोदयानुव्याख्यातमूल- प्रवृत्तिस्वरूपापेक्षया व्यापकतरा भवन्ति जटिलतराश्चापि। ताभिर्मानवमनोविकासस्योच्च- स्तरीयावस्थाविशेषा द्योत्यन्ते । समासेनेदं वक्तुं शक्यते यन्मैकडूगलमहोदयोक्तमूलप्रवृत्तय एतासु त्रिविधासु प्रवृत्तिषु वर्गीकर्तुं शक्यन्ते । किञ्च कस्याश्चिदप्येकस्या अथवा सर्वासामेवैतासां लक्ष्याभिनिष्पत्त्यर्थमुक्रमन्ते।
उदाहरणतो युयुत्सा मैकडुगलमते सम्प्रहाररूपा मूलप्रवृत्तिः क्रोधसंवेगाभिप्रेरिता भवति, किन्तु सम्प्रहारो योधनं वोपर्युक्तेषु त्रिष्वेव लक्ष्येष्वभिमुखीभूय प्रवर्तते । यथा हि - स्वकीयं शत्रुविशेषं वारयितुमपि युद्धं प्रवर्तते, प्रतिद्वन्द्विनं पराजित्य स्वाभिलषितां रमणीं वरयितुमपि । अथवा स्वभार्यानुरक्तं पारदारिकं हन्तुमपि युद्धमुपक्रमते । आर्थिकप्रतियोगिताऽपि युद्धकारणमिति तु सुप्रथितमेव । ‘जननेतॄणामहमहमिकया युद्धानि जायन्ते' इति तु सुविदितमेव तथ्यमितिहासविचक्षणानाम्। किञ्च, समानशत्रुविरोधावसरे जातिधर्मराष्ट्रसंस्कृतिविशेषसंरक्षणार्थमपि पुरुषा युद्ध्यन्ते । एवम्प्रकारेण योधनं युयुत्सामूलप्रवृत्तिर्वोपर्युक्तलक्ष्यत्रयमेवाभिसन्धत्ते । तत्तदुपयुक्ता- वश्यकतापूर्तिञ्चावहति, यथा - अर्थावश्यकता, कामानुबन्धिन्यावश्यकता (सम्भोगेच्छा, पुत्रैषणा वा) तथा समूहसंरक्षणविषयिणी आवश्यकता, किं वा स्वजातिहितवाञ्छेति । यदि वयमेतास्त्रिविधा मूलप्रवृत्ती: स्वीकुर्याम तर्हि मूलप्रवृत्त्यर्न्तगतमूलप्रवृत्त्यन्तरस्वीकरणा- पत्तिर्नूनमापद्येत। अर्थान्मूलप्रवृत्तिशब्दस्यार्थो दन्दोलायमानतयाऽनिश्चित एव भविष्यति । अत्रेदं स्मर्तव्यं यन्मूलप्रवृत्तित्रयमुपर्युपन्यस्तं भाविनं चरमं वा पुरुषार्थं लक्ष्यीकरोति ।
जटिलतरञ्चेदम्, तस्य तत्तत्कार्यपरिणतिश्च महद्दूरदर्शित्वविचारविवेकेच्छाद्यनन्तरमेव सम्पाद्यते। नहि तथा प्राध्यापकमैकडुगलमहोदयाभिमता मूलप्रवृत्तयः । तास्त्वेकविधाः प्रवृत्तयो भवन्ति, यासां प्रतिक्रिया सम्पूर्णा त्वरितमेव जायते; विचारस्य नास्त्यत्र व्यपेक्षा। अनायासमिमाः प्रवृत्तयः प्रादुर्भवन्ति, अनधीता अनभ्यस्ताश्चैताः । लक्ष्ये प्राप्ते सति सर्वाः क्रियाः शान्ता जायन्ते । यदा चान्यदुत्तेजकं प्रेरयति, प्रवृत्तं वा जायते तदाऽन्या तदनुकूलमूलप्रवृत्तिर्जन्यते । 'ख' वर्गान्तर्भूतकामप्रवृत्त्याख्यो वेगः प्रागुक्तः । स्पष्टतो मैकडुगलमहोदयाभिमतं प्रजननप्रवृत्तिरूपमुपर्युक्तप्रवृत्तित्रयाऽपेक्षयाऽतीव सरलतरं भवति।
पुनश्च समूहाभिमुखो वेग उपर्युक्ते 'ग' वर्गे सन्निविष्टो मैकडुगलमहोदयोक्त- सामाजिकप्रवृत्त्यपेक्षयाऽतीव जटिलतरो भवति । इतरैः प्राणिभि: सह सम्मिलनेच्छा, तैर्विना चैकाकिभावानुभव इति मैकडुगलमहोदयाभिमतमूलप्रवृत्तिकथनाभिसन्धिः उपर्युक्तसमूहवेगस्य तात्पर्यन्तु नूनमेतस्मादधिकं प्रपञ्चं द्योतयति, यथा-समूहसहयोग: समाजिकसंयोजनम्, परस्परं व्यापारविनिमयादिश्च । एते सर्वे व्यापारा नहि तत्क्षणं जायन्तेऽनायासं वा, किन्तु दूरदर्शित्वसुदूरकालिकनियोजन-विचारविवेकपुरस्सरमेव तेऽभिनिर्वर्तन्ते।
या याः क्रिया विचारविवेकेच्छादूरदर्शित्वादियुक्ता भवन्ति, तासां विवेचनं सपरिकरं वयमग्रे प्रयत्नाख्येऽध्यायेऽनुव्याख्यास्यामः । मैकडुगलाभिमतमूलप्रवृत्तयस्तु प्रौढविचारपुरस्कृतक्रियाभिर्विलक्षणाः, प्रारम्भिकसरलतररूपत्वान्नैसर्गिकत्वादाशुकारित्वाच्च मूलतमा: प्रतिक्रिया भवन्ति । वस्तुत इमे त्रिविधा वेगाः स्थायिभावादिसमन्विता जटिलतराश्च भवन्ति, यान् वयं व्यक्तिजीवनसम्बन्धेषु दाम्पत्यप्रेमसम्बन्धेषु सामाजिकव्यवहारसम्बन्धेषु च बिभृमः उद्धरणे दोषः : समाप्तिः </ref>
<ref>
शृङ्खला लुप्ता
भगवद्ववचनमपि नैसर्गिकं लोकस्वभावमनुकरणमूलप्रवृत्त्याख्यमुररीकरोति। दृश्यते हि ब्राह्मणस्याध्ययनाध्यापनशीलस्य वटुको बाल्यादेवाध्ययनपरायणो भवति । द्वित्रवर्षीय एव स पत्राणि कानिचिदादाय, पट्टिकां वा स्वभ्रातुरादाय पाठशालां गन्तुमिच्छति, नाटयति च। किं कारणम् ? अस्ति हि शिशौ नैसर्गिकी सामान्यप्रवृत्तिरनुकरणाख्या । तत्प्रेरित एव स्वपितरं पुस्तकं वहन्तं भ्रातरं वा पाठशालां गच्छन्तं दृष्ट्वा सोऽपि पत्राण्यादातुं पाठशालां वा पट्टिकामादाय गन्तुमिच्छति । अपि च दृश्यते लोके कुविन्दस्य पुत्रस्य पटनिर्माणे रुचिः । अनुकरणेन अनायासमेव स पट्टनिर्माणविधिमवगच्छति । बालिका अनुकरणेनैव पाचनक्रियां केशवस्त्ररचनां कलात्मकतन्तुगुम्फनादिकमवगच्छन्ति। अनुकरणन्तावत् सिद्धं सांसिद्धिकं मूलप्रवृत्तिरूपमध्ययनस्य चरममुपयोगि साधनम् । शिक्षकाश्च सुचरिता भवेयुर्यतो हि तेषामाचारणस्यान्तेवासिचरित्रनिर्माणे गरीयान् प्रभावो दरीदृश्यते। अनुकरणविषये मनोवैज्ञानिकानां विविधमतानामुपन्यासोऽप्यस्माभिरत्र प्रपञ्च्यते, येन तत्स्वरूपं स्फुटतरं सञ्जायेत ।
थार्नडाइकमतम्
