मनोविज्ञाने सविकल्पकप्रत्यक्षविवेचनम्

मनोविज्ञाने सविकल्पकप्रत्यक्षविवेचनम् अतीव महत्त्वपूर्णम् अस्ति।

सविकल्पकप्रत्यक्षस्वरूपम्

सम्पादयतु

आलोचनज्ञानस्वरूपेन्द्रियक्रियाकलापादिविवेचनं पूर्वस्मिन्नध्याये व्याख्यातम् । वयं सम्प्रति सविकल्पकप्रत्यक्षस्वरूपमनुव्याख्यास्यामः । प्राक् तु साधितमेवास्माभि- र्यन्निर्विकल्पकं प्रत्यक्षं सविकल्पकप्रत्यक्षपूर्ववर्तिज्ञानं भवति । आलोचनज्ञानस्य निर्माणे प्रकारज्ञानं विशेष्यज्ञानं संसर्गज्ञानञ्चेति ज्ञानत्रयमेव स्वरूपतो वर्तते। नहि तत्र तेषां प्रकारत्वेन विशेष्यत्वेन संसर्गत्वेन च सम्बन्धावगाहिज्ञानं प्रादुर्भवति । किन्तु सविकल्पके प्रत्यक्षे तेन तेन रूपेण तत्सम्बन्धावगाहिज्ञानं समुत्पद्यते । अत एवास्त्यस्य सविकल्पकात्मकमिति व्यपदेशः । यथा हि 'दण्डी पुरुष:' इति विशिष्टबुद्धौ दण्डे प्रकारताख्या, पुरुषे विशेष्यताख्या, तयोः संयोगे च संसर्गताख्या विषयता भासते। निर्विकल्पके प्रत्यक्षे आलोचनज्ञानसंज्ञके विशेषणविशेष्यसंसर्गाणां स्वरूपमात्रं भासते, न तु परस्परं तयोः संश्लेषः । सविकल्पके प्रत्यक्षे तेषां परस्परं सम्बन्धोऽप्यवगाह्यते । अत एव सविकल्पकं प्रत्यक्षं संसर्गावगाहिज्ञानमित्यप्यभिधीयते । प्रत्यक्षं हीन्द्रियार्थसन्निकर्षजं ज्ञानं भवति । इन्द्रियमित्यत्र समनस्कमित्यवसेयम्। ध्यानाभावे नहीन्द्रियार्थसन्निकर्षः सम्यक्तयोपद्यते । अस्ति च प्रत्यक्षं वर्तमानविषयग्राहि। भूतकालिकं भविष्यत्कालिकं वा पदार्थजातं प्रत्ययजातं वा स्मृतिविषय: कल्पनाविषयो वा भवितुमर्हति । नहि तस्येन्द्रियैः प्रत्यक्षं कर्तुं शक्यते, इन्द्रियसन्निकर्षाभावात्। यथा हि वयं प्रतिदिनं पशून् पश्यामः, मनुष्यैः सह वदामः सौरभं जिघ्रामः, सङ्गीतं शृणुमः, सुमधुरमन्नमास्वादयामः, मृदुकुसुमानि स्पृशाम इति सर्वं प्रत्यक्षनिदर्शनम् । सन्निकर्षो नाम इन्द्रियस्य विषयेण सह सम्बन्धः । यथा घटप्रत्यक्षे सौरभप्रत्यक्षे वा घटेन सह सांख्यमतेऽ- चक्षुषः संयोगसम्बन्धः, सौरभेण सह तु न्यायमते संयुक्तसमवायसम्बन्ध:, र्वाचीनानां मनोवैज्ञानिकानां मते च संयोग एव सम्बन्धः । निर्विकल्पकं ज्ञानं निर्विषयं ज्ञानं न भवतीति त्वस्माभिः प्रागेव प्रपञ्चितम् । तत्र विषयतात्रयस्याभावे चतुर्थी विषयता विद्यत इति तु नैयायिकानां मतम् । अद्वैतवादिनां मते निर्विकल्पकज्ञानत्वं नामाखण्डार्थविषयकत्वम्, संसर्गानवगाहियथार्थज्ञानत्वमिति यावत्। तदुक्तं हि तत्त्वप्रदीपिकायां श्रीमच्चित्सुखाचार्यैः- संसर्गासङ्गिसम्यग्धीहेतुता या गिरामियम् । उक्ताखण्डार्थता यद्वा तत्प्रातिपदिकार्थता ॥ इति । नह्यर्वाचीनमनोविज्ञानाचार्य्यमतेन सार्धमुपर्युक्तमतद्वयं संवदति। नास्त्यालोचनज्ञाने चतुर्थी विषयता। नाप्यस्त्यत्राखण्डार्थावभासः । अस्ति ह्यालोचनज्ञानं विशिष्टं ज्ञानम्, यन्मनोविज्ञानप्रतिपाद्यम्। विशिष्टैकैकपदार्थनिष्ठत्वादालोचनज्ञानमपि विशिष्टं ज्ञानमिति निगद्यते । विद्यन्ते हि तत्र प्रकारताविषयता (विशेषणविषयता), विशेष्यताविषयता, संसर्गताविषयता च स्वरूपतः। किन्तु तासां निरूप्यनिरूपकभावसम्बन्धाभावेन निर्विकल्पकं ज्ञानं तत्तत्प्रकारकं तत्तत्पदार्थनिष्ठं सदपि, सम्बद्धज्ञानमिव 'श्यामो घट:' इति ज्ञानमिव न सविकल्पतां भजते। अपि च, निर्विकल्पकज्ञाने मनोविज्ञानप्रतिपाद्योऽस्ति हि विविधेन्द्रिय- क्रियाकलापः साङ्गोपाङ्गः प्राधान्येन कारणीभूतः । युज्यते च निर्विकल्पकज्ञानस्याखण्डार्थत्व- विरहितत्वम्, विशिष्टबुद्ध्यात्मकसविकल्पकज्ञानान्नियतपूर्ववर्तित्वात्। नह्यालोचनज्ञाने तत्तद्विषयकत्वमन्तरा सविकल्पके प्रत्यक्षे तत्तपदार्थविशेषावगाहिज्ञानत्वमुपपद्यते । अव्यक्तमस्पष्टं ज्ञानं तर्हि सविकल्पकप्रत्यक्षभूमाववतीर्य व्यक्तसम्बन्धं स्पष्टञ्च जायत इत्यस्माकं तात्पर्यम्। महर्षिगौतमेन " अव्यपदेश्यं प्रत्यक्षं ज्ञानम्" इत्येवमुक्तस्य वचनस्याप्यव्यक्तस्वरूपमुद्दिश्य प्रत्यक्षनिर्वचनेऽभिसन्धिरवसेयः। इन्द्रियसन्निकृष्टपदार्थ- सद्भावात् कल्पनाविषयाभावाच्च 'व्यवसायात्मकम्' इति पदमुन्नेयम्। अन्यथा स्पष्टस्वरूपा- भावे निर्विकल्पकप्रत्यक्षस्य कथं व्यवसायात्मकत्वमुच्येत ? वस्तुतः प्रमाणीभूतं व्यवसायात्मकन्तु सविकल्पकं ज्ञानम्; किन्तु तत्र शुद्धवस्तुज्ञानाद्व्यतिरिक्तं पूर्वानुभूत- प्रत्ययनामजात्यादियोजनायाः सन्निवेशोऽपि विद्यत एव । नूनं विशुद्धमिन्द्रियजन्यं ज्ञानं निर्विकल्पकम्; किन्तु विचारपूर्वानुभूतप्रत्ययादिकल्पनादिसंवलितं सविकल्पकं प्रत्यक्षम्। सविकल्पके प्रत्यक्षे सत्येव भ्रमस्य निरासो भवितुमर्हति; यतो हि निर्विकल्पकं प्रत्यक्षन्तु भ्रमप्रमयोः समानमेव । अत एव प्रत्यक्षं द्विविधमेव सर्वतन्त्रस्वतन्त्राचार्य्यवाचस्पतिमिश्रेण गौतमप्रणीतसूत्रात्प्रत्यक्षव्याख्यानपरात् समालोडितम्। नूनं श्लाघनीयोऽयं प्रयत्नः। एतत् सविकल्पकं प्रत्यक्षं किम्प्रकारकं सपरिकरमिति वयमिदानीं विवेचयामः ।

प्रत्यक्षभेदाः

सम्पादयतु

विविधपदार्थानामितरेतरव्यावृत्तमिन्द्रियजन्यं यज्ज्ञानं तत्सविकल्पकम्। विषयभेदा- तर्हि प्रत्यक्षभेदा अपि विचार्यन्ते । विषयस्वरूपमधिकृत्य ये सविकल्पकप्रत्यक्षभेदा अत्र विचार्यन्ते, नहि सविकल्पकप्रत्यक्षस्वरूपे तैरापादितः कश्चन भेद: सञ्जायत इत्यवधेयम्। अस्तु।

