मनोविज्ञाने शिक्षणस्वरूपम्
मनोविज्ञाने शिक्षणस्वरूपम् अतीव गहनः विषयः वर्तते, येन शिक्षणक्षेत्रे महान् लाभः भवति। सर्वं शिक्षणमभ्यासनिर्माणरूपम्। अभ्यासस्वरूपमनिर्माणेनियमादिविवेचनन्तु व्याख्यातचरम्। वयं सम्प्रति शिक्षणसामान्यक्रिया वस्तुतः कथं घटते ? इति सर्वं पशुमनोविज्ञानाध्ययनोपात्तानुसन्धानस्यानुसारं विवेचयामः । अभ्यासरूपन्तु शिक्षणस्योत्कृष्टं लोकगोचरं रूपम्; किन्तु प्रारम्भिकीस्ववस्थासु शिक्षाप्रक्रियायाः किं स्वरूपम् ? काँश्च नियमाननुसृत्य शिक्षणं सम्यक्तया जायते ? इति सर्वं विविधैः पशुमनुष्यप्रयोगैरधुना प्रपञ्चितं कुर्मः। वस्तुतो निखिलं जीवनं शिक्षणापरनामधेयम् । शिक्षणं नाम परिस्थिति- सामञ्जस्यार्थे व्यवहारपरिवर्तनं वस्तुस्वरूपावबोधपुरस्सरम्, किमुत यथोचितचिन्तनाभ्यास- चेष्टाभ्यासनिर्माणम्। प्रतिक्षणं प्रतिपदं वयं किमपि नूनं शिक्षामहे । यत्कर्म वयं कुर्मः, यमनुभवं वयमनुभवामः, तेनैव वर्धते खल्वस्माकं चेष्टाभ्यासचिन्तनाभ्यासोपोद्धलितो वस्तुस्वरूपावबोधः, तदेव शिक्षणमित्याचक्षते । नहि कश्चिच्छिक्षणं विना क्षणमप्यवतिष्ठते। प्रतिपुरुषं ये मनुष्येषु बुद्धिभावनाक्रियाभेदा जातु वर्तन्ते, ते सर्वे एव शिक्षणभेदा इति वक्तुमुपपद्यते। अस्मासु केचन शीघ्रं शिक्षन्ते, अपरेषु शिक्षणाभिमुखी प्रवृत्तिर्नोपलभ्यते । केचन जिज्ञासाप्रकर्षात्, बुद्धिप्रकर्षात्, साधनविशेषसम्पन्नत्वादधिकं शिक्षितुं प्रभवन्त्यन्येषामपेक्षया। नहि केवलमिदं मनुष्याणामेव शिक्षणम्। व्याख्यातचरे द्वितीयाऽ- ध्यायोपवर्णितमनोविकासावसरेऽस्माभिः जेनिङ्ग्समहाभागानां [१] प्राणिशास्त्रविशारदानां मतमुद्भावितमासीत्। तैर्महानुभावैः १९६३ वैक्रमाब्दे “ निम्नस्तरीयप्राणिनां व्यवहारः इति नामके ग्रन्थे प्रतिपादितं यद्धि सर्वे जन्तव आ अमीबप्राणिनो मनुष्यपर्यन्तं शिक्षन्ते । अमीबन्तु हानिप्रदखाद्यपदार्थेभ्य: स्वाङ्गानि विकर्षति, किमुत विषाक्त- खाद्यकणेभ्य उपरमते। एतदेव तस्य शिक्षणरूपम् । किन्तु मनुष्यस्तु साम्प्रतमणुबमं निर्मिमीते, वायुयानचालनं शिक्षते, मस्तिष्ककरोटिपटलमपसार्य संज्ञाचेष्टायतनानामध्ययन- मुपक्रमते । यः कश्चिद् भेदो द्वयोरेव शिक्षणे विद्यते स जाटिल्यमात्राव्यपेक्षया वर्तते । शिक्षणस्वरूपनिर्धारणाय प्रथमो हि श्लाघ्य उपक्रमो हरवर्टमहोदयानां जर्मनदेशीय-दार्शनिकमनोवैज्ञानिकप्रवराणामेव । तैस्तु १८७३ वैक्रमाब्दे खलु मनोविज्ञानविषयमधिकृत्य प्रथमं पुस्तकमर्वाचीनमनोविज्ञानस्य “मनोविज्ञानस्य पाठ्यपुस्तकम्" इत्याख्यं प्रणीतम् । तैर्महानुभावैः शिक्षोपयोगिमनोविज्ञानसिद्धान्ताः सर्वप्रथमं प्रतिपादिताः । अत्रैवाङ्गल- भाषीय‘साइकोलाजी’ इति पदस्याद्यः प्रयोगो वैज्ञानिकशैल्यनुमत उपलभ्यते। तदनन्तरं पेस्टालजी-‘स्पैंसर-जेम्स थार्नडाइकप्रभृतिभिर्ये ये प्रयोगाः समारब्धास्तैस्तैः शिक्षणस्य मनोवैज्ञानिकरूपं विशदतया आविष्कृतम्। वयमत्र काँश्चन प्रयोगान् विविच्य शिक्षणसिद्धान्तान् व्याख्यास्यामः ।