सम्पादयतुयदाऽन्ये मनोवैज्ञानिका मन्यन्ते यद् बालकोऽनुकरणादेव सामाजिकशिष्टाचारभोजना- च्छादनप्रकारविशिष्टशीलसद्धृत्तादिकं बुध्यते, मनोवैज्ञानिकप्रवरा थार्नडाइकमहोदया मन्यन्ते यद्ध्यनुकरणेन शिक्षणं नैव जन्यत इति । यदि शिक्षणमनुकरणप्रभवं भवेत्तर्हि त्रिंशद्- वर्षेष्वपि प्रतिदिनं दशघटिकापर्यन्तमनुकुर्वन् कोऽपि बालको विंशतिपेशीप्रकर्षापकर्षजन्य- शब्दोच्चारणमनुकरणद्वाराऽभ्यसितुं न प्रभवेत्। तन्मते शब्दोच्चारणे विविधा मांसपेश्यः स्वभावत एव तथाविधकर्मसम्पादनक्षमा भवन्ति । तदर्थं प्रतिनियताः सहजक्रिया एव पर्याप्ताः। दूरत्वज्ञानम्, तौलज्ञानम्, तुङ्गत्वज्ञानञ्चानुकरणेनैव सम्पाद्यते । कथं हि सा सहजक्रिया प्रतिनियता जायते, तद्व्याख्यातं पूर्वमस्माभिः पैवलोवमहोदयानां प्रयोग- विवेचनावसरेऽस्मिन्नेवाऽध्याये । अतः थार्नडाइकमहोदया मन्यन्ते - " नहि शिक्षणमनुकरण- जन्यमपि तु प्रतिनियतसहजक्रियाजन्यं सम्बद्धसहजक्रियाजन्यं वोपपद्यते” इति।
थार्नडाइकमहोदयानां मतस्यांशिकासमीचीनत्वन्तु स्फुटमेव। नह्यस्त्यस्माकं वैमत्यं यत्प्रतिनियता सहजक्रियाऽपि महत्त्वपूर्णशिक्षणप्रकारो भवति । किन्तु अनुकरणं शिक्षणजनकं नास्तीति नैवानुभवेन साकं सङ्गच्छते । शब्दोच्चारणरूपा सहजक्रिया सर्वेषु मानवेषु समाना, सहजक्रियात्वात्। कथन्तर्हि यवनानीफ्रेञ्चजर्मनसंस्कृतप्राकृतापभ्रंशार्यभाषाभेदः सम्पद्यते? अस्ति चैकस्या भाषाया एवोच्चारणे देशकालनिमित्तैर्महान् भेदः। नहि सर्वमिदं वैचित्र्यमनुकरणं विनोपपद्यते । मन्येऽनुकरणजन्यं भाषोच्चारणशील- सदाचारवेषभूषादिप्रयुक्तं साम्यं वैचित्र्यमिति ।
अनुकरणसामान्यप्रवृत्तेर्वर्गीकरणम्
सम्पादयतुअनुकरणाख्यां सामान्यप्रवृत्तिमङ्गीकुर्वाणा अन्ये मनोवैज्ञानिका अनुकरणं वर्गीकृत्या-नुव्याख्यायन्ते। वयमत्र कर्कपैट्रिकड्रेवरमहोदयाभ्यां मनोवैज्ञानिकशिरोमणिभ्यां प्रदर्शितं वर्गीकरणद्वयमत्र समासतोऽनुव्याख्यास्यामः । प्रथमं तावत् कर्कपैट्रिकमहोदयोक्तं वर्गीकरणं व्याख्यास्यामः, यन्मैकडुगलकृतवर्गीकरणेन सह महत् साम्यं बिभर्ति । कर्कपैट्रिकमहोदयाः पञ्चप्रकारकमनुकरणमनुमन्यन्ते । तद्यथा-
(१) सहजानुकरणम् - यथा जृम्भमाणमन्यं पुरुषं दृष्ट्वाऽपरोऽपि जृम्भण- प्रवृत्त्यभिमुखो भवति।
(२) स्वाभाविकमनुकरणम् - यथाऽन्यं पुरुषं किमपि कर्म कुर्वन्तं दृष्ट्वा कोऽपि मानवः स्वयमेव तत्कर्म कर्तुमभिप्रवृत्तो भवति । छात्रावासे स्वकक्षस्थमन्यं छात्रं द्वादशवादनं यावद्रात्रौ पठन्तं दृष्ट्वाऽपरोऽपि बद्धपरिकरो भूत्वा तद्वदेवाधीते । एकां स्त्रीं वेणीद्वयं रचमानां दृष्ट्वान्याऽपि काचिदापणादचिरादेव वेणीद्वयक्रयार्थं गच्छति, आनयनान्तरञ्च तां तथैव रचयति। एवम्प्रकारेण प्रकारभेदात् पुरुषबालकस्त्रीवृद्धेष्विदमनुकरणं स्वेच्छयैव व्यवह्रियमाणं दरीदृश्यते ।
(३) अभिनयानुकरणम् - बालिकाः स्वीयपुत्तलिका भोजयन्ति, तासां विवाहांश्च परस्परं रचयन्ति। बालका मयूरपुच्छानि धारयित्वा वानराश्च भूत्वाऽपरे राक्षसानां मृण्मयानुकृतिमुखानि धारयित्वा रामरावणयोर्युद्धमभिनयन्ति । पित्रोरपि दैनिकानामाचरणानां व्यवसायविषयकाणामनुकरणं शिशुभी रहसि क्रियत एव । बाल्यकालिकं पार्वत्या: कियत् सरसमभिनयानुकरणोदाहरणं महाकविकण्ठाभरणेन रससर्वस्वेन कालिदासेन प्रस्तुतम्। तथा हि-
मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश्च ।
रेमे मुहुर्मध्यगता सखीनां क्रीडारसं निर्विशतीव बाल्ये ' ।। [१२]
(४) सप्रयोजनात्मकमनुकरणम् - प्रयोजनविशेषेणोपयोगिना प्रेरितः सन् यदा कोऽपि मानवोऽन्यस्यानुकरणं करोति तत्तदा सप्रयोजनात्मकमनुकरणमुच्यते, यथा केचन काष्ठकलाविशारदाः काष्ठेन बहूनि यन्त्राणि निर्मातुं प्रभवन्ति, यथा वान्यनिर्मितं चित्रं दृष्ट्वा सर्वकारप्रदत्तपुरष्कारप्राप्त्यर्थमन्योऽपि रम्यतरं चित्रं निर्मिमीते ।
(५) आदर्शानुकरणम् - महापुरुषाणां महात्मगान्धीमहर्षिदयानन्दलोकमान्यतिलक- महामनामालवीयपण्डितजवाहरलालनेहरूप्रभृतीनां जीवनवृत्तज्ञानसमलङ्कृतो नको वंयःसन्धिकालेऽन्यतमस्य महापुरुषस्यादर्शमनुकरोति । चरित्रविकासार्थमस्ति हि खलु तस्य नितरामुपयोगित्वम् । शैशवे तु प्रायो बालकस्य स्वपिता गुरुर्वादर्शो भवति, बालिकानामपि तथैव मातादर्शरूपा भवति कुलीनेषु गृहेषु । आत्मसङ्केतप्रयुक्तं स्वविनिश्चय- पुरस्सरमादर्शानुकरणं महत्त्वाय कल्पते ।
ड्रेवरमहोदयोक्तं वर्गीकरणम्
सम्पादयतुड्रेवरमहोदयैर्मैकडुगलकर्कपैट्रिकमहाभागोक्तरीत्या पञ्चसु वर्गेषु वर्गीकरणंमनु- करणस्य नैवाङ्गीक्रियते । तेषां मतेऽनुकरणं द्विविधं भवत्यैच्छिकमनुकरणं- मनैच्छिकञ्चानुकरणमिति । ऐच्छिकमनुकरणं बालकस्य स्वकीयनिर्णयाध्ययनप्रयुक्तं भवति। अनैच्छिकञ्चानुकरणं यदा बालकः स्वयमेव यदृच्छयानुभूतसामाजिकसंस्थाजात- संस्कारमनायासमात्मसात्कृत्यानुकरोति । इदं वक्तुं शक्यते नहि सोऽनुकरोत्यनुकृतः स सञ्जायत इति, यतो हि कर्तृत्वमिच्छाजन्यमेवोद्भाव्यते ; तथापि मनोवैज्ञानिकदृष्ट्यानैच्छिक- मनुकरणमस्त्यनुकृतेश्चरमं रूपम्, सुसूक्ष्मत्वात् । यदानुकरणं बालकेन क्रियते तदा 'अहमनुकरोमि' इति ज्ञानं तस्य नैव विद्यतेऽतोऽनैच्छिकमनुकरणमचेतनमिव प्रतीयमानं सुसूक्ष्मं भवतीति।