(अ) पदार्थतद्गुणप्रत्यक्षम्

सम्पादयतु

प्रथमन्तावत् पदार्थानां तद्गुणानाञ्च प्रत्यक्षं विवेच्यते । वयं यदा घटं पश्यामस्तदा घटप्रत्यक्षमिति निगद्यते; चक्षुरिन्द्रियस्य घटपदार्थेन सह सन्निकर्षात्। एवमेव न केवलं वयं घटमेव पश्यामोऽपि तु तस्य शुक्लत्वश्यामत्वपृथुबुध्नोदरत्वादिकमपि पश्यामः। अत्रेदं घटविशेषणप्रत्यक्षम् । 'शुक्ला गौ:' इति प्रत्यक्षे न वयं गौरिति पदार्थमेव केवलं पश्यामोऽपि तु तस्याः शुक्लत्वमपि । एवमेव सामान्यगुणानां प्रत्यक्षमपि व्यक्तिप्रत्यक्षसहकृतमेव जायते । गोप्रत्यक्षे सति गोत्वजातिसमानाधिकरणगुणानां प्रत्यक्षमपि जायते। प्राचीन भारतीयन्यायशास्त्रे तु प्रत्यक्षविषयेन्द्रियसन्निकर्षोऽपि षोढा विषयानुसार- मभिमत आसीत्। तथा हि- (१) संयोगः - प्रत्यक्षज्ञानहेतुः प्रथमोऽयमिन्द्रियार्थसन्निकर्षः। उदाहरणतश्चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षो भवति । (२) संयुक्तसमवायः - घटनिष्ठस्य श्यामशुक्लादिगुणस्य संयुक्तसमवायो द्वितीयः सन्निकर्षः; चक्षुःसंयुक्ते घटे रूपस्य समवायात् । (३) संयुक्तसमवेतसमवायः - रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षो भवति, चक्षुःसंयुक्ते घटे रूपं समवेतं तत्र च रूपत्वस्य समवायात्। (४) समवायः - श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः, कर्णविवरवर्त्या- काशस्य श्रोत्रत्वाच्छब्दस्याकाशगुणत्वाद् गुणगुणिनोश्च समवायात्। (५) समवेतसमवायः - शब्दत्वसाक्षात्कारे समवेतसमवाय: सन्निकर्षः, श्रोत्र- समवेते शब्दे शब्दत्वस्य समवायात्। (६) विशेषणविशेष्यभावः - अभावप्रत्यक्षे एण सन्निकर्ष उपलभ्यते । 'घटाभाव- वद् भूतलम्' इत्यत्रा चक्षुः संयुक्ते भूतले घटाभावस्य विशेषणत्वादिति । इन्द्रियसन्निकर्षस्येत्थं प्रौढं विवेचनमर्वाचीनमनोवैज्ञानिकैरद्यावधि नैव प्रपञ्चितम्। उपर्युक्तेषूदाहरणेषु ह्याद्यं सन्निकर्षत्रयन्तु व्याख्यातचरम् । शब्दसाक्षात्कारे प्रागुक्तरीत्या संयोग एव सन्निकर्ष एष्टव्यः। यतो हि श्रावणप्रत्यक्षविषयीभूतं श्रावणालोचनज्ञानस्य योग्यमुत्तेजकं वा वायुतरङ्गजातम्। वस्तुभूतं खल्वेतत् । निदर्शने दुष्टेऽपि सन्निकर्षभेदस्तु समीचीन एवेति प्रतिभात्यस्मान्। अत्रेदं स्मरणीयं यद्धि पूर्वानुभूतसमानविषयस्मृतिसंस्कारोपेतं हि सविकल्पकं ज्ञानं भवति। बौद्धदर्शनपारिभाषिकपदावल्यनुसारन्तु सविकल्पकं प्रत्यक्षं कल्पनोपेतं भवति। कल्पना हि तस्मिन् तन्त्रे “नामजात्यादियोजना” इत्यभिमता। औत्तरकालिकेऽद्यतने वाऽश्वप्रत्यक्षे बालकस्य पूर्वदृष्टाश्वगुणप्रत्ययादिसन्निवेशात् संस्कारसमवेतं तत्प्रत्ययसंस्कार- जातैः स्पष्टतरमनुव्याख्यातं वाश्वप्रत्यक्षं जायते। अस्तु तर्हि प्रत्यक्षे प्रचुरं पूर्वानुभवप्रत्यय- संस्काराधानम्। अर्थसंवादि ज्ञानं सविकल्पकं प्रत्यक्षम् । यत्प्रत्यक्षं विषयेण सह न संवदति, नहि तत् सविकल्पकं प्रत्यक्षम् अपि तु भ्रमो विपर्ययो वा । भ्रमस्वरूपविवेचनं तु वयमग्रे करिष्यामः। सविकल्पकं प्रत्यक्षं समुपस्थितवस्तुस्वरूपं पूर्वानुभवप्रत्ययानुसारं व्याख्यातुं प्रयतते। यदा सफलोऽयं प्रयत्नः संशयादिकं निरसितुं शक्नोति, तदा हि व्यवसायात्मकं ज्ञानमुदेति । नामजात्यादियोजनाया वस्तुस्वरूपं विशदीक्रियते, व्याख्यां स्फुटतां वा लभते । अत एवेदमालोचनज्ञानस्य परिणतावस्था । सविकल्पकं ज्ञानं वस्तुगुणादीनां व्यपदेशकमपि भवत्येव ।

(आ) दिग्देशप्रत्यक्षम्

सम्पादयतु

नहि वयं केवलं पदार्थान् तद्गुणाँश्च पश्यामः, अपि तु वस्तुविशेषदेशं तद्दिशं तद्दूरत्वञ्चापि पश्यामः । दिग्देशदूरत्वादिज्ञानं तर्हि सविकल्पकप्रत्यक्षस्यापरः प्रकारविशेषः। अयं पदार्थः सन्निकृष्टः, तच्च वस्तु सुदूरवर्ति, इति दूरत्वज्ञानं नूनं प्रत्यक्षजन्यम्। ‘इयं प्राची', 'इयमवाची', 'इयमुदीची', 'इयं प्रतीची' इत्यादि व्यवहारा- साधारणं कारणं नूनं दिक्प्रत्यक्षम् । 'रामस्य गृहं मद्गृहात् पश्चिमतः, रमेशोपाध्याय- गृहाच्च पूर्वतो वर्तते' इति ज्ञानं हि खलु पदार्थावस्थानविषयकं प्रत्यक्षम् । यदा वयमुपरि पश्यामस्तदा गृहतोरणोत्तुङ्गाट्टालिकाविमानादीनामवस्थानसामीप्यदूरत्वादिविषयकं ज्ञानं सविकल्पकप्रत्यक्षमात्रेणैव जन्यते । दिग्देशावस्थानादिप्रत्यक्षं हि खलु महते व्यवहार- सौकर्य्याय कल्पते। वस्त्ववस्थानं सम्यक्तया ज्ञात्वा हि वयं तत्प्रति स्वकीयचेष्टामारभामहे । शिशुर्हि दूरत्वादिसविकल्पकप्रत्यक्षक्षमताभावे चन्द्रमसमप्यादातुं प्रयतते । नूनं तदा तस्यालोचनमेव प्रत्यक्षं विद्यते । कालान्तरे प्रत्ययानुभवादिविकासे सति बालकश्चन्द्रमसं दृष्ट्वापि ग्रहीतुं न प्रयतते । तदा हि सविकल्पकप्रत्यक्षेण जन्यते । तस्य दूरत्वादिज्ञानं पूर्वप्रत्ययानुभवाद्यनुगृहीतमेव सविकल्पकं प्रत्यक्षं भवतीति वर्णितपूर्वम्। सन्निकटो हि पदार्थो बृहदाकारको दृश्यते विप्रकृष्टश्च ह्रस्वाकारः । शिशोर्हि दूरत्वावस्थानप्रत्यक्षे चाक्षुषस्पार्शनपेशीजन्यप्रत्यक्षयोः सहयोगपुरस्सरं सद्भावो विद्यत इत्यवदातमेव सर्वम् ।

(इ) कालप्रत्यक्षम्

सम्पादयतु

कियन्तं कालं यावदेकोऽनुभवो विद्यत इति ज्ञानन्तु कालप्रत्यक्षम्। व्याख्यानान्तराल एव खेलप्रतियोगितान्तराले वा केचन पुरुषा विद्यार्थिनो वा कियान् कालो व्यतीतः, कदा वा खेलाः समाप्ता भविष्यन्तीति निश्चेतुं प्रभवन्ति । परीक्षाकाले हि समयो द्रुतगत्या व्येति, मनोरञ्जके हि व्याख्याने सार्धघटिकापि क्षणमिव व्यतीता जायते। किं कारणम् ? नूनं कालविषयकं प्रत्यक्षमिच्छां समारुह्य धावति । यदीच्छा मार्गेऽवरुद्धा जायेत, कालोऽपि सविलम्बं गच्छति। किन्तु यदेच्छा समुत्साहमूलप्रवृत्तिसमन्वितानवरुद्धा स्वलक्ष्यमभिप्रवर्तते, तदा सुमहान् कालोऽपि क्षणमिव व्यतीतः प्रतीयते । तथा हि महाकविभवभूतिरचितोत्तररामचरिते “अविदितगतयामा रात्रिरेव व्यरंसीत् ""। अपि च भोजब्रह्मचारिसंवादे श्रूयते- शीतेनाध्युषितस्य माघजलवच्चिन्तार्णवे मज्जतः शान्ताग्नेः स्फुटिताधरस्य धमतः क्षुत्क्षामकुक्षेर्मम । निद्रा क्वाप्यवमानितेव दयिता सन्त्यज्य दूरङ्गता सत्पात्रे प्रतिपादितेव कमला नो हीयते शर्वरी ।। इति । अतः कालप्रत्यक्षमिच्छादिसव्यपेक्षम्। अत एव घटिकायन्त्रानुकूलमेव सर्वदा सर्वेषां प्रत्यक्षं नोपलभ्यते । तथापि सन्ति केचन पुरुषा ये सगर्वं सविकल्पकप्रत्यक्षेण कालनिर्देशं समीचीनं कर्तुं प्रभवन्ति। तेषां हि गर्वोक्तिरस्मान् श्रीमदुदयनाचार्यस्योक्तिमिमां भूरि भूरि स्मारयति । तथा हि- वयमिह पदविद्यां तर्कमान्वीक्षिकीं वा यदि पथि विपथे वा वर्तयामः स पन्थाः । उदयति दिशि यस्यां भानुमान् सैव पूर्वा नहि तरणिरुदीते दिक्पराधीनवृत्तिः ॥ इति । सगर्वाणामपि तेषां कालज्ञानं निःस्पृहं वस्त्वपेक्षं भवतीति सर्वमूह्यम् ।

(ई) गतिप्रत्यक्षम्

सम्पादयतु

गतिशीलपदार्थोऽपि द्रष्टुं शक्यते । अत एव गतिप्रत्यक्षमपि सिद्धमेवेति निष्प्रत्यूहम् । पुच्छलतारिकाकाशेऽवपतन्ती गच्छन्ती वा केन न दृष्टा ? वायुयानमपि नभसि गच्छद् वयं सर्वे एव पश्याम:, यद्यपि तस्य चालकयन्त्रस्य इञ्जिनाभिधस्य कोऽपि रवो न श्रूयते। गतिशीलपदार्थानां पुच्छलतारावायुयानादीनां दर्शनाद् गतिप्रत्यक्षत्वं युज्यत एव। चित्रपटे गतिप्रत्यक्षोपोद्बलितभ्रममुत्पाद्य चित्रपटसञ्चालका अहर्निशं रूप्यकसहस्रमर्जयन्ति। पृथग्भूतान्यपि चित्राणि स्वतो गतिविहीनानि विशेषवेगेन प्रवर्तमानानि गतिभ्रमं जनयन्ति । तद्वति तत्प्रकारकं ज्ञानं प्रत्यक्षं सत्यं प्रमेति वोच्यते। अतद्वति तत्प्रकारकं ज्ञानं भ्रमः। वयं भ्रमस्वरूपमग्रे विशदतया विवेचयिष्यामः । अत्र तु केवलमिदमेव तु प्रतिपाद्यं यद्धि गतिशीलानां पदार्थानां तद्गतेश्च प्रत्यक्षं जायते, तस्य च चित्रपटे चरममुदाहरणं समुपलभ्यते । नहि केवलं गतिप्रत्यक्षं चाक्षुषमेव भवति । त्वगिन्द्रयेणापि गतिप्रत्यक्षं जायते। यदि कापि पिपीलिका शरीरोपर्युपसरति, तदा तस्या गच्छन्त्या अङ्गविशेषानुबन्धिप्रत्यक्षं ज्ञानं प्रतिपदं जायते। अतस्त्वाचमपि गतिप्रत्यक्षं भवति । श्रावणं प्रत्यक्षमपि कदाचन जायते। “अद्य किलाचार्य्यनरेन्द्रदेवमहोदयानां व्याख्यानं 'टाउनहाल' स्थले भविष्यति” इति सूचना डिण्डिमघोषपूर्वकं विज्ञापयितुर्गतिशीलाश्वशकटस्थितस्य पुरुषस्य ध्वनिनैव तस्य सन्निकृष्टमागच्छतः श्रावणरूपं प्रत्यक्षं कर्तुं शक्यते । अपि च, पिहितनेत्रा अपि वयं स्वकीयभुजस्योत्क्षेपणमवक्षेपणञ्च ज्ञातुं शक्नुमः । तयोर्दिशमपि ज्ञातुं प्रत्यक्षेण प्रभवामः। इदं हस्तगतिप्रत्यक्षन्तु तत्रत्यपेशीस्नायुसन्धिस्थज्ञानेन्द्रियविशेषैर्जन्यते ।