पशूनामध्ययनम्
सम्पादयतुननु किं पशवोऽपि बुद्धिमन्तो भवन्ति ? किमुत तेऽपि शिक्षन्ते ? किंस्विद् मस्तुलुङ्गीयाः क्रियास्तेष्वप्युपलभ्यन्ते ? डार्विनमहोदयैर्विकासवादमतस्फोरणान्तरं बहुभिर्मनोवैज्ञानिकैः शारीरविज्ञानविशारदैश्च पशूनामध्ययनं समारब्धम्। रोमानीसमार्गनप्रभृतिभिः१ पशूनामध्ययनानन्तरं मूलप्रवृत्तिबौद्धिकक्रियारूपं तेषां क्रिया- कलापमुद्वावितम्। वयं सम्प्रति थार्नडाइकमहोदयानां पशुमनोविज्ञानतुलनात्मकमनो- विज्ञानयोः प्रवर्तकानां प्रयोगविवेचनमारभामहे । १९५४ वैक्रमाब्दे प्राध्यापकजेम्स- महोदयानामन्तेवासी थार्नडाइकमहोदयो ऽध्ययनकाल एव कुक्कुटशावकेषु प्रयोगात् समारब्धवान्। एकवर्षानन्तरं स कोलम्बियाविश्वविद्यालये मनोवैज्ञानिकानुसन्धानशालां स्थापयित्वा मार्जारषु श्वसु वानरेषु च प्रयोगान् समारब्धवान्। उदाहरणतो बुभुक्षित एको मार्जारः काष्ठमयपिटिकायां छिद्रबहुलायां निक्षिप्तः । तत्पुरतश्च भोजनमेकस्यां स्थाल्यां पिटिकाया बहिः प्रस्तुतम् । लौहतन्तुसङ्कर्षणेन कीलकशीर्षकस्य 'बटना' ख्यस्य प्रत्यावर्तनेन द्वारमपावृतं कृत्वैव स मार्जारो भोजनमादातुं प्रभवति स्म । प्रथमवारं काष्ठमयपिटिकायाः स्तम्भान्तरालेषु गन्तुकामो मार्जारः सक्रोधं विविधायासैर्नखाकर्षण- घर्षणादिक्रियाभिः प्रयत्नान् बहुशश्चकार । प्रयत्नस्खलितविधिना मार्जारोऽन्ततो गत्वास्मात् कीलकशीर्षकं बटनाभिधं परिवर्त्य द्वारमपावृतं कृत्वा भोजनं बहिःस्थं लब्धवान् । द्वितीयवारं यदा मार्जारस्तद्विधायां काष्ठपिटिकायां निक्षिप्तो जातः, स पूर्वापेक्षया किञ्चिच्छीघ्रतरमेव प्रयत्नस्खलितात्मकैरनिर्दिष्टप्रयत्नैरेव कीलकशीर्षकं बटनमवाप्तवान्। तत्परिवर्तनेन द्वारमपावृत्य च भोजनं लब्धवान् । थार्नडाइकमहोदयैर्निर्णीतं यत्प्रतिवारं किञ्चिन्न्यूनतरकालानन्तरमेवाल्पतरप्रयत्नस्खलितात्मकैरायासैश्च स भोजनार्थं बटनं गृहीतवान्। अन्ते च साक्षादेकमपि स्खलितं विना स बटनं परिवर्त्य द्वारमपावृतमकरोत् । मार्जाराध्ययनप्रगतिर्यद्यपि प्रतिपदं समानरूपेण न वर्धते इति स्पष्टं प्रतिभाति, तथापि कियत्कालान्तरं बटनपरिवर्तनमचिरेण सम्पाद्यत इति निष्प्रत्यूहमध्ययनं शिक्षणं वा मार्जारस्य साधयति। इतरेषां प्राणिनामध्ययनेनापि समर्थितोऽयं निष्कर्षः । वानराणां शिक्षणप्रगतिर्विशेषेण शुनां