ड्रेवरमहोदयैरन्यत्प्रकारेणाप्यनुकरणस्य वर्गीकरणं समुपवृंहितम्'। तद्यथा- दृश्यानुकरणं विचारानुकरणञ्चेति । दृश्यानुकरणन्तु दृष्टपदार्थजन्यमनुकरणं भवति । इदमनुकरणं विशेषेण दृश्यमानपदार्थस्य चित्रादिकस्यैव सम्पद्यते। विचारानुकरणन्तु विचारस्मृतिकल्पनोद्भूतप्रत्ययसरणिगुम्फितं भवति । विचारप्राधान्यान्मनःप्रयोक्तृत्वाद्वा विचारानुकरणस्य सार्थकत्वमिति ।
सहानुभूतिः
सम्पादयतुकेनापि पुरुषेण सह तद्दुःखहर्षानुभवनं सहानुभूतिरित्यभिधीयते । दुःखिनं दरिद्रं वा दृष्ट्वाप्लावितमानसो भूत्वा मानवः कदाचन तेन सह रोदिति साहाय्यञ्चार्थिकं प्रदत्ते। इयं सहानुभूतिः सामान्यप्रवृत्तिः समाना पुरुषेषु पशुषु च । नैसर्गिकी चेयम्। 'अपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम्' इति महाकविभवभूतिनिर्दिष्टं सहानु- भूतेश्चरममुदाहरणम्। मैकडुगलमहोदया मन्यन्ते सहानुभूतिर्द्विविधा भवति - निष्क्रिया सहानुभूतिः, सक्रिया चेति । निष्क्रियायां सहानुभूत्यां कस्यचिद् दुःखज्ञानमात्रेणापरस्य द्रष्टुर्हृदयं दयार्द्रं जायते। नहि तत्र दुःखितेन किञ्चित् कृत्रिमं रूपं हावभावविशेषान्वितं धार्यते, नहि तथा सक्रियायां सहानुभूत्याम्; तत्र तु दुःखितः किञ्चित् कृत्रिमं रूपं बिभर्ति, येनेतरेषां चेतांसि करुणार्द्राणि भवेयुः । बालकेषु सहानुभूतिनिदर्शनं सुतरामुप- लभ्यते। रुदन्तीं मातरं भगिनीं वा दृष्ट्वा शिशुर्भृशं रोदिति । प्रमुदितायां वा मातरि तां दृष्ट्वा बालोऽपि हर्षातिरेकेण हसति । अतः सिद्धं यन्नैसर्गिकी खल्वियं प्रवृत्तिर्या सहानुभूतिरित्युच्यते, यया प्रेरितश्च सन् मानवः स्वजातीयेतरप्राणिभिः सह, इतरजातीयपश्वादिभिः साकमपि, दुःखादिकमनुभवति। आदिकवेः कविकुलगुरोर्बाल्मीकेः क्रौञ्चपक्षिणा सह सहानुभूतिप्रकाशनन्तु सुप्रथितमेव सुरभारतीचरणचञ्चरीकाणाम्। तथा हि-
मा निषाद ! प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ।।
नहि सहानुभूतिरूपमूलप्रवृत्त्यङ्गीकारं विना शोकस्य श्लोकत्वपरिणतिर्व्याख्येया ।
तथा हि-
तामभ्यगच्छद्रुदितानुसारी, मुनि: कुशेध्माहरणाय यातः ।
निषादविद्वाण्डजदर्शनोत्थः श्लोकत्वमापद्यत यस्य शोकः।। [१३]
नहि केवलं मानवेष्वेव सहानुभूतिनिदर्शनमुपपद्यते, पशुष्वपि सहानुभूतिर्भवति। एकं स्वजातीयं रुदन्तं पक्षिणमाक्रान्तं दृष्ट्वा सर्वे पक्षिणः क्रन्दितुमारभन्ते। नूनं भाषाविकास- जन्यमुत्कृष्टप्रौढिङ्गतं मानवसुलभसहानुभूतिप्रदर्शनम्। पशुपक्षिणां करुणभावातिरेकेऽपि भाषाविकासाऽभावे नहि मानवानामिव सहानुभूतिप्रदर्शनवैचित्र्यमुपलभ्यते। सहानुभूतौ पशवोऽपि रुदन्ति, क्रन्दन्ति, विलपन्ति, अश्रूणि च स्रावयन्ति । सम्पोषितं मनो- वैज्ञानिकमिदं तथ्यं कविकुलगुरुणापि मैथिलीं भृशं विलपन्तीं दृष्ट्वा । तथा हि-
नृत्यं मयूराः कुसुमानि वृक्षा दर्भानुपात्तान्विजहुर्हरिण्यः ।
तस्याः प्रपन्ने समदुःखभावमत्यन्तमासीद्रुदितं वनेऽपि ॥ [१४]
समदुःखाभावमेव सहानुभूतिः । प्रागुक्तया समवेदनाप्रकाशनप्रवृत्त्या कथं हि खलु सहानुभूतिर्भिद्यते ? अयं प्रश्नो मैकडुगलमहोदयेन नैव विवेचितः । सहानुभूतौ संवेगप्राधान्यन्तु विद्यत एव। अत: सिद्धं तस्याः समवेदनामूलप्रवृत्त्यन्तर्भावत्वम्। करुणरसप्रवर्तिता हि खलु सहानुभूतिः । संवेगवत्त्वान्नहि सा सामान्यप्रवृत्तिर्भवितुमर्हति । प्राध्यापकमैकडुगलमहोदया अपि सहानुभूत्यां संवेगास्तित्वमङ्गीकुर्वन्ति । तथा हि-
“पशुमानवसामाजिकजीवनाय त्रिविधास्ताः पारस्परिकमानसिकप्रतिक्रियारूपाः प्रवृत्तयः। पारस्परिकमानसिकप्रतिक्रियासु प्रत्यक्षतत्प्राप्त्यादिषु मानसिकक्रियाया विचारपक्षः संवेगपक्षः प्रतिक्रियापक्षो वा प्रधानतमो भवितुमर्हति । प्रथमतो यदा कस्यचित् पुरुषस्य किञ्चिद्रूपं विचासे विश्वासो वान्यस्मिन् पुरुषे तत्समं रूपं विचारं विश्वासं वा जनयति, तदा सङ्केतप्रवृत्त्याविर्भावो जायते । यदा च प्रयोक्तुः कश्चित् संवेगो भावनानुभूतिर्वान्यस्मिन् तत्प्रकारिकां संवेगानुभूतिं जनयति, तदा सहानुभूति: समवेदनापराख्या प्रवृत्तिरुत्पद्यते। यदा च पारस्परिकप्रतिक्रिया क्रियापक्षे समुपलभ्यते, प्राधान्येन तस्याः प्रभावेण प्रयोक्तुः क्रिया भावापन्नस्य क्रियास्वात्मसात्कृता सँल्लक्ष्यन्ते, तदानुकरणाख्या प्रवृत्तिरुत्पद्यते [१५] इति।
अतः संवेगवत्त्वात् सिद्धं सहानुभूतिप्रवृत्तेर्मूलप्रवृत्तित्वम्। सहानुभूतेः सामान्य- प्रवृत्तित्वन्तु निरसनीयम्, गौरवात्।
क्रीडनम्
सम्पादयतुजन्मतो दृश्यते हि क्रीडनमूलप्रवृत्तिर्बालकेषु। समाना चेयं मानवेषु पशषु च। विशिष्टसंवेगविरहितत्वात्तस्याः परिगणनं सामान्यप्रवृत्तिषु समीचीनमेवेति वयं मन्यामहे। केचन मनोवैज्ञानिकाः क्रीडनसामान्यप्रवृत्तेः स्वतस्त्वं नैव मन्यन्ते । शुनां प्रातरुत्थाय खेलनं सुविदितमेव। बाला अपि खेलाभिर्विना नहि तथाविधाः स्वस्था दृश्यन्ते, यथा खेलन्तः। सामुदायिकजीवनस्य प्रारम्भिकं रूपं खेलास्वेवोपलभ्यते । पितृणां परस्परं वैमनस्यं मनोमालिन्यं वा बालसुलभक्रीडाप्रवृत्तिमार्गं कदापि न रुणद्धि । परस्परं क्षणे रुष्टा बालका: क्षण एव खेलाह्वानेन परितुष्टा जायन्ते । खेलास्वौत्सुक्यरचनात्मकत्वानु- करणादीनामितरप्रवृत्तीनां विकासार्थं सम्यगवसरमुपलभ्यते; अत एव सिद्धं क्रीडाप्रवृत्ते- महत्त्वम्।