(उ) सौन्दर्यप्रत्यक्षम्

सम्पादयतु

सविकल्पकप्रत्यक्षस्य पञ्चमः प्रकारः सौन्दर्यप्रत्यक्षं भवति । पर्वतीयदृश्ये रमणीये सौन्दर्यानुभवो नूनं प्रत्यक्षजन्यः । किमपि सुन्दरं वस्तु सहसा दृष्ट्वा वयं ब्रूमः ‘अलौकिकं हि खलु सौन्दर्यमस्य' इति । अनायासमुक्ते वचनमिदं नहि विचारप्रभवम्, सहसोक्तत्वात्। दर्शनोत्थं खल्विदं वचनम्। बालिकायास्तालसहितं मधुरं स्वरं श्रुत्वा मनोहारित्वं तस्य श्रावणप्रत्यक्षेणैवानुभूयते। स्वाभाविकसौन्दर्यस्य मनोमुग्धकारित्वं दर्शनमात्रेण कियदधिकं भवतीति कविकुलगुरुणा महाकविकालिदासेन सर्वं सुष्ठु स्फुटमभिज्ञानशाकुन्तले प्रतिपादितम् । तथा हि- सरसिजमनुविद्धं शैवलेनापि रम्यं मलिगमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥ इति । भवन्ति हि खलु पुरुषाणां स्त्रीणां पदार्थानाञ्च गुणविशेषाः, ये दर्शकानां चेतांसि बलादाकर्षयन्ति । पद्मिन्याः सौन्दर्यं विश्वविश्रुतम्, यद्दर्शनमात्रलोलुपो यवनाधिपोऽलाउद्दीनखिलजिनामासीत्। समानञ्च सौन्दर्यप्रत्यक्षं बर्बरसभ्यपुरुषेष्वप्युलभ्यते । सौन्दर्यप्रत्यक्षेण वयं रमणीयं वस्तु प्रति समाकृष्टा भवामः, असुन्दरं वा दृष्ट्वा वयं तद्वस्तु प्रत्युदासीना भवामः। ननु कथं सौन्दर्यानुभवः प्रत्यक्षं ज्ञानं भवति ? यावन्तः पुरुषास्तावन्त एव तेषां सुन्दरवस्तुविषयकविचाराः । एकवस्तुजन्यप्रत्यक्षं ज्ञानं प्रतिपुरुषं भिद्यते । सौन्दर्यासौन्दर्यविषये प्रायो मतैक्यं नोपलभ्यते । एवं सम्प्राप्तायामाशङ्कायां वयं प्रतिवदामः । बाढम्, सौन्दर्यासौन्दर्यप्रत्यक्षे विविधपुरुषाणां मतैक्यं यद्यपि कदाचन नोपलभ्यते, तथापि दृश्यते हि लोकानां वर्णविशेषं प्रति, स्वरतालग्रामविशेषं प्रति, शरीराङ्गविशेषसौष्ठवं प्रति विशेषाभिरुचिः। यत्र मतवैचित्र्यं जायते, तत्र तत् पूर्वानुभवविरोधिसंस्कारोपेतत्वादेव सविकल्पकप्रत्यक्षस्य। नहि सर्वदा सविकल्पकं प्रत्यक्षमपि सर्वेषां पुरुषाणामभिन्नं भवति। वस्त्वालोचनज्ञाने समाने सत्यपि पूर्वप्रत्ययसंस्काराहितकल्पनाभेदात् सविकल्पक- प्रत्यक्षेऽपि कदाचन मतैक्यराहित्यमुपलभ्यत इति सर्वमवदातम् ।

(ऊ) सामाजिकं प्रत्यक्षम्

सम्पादयतु

प्रत्यक्षज्ञानस्य षष्ठः प्रकारः सामाजिकं प्रत्यक्षम् । सामाजिकप्रत्यक्षसंवलितो ह्यस्माकमधिकतमो व्यवहार उपलभ्यते । वयमनेनैव जानीमः को ह्यस्मान् द्वेष्टि, कश्चास्मान् स्निह्यति। द्वित्रवर्षीयस्य शिशोर्व्यवहारेऽपि वयं सामाजिकप्रत्यक्षस्य सुनिश्चितं रूपं लभामहे। यदि कश्चनागन्तुकः शिशुं क्रोडे कर्तुं प्रयतते, शिशुस्तावन्न तदभिमुखं गच्छति; य़ावन्न तन्मुद्राप्रत्यक्षेण तन्मनोभावं स्नेहक्रोधादिरूपं सम्यक्तया परिचिनोति । मन्यामहे सामाजिकप्रत्यक्षस्याद्यं रूपन्तु मातृमुखस्पर्शपरिचय एव सन्निहितम् । नूनं सामाजिकव्यवहारज्ञानप्रकर्षसमनन्तरमेव सामाजिकप्रत्यक्षमपि प्रौढिमवाप्नोति । विश्वेतिहासे ये विश्वविश्रुतामनवद्यां कीर्ति लब्धवन्तः, ये च स्वोपक्रमेषु सर्वदा सफला जाता:, तेषां सर्वेषामेव युगनिर्मातृणां समाजनेतॄणां राज्ञाञ्च सामाजिकं सविकल्पकं प्रत्यक्षं नितान्तं प्रौढिङ्गतमाशुकारि च सँल्लक्ष्यते । उदाहरणतो मुगलसम्राड् महान् अकबराभिधानो यत्साफल्यं साम्राज्यस्थापने यद्गौरवञ्च तत्प्रबन्धेऽवाप्तवान्, तस्य सर्वस्य रहस्यं तस्य सामाजिकप्रत्यक्षे नितान्तं परिनिष्पन्नमेव निहितम् । अद्यतनभारतीयगणतन्त्रस्य प्रथम- प्रधानमन्त्रिमहोदयानां श्रीजवाहरलालनेहरूमहोदयानां सामाजिकं प्रत्यक्षं नितान्तमुत्कृष्टं दरीदृश्यते। सामाजिकं प्रत्यक्षमिति सामाजिकाचारव्यवहारजनता तन्नेतृस्वभावादिप्रत्यक्षम्, मुखमुद्रादिजन्यमिति यावत् । सामाजिकव्यवहारोपोलितं हि तेषामुपयुक्तसहयोगिचयने जनतेच्छावश्यकतानुसारं स्वकीयकार्यक्रमनिर्धारणे च सामाजिकं प्रत्यक्षं महत् सौकर्य्य- मभूतपूर्वं साफल्यञ्चावहति । सामाजिकं प्रत्यक्षं सामाजिकव्यवाहरोचितप्रतिक्रियोत्पादनेऽस्मभ्यं क्षमतां प्रदत्ते। विश्वविश्रुतवीरनैपोलियनबोनापार्टस्य पराजयस्य मूलकारणं सामाजिक- प्रत्यक्षाभाव एव। यतो हि स योग्याधिकारिचयनेऽपाटवं प्रदर्श्य भाविन: पराजयस्य बीजं निक्षिप्तवान्। सविकल्पकं निखिलं प्रत्यक्षं प्रत्ययाभ्यासज्ञानवृद्ध्या सह प्रकर्षत्वं पूर्णत्वं लभत इति त्ववदातमेव ।

सविकल्पकप्रत्यक्षविश्लेषणम्

सम्पादयतु

वयमधुना सविकल्पकप्रत्यक्षस्य विश्लेषणं करिष्यामः। सविकल्पकप्रत्यक्ष- स्वरूपनिम्मितौ प्रत्यक्षं नूनं मुख्यतममङ्गमिति तु प्रागुक्तमेवास्माभिः । नह्यालोचनं ज्ञानमन्तरा सविकल्पकं प्रत्यक्षस्वरूपं लभते । यदि चाक्षुषमालोचनं न पूर्वं भवेत्तर्हि चाक्षुषसविकल्पकप्रत्यक्षस्य सम्भावनापि नोदेष्यति । श्रावणालोचनं ज्ञानं विना श्रावणं सविकल्पकं प्रत्यक्षमपि नोत्पद्यते। मानवशरीरेऽस्थिपञ्जर इव खलु निर्विकल्पकं प्रत्यक्षं सविकल्पकप्रत्यक्षज्ञानोत्पादनाय कल्पते । निर्विकल्पकं ज्ञानन्तु संज्ञावाहिनाडीकन्दाणुकमस्तु- लुङ्गीयसंज्ञाधिष्ठानादिप्रभवम् । ननु किं तर्हि सविकल्पकं प्रत्यक्षं ? केवलमालोचनज्ञानविशेष एवेति वक्तुं शक्यते। नाडीकन्दाणुकक्रियादिव्यापारस्तु वस्तुस्वरूपप्रतिबिम्बग्रहणरूपः । प्रतिबिम्बग्रहणञ्चौदासीन्योपात्तं कर्म । आलोचनं ज्ञानमीषदौदाषीन्योपेतं कर्म भवतु नाम, सविकल्पकं प्रत्यक्षन्तु नूनं चैतन्यव्यापारस्य सक्रियत्वमभिव्यञ्जयति। नह्यालोचने ज्ञानेऽपि सर्वांशत औदासीन्यं वर्तते । प्रागुक्तरीत्या ध्यानमन्तरा प्रत्यक्षादि ज्ञानं नोत्पद्यते । इन्द्रियाभिमुखः सन्नपि पदार्थविशेषो न तावत्प्रत्यक्षं जनयितुमलम्, यावन्नहि स जन्तोर्ध्यानं समाकर्षति। ध्याने समाकृष्टे हि वस्तुजोत्तेजनयोत्तेजितानि संज्ञावाहीनि नाडीकन्दाणुकानि जायन्ते। तदनन्तरं जायते निर्विकल्पकं प्रत्यक्षम्। यदि सम्मुखीने पदार्थे व्यक्तिविशेषस्य रुचिर्न भवेत्, नहि तत्र निर्विकल्पकप्रत्यक्षस्य सम्भावना प्रतीयेत। अत एवालोचनं ज्ञानं वस्तुप्रतिबिम्बग्रहणमात्रमिति न वाच्यम्, यद्यपीत्थमेव सामान्ययजनान् इदं प्रतिभाति । सविकल्पके प्रत्यक्षे त्वालोचनज्ञानादतिरिक्तमपि पूर्वानुभवजन्यप्रत्ययादिसमुपेतं महदनुव्याख्यानं सन्निविशते । सम्प्राप्तालोचनज्ञानस्य मन उपबृंहणं टीकामिव भाष्यमिव वा करोति। निखिलपरिस्थितिजातात्कस्यचिदेकस्य वस्तुनस्तत्प्रत्यक्षोपपादनाय चयनं क्रियते, चयनानन्तरमेव च ध्यानं समाहितं जायते । नहि ध्यानमन्तरा कस्यापि वस्तुनः प्रत्यक्षमुत्पद्यते। सुतरां तावदालोचनं ज्ञानमपि चयनपूर्वे ध्यानमपेक्षते। नह्यालोचनज्ञानस्य पूर्वानुभवासादितमनुव्याख्यानं सविकल्पकप्रत्यक्षाख्यं विभिन्नेषु पुरुषेषु समानं भवति, अपि तु पूर्वोपार्जितज्ञानाद्यनुसारमेव तदुपबृंहणं जायते । ऋषिपत्तनस्थं सङ्ग्रहालयं दृष्ट्वा भारतीयेतिहासविद्यार्थिनो दर्शनविद्यार्थिनो वा धर्मचक्रं सिंहचतुष्टयात्मकमशोकसम्राजा निर्मितस्य स्तम्भस्योपरिभागं वा पश्यतो यत् सविकल्पकं प्रत्यक्षं जायते, नहि तत्सम्भवति भोलाभिधस्य हालिकस्य । द्वयोरेवालोचनज्ञाने समाने सत्यपि पूर्वज्ञानराशिभेद एव तयोर्द्वयोः सविकल्पके प्रत्यक्षेऽन्तरमावहति । अतो रुचिगर्भितध्यानोपात्तमालोचनं ज्ञानं वस्तुजं पूर्वानुभवसंस्कारजन्यालोचनज्ञानोपबृंहणं चेति द्वयमेव सविकल्पकप्रत्यक्षस्य विशदं स्वरूपं निर्धारयति । अर्थात् सविकल्पकं प्रत्यक्षं न केवलं वस्तुप्रतिबिम्बग्रहणरूपम्, अपि तु प्रमात्रनुभवरुचिध्यानकल्पनाद्यायत्तमपीति निर्गलितार्थः ।

सविकल्पकप्रत्यक्षे किं वस्तुस्वरूपं प्रकाशते ?