मार्जाराणाञ्चापेक्षया शीघ्रतरा भवतीति प्रयोगैः साधितम् । थार्नडाइकमहोदयः पशूनामध्ययनेन महत्त्वपूर्णनिष्कर्षानालोडितवान्। क्षुत्पिपासा- शारीरिकावश्यकताद्यवसरेषु कोऽपि पशुः प्रयत्नस्खलितात्मकं व्यवहारं प्रदर्शयति । कियत्सफलप्रयत्नानन्तरं शिक्षणं जायते, अनिर्दिष्टनिरर्थकप्रयत्नाश्च क्रमात् परित्यक्ता भवन्ति। किञ्च, अन्यपरिस्थित्यामपि कश्चित् पशुः पूर्वावसरानुभूतसफलप्रतिक्रियाविधेरुपयोगं करोत्येव। अर्थादेकस्मादुत्तेजकादन्यदुत्तेजकं प्रति प्रतिक्रिया: प्रतिनियता जायन्ते । थार्नडाइकमहोदयेन ‘सम्बन्धजन्यपरिवर्तनम्' इति व्यपदेशोऽस्य प्रतिक्रियापरिवर्तनस्य कृतः । किन्त्वस्य पेवलोवमहोदयैः प्रागुक्ताभिः प्रतिनियतसहजक्रियाभिः साम्यं सुमहदित्यवगन्तव्यम्।
मानुषीयमध्ययनम्
सम्पादयतुकथं मनुष्याणामध्ययनं खलु घटते ? कथं नु बालक: शिक्षते ? अस्य प्रश्नस्य समाधानार्थं शिकागोविश्वविद्यालयीयप्राध्यापकप्रवरैः कारमहोदयैः प्रयोगशतानन्तरं निर्णीतं यद्धि पटपिहितनेत्रा वयस्का मानवा बालकाश्च जटिलचक्रेषु मार्गान्वेषणाध्ययने मार्जाराणामिव शुनामिव वाचरन्ति । यथा पशवः प्रयत्नस्खलितविधिना समीचीनं प्रतिक्रियारूपमधीयते, तथैव बालका अपि । प्राध्यापकप्रवरपैरिनमहाशयानां मते मनुष्याणां प्रतिक्रिया जटिलचक्रेषु बाह्यस्थेषु समुपस्थितेषूद्यानादिषु पिहितचक्षुर्भिश्च मार्गणादिप्रयोगेषु च द्विविधा एवाकस्मात् प्रेरितानिर्दिष्टक्रियारूपा न भवन्ति, प्रत्युत तैस्तैर्मनुष्यैः कल्पनाप्रत्यक्षं (प्रत्यक्षमेव वा) योजनाविशेषकल्पनम्, तर्कणम्, सफलताभिनिष्क्रमणपरञ्च समाश्रितम्। अतो मनुष्याणां शिक्षणं पशूनामिव केवलमाकस्मिक- प्रयत्नस्खलितोपात्तमेव न भवति, प्रत्युत तस्मिन्नेकस्यान्यतरस्य सर्वेषां वा अग्रतो वर्णितसाधनानामुपयोगः क्रियते । तानि च कारणानि - (अ) मौखिकं क्रियासम्पादनम्, (आ) कल्पनाप्रतिमानिर्माणम्। (इ) चेष्टात्मकं शिक्षणम्, यथा- प्रयत्नस्खलितविधिरूपम्। एतेषु मौखिकं क्रियासम्पादनं सर्वोत्कृष्टम्, चेष्टात्मकं निकृष्टम्, कल्पनाप्रतिमानिर्माणं मध्यमं साधनमिति मनोवैज्ञानिका मन्यन्ते। कल्पनाप्रतिमानिर्माणन्तु सर्वत्रैव मात्राभेदेन विद्यते, अतस्तस्यैव सर्वोपुर्युपयोगित्वमापाततः सिद्धमित्यस्माकं मतम्।
प्रतिनियता प्रतिक्रिया