ननु किं क्रीडनमिति पृथक्तः सामान्यप्रवृत्तिरवगन्तव्या ? किमुतौत्सुक्यरचनानु- करणादिप्रवृत्त्यभिव्यक्तिरूपमेव क्रीडनमिति ? केचन विद्वांसो मन्यन्ते यद्धि खेलनं स्वतः पृथक् सामान्यप्रवृत्तिर्नास्ति । इदन्तु रचनानुकरणौत्सुक्यादिप्रवृत्तीनामभिव्यक्ति- रूपमेवास्तीति। मैकडूगलमहोदया इदं स्वतन्त्रसामान्यप्रवृत्तिरूपेणानुमन्यन्ते। तन्मतमेव साम्प्रतमिति वयमपि मन्यामहे । खेलनं तु नैसर्गिकप्रवृत्तिरूपम् । यदि तस्या नैसर्गिक- प्रवृत्तेर्बालसुलभाया उत्तरकाले शिक्षकै रचनाकौशलौत्सुक्यवर्धनानुकरणसौष्ठवैरुपयोगित्वं सम्पाद्येत, नहि तेन तस्याः प्रवृत्तेर्बालसुलभं स्वभावायत्तं स्वतन्त्रं रूपं विनश्यति । भवेद्वा खेलास्वपि बालकानां स्वभावायत्तरचनाकल्पनानुकरणौत्सुक्यकौशलमभि- व्यक्तम्; किन्तु तेन लेशमात्रमपि क्रीडाप्रवृत्तेः स्वतस्त्वं नैसर्गिकरूपत्वं वा निरस्तुं नैव शक्यते ।
ननु किमस्ति खेलास्वरूपम् ? अथवा क्रीडनप्रवृत्तेः किं कारणम्? इमं विषयमवलम्ब्य बहूनि मतान्युद्भावितानि। वयमत्र तेषां मुख्यतमानां सङ्क्षिप्तं विवेचनं पुरस्कुर्मः ।
(अ) अतिशयशक्तिमतम्
सम्पादयतुइदं मतं स्पेन्सरशिलरमहोदयाभ्यामुद्भावितम् । तन्मते जीवनकार्योपयोगिशक्तेर्व्यतिरिक्तोऽपि कश्चन शक्त्यतिरेकः प्राणिषु विद्यते । अवशिष्टायाः शक्तेरुपयोगस्तु केनापि प्रकारेण करणीय एव । अतः क्रीडासु तस्या अवशिष्टशक्त्यंशस्योपयोगः प्राणिभिः क्रियते । यथा हि खलु लोके दृश्यते यद्रेलकटाख्यस्य वाष्पयानस्येजिनो वाष्पाधिक्यं सुरक्षानलिकया 'सेफ्टीवाल्व' इति यवनभाषाप्रथितया विमुञ्चति, तेनैव प्रकारेण बालका अपि शक्त्यतिरेकं खेलादिरूपेण विमुञ्चन्ति, बहिः प्रदर्शयन्तीति तेषां तात्पर्यम्। इदं मतमंशतः सत्यम्। सरलतमानां विनोदमात्रपर्यवसायिनीनां खेलानां व्याख्यानं नह्यनेन सम्भवति । बालकाश्च क्रीडितुमिच्छन्ति यावन्न ते पूर्णत: क्लान्ता भवेयुः । नूनं रोगिणः प्रवृत्ति: खेलासु प्रायो न दृश्यते। स्वस्थाश्च बालकाः क्रीडाक्षेत्रं गन्तुकामा भवन्ति । अत एवेदं मतमंशतः सत्यम्।
अस्य मतस्योद्भावका वण्टमहोदयानां शिष्यवरेण्या १९३९ वैक्रमाब्दे जानहापकिन्सविश्वविद्यालयेऽमेरिकादेशे प्रथममनोवैज्ञानिकानुसन्धान- प्रयोगशालासंस्थापकाः प्राध्यापकप्रवराः स्टेनलीहॉलमहोदयाः सन्ति । तन्मते बालके जन्मतो यौवनपर्यन्तं खेलादिषु पूर्वजानां संस्कृते रूपं वन्यमानुषजीवनादारभ्योत्तरं विकसदस्ति। एवम्प्रकारेण खेला विविधसभ्यतासंस्कृतिस्तरेषु मनुष्याणामितिवृत्तस्य पुनरावृत्तिरूपाः। धावनं क्रोशनं नूनं पूर्वोचितमृगयाकर्माङ्गमेवेति तेषां तात्पर्यम्। नहीदं मतं समीचीनं प्रतिभात्यस्मान् । अस्ति हि खल्वस्य मतस्य मूलकारणमेका भ्रान्तिर्यदि पूर्वजानां संस्कृतिस्तरविशेषसंस्कारास्तर्हि वंशपारम्पर्येण सन्ततावेक्षुण्णाः सङ्क्रमिता जायन्ते, तेन च वंशपारम्पर्यायत्तप्रभावेण खेलाष्वपि तथाविधेतिवृत्तसंस्कारविशेषाणां पुनरावृत्तिः सञ्जायत इति।
नहि वयमेतां भ्रान्तिमाद्रियामहे। यन्मनुष्यस्वभावे वन्यमानुषतः सभ्यमनुष्यपर्यन्तं नैसर्गिकं संस्कृतिस्तरविशेषजन्यं किमप्युल्लेख्यमन्तरं विद्यत इति मतमेव मूलप्रवृत्तिस्वरूपविचारणेन • नोपयुज्यते । स्वभाविकं प्रवृत्तिवेगरूपं स्तरविशेषानुमानजनकमन्तरं नैव प्रकटयति । सामाजिकसंस्थाविशेषशिक्षणव्यवस्था- पुस्तकादिसाधनजातैः पितृचरणकृपासम्प्राप्तैः संस्कृतिरूपे परिवर्तनं नूनं सँल्लक्ष्यते, किन्तु तत्सर्वं वातावरणान्तर्गतं पारम्पर्ये सूचयति, न तु नैसर्गिकस्वभावनिरूढं वंशानुक्रमायत्तम्। अत: खेलास्वपि कथं तस्य संस्कृतिविविधस्तरविशेषजातस्य पुनरावृत्तिः सम्भाव्यते? अत एवेदं मतं नैवोपपद्यते।
(इ) विरेचनात्मकं मतम्
सम्पादयतुइदं क्रीडास्वरूपविषयकं तृतीयं मतं प्रतिपादयति यत्क्रीडनं पूर्वजेभ्यो वंशानुक्रमायत्तानां पाशविकवन्यजीवनोपयोगिप्रवृत्तीनां विरेचनं करोति, अथ वा खेलादिद्वारा बालकस्ताः प्रवृत्तीर्विरेचयति । तदनन्तरं बालकः सुसंस्कृत: सभ्यः सहयोगप्रीतिक्रियाशीलत्वसमन्वितो जायते । विविधाः क्रीडा एवम्प्रकारेण चरित्रोन्नयनसाधनरूपा:, पाशविकप्रवृत्तिविरेचकत्वादिति तेषामाशयः ।
(ई) नष्टशक्तिसम्प्राप्तिनिमित्तकं मतम्
सम्पादयतुलेजरसमहोदयप्रतिपादितेनानेन मतेनेदं ज्ञायते यच्छ्रान्त: क्लान्तो भूत्वा बालकः पुनर्नष्टशक्तिसम्प्राप्त्यर्थं क्रीडनमभिमुखी- भवति। तेन सा तथा विनष्टा शक्तिः पुनरर्जिता भवति । कार्यसम्पादने या शक्ति- र्विनश्यति, तस्याः क्षयाद्या क्लान्तिर्जायते, तस्या अपनोदनं खेलाभ्यः सम्पद्यत इति तेषामभिसन्धिः ।
(उ) पूर्वाभिनयात्मकं मतम्