सम्पादयतु

ननु किं विशुद्धं वस्तुस्वरूपं ज्ञातुमर्हति ? किं वा वयं विशुद्धवस्तुस्वरूपं ज्ञातुं शक्नुमः? वस्तुतोऽयं प्रश्नो ज्ञानमीमांसान्तर्गतः । नहि मनोविज्ञानं तत्त्वदर्शनम्, नापि ज्ञानमीमांसा। दर्शनं हि विश्वस्य चरमतात्त्विकप्रश्नावधारणार्थे प्रवर्तते, मनोविज्ञानं तु मानवव्यवहारस्य चैतन्याभिप्रेरितस्य स्वरूपाध्ययनपरमेव दृश्यते । व्यवहारातीतस्य किमुत लोकोत्तरस्य वस्तुजातस्य विशुद्धं किं स्वरूपमिति न मनोविज्ञानस्य गवेषणास्पदम्। तथापि प्रस्तुते सविकल्पप्रत्यक्षस्वरूपविषयके प्रश्ने किमपि वयं निर्देष्टुं कामयामहे । जर्मदेशीयदार्शनिकशिरोमणिना इमैनुवलकाण्टमहोदयेनोक्तं यद्धि वस्तुनो विशुद्धं पारमार्थिकं स्वरूपं दृष्टिपथं नायाति । यदस्ति प्रत्यक्षगोचरं तत्तु वस्तुव्यावहारिकं स्वरूपं किमुत वस्तुप्रातिभासिकं स्वरूपमिति । विज्ञानवादिनोऽसङ्गवसुबन्धुप्रभृतयो मन्यन्ते यद्धि बाह्यार्थसत्त्वं नैव विद्यते । या बाह्यवस्त्वाकारप्रतीतिर्जायते सा सर्वा असत्यैव। तथा ह्युक्तं वसुबन्धुना विज्ञप्तिमात्रतासिद्धौ- विज्ञप्तिमात्रमेवैतदसदर्थावभासनात् । यथा तैमिरिकस्यासत्केशचन्द्रादिदर्शनम् ॥ इति । [] सौत्रान्तिकास्तु मन्यन्ते यद्धि बाह्यार्थाः सर्वे सत्याः, किन्तु क्षणिकास्ते भवन्ति । अत एव तेषां ज्ञानमनुमितिजन्यम्। वैभाषिकाश्च बाह्यान् पदार्थान् सत्यान् प्रत्यक्षगोचरान् क्षणभङ्गुराँश्च मन्यन्ते। शून्यवादिनश्च सर्वान् पदार्थान् निर्वाणतो बाह्यार्थपर्यन्तान् निःस्वभावान् स्वरूपरहितानेव मन्यन्ते। अतस्तेषां मतेऽपि यत्प्रत्यक्षगोचरं तत्सर्वं सांवृतिकं सत्यम्, न तु पारमार्थिकं सत् । नैयायिकवैशेषिका बाह्यार्थवादिनः । एवमेव सांख्य-योग-वेदान्तादिदर्शनानि । अद्वैतवेदान्तानुसारं बाह्यं जगत् सर्वमात्मविवर्तरूपम्, तन्मते प्रत्यक्षगोचराणां बाह्यार्थानां व्यावहारिकमेव सत्त्वं नामरूपात्मकप्रपञ्चरूपेण प्रत्यक्षगोचरम्। पारमार्थिकतत्त्वन्तु ब्रह्म आत्मस्वरूपमिति । अपि चाहुः- देहात्मप्रत्ययो यद्वत् प्रमाणत्वेन कल्पितः । लौकिकं तद्वदेवेदं प्रमाणं त्वात्मनिश्चयात् ॥ इति । [] अतो विषयावच्छिन्नमेव चैतन्यं प्रमात्रवच्छिन्नचैतन्येन वृत्त्यवच्छिन्नचैतन्यद्वारा विषयीक्रियते। चैतन्यमेवोपहितं प्रत्यक्षे भासते नेतरदिति तेषां तात्पर्यम्। मनोविज्ञानन्तु मानसानुभवविश्लेषणपरत्वान्निर्धारयत्यस्मिन् विषये यद्धि सविकल्पके प्रत्यक्षे नहि केवलं वस्तुस्वरूपमेव भासते, प्रत्युत पूर्वसञ्चितवासनासंस्कारानुभावग्रन्थि- पक्षपातदिसंवलितानुव्याख्यानपुरस्सरमेव वस्तुरूपं तत्र भासते । या काचित् कल्पना आलोचनं ज्ञानमनुव्याख्यातुं प्रवर्तते, सापि वस्तुरूपमनुगृह्यैव । अस्ति हि कल्पनाया: सविकल्पकप्रत्यक्षान्महदन्तरम्। सविकल्पके प्रत्यक्षे यः कल्पनांशो विद्यते स त्वालोचनज्ञानं स्पष्टीकर्तुमेवारभते। कल्पनास्वरूपं वयमग्रेऽनुव्याख्यास्यामः । नहि नामजात्यादिव्यापारेण वस्तुस्वरूपनिर्भासं निराकर्तुं शक्यते, यथा दिङ्नागादयो विज्ञानवादिनो भारतीया बौद्धसम्प्रदायानुसारिणः, प्रतीच्याश्च बर्कलेमहोदयानुसारिणो मन्यन्ते । अस्ति हि बाह्यार्थश्चैतन्यव्यतिरिक्तः, यस्यालोचनं ज्ञानं चैतन्यव्यापारेण जन्यते। आलोचनज्ञानं परिष्कृतं भूत्वा, स्पष्टं भूत्वा सविकल्पकप्रत्यक्षरूपमाधत्ते । नूनं तस्मिन् परिष्कारे सामाजिकशिक्षावश्यकतासुखदुःखाद्यनुभवसंस्कारसंवलितं सविकल्पकं प्रत्यक्षमाविर्भवति । सविकल्पकप्रत्यक्षे कथमालोचनं ज्ञानं विकृतं कदाचन जायत इत्यधिकृत्य वयं ब्रूमः - रेलशकटे यात्रां कुर्वन्तो वयं रेलमार्गपार्श्वे स्थितान् वृक्षान् गृहादींश्च च परिभ्रमतः पश्चाद्गच्छतो वा पश्यामः । केन कारणेनेदं जायते ? रेलशकटमेव धावति न तु वृक्षा:, तथापि विकृतमेव सविकल्पकं प्रत्यक्षं जायते । अपि च, वृत्तमङ्कितं पत्रं तिरश्चीनं परिवर्तितं यदा जायते, तदेदमण्डाकार प्रतीयते । प्रत्यक्षमपि तथैव जन्यते । ये वृत्ताकारं तच्चित्रं जानन्ति, ते प्रत्यक्षमपि न विश्वसन्ति । नहि सर्वदा चक्षुः संनिधाने उपस्थितं वस्तु सविकल्पके यथातथमेव भासते, अपि तु द्रष्टुः पूर्वानुभवाकाङ्क्षापि तद्रूपं निर्धारयितुं प्रभवति । के च ते विशेषा यैर्निर्विकल्पकं ज्ञानं सर्वं सहकृतं भूत्वा सविकल्पकप्रत्यक्षरूपता- मवाप्नोतीति वयमधुना विचारयामः ।

सविकल्पकप्रत्यक्षाङ्गभूतविशेषाः

सम्पादयतु

(अ) पृष्ठभूमिराकृतिविशेषश्च

सम्पादयतु

सविकल्पकप्रत्यक्षस्याङ्गद्वयं भवति-- एकं पृष्ठभूमिपरञ्चाकृतिविशेष इति। पृष्ठभूमिस्तु समानरूपेण वर्तते, यथा नीलमाकाशम् । तस्मिँश्च य आकारविशेषो दृष्टिगोचरो भवति, यथैकं वायुयानम्, तस्यैव प्रत्यक्षं जायते । नह्येतस्मादङ्गद्वयादृते प्रत्यक्षं जन्यते। केषाञ्चिन्मनोवैज्ञानिकानां मते पृष्ठभूम्यामाकृतिविशेषनिर्धारणमेव सविकल्पकं प्रत्यक्षमिति'। कस्मिन्नपि जनसमूहे वयं नहि सर्वान् पुरुषान् प्रति समाकृष्टा भवामोऽपि तु स्वकीयं प्रतिवेशिनं सम्बन्धिनं मित्रं वा प्रत्येव । तेन सहैव वयं रहसि वार्तालापं कर्तुमिच्छामः। जनकोलाहलेऽपि तस्यैव शब्दान् वयं श्रुणुमः | जनसमूहोऽत्र पृष्ठभूमिः । मित्रं प्रतिवेशी वात्राकृतिविशेषोऽवधारणीयः । जनकोलाहल: पृष्ठभूमि:, मित्रस्य मन्दोऽपि ध्वनिराकृतिविशेष इत्युन्नेयः । निम्नलिखितचित्रेणेदं स्फुटं भविष्यति । पृष्ठभूम्याकृतिविशेषनिर्देशकं चित्रम् + उपरि लिखिते चित्रे कृष्णवर्णो भागः पृष्ठभूमिः । तस्यामाकृतिविशेष: शुक्लवर्ण: । इत्थमेवास्पष्टायाः पृष्ठभूमेरुपरि आकृतिविशेषः प्रत्यक्षगोचरो भवति । आकृतिविशेषस्येतर- व्यावृत्ताभिव्यञ्जनानुसारमेव सविकल्पकं प्रत्यक्षं स्वरूपमाधत्त इत्यवसेयम्।