सम्पादयतु१९५८ वैक्रमाब्दे रूसदेशीयशारीरविज्ञानविशारदैः पैवलोवमहोदयैः प्रतिनियत- सहजक्रियाविषयकः प्रयोगः कुक्कुरेष्वभिनिर्वृतश्चतुर्थाध्याये सहजक्रियाव्याख्याना- वसरेऽस्माभिर्व्याख्यातचरः । मनोवैज्ञानिकदृष्ट्यास्य महत्त्वमपरिमेयम् । यदा कुक्कुराय भोजनं प्रदीयते तदा प्रतिवारं घण्टिकावादनमपि जायते भोजने सम्प्रस्तुते कुक्कुराय लालारसनिःस्रवणं जायते । कालान्तरे भोजनासहकृतमपि घण्टिकावादनं यदा जायते, कुक्कुरस्य लालारसनिःस्रवणरूपसहजक्रियाया: क्रियाकारित्वं दृश्यते । अनेन प्रयोगेण पैवलोवमहाशयेन शिक्षणस्यैकं विशिष्टं रूपमाविष्कृतम् । प्रयोगैः सिद्धं यद्धि केवलं लालरसनि:स्रवणरूपसहजक्रिया घण्टिकावादनेन सह प्रतिनियता अभिसम्बद्धा वा जायते, अपि तु प्रकाशेन, गन्धविशेषेण, स्पार्शनोत्तेजकेन वा सार्धमपि कुक्कुरस्य लालारसनिःस्रवणसहजक्रियाया प्रतिनियतत्वमभिसम्बद्धत्वं वा सम्पद्यत इति । पैवलोवमहोदयैः स्वप्रयोगैरेतदपि साधितं यद्धि घण्टिकाभोजनयोर्युगपद्भावेनायुगपद्भावेन वापि लालारसनिःस्रवणसहजक्रियायाः प्रतिनियतत्वमभिसम्बद्धत्वं साधितुं शक्यते । उदाहरणतो यदि भोजनप्रदानाद् द्वित्रकलापूर्वमेव घण्टिकावादनं जायेत, तर्हि लालारसनिःस्रवणं तावन्न भविष्यति यावन्न घण्टिकावादनान्तरमपि द्वित्रकला व्यतीता न भवेयुः । अन्यैर्बहुभिर्मनोवैज्ञानिकैः साधितं यद्धि न केवलं सहजक्रिया एवापि त्वन्याः प्रतिक्रिया अपि प्रतिनियता भवन्ति । तेषां मते 'सहजक्रियाप्रतिनियतत्वम्' सङ्कीर्णपदम्, अत एव ‘प्रतिक्रियाप्रतिनियतत्वम्', 'प्रतिक्रियाभिसम्बद्धत्वम्' वा तत्स्थाने ते व्यवहरन्ति। प्रतिक्रियाभिसम्बद्धत्वेन जातु सकलसम्बन्धजन्याध्ययनस्य व्याख्या कर्तुं शक्यते। वाट्सनप्रभृतिभिः, यैः पशुशिक्षणस्य महतायासेन परिशीलनं संवृत्तम्, 'प्रतिनियता सहजक्रिया' इति रूपं पैवलोवमतं नितरां समादृतम्, प्रकृष्टाध्ययनविधित्वात्। लिखितभाषावचनहावभावविशेषेषु जाग्रदवस्थायां प्रतिनियतप्रतिक्रियारूपकं शिक्षण- मनुपदमुपलभ्यते।
अन्तर्दृष्टिजन्यं शिक्षणम्
सम्पादयतुशिक्षणमन्तर्दृष्टिप्रभवमिति समष्टिवादिनां वर्दीमार-बुलफेंग कोहलर-कोफ्काप्रभृतीनां मतम्। तन्मते थार्नडाइकवाट्सनादिभिः प्रतिपादिता पशुशिक्षणस्वरूपव्याख्या समीचीना नास्ति। यदि जटिलचक्रं सम्यक्तया प्रस्तुतं भवेन्नहि पशवस्तर्हि सर्वदा प्रयत्नस्तलित- विधिद्वारैव सर्वदा शिक्षन्ते, यथा थार्नडाइकमहोदया मन्यन्ते । नापि शिक्षणं साधारणोत्तेजकविषयप्रतिक्रियासम्बन्धस्थापनमात्रम्, यथा व्यवहारवादिनो वाट्सनप्रभृतयः प्रतिपादयन्ति। यदि प्रस्तुता समस्या लक्ष्यबिन्दुमार्गणपरा, किमुत सम्बन्धावधारणपरा" भवेत्, पशुरपि मनुष्य इव द्रुतं तामवगन्तुं शक्नुयात् । वस्तुतस्तेषां मते शिक्षणं नाम समष्टिपरिस्थितिं प्रति समष्टिप्रतिक्रिया। उपर्युक्तं मतद्वयमेवांशतः प्रतिक्रियारूपमङ्गीकुर्वन्ति । प्रथममहायुद्धे बन्दीभूतेन कोहलरमहोदयेन कैनारीद्वीपसमूहे बहव: प्रयोगा वानराणां शिक्षणप्रगतिविषयमधिकृत्य सम्पादिता । ते यथा - एकस्य कक्षस्य गोपानस्यां तेन रश्म्यैकं कदलीफलमाबद्धम्, एकस्मिन् कक्षकोणे पिटिका काष्ठनिम्मितैका च निक्षिप्ता; तामभिरुह्य लम्बमानकदलीफलादानं दुष्करं नासीत् । कोहलरमहोदयेन - 'किं वानराः समीचीनं स्थलं निर्धार्य्य, पिटिकां यथास्थाने निक्षिप्य, कदलीफलान्यादातुं शक्नुवन्ति ? इति प्रश्नस्य समाधानार्थमेते प्रयोगाः समारब्धाः । नर्तनक्रन्दनोत्पतनानन्तरं ते पिटिकां यथास्थानं संस्थाप्य कदलीफलानि गृहीतवन्तः । एकस्मिश्चान्ये प्रयोगे यष्टिमादाय कदलीफलानि तैः प्राप्तानि । सुल्तानो नाम वानरसत्तम: सर्वाधिकं चातुर्य्यं प्रदर्शितवान् । वंशयष्टिद्वयमादाय, बन्धेनेनैकीकृत्य तया दीर्घयष्ट्या स्वभोजनं गृहीतवान्। अन्यच्च, वृक्षाच्छाखामेकामादाय तया कदलीफलं समाहृत्य स्वकीये पिञ्जरे निक्षिप्तवान् । कोहलरस्यैतेषु प्रयोगेषु पशुभिर्नूनं प्रयत्नस्खलितानि कृतान्येव, किन्तु तैस्तत्तद्वस्तुसम्बन्धा अप्यवधारिताः । कदाचन त्विदं सम्बन्धावधारणमतीव शीघ्रं सम्पन्नम्। परिस्थितिसमष्ट्यवबोधेनैव प्रतिक्रियासमष्टिरूपं सम्बन्धावधारणात्मकं निष्पद्यत इति तेषां तात्पर्यम्।
शिक्षणनियमाः
सम्पादयतुशिक्षणस्वरूपमधिकृत्योपर्यस्माभिः केचन प्रयोगा मूर्धन्यमनोवैज्ञानिकानां व्याख्याताः। तानालोड्यैते नियमाः प्रतिपाद्यन्ते- (अ) कर्मानुभवप्रभवं शिक्षणम्। १. परिणामनियमः । २. अभ्यासनियमः । ३. तत्परतानियमः । (आ) अनुकरणजन्यं शिक्षणम् । (इ) प्रतिनियतप्रतिक्रियानिष्पन्नं शिक्षणम् । (ई) अन्तर्दृष्टिप्रभवं शिक्षणम् । साम्प्रतं वयमेतान् क्रमशो विचारयामः ।
कर्मानुभवप्रभवं शिक्षणम्
सम्पादयतुइदं मतं थार्नडाइकमहोदयैरुद्भावितं लायडमार्गनप्रभृतिभिरनुमोदितञ्चास्ति। कर्मसम्पादनेन वारं वारं मनुष्यस्तत्कर्म शिक्षंते, कर्तुं प्रभवतीति यावत् । 'प्रयत्नं कुरु, स्खलितानि भवन्तु नाम' एष आदेशः । यः कर्म करोति, नूनमारम्भे तेन स्खलितान्यपि क्रियन्ते । किन्तु कियञ्चिरं यावदेव स्खलितानि जायन्ते । तदनन्तरं तानि दूरीभवन्ति । स च तत्कर्मसम्पादने कुशलोऽभ्यस्तो वा जायते । प्रयत्नस्खलितविधिरिति व्यपदेशेनाप्ययं नियमः प्रथते। अस्य रूपं गौरवञ्च स्मृतिकारैरेवमुन्नीतम्- आरभेत हि कर्माणि श्रान्तः श्रान्तः पुनः पुनः । कर्माण्यारभमाणं हि पुरुषं श्रीर्निषेवते ॥ कर्म कुर्वन्नेव मानवः स्खलितान्यपाकृत्य तदभ्यासोपेतो जायते। एतन्मतस्फोरणाय थार्नडाइकमहोदया निम्नलिखितनियमत्रयमपि निर्धारयन्ति । ते यथा- १. परिणामनियमः । २. अभ्यासनियमः । ३. तत्परतानियमः।
परिणामनियमः