सम्पादयतुमेलब्राशमहोदयप्रतिपादितं कार्लग्रूसमहोदयैः४. प्रतिसंस्कृतमिदं मतं प्रतिपादयति यद् बालको विविधासु क्रीडासु भाविजीवनोपयोगिक्रिया- कलापानां पूर्वरूपं दर्शयति । यथा नाटकेऽभिनयरूपे वस्तुभूतात्मकपरिस्थितेरनुकृतिरेव भवति, एवं प्रकारेण खेलादिभिर्बालकोऽग्रिमप्रौढजीवनोपयोगिकार्यक्रममनुहरति । प्रकृत्या नैसर्गिकया सा क्षमता बालकाय प्रदीयते यया स भविष्यति विविधक्रियाक्षेत्रेषु सक्षमो भवेत्। एवं प्रदर्शितं खेलादीनामुपयोगित्वं दृश्यते हि लोके । अध्यापकस्य बालक इतरेषां बालकानां कक्षां निर्माय तां शिक्षितुमभिनयति । मार्जारशिशुरपि वस्त्रकन्दुक- मुच्छालयति, कराभ्यां प्रसभमाकर्षति, विदीर्यते च येन भाविमूषकमृगयावसराय तस्य क्षमतोपार्जनं सिद्ध्यति । बालिकाश्च पुत्तलिकामादाय तद्विवाहं रचयन्त्यस्त- द्विषयमवलम्ब्य विलपन्त्यस्तद्वियोगे वरयात्रां रचयन्त्यश्च स्वक्रीडासु दरीदृश्यन्त एव । अतः सिद्धं पूर्वरङ्गत्वं विविधक्रीडानां बालकानां भाविजीवनक्षेत्रक्रियोपयोगित्वनिमित्तकमिति तेषामभिप्रायः ।
श्रीपर्सनिनमहोदयानां विद्वद्वरेण्यानां मतं वयमप्यनुमोदामहे यद्धि मतान्येतानि नहि सर्वांशतः सत्यानि, तथाप्यस्ति हि तेषु सर्वेष्वांशिकं सत्यं निहितमतस्तानि परस्परानुपूरकाणीति। अस्मान् त्विदमपि प्रतिभाति यदिदं सर्वमध्ययनं खेलाविषयकं प्रौढदृष्ट्या विवेकोपयोगित्वपुरस्सरया विशदीकृतं नहि बालस्वभावं निसर्गजं लक्ष्यीकरोति, यतो हि बालका मनोरञ्जनायैव मनोविनोदायैव खेलासु प्रवर्तन्ते । खेलासु प्रवृत्तासु यदि तेषां स्वात्मप्रदर्शनक्रोधेर्ष्यादिप्रादुर्भावोऽपि भवेत्तदपि खेलास्वरूपाय मनोरञ्जनाङ्गी- भूतमेवेत्यवधार्यम्। अतो लीलामात्रं शिशूनां खेलनमित्यस्माकमाकूतम्।
ननु खेलानां कियन्तः प्रकारविशेषाः ? खेलास्त्वनेकाः। तासां तावत् पञ्चधा वर्गीकरणं कर्तुं शक्यते। इदं वर्गीकरणं विषयप्राधान्यमवलम्ब्यैवावधार्यम्। कार्लग्रूसोक्त- रीत्येदं पञ्चधा वर्गीकरणमित्थमूह्यम्-
(१) परीक्षणात्मकाः खेलाः - यासु बालकः स्वपरिस्थित्यवधारणाय पात्रपुस्तककन्दुकचमसादिकमादाय परितः सम्यगवलोक्य पुनस्तत्रैव त्यजति ।
(२) गतिशीलाः खेला: - यासु बालका धावन्ति, गतिमन्तो भवन्ति । ताभिः खेलाभिर्बालकानां शरीरावयवानां विकासो भवति ।
(३) रचनात्मका: खेलाः - यासु बालकानां विधायिका सर्जनात्मिका मूलप्रवृत्तिर्नवीनप्रकारकखेलोपयोगिवस्तूनामाविष्कारं करोति, यथा गोपा गृहनिर्माणं कुर्वन्ति, वन एव भोजनं पचन्ति, लघु जलाशयं वा खनन्ति, प्राकृतदृश्यानां चित्राणि च लिखन्ति ।
(४) युद्धमयाः खेलाः - यासु बालकाः करबालयष्ट्यादिशस्त्राणि गृहीत्वा युद्धमयीं क्रीडामभिनयन्ति । यथैकपक्षीया रामस्य सैनिका अपरपक्षीया रावणसैनिका भवन्ति। एतासु खेलासु पराजयविजयभावः प्रधानो भवति, यथा 'कबड्डी' संज्ञकक्रीडायाम्।
(५) बौद्धिकखेलाः – यासु बालाकानां बुद्ध्युत्क्रर्षप्रदर्शनस्यावसरो भवति।
-
ताश्च त्रिविधा भवन्ति विचारसंवेगकृत्यनुबन्धित्वात्।
(अ) विचारप्रधाना बौधिकखेला द्यूतादयो भवन्ति ।
(आ) संवेगप्रधानाः खेला अभिनयादयो भवन्ति । तेषु साक्षाच्चाक्षुषक्रतुषु साहित्यशास्त्रोक्तनवरसानां समभिव्यक्तिर्जायते। तथा हि-
देवानामिदमामनन्ति मुनयः शान्तं क्रतुं चाक्षुषं
रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा ।
त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते
नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधकम् ।।[१७]
तर्हि संवेगप्रधानासु खेलासु नाट्यमन्यतमम्, नानारसाप्लावितत्वात्।
(इ) कृत्यात्मका मानसिकाः खेलाः, यासु प्रयत्नविशेषस्य प्राधान्यं वर्तते । यथा हि तावदेव हसितव्यं यावन्नाकाशोत्क्षिप्तं मार्जनवस्त्रं भूमावापतति;
यश्च बालकस्तदनन्तरमपि हसत्येव, स पराजितो जायत इति । इदं वर्गीकरणं वैज्ञानिकदृष्ट्या दुष्टम्, परस्परलक्षणोल्लङ्घितत्वात्; तथापि ग्रहणीयमस्योपयोगित्वाल्लक्ष्यप्राधान्याच्चेति।
मूलप्रवृत्त्यादीनां परिवर्तनक्षमत्वम्
सम्पादयतुप्रागुक्तमस्माभिर्जन्मजातत्वं नैसर्गिकत्वं मूलप्रवृत्तीनां सहजसामान्यप्रवृत्त्यादीनाञ्च। ननु किं तर्ह्येताः प्रवृत्तयोऽपरिवर्त्या जन्मजातत्वात् ? यद्येवं स्यात्, कथं तर्हि प्रौढमानवस्य सभ्यताशीलसम्पन्नस्येवंविधं परिवर्तनं भवति ? स्मरणीयमत्र, यत्र हि सर्वाः क्रिया या बाल्ये प्रादुर्भवन्ति, मूलप्रवृत्तयो जन्मजाता वा प्रवृत्तयो भवितुमर्हन्ति । अभ्यस्तक्रियाणा- मधीतक्रियाणां जन्मजातनैसर्गिकक्रियाभ्यो भेदः स्मरणीयः । मन्येऽस्य भेदस्य स्मरणा- भावादेव मूलप्रवृत्तिविषये विप्रतिपत्तयः सम्भवन्ति, किं वा मूलप्रवृत्तिसंख्याविषये वा
बुद्धिभेदः सँल्लक्ष्यते। बालोऽप्यधीते यथा प्रांढः । अतो नैसर्गिकमूलप्रवृत्तिभिः समकालमेवाभ्यस्ताधीतक्रियाणामप्याविर्भावः सञ्जायते। बाल्येऽधीतक्रिया अपि मूलप्रवृत्तय इति वक्तुं नैव साम्प्रतम्। यथा 'ओरियल' नामिकैका चर्चरीका या ग्रीष्मत आङ्गलदेशं समागच्छति, बाल्ये मधुरं गायति । तत्पक्षिणः बालकानामन्यत्र परिवर्धनात् सिद्धं यन्नहि विशिष्टप्रकारकसङ्गीतध्वनिर्जन्मजाता किमुत नैसर्गिकी। प्रत्युत कलकण्ठोपेतगायन- प्रवृत्तिरेव सांसिद्धिकीति । यस्तु स्वरभेदोऽन्यत्र परिपालनेन जायते, सहैव परिवर्धनेन वा स्वरसाम्यं वा यज्जायते तदभ्यासजन्यमिति। वन्यौरियलचर्चरीकाभिः सह पृथक्- परिपालिततत्पक्षिशावकानां स्वरविशेषसाम्याभावादेवायातमिदं तथ्यम् ।