(आ) संयोजनम्

सम्पादयतु

सविकल्पके प्रत्यक्षे हि वयं चैतन्यस्य संयोजनाभिव्यञ्जनं चरमं लभामहे । विविधालोचनज्ञानानां संयोजनं क्रियते । अस्ति हि कोऽपि नियमः संयोजनरूपनिर्धारणपरः ? अत्रोच्यते-परिस्थितिशिक्षासंस्कारोत्थाकाङ्क्षातात्पर्यजन्यं हि खलु संयोजनं भवति । स्वतः पौर्वापर्यक्रमागतान्यपि ह्यालोचनज्ञानानि क्षण एव परस्परं सम्बद्धानि जायन्ते । ध्यानक्षेत्रविस्तारावसरेऽस्माभिरुक्तमेव यद्धि एकस्मिन्नेव क्षणे पञ्च वा षड् वा वस्तूनि दृष्टिगोचराणि भवन्ति। संयुक्ताः शब्दा यदि भवेयुस्तर्हि नव दश वाक्षराणि दृष्टिगोचराणि भवन्तीति। मनस आशुसञ्चारित्वाद् वयमेकं द्वे वा अक्षरे दृष्ट्वा झटिति समस्तं पदं शब्दं वा कल्पनया संयोज्य सम्पूर्ण एव शब्दो मया दृष्ट इति घोषयामः । दृश्यत एकस्यापि पदस्याक्षररचनाविशेषः प्रत्यक्षरं ध्यानमपेक्षते । एवमेव विकीर्णानि पृथग्घटितानि वा लोचनज्ञानान्यञ्जसैव सम्पूर्णवस्तुस्वरूपतामापद्यन्ते । अंशमात्रं यतो ह्यालोचनज्ञानगोचरं भवति, अत एव कदाचन तस्येतरांशेन सह सङ्घर्ष इतरेतराभिभवरूपोऽपि जायते । दृश्यते मुद्रणालयेषु प्रारूपशोधने स्खलितान्येवंविधानि कतिपयांशेनाहर्निशं भवन्तीति । चित्रपटे विकीर्णचित्राणां द्रुततमगत्या प्रसारणेन तेषां संयोजनमपूर्वमुत्पद्यते। नहि पुरुषा भ्रमन्ति चित्रपटे, नापि धावन्त्येव । किन्तु क्रमशः शीघ्रतातिरेकेण प्रसारितचित्र- स्वरूपाणां तेषां गतिशीलत्वमपि भासते। बुद्धिप्रकर्षोपेतं संयोजनमप्यालोचनज्ञानेषु जायते।

(इ) मानसिकसँल्लग्नता

सम्पादयतु

अयं तावत् सविकल्पकप्रत्यक्षस्य तृतीयो विशेषः । ध्यानप्रकरणे वयमवोचाम यद्धि मानसिकसँल्लग्नता ध्यानैकाग्रीकरणाय परमो हेतुः । नूनं यानि तु ध्यानकारणानि प्रागुक्तानि तानि सर्वाण्येव प्रत्यक्षे सविकल्पके उपकारकाणि भवन्ति । स्वभावगुण- दोषभावाभिमुखतारुच्यादिर्मानसिकसँल्लग्नतायाः प्रतीक एव । सर्वोत्तमपरीक्षाफला- पादितायां प्रसन्नतायां नवयुवकः सर्वमुत्साहप्रदं मडलात्मकमेव जानाति साक्षादपरोक्षम्। प्रोषितपतिका वियुक्ता वा यदि खल्वन्यमनस्का काचन स्त्री भवेन्नहि तत्रास्ति प्रत्यक्षाभावे तस्या दोषः । अभीक्ष्णं परीक्षणैर्मनोवैज्ञानिकैः साधितं यद्धि किमपि साधारणं चित्रं दृष्ट्वा कतिपयपुरुषाणां तज्जन्यसविकल्पकप्रत्यक्षाणि विभिन्नान्येव भवन्ति, स्वस्वमानसिकभावसंस्काराकुलितत्वादिति। तेषु केचन कानिचिच्चित्राङ्गानि न वर्णयन्ति । अन्ये चित्रप्रत्यक्षेण सह किमप्यन्यद्वैशिष्ट्यं वर्णयन्ति, सकल्पनास्मृतिव्यापृतत्वात् । यं दृष्टिकोणमादाय ते प्रत्यक्षे प्रवर्तिता भवन्ति, येन च तेषां प्रायः प्रत्यक्षमनुरक्तं जायते, तेन मानसिकांशरूपेण तेषां मनोवैज्ञानिकैर्वर्गीकरणं कर्तुं शक्यते ।

(ई) अनुमितिः

सम्पादयतु

सविकल्पके प्रत्यक्षे सन्निविशते हि खल्वनुमितिरपि । एष तावच्चतुर्थो विशेषः । आलोचनं ज्ञानं त्वपेक्षाकृतमल्पमेव; किन्तु सविकल्पकं प्रत्यक्षं तदपेक्षया सुमहत् सम्पूर्णं साङ्गोपाङ्गं परस्परं समन्वितं ज्ञानम् । केन कारणेनाऽस्य सम्पूर्णत्वमुत्पद्यते ? कुतो वेदं समन्वितं रूपं परिपूर्णमिव प्रतिभाति ? नूनं सद्योजातानुमितिव्याप्तत्वादेव सविकल्पकं प्रत्यक्षमनालोचितमपि वस्तुस्वरूपविशेषं वर्णयितुमुपक्रमते । यानुमितिः सविकल्पकं प्रत्यक्षमनुप्रविशति सा विचारविस्तारशून्या तात्कालिकी च भवति । अनुभवे प्रौढिंगते सामान्यमनुमितिज्ञानं विशदविचाराभावेऽपि स्वत एवालोचनं ज्ञानं परित: प्राय आवृत्य विशदीकरोति । नह्यनुमितिः सर्वदैव सविकल्पकप्रत्यक्षाङ्गभूतेति नियमः। दूराद्विज्ञापनं द्वारस्थं निर्देशविशेषं वा पठतामस्माकं प्रत्यक्षं ज्ञानं प्रायोऽनु- मितिज्ञानमिश्रितं प्रतीयते। चक्षुरिन्द्रियतैक्ष्ण्यादिशक्तिपरीक्षणेषु यदि सार्थकसामग्रीस्थानं निरर्थकसामग्री प्रस्तुता भवेत्तर्हि प्रायोऽधिकतमाः पुरुषा असफला भवेयुः । प्राध्यापक- वार्टलेटमहोदयेन केम्ब्रिजविश्वविद्यालयीयमनोवैज्ञानिकप्रवरेण स्वकीयप्रयोगैरनुमितिज्ञानस्य सविकल्पकप्रत्यक्षाङ्गभूतत्वं साधितम् । इत्थभूत एकः प्रयोगोऽत्र चित्रेण विस्तार्यते । इदमनुमितेः सविकल्पकप्रत्यक्षाङ्गत्वसाधकं चित्रम् । काँश्चन पुरुषान् क्षणमिदं चित्रं प्रदर्श्य स पृष्टवान्-“द्वारस्थनिर्देशपट्टिकायां किं लिखितम्" ? इति । एकेन पुरुषेण निम्नलिखितमुत्तरं प्रदत्तम् - " मया स्पष्टमिदं दृष्टमिति प्रतीयते, मूर्खतापूर्णमिदम्; यतोऽहं द्रष्टुं न शक्नोमि । तथापि पश्यामि, आदेशेन अधस्ताल्लिखितम्” इति । एकेनापरेण प्रदत्तमुत्तरमेवम्प्रकारकं द्वारपिधानेन आपादितमासीत्, “प्रवेशो निषिद्धः " इति । अपरेणैकेन " दूर्वाक्षेत्राद् बहिः स्थातव्यम्" इति । अनेन दर्शकेनान्तिमेन तत्काल- मुक्तम्–“आश्चर्यम्! कथं मयेदमुक्तम्” ! तत्रोल्लिखितम् - "आदेशोल्लङ्घनकर्त्तारो दण्ड्या भवितारः” इति। अतः प्रत्यक्षे सविकल्पेऽनुमितिरनुप्रविशतीति सिद्धम्।

(उ) परिवर्तनम्

सम्पादयतु

सविकल्पकप्रत्यक्षस्य स्वरूपाङ्गभूतविशेषाः पञ्च व्याख्याताः। अत्रैकः परिस्थितिविशेषोऽपि निर्दिश्यते । परिवर्तनं हि परिस्थितौ भवत्याद्यं कारणं प्रत्यक्षस्य । यावन्न सामान्येऽनिर्दिष्टे वातावरणे किञ्चित् परिवर्तनं जायेत, तावन्न किमपि प्रत्यक्षं ज्ञानं सम्भवेत्। परिवर्तनेन हि खल्वनिर्दिष्टसर्वसामान्यपृष्ठभूमाववतरति विशिष्टाकारकः प्रत्यक्षोत्तेजेको विषयः । नहि निर्विशेषायां पृष्ठभूमौ परिवर्तनमन्तरा कापि प्रत्यक्षस्य सम्भावना विद्यत इति । प्रत्यक्षं नाम परिस्थितिघटितस्य भेदस्य परिवर्तनस्य वा प्रतिक्रियारूपमिति। नहि प्रकृतेः साम्यावस्थायां प्रत्यक्षं नाम किमपि ज्ञानं जायते। एवमाह भगवान् मनुः । तथा हि- आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ।। इति । अत: प्रत्यक्षज्ञानस्य मूलभूतं तत्त्वमिदं यद्धि परिस्थित्यां किञ्चित् परिवर्तनमाविर्भवेत्। अस्माकं शरीरस्य वितस्तिनवमांशपरिमितवर्गाकारभागे सार्धसप्तसेटकमितो भारो विद्यते भूमितले। निर्विशेषं सर्वसाधारणं हि खल्विदमत एवास्य प्रत्यक्षं न जायते । किन्तु यद्येकस्मिन्नेवास्माकं शरीरभागे वितस्तिनवमांशमिते परः सार्धसप्तसेटकमितो भारो वर्धेत, तर्हि तस्य प्रस्फुटमेव भारप्रत्यक्षमनुभूयतेऽस्माभिः । ननु किं प्रमाणं यद्धि वयं समानं भारज्ञानमवपीडनज्ञानं वा नानुभवामः ? अस्मिन् विषये ज्ञातव्यमिदं यद्धि वायुयानचालका ये वायौ ३५,००० फिटाख्यमानोपरि ४०,००० फिटाख्यमानोपरि वा (एका वितस्तिः फिटाख्यमानस्य ३।४ भागो भवति) उत्पतन्ति, नहि तैस्तदा वायोर्भारोऽवपीडनं वानुभूयते, यद्यपि तदापि प्रतिवितस्तिनवमांशमिते शरीरभागे सार्धैकसेटकमितं वायोरवपीडनं वायुभारो वा वर्तते । वायुभारस्य तु सर्वत्र समानरूपेण विद्यमानत्वाद् निर्विशेषत्वाच्च तस्य प्रत्यक्षं ज्ञानं नोपलभ्यते । इत्थमेव तितीर्षवोऽपि समुद्रतले २५-३० सेटकमानं यावद्भारं वितस्तिनवमांशवर्गाकारशरीरभागे सामान्यतया वहन्तोऽपि नानुभवन्ति। कुत: ? अविशेषत्वात् तस्य भारस्य । अतः किञ्चित् परिवर्तनं परिस्थितावावश्यकमेव प्रत्यक्षज्ञानजननायेति सिद्धं निष्प्रत्यूहम् । अन्यान्यपि यानि यानि कारणानि ध्यानोत्पादनक्षमाणि तानि सर्वाणि प्रत्यक्षज्ञानोपोद्बलकानीत्यवधार्यम्। ध्यानप्रकर्षे हि खलु सविकल्पकं ज्ञानं यथार्थं प्रमात्मकं भवति, नान्यथा।