सम्पादयतुनूनं कर्माभ्यासेनैव शिक्षणमभिसम्पद्यते । ननु कथं कर्म- सम्पादनमात्रं शिक्षणाय कल्पते ? अस्य प्रश्नस्य समाधानं थार्नडाइकमहोदयेन सन्तोषा- सन्तोषनियमेन व्याख्यातम् । यस्याः क्रियायाः परिणामः प्राणिनं सुखीकरोति, क सुखं पुरस्कारं वादत्ते, सा क्रिया पौनःपुन्येन सम्पाद्यतेऽभ्यस्यते च प्राणिना । यच्च कर्म परिणामे दुःखं जनयति, कष्टमावहति, दण्डाय वा कल्पते, तदचिरेण परित्यज्यते, तदर्थं प्राणी नैवाभिप्रवृत्तो भवति । किञ्च तस्याभ्यासोऽपि न जायते। तस्य शिक्षणमप्य- सम्भाव्यम्। पुरस्कृतो बालकः प्रतिदिनं पाठशालां गच्छति । अग्निना दग्धः शिशुर्नैवाग्नि स्पृशति। अतः परिणामानुसारं शिक्षणमिति बोद्धव्यम् ।
अभ्यासनियमः
सम्पादयतुअभ्यासस्वरूपं व्याख्यातचरम्। अभ्यस्ते कर्मण्युत्तेजकविषय- प्रतिक्रिययोः सम्बन्धाः स्थायित्वमापद्यन्ते । अनभ्यासदशायां कर्मसम्पादने उत्तेजकस्य प्रतिक्रियया सह सम्बन्धाभिनवत्वात् कश्चनायासो जायते, कालोऽप्यधिक एव कर्म- सम्पादनार्थमपेक्षते। सङ्गीतनृत्यगायनादीनि कर्माणि नूनमभ्यासेनैव शिक्षितानि भवन्ति । व्यापकेऽर्थे सर्वं शिक्षणं खल्वभ्यासरूपं बिभर्त्ति ।
तत्परतानियमः
सम्पादयतुअनेन नियमेन प्रतिपाद्यते यद्धि खल्वभिरुचिं विना नाप्यभ्यासः, न च परिणामविशेष एवाध्ययनाय कल्पते। शिक्षणमभिरुच्यधीनम्, यतो ह्यभिरुचिसन्निधाने ध्यानं सर्वदा विद्यते। नहि शिक्षणं नाम ध्यानासहकृतमभिनिर्वर्तते। अतो मनोवैज्ञानिकाः प्रतिपादयन्ति–तत्परतायां विद्यमानायां शिक्षणमभिसम्पद्यत इति। तत्परताया अभावे बालका न पठन्ति, ध्यानाभावात् । अतोऽध्यापकैस्तथा प्रयतितव्यं यथा बालकानामभिरुचि- सहकृता पाठं प्रति तत्परता जायेत । शिक्षणप्रगतिरपि तत्परतासद्भावे नितरां संवर्धत इति निष्प्रत्यूहम् ।
अनुकरणेन शिक्षणम्'
सम्पादयतुपरमविश्वस्तमध्ययनं तदेव यत्स्वयं कर्म सम्पाद्य कोऽपि मनुष्यः शिक्षते, किन्तु जटिलमानवव्यवहारस्येयत्तावगाहनं ज्ञानवैचित्र्यवैपुल्यावगाहनं वा स्वकीयैः कर्मभिर्जन्मसहस्रेणापि कश्चिन्मानवः कर्तुं न प्रभवति। अतः काँश्चन विषयान् वयमनुकरणेन गुरूणामवगच्छामः। केवलं प्रयत्नस्खलितरूपैः कर्मभिः प्रशस्ततरोन्नतिर्दुःसाध्येति वयं मन्यामहे। गरुमातापितृणामनुकरणेन बालकः सामाजिकसदाचारानभिजानाति। भोजना- च्छादनगमनविधीनामवबोधोऽन्येषाञ्चासङ्ख्येयानां कर्मणामनुकरणेनैव सम्भाव्यते।
अन्तर्दृष्टिप्रभवं ज्ञानम्
सम्पादयतुएतत्सर्वं पूर्वं समष्टिवादव्याख्याने व्याख्यातचरम्। जटिलपरिस्थित्यां बालको मिष्टान्नमादातुं पीठिकासमुच्चयं रचयति । तमारुह्य च मिष्टान्मादत्ते । नूनं सर्वमिदं कल्पनोपेतान्तर्दृष्टिजन्यम्, किमुत प्रातिभज्ञानासादितं भवतीति तात्पर्यम्। कोहलरमहोदयस्य वानरेण सुलतानेनान्यैश्च वानरैरेवम्प्रकारकं कौशलं प्रातिभं ज्ञानमन्तर्दृष्टिर्वा सुष्ठुतरं प्रदर्शिता ।