अपि चासीदियं मान्यता पूर्वं यद्धि बालकानां जले क्षिप्तानां भयमपि नैसर्गिकमिति । नहीदं मतमुत्तराकालिकानुसन्धानजातं सङ्गच्छते। सम्प्रति विद्वांसः सुनिश्चितमिदं मन्यन्ते यद्भये द्वे जन्मजाते नैसर्गिके केवलम्, यथा उच्चैः स्वरभयं शरीरसन्तुलनाभावजं भयञ्चेति । सर्वथा सम्भाव्यमिदं यदेकस्मिन्नवसरे सम्यग्ग्रहणाऽभावे जलवेगाधिक्ये सति च बालकाः स्वशरीरसन्तुलनाभावमन्वभवन्, तेन साकमेव जलस्पर्शमप्यन्वभवन्। शरीरसन्तुलनाभावजं भयं हि खलु तस्य निसर्गजम्; किन्तु तेन सह प्रतिनियतसाहचर्याज्जलस्पर्शमात्रमपि तदुत्तरं भयमुत्पादयति । फलतः पूर्वानुभूतजलस्पर्शशरीरसन्तुलनाभावसाहचर्य्यादेकस्मिन्नपि सति तदुत्तरं भयमुत्पद्यते । अत एव जलप्रक्षेपजं बालकानां भयं बाल्य एवोत्पद्यमानमपि नैसर्गिकं नैव भवतीत्यवसेयम्।
प्रागुक्तरीत्या सहजक्रिया: प्रतिनियता जायन्ते, प्रतिनियतसाहचर्य्यात् पेवलोव - महोदयानां प्रयोगाः पूर्वमनुव्याख्याताः । साम्प्रतमेकेनोदाहरणेन पुनः व्याख्यायते । नहि केवलं सहजक्रिया एव प्रतिनियता भवन्ति, मूलप्रवृत्तयोऽपि प्रतिनियतसाहचर्य्यात् प्रतिनियता जायन्ते। तथा हि, बालके दुःखसंवेदनीयोत्तेजकविरोधिनी जन्मजाता नैसर्गिकी सहजक्रिया भवति। दुःखोत्पादकोत्तेजकात् स्वहस्तमपसारयति हि बालकः ।
यथा अग्निमुष्णं वा पदार्थं स्पृष्ट्वा स स्वहस्तमपसारयति । किन्तु दुग्धपात्रमाकारविशेषकं दर्शनमात्रेण तस्मिन् भयं नैव जनयति, नाप्याह्लादमेव । यदि कदाचन तपद् दुग्धपात्रं बालकः स्पृष्ट्वा दुःखं संवेत्ति, तदनन्तरं तेन साकं दुःखसंवेदनं प्रतिनियतसाहचर्य्यं जायते । अतोऽनन्तरं प्रेरितोऽपि सन् तथाविधं दुग्धपात्रं बालको नैव स्पृशति । किं कारणम् ? या दु:खसंवेदनात्मिका सहजक्रिया निसर्गतोऽग्निनोष्णपदार्थेन वा नियतसाहचर्य्यासीत्, सा दुःखानुभवनादेकशो बहुशो वा दुग्धपात्रेण सार्धमपि प्रतिनियतसाहचर्य्या प्रतिनियता वा सञ्जाता। अत एव दुग्धपात्राकारविशेषकदर्शनमात्रमेव बालकस्य भयं जनयितुं समर्थं भवति ।
किं तावत् प्रतिनियतत्वं नाम ? एकेनोक्तेजकेन सह नियता साहचर्येण सम्बद्धा प्रतिक्रिया यदाऽपरेणोत्तेजकेन पूर्वानुभूतोत्तेजकसम्बद्धेन सह प्रतिनियता जायते, तन्निष्ठ'भावः प्रतिनियतत्वमित्युच्यते। नैसर्गिकसहजक्रियामूलप्रवृत्त्यादयः प्रतिनियता भृत्वा परिवर्तिता जायन्ते। मूलप्रवृत्त्यादिपरिष्कारपरिवर्तनेन सर्वसभ्यतासामाजिकविविधसंस्थाशिष्टाचार- समुन्नतिः सम्भाव्यते, यतो हि मानवो निसर्गजं मूलप्रवृत्तिरूपशक्तिस्रोतसमादाय सामाजिकवातावरणेन सह सामञ्जस्यं स्थापयति तत्परिष्कारद्वारेण । मूलप्रवृत्त्यादिपरिवर्तनं विना सामञ्जस्यस्थापनमसंम्भवम् । परिवर्तनञ्च प्रतिनियतसाहचर्य्यमपेक्षते ।
सामञ्जस्यस्थापनम्
सम्पादयतुकः प्राणी यस्य वातावरणं प्रायोऽपरिवर्तितं भवति, तस्य नैसर्गिकमूलप्रवृत्तिशक्ति- स्रोतांसि स्वाभाविकनियतरूपेणैव प्रतिक्रियोत्पादने सफलानि भवन्ति । किन्तु परिवर्तन- शीले वातावरणे तथाभूता मूलप्रवृत्तयोऽपरिवर्तिता: सत्यो नहि वातावरणेन सह सामञ्जस्यस्थापने किं वानुकूल्यस्थापने सफला भवन्ति । जटिले सततपरिवर्तनक्षमे वातावरणे प्राणिनः स्वाभाविकमूलप्रवृत्तिसम्पत्तिरपि परिवर्तमाना भूत्वैवानुकूल्यनिर्धारणे समर्था जायते। सभ्यमानवस्य सततसङ्घर्षमयेन विषमपरिस्थितिशबलीकृतेन दैनन्दिन - परिवर्तनशीलवातावरणेन सह सामञ्जस्यस्थापनाय सर्वदैवावश्यकतानुभूयते । निम्नस्तरीयेषु प्राणिषु मूलप्रवृत्तिसहजक्रिया एव शरीरयन्त्रधारणे नियतप्रतिक्रियोत्पादने पर्याप्ताः, किन्तूच्चस्तरीयानां मानवान्यतमानां सामञ्जस्यं जन्मजातप्रवृत्तिरचनायां परिवर्तनमपेक्ष्यैव सम्भाव्यते ।
ननु किङ्कारणमिदं परिवर्तनं नाम ? नैसर्गिकमूलप्रवृत्तीनां प्रतिक्रियासु यत्परिवर्तन- क्षमत्वमनुभूयते सम्बुद्धसभ्यमानवव्यवहारे, तत्तु मानवस्य बुद्धिविवेकसम्पन्नत्वात्। बुद्धिमतां व्यवहारस्तु निश्चयेन परिस्थितिवैषम्यजाटिल्यमाकलय्य सम्भावितप्रतिक्रियाफलं विमृश्यैव प्रवर्तते । फलतो विचारविवेकपुरस्सरत्वाद् - क्यस्यव्यवहारे मूलप्रवृत्तयः परिवर्तनक्षमा जायन्ते, सुदृढा नाडीसम्बन्धाश्च निसर्गजाः सन्तोऽपि परिवर्त्य नवीनस्रोतसा- मभिमुखा जायन्ते ।
नहि बुद्धिरपि नैसर्गिकमूलप्रवृत्तिजातेभ्यः सुसूक्ष्मं भेदजनकं सहते। परिस्थिति- जाटिल्यानुबन्धिसामञ्जस्यस्थापनक्षमबुद्धेः शक्तिरपि निसर्गजा, यथा मूलप्रवृत्तयः । यदि सामञ्जस्यस्थापनात्मकव्यवहारो बुद्धिसञ्चालितो मूलप्रवृत्तिभ्यस्सर्वथैव भिन्नं भवेत्, व्यावृत्तं भवेत्, विलक्षणं भवेत्तर्हि तस्य प्रयोजिका शक्तिः कापि न भविष्यति, यतो मूलप्रवृत्तिषु निसर्गजासु सर्वव्यवहारमूलभूतप्रतिक्रियोत्पादनक्षमाणि शक्तिस्रोतांस्यस्माभिरभिमतानि । अतो मूलप्रवृत्तेरनुकूलीकरणमेव बुद्धिजन्या प्रतिक्रिया प्रयत्नाख्या किं वा विचारपरिष्कृता मूलप्रवृत्तिरेव बुद्धिजन्या प्रतिक्रिया प्रयत्नाख्येति सिद्धम्।
मूलप्रवृत्तिपरिवर्तनम्