प्रत्यक्षविषये समवष्टिवादिनां मतम्

सम्पादयतु

सम्प्रति वयं समष्टिवादिनां जर्मनदेशीयवर्दीमरकौफ्काकौहलरप्रभृतीनां मतं प्रत्यक्षं ज्ञानमधिकृत्य विवेचयामः । वर्दीमरमहोदया हि समष्टिवादाख्यमनोविज्ञानसम्प्रदायस्य प्रवर्तकाः। तेषां मते सविकल्पकं प्रत्यक्षमालोचनज्ञानमात्रं नास्ति, नापीदमालोचनज्ञानानां समूहमात्रमेव अपि तु तदधिकमेवेदमस्तीति । अयं सम्प्रदायो जर्मनभाषायां 'गेस्टाल्ट' इति नाम्ना प्रथते । 'गेस्टाल्ट' इति शब्दस्य समीचीनोऽनुवादो कर्तुं न शक्यते । आङ्गलभाषायाम् ‘आकार:’, 'प्रतिकृति:’, ‘विवर्त’' इत्यादिभिः शब्दैरस्यानुवादः क्रियते, ह्येषु कोऽपि सर्वथा विशुद्धोऽस्मान् प्रतिभाति । अस्माभिः 'समष्टिवाद' इति पदं तस्य भावार्थाभिव्यञ्जनार्थं प्रयुक्तम् । तदाशयश्चात्र विशदीक्रियते । नह्यस्य 'अवयविवाद' इत्यनुवादः कर्तव्यः, यतो हि नव्यन्यायदर्शनेऽवयविवादनामा सिद्धान्तः सुप्रथित एव गीर्वाणवाणी- शेमुषीजुषाम् । १९६७ वैक्रमाब्दे वर्दीमरमहाभागा अन्विष्टवन्तो यद्वयेकस्य चित्रस्य द्वे विवरे यदा पृथक् पृथक् क्षणं तावत् प्रकाशेते, तदा गतिमानं जायते । प्रकाशो ह्येकस्माच्चित्र- विवरादन्यद् विवरमभिगच्छत् प्रतीयते, यद्यपि तदा कापि वस्तुभूता गतिर्नोत्पद्यते । अत्र स्मरणीयमिदं यद्धि चित्रपटेष्विमं भ्रमं जनयित्वैव चित्रस्थाकृतिविशेषचलनादिरूप- गतिप्रत्यक्षमुत्पाद्यते, यद्यपि चित्रपटे किमपि न चलति । वयं तत्र शान्तानि गति शून्यानि चित्राण्येव जडीभूतानि पश्यामः । तथापि चक्षुरिन्द्रियेण सविकल्पकप्रत्यक्षं गतिशीलचित्राङ्कितपात्रयुक्तं सम्पाद्यते । अनेन प्रयोगेण प्रभाविता भूत्वा वर्दीमरमहोदयास्तेषां सहयोगिनौ च कौफकाकोहलरमहाभागौ समष्टिवादनामानं 'गेस्टाल्ट' इत्यभिधेयं सम्प्रदायं स्थापितवन्तः । अर्वाचीने मनोविज्ञानेऽनेन सम्प्रदायेन महनीयः प्रभावः समादरश्च सम्प्राप्तः । समष्टिवादानुसारं सविकल्पकं प्रत्यक्षमेका समष्टिर्भवति, यस्या विश्लेषणं न कर्तुं शक्यते। नहि तद्विश्लेषणं पृथक् पृथगवयवभूतालोचनज्ञानेषु कृत्वा वयं सविकल्पक- प्रत्यक्षस्वरूपावबोधं कर्तुं शक्नुमः । सविकल्पप्रत्यक्षरूपा समष्टिस्तदवयवसमुच्चया- दतिरिच्यते, उद्यानदृश्यमेकं नहि बहुवृक्षलतागुल्मजन्यदृश्यसमुच्चयमात्रम्, प्रत्युत तत्तु विलक्षणं सविकल्पज्ञानरूपम् । अस्य वैशिष्ट्यं नूनं नहि वाटिकास्थलतागुल्मादिषु कुत्राप्युपलभ्यते । बाढम्, सविकल्पकप्रत्यक्षसमष्ट्यावयवभूतान्यङ्गानि दर्शनगोचराणि । वर्तन्ते च तदवयवेषु परस्परं सुनिश्चिताः सम्बन्धविशेषाः । यदि तेषु सम्बन्धविशेषेषु कापि विकृतिर्जायते, समष्टिरूपसविकल्पकज्ञानमपि नूनं परिवर्तितं भविष्यतीत्यनवद्यम् । विविधालोचनज्ञानानां परस्परं सम्बन्धस्य प्रत्यक्षमपि सविकल्पकप्रत्यक्षाय महत्त्वपूर्णं भवतीति साधयितुं कोहलरमहोदयेनैकश्चातुर्य्यपूर्णः प्रयोगः कुक्कुटीषु सम्पादितः । अन्नकणाः शुभ्रे कर्बुरे च पत्रे स निक्षिप्तवान्। यदि हि कुक्कुट्यः कर्बुरवर्णपत्रादादातुमन्न- कणान् प्रयतन्ते, तर्हि ता निर्बाधं खादितुमाज्ञप्ताः । किन्तु यदा ताः श्वेतपत्रात् खादितुमन्त्र- कणान् प्रयतन्ते, तदा ता उपानत्प्रहारेण त्रासिताः । प्रयत्नशतानन्तरं ताः कर्बुरपत्रादेवान्न- कणभक्षणं शिक्षन्ते स्म । तदनन्तरं कोहलरमहोदयः श्वेतपत्रस्थाने कृष्णवर्णपत्रं निक्षिप्त- वान्। किन्तु खल्वधुनापि कुक्कुट्यः कर्बुरादेव पत्रात् खादयिष्यन्तीति गवेषणीयं जातम्। कर्बुरवर्णपत्रेण सह तु प्रतिनियता प्रतिक्रिया तासां सञ्जाता आसीत्। पूर्वस्मात् प्रयत्नात् ३-४ वारं प्रयत्नान् कृत्वा कुक्कुट्यः कृष्णवर्णपत्रादेव कर्बुरपत्रापेक्षया खादितुमारभन्ते स्म । अर्थात् कुक्कुट्यो वर्णान्तरापेक्षया कृष्णवर्णेन सम्बन्धविशेषरूपा प्रतिक्रिया प्रदेयेति शिक्षितवत्यः । नहि कुक्कुटीनां प्रतिक्रियाणां प्रतिनियतत्वमभिसम्बद्धत्वं वा कर्बुरवर्णमात्रेण सार्धमेव जातम्। अतः कुक्कुटीनां प्रत्यक्षे श्वेतकृष्णवर्णयोः सम्बन्धस्य प्रभाव एव दर्शनीयो महत्त्वपूर्णश्चासीदिति निर्गलितार्थः। अन्यसम्बन्धविशेषेषु कौफकामहोदयः पृष्ठभूम्याकृतिविशेषानुबन्धं पौनःपुन्येन सविकल्पकप्रत्यक्षेषु विद्यमानं निर्दिष्टवान्। पृष्ठभूम्याकृतिविशेषसम्बन्धस्तु व्याख्यातचरः। आकृतिविशेषो हि निर्विशेषसाधारणातिविस्तृतपृष्ठभूमौ प्रकटीभवति । सङ्गीते यथा सामरस्यतालवादनादिकं पृष्ठभूमिर्भवति, स्वरग्राममण्डलमूर्च्छनादयश्चाकृतिविशेषा बोद्धव्याः, यतो हि श्रावणप्रत्यक्षेण स्फुटीभवन्ति । कदाचनैवं भवति यद्धयेकस्मिन् सविकल्पके या पृष्ठभूमिः सैवापरे सविकल्पके प्रत्यक्षे आकृतिविशेषो प्रत्यक्षगोचरो जायते। वयमेतत् पृष्ठभूम्याकृतिविशेषपरिवर्तनं निम्नलिखितेन चित्रेण प्रदर्शयामः । उपरिलिखिते चित्रे वृद्धबालकयोश्चित्रद्वयं प्रदर्शितमिति चित्रं परावृत्य द्रष्टव्यम्। समष्टिवादिभिर्मनोवैज्ञानिकैर्निर्णीत एकोऽयं नियमो यद्वयं ह्यपूर्णं त्रिभुजं वृत्तं वा सविकल्पके प्रत्यक्षे पूरयितुं यतामहे । यथा हि निम्नलिखिते चित्रे- यद्यपि विकलाङ्गं त्रिभुजं वृत्तं चैकैकमपूर्णं विद्यते, तथापि द्वे अपि पूर्णे इव प्रतीयेते। अनवधानतया वयमपूरितान् भागान् पूरयित्वा सम्पूर्णमेव त्रिभुजं वृत्तं वा पश्यामः। एवमेव सङ्घटनं द्वित्रनिर्विकल्पकप्रत्यक्षाणां कृत्वैव वयं तेषां प्रत्यक्षं कुर्मः । इदं सङ्घटनमेव वर्णितपूर्वं संयोजनम् । वर्दीमरमहोदयेन साधितमिदं यद्धि संयोजनं सङ्घटनं वा निर्विकल्पकप्रत्यक्षाणां सामीप्यसाम्यवैषम्यसामरस्यादिगुणविशेषाननुगृह्य सम्पाद्यत इति । सुतरां समष्टिवादिनो मन्यन्ते यद्धि प्रत्येकमस्माकं सविकल्पकं प्रत्यक्षं निर्विकल्पक- प्रत्यक्षाणां सङ्घटनरूपो विलक्षणः सम्बन्धसमुच्चयः । वैशिष्ट्यं हि खल्वस्यानुभवस्ये- तरेष्वालोचनज्ञानेषु नोपलभ्यते। अवयवविशेषसमुच्चयाद्धि सविकल्पकप्रत्यक्षरूपा समष्टिरतिरिच्यते। समष्टिरूपप्रत्यक्षानुभवस्य रूपमपरिवर्त्य तदवयवभूताङ्गेषु प्रविभाजनं न कर्तुं शक्यत इति समष्टिवादिनामर्वाचीनमनोविज्ञाने प्रत्यक्षस्वरूपानुव्याख्यानपरं गौरवान्वितमनुसन्धानम् ।