प्रतिनियतप्रतिक्रियाप्रभवं शिक्षणम्
सम्पादयतुएतत्सर्वं प्रागेव पैवलोवमहोदयानां प्रयोगविवेचनावसरे व्याख्यातम् ।
शिक्षणानुगतनाडीतन्त्रक्रियाविवेचनम्
सम्पादयतुननु शिक्षणे नाडीतन्त्रीयाः क्रियाः कीदृश्यो भवन्ति ? नाडीतन्त्रस्य विशदं विवेचनं व्याख्यातचरम्। तत्रास्माभिर्वर्णितं यद्धि द्विविधानि नाडीकन्दाणुकानि भवन्ति - संज्ञावाहीनि, चेष्टावाहीनि च । विलियमजेम्समहोदयेन १९४७ वैक्रमाब्दे सर्वप्रथममुद्भावितं यद्धि मानवस्यैकस्य चाक्षुषप्रत्यक्षे तन्नामश्रावणप्रत्यक्षे च मस्तुलुङ्गीयायतनद्वयमेव क्रियान्वितं जायते। मस्तुलुङ्गे तयोः संज्ञावाहिचेष्टावाहिनाडीस्रोतसोरेव संयोजनं सम्पद्यते। संयोजनरूपेणानेन सम्बन्धेन कालात्यये नामश्रवणमात्रेण तदाननस्य स्मृतिरुत्पद्यते । किं वा, तस्मिन् दृष्टे सति, तन्नामस्मरणमनायासेन जायते। तदेकवर्षानन्तरं १९४८ वैक्रमाब्दे जर्मनदेशीयनाडीविज्ञानपारङ्गतेन' वाल्डेयरमहोदयेन' नाडीकन्दाणुकमत- मुद्भावितम्। नाडीकोषाणुकानि तन्मते 'नाडीकन्दाणुकम्' इति व्यपदेशेन व्याख्यातानि । परस्परं नाडीकन्दाणुकानां मेलनं नाडीसम्बन्धस्थले व्याख्यातपूर्वे सम्पद्यते। यद्यपि तत्प्रतिपादितं नाडीकन्दाणुकमतमद्यावधि शारीरकमनोविज्ञानवेत्तृभिरङ्गीक्रियते, तथापि विद्यते हि नाडीविज्ञानविशारदानां कश्चन व्यामोह : - किन्नु खलु नाडीसम्बन्धस्थले नाडीकन्दाणुकानां वस्तुतो मेलनं जायते ? किमुत पृथग्भूते द्वे अपि नाडीकन्दाणुके नाडीवेगात् परस्परं मिलिते इवाचरत ? इति नाडीसम्बन्धस्थलैर्नाडीस्रोतसां वेगातिशये बाधाः समुपस्थाप्यन्ते। वाल्डेयरमहोदयेनानुव्याख्यातं यद्धि शिक्षणे नाडीसम्बन्धजनितबाधा क्षयति, तद्व्यावृत्तनाडीसम्बन्धेषु च बाधा वर्धते । नाडीवेगा बाधारहितमागैरेवाभिगच्छन्ति। अभ्यासेन केचन नाडीसम्बन्धा विशदीभवन्ति, येषु नाडीस्रोतांस्यप्रतिहतगत्या वहन्ति । अभ्यासप्रतिकूलनाडीसम्बन्धेषु बाधा वर्धन्ते। अध्ययनं तर्हि नाडीसम्बन्धान् विशिष्टमार्गेषु विशदीकरोति, अभिनवनाडीस्रोतांसि चोन्मुखानि करोति । शैरिङ्गटनप्रभृतिभिस्तदनन्तरं वाल्डेयरमहोदयानां नाडीकन्दाणुकमतं परिवर्धितं विशदतया व्याख्यातञ्च । नाडीसम्बन्धक्रियाकलापव्याख्यानं तथापि यथापूर्वमद्यावधि प्रचलति ।
स्थायिशिक्षणविशेषाः