सम्पादयतुननु कथं हि मूलप्रवृत्तौ परिवर्तनं भवितुमर्हति ? मूलप्रवृत्तीनां द्विविधो हि खलु परिवर्तनस्यावकाशः । प्रथमं तावत् परिस्थितौ परिवर्तितायां सत्यां व्यक्तेः प्राणिनो वा नैसर्गिकमूलप्रवृत्तिरपि वातावरणपरिवर्तनानुकूलीकरणाय प्रेरिता सती परिवर्तते। शक्यते हि खल्विदं यत् परिस्थितिपरिवर्तनापादितप्रतिनियतोत्तेजकेनैव विशिष्टा मूलप्रवृत्तिरेका प्रवर्तयितुमारभते, प्राक्तनं मौलिकं वोत्तेजकं तज्जनने निष्क्रियमवतिष्ठते। नवीनाः परिस्थितयो मूलप्रवृत्तिं तामुद्बोधनाय प्रेरणाय समर्थाः भवन्ति, पुरातनमुत्तेजकं निष्फलं फल्गु वा जायते। द्वितीयं तावन्मूलप्रवृत्तिप्रतिक्रियायामेव कानिचित्परिवर्तनानि जायन्ते, यैस्तत्स्वरूपमेवं परिवर्तितं प्रतिभाति । द्वावेवेमा परिवर्तनप्रकारविशेषौ विशदीक्रियेते- (अ) परिस्थितौ परिवर्तनम् -
(१) प्रतिनियतसाहचर्य्यादिदं परिवर्तनं घटते । प्रागुक्तरीत्या यदा विशिष्टप्रकारकेणो- त्तेजकेन जनिता प्रतिक्रिया कालान्तरे पूर्वं तत्साहचर्येणानुभूतेनापरेणो- त्तजकेन सह सम्बद्धा जायते, प्रतिनियतसाहचर्या किमुत तदुत्तेजकेन सार्धं प्रतिनियता सा प्रतिक्रिया सञ्जायते। प्रागुक्तदृष्टान्तद्वये यथा बालके जलाद्भयं दुग्धपात्राद्भयं वोत्पद्यते । एवमेव प्रेयस्याः श्वाऽपि प्रगाढ प्रेमास्पदं जायते ।
(२) वैशेष्याच्च यदा परिस्थितिजातं मूलप्रवृत्तिप्रेरकं सङ्कीर्णं विशिष्टमवचितं वा जायते नहि तदा यो वा को वा पदार्थस्तां मूलप्रवृत्तिमुत्तेजयितुं प्रभवति। विशिष्टप्रकारकः पदार्थ एव तन्मूलप्रवृत्तिमुद्बोधयितुं शक्नोति । मूलप्रवृत्तिपरिशोधनेऽस्य परिवर्तनस्य चरमं रूपं समुपलभ्यते। उदाहरणतः पतिव्रताया जीवने भर्ता एव परमप्रेमास्पदं जायते । एवमेवोदात्तप्रेम्णि एकपत्नीव्रतपुरुषस्यैका धर्मपत्न्येव परमप्रेमास्पदं भजते। तथा हि भगवत्याः प्रातःस्मरणीयाया वैदेह्या: पुण्यानि खल्विमानि वचनानि-
साऽहं तपः सूर्यनिविष्टदृष्टिरूर्ध्वं प्रसूतेश्चरितुं यतिष्ये ।
भूयो यथा मे जननान्तरेऽपि त्वमेव भर्ता न च विप्रयोगः ॥ [१८]
अपि चाग्निपरीक्षावसरे -
मनसि वचसि काये जागरे स्वप्नसङ्गे यदि मम पतिभावो राघवादन्यपुंसि ।
तदिह दह ममाङ्गं पावनं पावकेदं सुकृतदुरितभाजां त्वं हि कर्मैकसाक्षी ॥
अपि च रावणप्रणययाचनावसरे-
दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः ।
तं नित्यमनुरक्ताऽस्मि यथा सूर्यं सुवर्चला ॥
यथा शची महाभागा इन्द्रं समुपतिष्ठते ।
अरुन्धती वशिष्ठं च केशिनी सगरं यथा॥
अन्यच्च-
लोपामुद्रा यथाऽगस्त्यं सुकन्या च्यवनं यथा ।
तथाऽहमिक्ष्वाकुवरं रामं पतिमनुव्रता ॥
सव्येनाऽपि हि पादेन न स्पृशेयं निशाचरम् । किं पुन: रावणं साऽहं कामयेयं विगर्हितम् ? ।।
(आ) प्रतिक्रियास्वरूप एव परिवर्तनम् -
(१) स्वत एव – कदाचनैवं भवति यद्विषमायां परिस्थित्यां समुपस्थितायां प्राणी स्वयमेव परिस्थितिपरिवर्तितरूपानुकूलमेवाचरति । नेयं प्रवृत्तिः प्राक्तनाऽध्ययनायत्ता, नाऽप्यभ्यस्तपूर्वा । अनायासमेव तत्क्षणमेवेयं समुत्पद्यते।
(२) अनुभवनात् - स्वयमनुभवनं शिक्षणस्य चरमं साधनमिति वयमग्रे वक्ष्यामः । नवीनायां परिस्थित्यां समुत्पद्यमानायां प्राणी प्राक्तनमूलप्रवृत्तिसाधनरूप- प्रतिक्रियाभिरेवाचरति। यदा ता विफला जायन्ते, तदा प्रयत्नस्खलनविधिना किञ्चिदन्यन्मार्गसाधनमन्वेषयति, तदनन्तरं सफलपरिणामावहं मार्गमप्यन्वेष्टुं समर्थो भवति। एवंविधानुभवस्यादर्शीभूतं तु चक्रचलनेनोदाहृतं यस्मिन् मूषाकादिः प्राणी इतस्ततो धावति यावन्न स्वलक्ष्यं बहिर्निःसरणमार्गं भोज्यं वाऽवाप्नोति। यदधिकतमं सुखावहं साधनं भवति, सुखावहो मार्गो विधिर्वा भवति, तमेव सत्प्राणी शिक्षति । यद् दुःखप्रदं साधनं भवति तत्तु त्यक्तं भवति। पौनःपुन्येनानुभवनात् स्खलनसंख्याह्रासो जायते। सफलमार्गान्वेषणं चानुभवेन सुकरं सम्पद्यते । अनेन शिक्षणविधिनाऽ- नुभवनात्मकेनाऽपि मूलप्रवृत्तिप्रतिक्रियायां परिवर्तनं जायते ।
(३) विचारेण च - मूलप्रवृत्यभिव्यञ्जने परिवर्तनमभिनिर्वर्तते । विचारेणाऽपि द्विधा परिवर्तनं सञ्जायते ।
(अ) प्रथमं तावत् कल्पनयेदं परिवर्तनमभिसम्पद्यते । प्रागुक्तप्रयत्नस्खलनरीत्या यदन्विष्टं भवति तत्सर्वं कल्पनयाऽपि कदाचनोद्घाटयितुं प्रभवति । यथा मानवः कल्पनया सम्भावितमार्गस्य साधनस्य वा मानसं चित्रं प्रागेव स्वमनस्याधत्ते। तेन जटिलपरिस्थिते: समाधानं जायते यदन्ये केचनानियत- रूपेण प्रतिक्रियां कुर्वन्त इतस्ततः परिभ्रमन्ति । यान्त्रिकजटिलचक्रेऽन्ये कल्पनोपेता मनस्येव तत्समाधानमन्विष्य सम्यक्क्रियामाचरन्ति । यदि कदाचन कस्यचित्तालकस्य कुञ्जी विनष्टा भवेत्तदा कुञ्जीशतेनान्ये प्रयोगान् करिष्यन्ति। सन्ति चान्ये कुशला ये कल्पनयैव समीचीनकुञ्जीस्वरूपमाकलय्य तदर्थमनुरूपां कुञ्जीं प्रवेष्टुं गुच्छात् प्रभवन्ति, निर्मातुं वाऽन्यां शक्नुवन्ति ।