प्रत्यक्षबाधकानि

सम्पादयतु

ननु कै: कैः कारणविशेषैः प्रत्यक्षोपलब्धिर्न जायते ? अथवा, सतामप्यर्थानां कैः कैर्हेतुभिः प्रत्यक्षं न जायते ? इयमाशङ्का सांख्याचार्य्येणेश्वरकृष्णेन सांख्यकारिकायामित्थं समाहिता । सा यथा- अतिदूरात्सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात् । सौक्ष्म्याद् व्यवधानादभिभवात्समानाभिहाराच्च॥ साङ्ख्यकारिका का. ७ सम्प्रति वयमिमां कारिकां प्रतिपदमनुव्याख्यास्यामः । (१) अतिदूरात् - दूरस्थानां देशान्तरस्थानां पदार्थानां प्रत्यक्षं न जायते । नहि काश्यां तिष्ठन्तो वयं लक्ष्मणपुरस्थसङ्ग्रहालयस्थवस्तूनि द्रष्टुं शक्नुमः। अतः सतामपि पदार्थानामतिदूरत्वात् प्रत्यक्षं न जायते। दूरस्थपदार्थेभ्य:- समागतप्रकाशतरङ्गजन्यप्रतिबिम्बग्रहणं दृष्टिवितानेन न सम्यक्तया सम्पाद्यते, अतिदूरत्वात्। (२) सामीप्यात् - अतिसन्निकृष्टपदार्थानामपि प्रत्यक्षं नैव जायते, यथा नेत्राञ्जनस्य । नहि दूरदृष्टिरोगेण पुरुषेण सन्निकृष्टस्य पदार्थस्य प्रत्यक्षं कर्तुं शक्यते । सामीप्यात् प्रतिबिम्बग्रहणं सुष्ठुतरं दृष्टिविताने न भवति । अत एव प्रत्यक्षमपि न जायते। प्रागुक्तरीत्या मध्यमकोट्युत्तेजको विषय एव प्रत्यक्षोत्पादनयोग्यो भवति । अतिदूरादुत्तेजकमान्द्यमुपजायते, सामीप्या- च्चातितीव्रत्वात्तस्य सम्यग्ग्रहणं नोपपद्यते । (३) इन्द्रियाभिघातात् - यथा बधिरान्धयोः शब्दरूपाद्युपलब्धिर्न जायते । जन्मन आरभ्य योऽन्धो भवति, तस्य प्रायो दृष्टिनाडी विकृता दृश्यते । स्वस्थेन्द्रिय एव प्रमाणभूतं प्रत्यक्षं कर्तुं शक्नोति । (४) मनोऽनवस्थानात् - मनस्कारादृते प्रत्यक्षं नोपपद्यत इति तु वर्णितपूर्वम्। अनवहिते मनसि इन्द्रियाण्यपि स्वविषयावगमे समर्थानि न भवन्तीति सर्वे ध्यानविवेचनीयाध्याये विस्तरेण व्याख्यातचरम् । (५) सौक्ष्म्यात् - अतिसूक्ष्मा: पदार्था अपि प्रत्यक्षायोग्याः। तेषां प्रत्यक्षावबोधार्थमणुवीक्षणयन्त्रसाहाय्यमाश्रयणीयम् । यथा चातिदूरस्थग्रहादीनां निरीक्षणार्थं ज्यौतिषाचार्य्येर्दूरवीक्षणयन्त्रादीनां साहाय्यं भृशमवाप्यते। तथापि चैतन्याद्यतिसूक्ष्मपदार्थानामिन्द्रियप्रत्यक्षं न भवति, अपि तु मानसप्रत्यक्षेणैव तेषां सत्त्वमवधार्यते। ‘प्रोटान - इलैक्ट्रोन' प्रभृतिमूलभूततत्त्वानां चरमं रूपमपि प्रत्यक्षगोचरं न भवति, सौक्ष्म्यादिति। “धूमोष्मजलनीहारपरमाणवो गगनगता नोपलभ्यन्ते” इति गौडपादाचार्य्याः । (६) व्यवधानात् - यथा कुड्येन पिहितं वस्तु नोपलभ्यते ; एवमेव व्यवहिते सति वस्तुन: प्रत्यक्षं नावगम्यते । (७) अभिभवात् - यथा सूर्यतेजसाभिभूतानां ग्रहनक्षत्रतारकादीनां प्रत्यक्षं न कर्तुं शक्यते, तथैव १०० वैद्युतदीपप्रकाशान्विते कक्षे ४० वैद्युतदीपप्रकाशग्रहणं तदभिभवात् सम्यक्तया न प्रत्यक्षगोचरम् । मन्दतममेव प्रतिभातीत्यर्थः। (८) समानाभिहारात् - यथा मुद्गराशौ समानवर्णप्रकारादिर्मुद्गः क्षिप्तः, अथवा कुबलयामलकमध्ये तद्वर्णप्रकारादिके कुबलयामलके क्षिप्ते, कपोतानां मध्ये कपोतो वा सामानवर्णो नोपलभ्यन्ते, समानद्रव्यमध्याहृतत्वा- देवम्प्रकारेण समानाभिहारात् प्रत्यक्षं न जायते । उत्तेजकस्य तीव्रत्व- मधिकृत्यास्माभिः प्रत्यक्षज्ञानजनकनिम्नतमसीमा पूर्वं व्याख्याता । निम्नतमसीमा ‘आलोचनज्ञानदेहली' इति संज्ञयास्मिन् ग्रन्थे प्रथते । वैबरफैचनरमहोदयाभ्यां प्रतिपादिता नियमा अप्यस्मिन् विषये उल्लेखनीयाः। एवम्प्रकारेण सतामप्यर्थानामष्टविधैः कारणैः प्रत्यक्षोपलब्धिर्न सम्भवति ।

अद्वैतवेदान्ताभिमतं वृत्तिनिर्गमनम्

सम्पादयतु

अद्वैतवेदान्तिनस्त्रिविधं चैतन्यमङ्गीकुर्वत्रन्त। तद्यथा - विषयचैतन्यम्, प्रमाणचैतन्यम्, प्रामतृचैतन्यञ्चेति। तत्र घटाद्यवच्छिन्नं चैतन्यं विषयचैतन्यम्, अन्तःकरणवृत्त्यवच्चिन्नं चैतन्यं प्रमाणचैतन्यम्, अन्तःकरणावच्छिन्नं चैतन्यं प्रमातृचैतन्यमिति । तेषां मते प्रत्यक्षं वृत्तिनिर्गमनमपेक्षते। तदुक्तं धर्मराजाध्वरीन्द्रेण वेदान्तपरिभाषायाम्- “तत्र यथा तटाकोदकं छिद्रान्निर्गत्य कुल्यात्मना केदारान् प्रविश्य तद्वदेव चतुष्कोणाद्याकारं भवति, तथा तैजसमन्तःकरणमपि चक्षुरादिद्वारान्निर्गत्य घटादिविषयदेशं गत्वा घटादिविषया- कारेण परिणमते। स एव परिणामो वृत्तिरित्युच्यते” इति । इदं वृत्त्यवच्छिन्नचैतन्यस्य विषयदेशगमनमनुमित्यादिस्थले न जायते। यतो हि वह्न्यादिश्चक्षुराद्यसन्निकृष्टो भवति । आचार्य्यप्रवरा अप्पयदीक्षिता अपि सिद्धान्तलेशसङ्ग्रहे वृत्तिनिर्गमनावश्यकतां तत्स्वरूपञ्चैवं 'व्याचक्षते-“अत्रोक्तं विवरणे - ब्रह्मचैतन्यं सर्वोपादानतया सर्वतादात्म्यापन्नं सत् स्वरसंसृष्टं सर्वमवभासयति, न जीवचैतन्यम्। तस्याविद्योपाधिकतया सर्वगतत्वेऽप्यनुपादानत्वेनाऽ- सङ्गित्वात्। यथा सर्वगतं गोत्वसामान्यं स्वभावादश्वादिव्यक्तिसङ्गित्वाभावेऽपि सास्नावद्- व्यक्तौ संसृज्यते, एवं विषयासङ्गयपि जीवः स्वभावादन्तःकरणे संसृज्यते । तथा च यदान्तःकरणस्य परिणामो वृत्तिरूपो नयनादिद्वारान्निर्गत्य विषयपर्यन्तं चक्षूरश्मिवद् झटिति दीर्घप्रभाकारेण परिणम्य विषयं व्याप्नोति, तदा तमुपारुह्य तं विषयं गोचरयति । केवलाग्न्यदाह्यस्यापि तृणादेरयःपिण्डसमारूढाग्निदाह्यत्ववत् केवलजीवचैतन्याप्रकाश्य- स्यापि घटादेरन्तःकरणवृत्त्युपारूढस्य तत्प्रकाश्यत्वं युक्तम्” [] इति। वृत्तिनिर्गमनानन्तरं प्रत्यक्षज्ञानं कथं जायते ? अस्य प्रश्नस्य समाधाने एतदुक्तं भवति-“तथा च-‘अयं घट:' इत्यादिप्रत्यक्षस्थले घटादेस्तदाकारवृत्तेश्च बहिरेकत्र देशे समवधानात्, तदुभयावच्छिन्नं चैतन्यमेकमेव; विभाजकयोरप्यन्तःकरणवृत्तिघटादिविषययो- रेकदेशस्थत्वेन भेदाजनकत्वात्। अत एव मठान्तर्वर्तिघटावच्छिन्नाकाशो न मठावच्छिन्नाकाशाद् भिद्यते” । इति । अन्यच्च, “तथा च-‘अयं घट:' इति प्रत्यक्षस्थले घटाकारवृत्तेर्घटसंयोगितया, घटावच्छिन्नचैतन्यस्य तद्वृत्त्यवच्छिन्नचैतन्यस्य चाभिन्नतया तत्र घटज्ञानस्य घटांशे प्रत्यक्षत्वम्” । इति । अद्वैतवेदान्तमते ‘सर्वं खल्विदं ब्रह्म' । उपाधिभेदाद् घटपटादिप्रतीतिर्भेदपूर्विका जायते। सापि व्यावहारिकी सत्तामुपादाय वर्तते । ननु किं प्रागुक्तार्वाचीनमनोविज्ञानानु- सन्धानजातमभिमुखीकृत्य वृत्तेर्विषयदेशे बहिर्निगमनमुपपद्यते ? किं वैज्ञानिकपरिशोधानु- मतमिदं वृत्तिनिर्गमनं भवति न वेति पृष्टव्यमस्माभिः साम्प्रतं वर्तते । ननु किमर्थं वृत्तिनिर्गमनमङ्गीक्रियते वेदान्तिभि: ? नूनं प्रमातृचैतन्यं वृत्तिद्वारा तत्संसृष्टविषयावच्छिन्नब्रह्म- चैतन्याभेदाभिव्यक्तौ तु तं विषयं प्रकाशयति । एकोऽपरोऽपि विकल्पो विद्यते । तदुक्तं हि-‘“अथवा जीवः सर्वगतोऽप्यविद्यावृत्तत्वात् स्वयमप्यप्रकाशमानतया विषयाननवभासयन् विषयविशेषे वृत्त्युपरांगादावरणतिरोधानेन तत्रैवाभिव्यक्तस्तमेव विषयं प्रकाशयति । एवं च चिदुपरागार्थत्वेन, विषयचैतन्याभेदाभिव्यक्त्यर्थत्वेन आवरणाभिवार्थत्वेन वा वृत्तिनिर्गमनमपेक्ष्य तत्संसृष्टविषयमात्रावभासकत्वाद् जीवस्य किञ्चिज्ज्ञत्वमुपपद्यते " इति। एवम्प्रकारेण त्रिभिर्हेतुभिर्वृत्तिनिर्गमनमङ्गीक्रियते । अर्वाचीनं मनोविज्ञानं ‘सर्वं खल्विदं ब्रह्म' इति मतं स्वीकृत्य नैव विषयप्रपञ्चनं करोति। मनोविज्ञानस्य प्रतिपाद्यविषयस्तु चैतन्यव्यापाराध्ययनं तस्य कार्यकारणभावपुरस्सरा दैनिकसांसारिकव्यवहारेऽनुलक्षिता प्रतिक्रिया च । अत्र मनसां चैतन्यस्वरूपाणामनेकत्वं तु स्वीकार्यमेव। जडविषयं विना चैतन्यव्यापारप्रतिक्रियाया व्याख्यानं नोपपद्यते। अस्मन्मते वृत्तिनिर्गमनमिति विषयदेशं प्रति चैतन्यगमनमित्यस्मिन्नर्थे अंशत उपपन्नमपि सर्वांशतो नोपपद्यते । ध्यानं नाम चैतन्यस्य प्रधानतमो व्यापारः । नहि ध्यानमन्तरा कापि मनसो वृत्तिः। ध्यानप्रेरितानि हि संज्ञावाहिनाडीस्रोतांसि विषयाभिमुखानि जायन्ते अस्मानिदं प्रतिभाति यद्धि ध्यानप्रेरितसंज्ञावाहिनाडीस्रोतसां विषयाभिखीभवनमेव वृत्तिनिर्गमनमिति युज्यते। न तु चैतन्यस्य जीवात्मरूपस्य बहिर्देशगमनमिति युज्यते, नापि नाडीस्रोतसामेव प्रतिक्रिया तत्तदिन्द्रियगोलकाद् बहिर्जायते । सन्ति हि बहुविधान्यनेकानि चोत्तेजकानि विषयभूतानि यानि बाह्यकर्णशष्कुलिं प्रविश्योत्तेजनाः पृथक् पृथग् जनयितुं प्रभवन्ति; किन्तु तेषु योग्येषूत्तेजकेष्वपि किमप्येकमेवोत्तेजकमालोचनं ज्ञानं जनयितुं शक्नोति, यतो हि तदभिमुखान्येव ध्यानाभिप्रेरितानि नाडीस्रोतांसि विशदीभवन्ति, नाडीस्रोतसां वैशद्येनाभिमुखीभावेन चैवालोचनज्ञानं जायते। सत्स्वपि बहुषूत्तेजकेषु योग्येषु दृष्टिविताने दृष्टिमण्डलस्य सङ्कोचविकाससहकृतक्रियया, यस्य तेजोरश्मीनां संव्यूहनं जायते, तस्यैव प्रतिबिम्बस्य समीचीनं ग्रहणं जायते। तदुच्यते चालोचनं ज्ञानम् । तच्चोत्तेजकप्रतिघातजन्यम् । इन्द्रियप्रतिघातरूपोत्तेजनयैवालोचनं ज्ञानमभिनिर्वर्तते। नहीन्द्रियप्रतिघातरूपोत्तेजना विषयदेशे किमु तेजोरश्मिप्रभवस्थाने जन्यतेऽपि त्विन्द्रियगोलके तत्सम्बद्धमस्तुलुङ्गीयसंज्ञायतनेषु च। यदि वैज्ञानिकमिदं क्लृप्तं तथ्यमालोचनज्ञानं मस्तुलुङ्गीयसंज्ञायतनोत्तेजनाजन्यमित्यादृतं भवेदञ्जसैव तर्हि विषयदेशं प्रति वृत्तिनिर्गमनस्य फल्गुत्वं स्फुटं भवेत् । परितः समागच्छन्ति ध्वनितरङ्गा अभिकर्णविवरम्। परितः समागच्छन्ति तेजोरश्मयो वैद्युतचुम्बकतरङ्गमयाः । कस्य ग्रहणं जायत इति न मनोवृत्तिबहिर्देशनिर्गमनापेक्षम्, प्रत्युत ध्यानक्लृप्तनाडीस्रोतसां संज्ञादानक्षमाणामभिमुखीभवनायत्तं हि तद् भवति। प्रत्यक्षं नाम चैतन्यस्य सक्रियो व्यापारः, यस्मिन् रुच्यनुकूलपदार्थचयनं तदभिमुखीभवनञ्च नाडीस्रोतसां प्राधान्येन सँल्लक्ष्यते। अतो वृत्तिममनक्षेत्रं नाडीसंस्थानमेव भवति । नहि विषयदेशं प्रति मनोवृत्तीनां विनिर्गमनमर्वाचीनमनोविज्ञानानुसन्धानदृष्ट्या भौतिकविज्ञानदृष्ट्या वा युज्यते।