सम्पादयतुशिक्षणनियमास्तु व्याख्यातपूर्वाः । सम्प्रति वयं स्थायिशिक्षणस्य के के विशेषा भवन्तीत्यधिकृत्य विवेचनं करिष्यामः । अत्र प्रागुक्तप्रयोगाणामुपसंहारः करिष्यते । (१) यदा मूलप्रवृत्तिप्रयोजनादिजन्या प्रेरणा विद्यते, तदैव शिक्षणस्य प्रगतिर्विशेषेण दृष्टिगोचरा भवति। भोजननिर्वृतो मूषको जटिलचक्रे प्रवेष्टुं मार्गमन्वेष्टुं वा नोपक्रमते । बुभुक्षितो मूषको भृशं धावति। अन्ततो गत्वा मार्गं समीचीनमन्वेष्टुं प्रभवति। दृश्यते हि लोके यद्धि परीक्षासन्निधाने परीक्षार्थिनोऽत्यर्थं पठन्ति । धनिकानां पुत्राणामपेक्षया दरिद्राणां पुत्राः सर्वदैव शिक्षणे चरमं साफल्यमवाप्नुवन्ति । प्रेरणाविहीना दरिद्राणां पुत्रा अपि विफला भवन्ति। अध्ययनवेलायां शिक्षणाय प्रेरणावबोधोऽपेक्षतेऽध्येतुः, न तु परिस्थितिविशेषान्तर्भूतप्रेरणासत्त्वमात्रम् । (२) यदि प्रेरणा प्रयोजनं वा बाधिते भवतस्तर्हि शिक्षणं न जायते । अर्थाद् मार्ग एव इच्छापूर्त्याग्रतो मार्गान्वेषणार्थं मूषको न प्रवर्तते । बाधामतिक्रम्य नूनं प्रयोजना- नुकूलप्रतिक्रियावधारणं सम्भवति। सङ्घर्षमयजीवनं येषां भवति, तेषामनुभवप्रकर्षोऽपि भवति। अनुभवप्रकर्षो नाम परिस्थित्यनुकूलप्रतिक्रियाज्ञानमिति । प्रतिक्रिया नामाचरणमिति। (३) प्रथमं तावच्छिक्षणक्रियायामुच्छृङ्खला निर्दिष्टक्रियाः प्रादुर्भवन्ति। एवंविधा: क्रियाः पशुप्रयोगेष्वाविर्भवन्ति, मोटरयानवहने टङ्कणाध्ययने वा दृश्यन्ते । (४) सफलाः प्रतिक्रियाः प्रायोऽकस्मात् जायन्ते। प्रयत्नस्खलितविधौ विशिष्ट- परिस्थित्यां पूर्वनियोजितायां तदनुरूपं विशिष्टमेव फलं जनयिष्यत इति वक्तुं न शक्यते । प्राणी कुर्वन्नेव कर्माकस्मात् सफलां प्रतिक्रियां प्रदत्ते । तेन वाधीता शिक्षिता वा क्रिया पुनरावर्त्यते। (५) मानवशिक्षणे कल्पनाप्रतिमानिर्माणेन शिक्षणसौकर्य्यमभिसम्पद्यते। कल्पना- निर्माणासादितं वस्तुस्वरूपसम्बन्धनिर्धारणं जायते । सम्बन्धबोधादृते शिक्षणं नाभिनिर्वर्तत इति सुष्ठुक्तं समष्टिवादिना । (६) परिणामाभीष्टत्वं नूनं स्थायिशिक्षणाय कल्पते । येन येन कर्मणा सुखावहः परिणामो जन्यते, तत्तदेव कर्म पौनःपुन्येनाभ्यस्यते प्राणिना । कष्टप्रदं कर्म, यन्न रोचते, नैवाऽभ्यासविषयत्वमवाप्नोति । (७) अभिरुचिप्रकर्षेणाध्ययनं द्रुततरमधिकञ्च जायते । प्रयत्नस्खलितविधिना प्रतिनियतप्रतिक्रियया च शिक्षणप्रगतिः क्रमश ईषद्विलम्बेन जायते । किन्तु मूलप्रवृत्ति- पुरस्कारादर्शादिकारणसामग्रीसन्निधानेऽध्ययनं शीघ्रतरं जायत इति निःसन्देहम् । अन्यच्च, अन्तर्दृष्टिसमुपेतं शिक्षणं समुत्साहं वर्धते । (८) यस्मिन् शिक्षणे पृथग्भूतज्ञानेषु सम्बन्धाः सुदृढा निर्मीयन्ते, बाधाश्च विजित्य यस्य स्वरूपं निष्पन्नं भवति, यच्च वारं वारं कर्मसम्पादनेनावाप्यते, तन्नूनं प्राणिनोऽनुभवस्य राशौ स्थायित्वं लभत इति ।
सन्दर्भाः
सम्पादयतु- ↑ Herbert S. Jenings, 'Behaviour of Lower Organisms" (1906)