(आ) तर्केण युक्त्वा वा - एवंविधं सामञ्जस्यस्थापनं मूलप्रवृत्तीनामभिव्यक्तेरनुकूली- करणं वातावरणेन सह बुद्ध्यन्वितं भवति, यदा च समयदूरत्वाद्याकलनमपेक्ष्यं भवति, यदा वा सुदूरपरिणामहितत्वाहितत्वविमर्शोऽनिवार्यो भवति, तदाऽस्ति हि तर्कयुक्त्यन्वितो व्यवहारः । तेषु विविधविकल्पेषु सत्सु कस्यचिदेकस्य ग्रहणमनिवार्य्यं जायते, तत्तु तर्केण युक्त्योहापोभ्यामभिसम्पद्यते। एवम्प्रकारके व्यवहारे मूलप्रवृत्तिस्वरूपं कदाचन सर्वथैव मूलरूपाद्विलक्षणं रूपं बिभर्ति । भयावस्थायां समुपस्थितायामुदाहरणत: कमपि विकल्पमेतेभ्यो विकल्पेभ्यो ग्रहीतुं शक्नोति, यथा-पलायनमेव हितावहमिति, शत्रुं भयान्वितं कर्तुमग्रे गमनमेव समीचीनमिति, आग्नेयास्त्रमादाय सम्प्रहार एव कर्त्तव्य इति, स्वव्यक्तित्वमपोह्य छद्मवेशेन गमनमेवोचितमिति वा विविधप्रकारकोऽयं व्यवहारः कालात्ययेऽपि जायते, अतोऽस्त्यस्य विमर्शान्वितत्वमिति । विचारतर्कान्वितव्यवहारे कदाचन मूलप्रवृत्तीनां स्वरूपमेव तिरोहितमिव प्रतिभाति ।
स्मरणीयमत्रं यन्मूलप्रवृत्तीनामुत्तेजकानि न केवलं बाह्यपरिस्थितिप्रभवाण्येवाऽपि तु विचाराः पूर्वानुभवस्मृतयश्चापि तदनन्तरमुत्तेजकानि भवितुमर्हन्ति । यथा बमवर्षणस्य स्मृतिरपि युद्धानुभूतपुरुषेषु भयोद्वेगं नाल्पतरं जनयति। काश्चन स्त्रियस्तु युद्धानन्तरमपि बमवर्षणं स्मृत्वा मूर्च्छिता जायन्ते ।
(४) अनुकरणेन च - मूलप्रवृत्तिरूपाणि मौलिकान्यनुकरणेनापि परिवर्त्तनं बिभ्रति । यथा पितरं दृष्ट्वा तस्यानुकरणं पुत्र उपनीतः करोति, स्नानसन्ध्योपासनं विना नहि प्रात:काले वा भोजनं करोति । भोजनान्वेषणमूलप्रवृत्तिरेवम्प्रकारेण परिवर्तन- माधत्ते ।
(५) सहानुभूत्या (६) सङ्केतेन - चापि मूलप्रवृत्तिनां परिष्कारो जायते । मूलप्रवृत्तीनामङ्गीभूतसंवेगानां दमनविलयनमार्गान्तरीकरणपरिशोधनादिभ्यो मूलप्रवृत्तीना- मंपि दमनविलयनमार्गान्तरीकरणपारिशोधनाख्यानि परिवर्तितरूपाण्यासादितानि भवन्ति । तत्सर्वमस्माभिः संवेगप्रकरणे प्रपञ्चयिष्यते ।
सन्दर्भाः
सम्पादयतु- ↑ Mc Dougall, Out line of Psychology, Energies of man, and Intro to Social Psychology, Chap. III.
- ↑ Trotter W. Instinct of the Herd in Peace and War.
- ↑ Bernard, L. L.. Instinct. A Study in Social Psychology. Chap.8.
- ↑ Drever, Instincts in Man, Page 169.
- ↑ "Appetitive tendencies are those which are woked by experiences which are agreeble or disagreeable, and in which the end sought has reference merely to this agreeableness or disagreeableness." "Reactive tendencies are characterised by the fact they are evoked by reactions to specific objects or situations which are appre- hended, and the sought are with reference to those objects or situations."
- ↑ Bernard. LL.. Instinct: a study in social Psychology, 1924.
- ↑ Robert S. Woodworth, Psichology, A Study of mental life. Page 368-370.
- ↑ Robert H. Gault & Howard : An out line of Psychology. Page 183.
- ↑ डॉ० सरयूप्रसादचौबे, मनोविज्ञान, पृष्ठ १६०
- ↑ T. P. Nunn, Education : Its Data and first Principles, Page 15- Liebs 'Experiments on artificial fertilisation, on the artificially directed growth of animals, and on the 'tropistic' factors in the instinct are undoubtedly most impressive. They gave him the hope-perhaps we must call it a pious hope that a physico chemical explanation will be found in time for all the wishes, hopes, efforts, and struggles........disappointments and sufferings, that form the contents of life from the cradle to the bier."
- ↑ Gault & Howard, An Qut line of psychology 183-184 P.P. "Just this appears to be very nearly implied in some of the older conceptions of instinct And the view has some popular currency to- day. It brings us very near to the old 'Faculty psychology,' with its implication of a divided rather then a unified organism.
- ↑ कुमारसम्भवम् १।२९
- ↑ रघुवंशम् – १४/७०
- ↑ रघुवंशम्, १४/६९
- ↑ Mc. Dougall, Introduction to social psychology, page 74 (1946 edition) "They are three forms of mental inter-action of fundamental importance for all social life, both of men and animals. These processes of mental inter-action, of impression and reception, may involve chiefly the cogntive aspect of mental process, or its affcetive or conative aspect. In the first place, when some presentation idea or belief of the agent induces a similar presentation, idea or belief in the patient, the is called one of suggestion, when an affective, or emotional process exitement of the agent induces a similar affective exitement in the patient, the process is one of sympathy or sympathetic induction of emotion or feeling, when the most prominent result of the process of inte-action is the assimilation of the bodily movements of the patient to those of the agent we speak of imitation."
- ↑ Recapitulation theory of G. Stanley Hall (1846-1924) of Johns Hopkins University.
- ↑ मालविकाग्निमित्रम् १/४
- ↑ रघुवंशम् १४।६६