हेल्महोल्ट्जमतम्

सम्पादयतु

अस्माकमिदं विवेचनं जर्मनदेशीयवैज्ञानिकप्रवरहेल्महोल्ट्जमतानुव्याख्यानादृतेऽ- पूर्णमेव भविष्यतीति वयं मन्यामहे। एकोनविंशशताब्दयां जर्मनदेशीयवैज्ञानिकानुसन्धानेषु भौतिकविज्ञानशारीरकविज्ञानमनोविज्ञानपारङ्गतानां हेल्महोल्ट्जमहोदयानामनुसन्धान- जातमग्रगण्यतमम्। श्रावणप्रत्यक्षं चाक्षुषप्रत्यक्षं चाधिकृत्य तेषां गवेषणाः सुप्रथिता एव विद्वद्वरेषु। त्रिंशद्वर्षायुः प्रागेव स शोधपूर्णनिबन्धान् प्रकाशयति स्म । चक्षुरिन्द्रियस्य सूक्ष्मान्तर्निरीक्षणस्य सौकर्येण सम्पादनार्थं स एकं 'चक्षुरन्तर्वीक्षणयन्त्रम् निर्मितवान्। अस्य यन्त्रस्य साहाय्येन दृष्टिवितानस्य साक्षादध्ययनं कर्तुं शक्यते । चक्षुरिन्द्रियस्य बाह्यस्थपेशीनामध्ययनेन स निर्णीतवान्- कथं हि दृष्टिमण्डलकेन्द्रीकरणं संव्यूहनञ्च विविधविषयाणां दूरत्वापेक्षया निष्पद्यत इति । केन्द्रीकरणं नाम सन्निकृष्टपदार्थाद् दूरस्थवस्तु प्रति चक्षुरिन्द्रियाङ्गस्य दृष्टिमण्डलस्य वैशयेन स्थिरीकरणम्। संव्यहनं नाम दूरस्थपदार्थात् सन्निकृष्टपदार्थमामिचक्षुरिन्द्रियाङ्गस्य दृष्टिमण्डलस्य कोरोदरस्येष- त्सङ्कोचेन स्थिरीकरणम्, येनाधिकतमतेजोरश्मय एकस्मिन् दृष्टिवितानस्थले प्राचुर्येण केन्द्रिता भवेयुरिति। सुविख्यातेन हेल्महोल्ट्जमतेन विविधवर्णानामालोचनज्ञानं कथमभिनिर्वर्तत इत्यपि व्याख्यातुं शक्यते। पूर्वं.व्याख्यातचरमप्येतत् सर्वम्। आङ्गलदेशीयभौतिकविज्ञानविशारदेन टामसयङ्गमहाभागेन' हेल्महोल्ट्जानुसन्धानजातमवलम्ब्य पल्लवितं किल यंग- हेल्महोल्ट्जमतम्, यदनुसारं त्रिविधसंज्ञावाहिनाडीकन्दाणुकानि दृष्टिनाड्यां दृष्टिविताने चाङ्गीक्रियन्ते। तानि यथा - एकप्रकारकं नाडीन्दाणुकं रक्तवर्णात्मकालोचनज्ञानग्राहि भवति, रश्मिरक्तवर्णप्रतिघातोत्तेजनाक्षमत्वात्तस्य । द्वितीयप्रकारकं नाडीकन्दाणुकं हरितवर्ण- संज्ञावाहि भवति, रश्मिहरितवर्णप्रतिघातोत्तेजनाक्षमत्वात्तस्य । तृतीयप्रकारकं नाडीकन्दाणुकं हि नीलजाम्बववर्णं गृह्णाति । वर्णश्च तेजोरश्मीनां तरङ्गदैर्घ्येण जायते । यस्तेजोरश्मिः गभीरहरितवर्णो भवति, स हरितवर्णोचितां संज्ञामेव जनयति । तद्ग्रहणमपि तद्वर्णोत्तेजनाग्राहिनाडीकन्दाणुकविशेषैर्व्याख्यातचरैर्जायते। पीरवर्णेन मृदुमात्रया द्विविधान्येव नाडीकन्दाणुकानि रक्तवर्णोचित्तोत्तेजनाक्षमाणि नीलवर्णोत्तेजनाग्रहणक्षमाणि च उत्तेजितानि भवन्ति। श्वेतवर्णेन सर्वविधरश्मिमिश्रणजन्येन त्रिविधान्येव नाडीकन्दाणुकान्युत्तेजितानि जायन्ते। वर्णान्धत्वकारणं हि रक्तहरितवर्णोचितसंज्ञाग्राहिनाडीकन्दाणुकानामेकविधानां द्विविधानामन्यतमानां वाभाव एव दृष्टिविताने भवति । वैज्ञानिकचूडामणेः श्रीहेमहोल्ट्जमहोदयस्य मौलिकानुसन्धानसङ्ग्रहः “शारीरिकविज्ञानीयं चाक्षुषविज्ञानम्” इति संज्ञक : १९१८ वैक्रमाब्दे जर्मनभाषायां सर्वप्रथमं प्रकाशितो जातः । सङ्गीतेऽपि वीणाया: स्वरोत्पादनविधिमधीत्यं तेन महाशयेन निर्णीतं यद्धि कथं ध्वनितरङ्गकम्पनैः स्वरभेदा जायन्ते । व्याख्यातमिदं तेनैव प्रथमं यत् कथं विविधवादनयन्त्रेषु वीणातन्त्रीवायलिनाख्यादिषु यन्त्रभेदोपोद्बलिता एकस्यैव स्वरस्योपभेदा ध्वनिभेदा वा जायन्ते।

हेमहोल्ट्जबुडवर्थमहोदययोर्मतभेदः

सम्पादयतु

हेल्महोल्ट्जमहोदयानुसारं देशदूरत्वप्रत्यक्षं दृष्टमणेः संव्यूहनकेन्द्रीकरणायत्तं भवतीति व्याख्यातपूर्वम् । अर्थाद् दूरत्वादिप्रत्यक्षे केवलं शारीरिकावयवानामेव क्रियया तज्ज्ञानमुत्पद्यते। वुडवर्थमहोदया नैतन्मनमनुमोदन्ते । तन्मते 'स्टीरयोस्कोप'" इत्यभिधा- दर्शद्वययुक्तयन्त्रसाहाय्येनावधार्य्यते यद्धि शारीरिकावयवक्रियाव्यतिरिक्तं मनोव्यापाररूप- मप्रत्याशितपूर्वम्। तच्च चक्षुषोर्व्यापारजन्यं स्थूलवस्तुनस्त्रिपार्श्वतोऽध्ययनमिति ।

द्वयादर्शकयन्त्रेण 'स्टीरयोस्कोप' इति संज्ञकेन प्रयोगः =

सम्पादयतु

ननु द्वयादर्शकयन्त्राध्ययनेन किमायातम् ? अथवा किं चक्षुषोः प्रत्येकं समानं वस्तुप्रतिबिम्बं गृह्णाति? आङ्गलदेशीयभौतिकविज्ञानविशारदेन हैटस्टोनमहाशयेन १८९५ वैक्रमाब्दे द्वयादर्शकयन्त्रमाविष्कृत्येदं निर्णीतं यद्धीषद्विशिष्टमेव प्रतिबिम्बं प्रत्येकेन चक्षुषा गृह्यते। प्रागपि ल्यौनार्डविन्सिप्रभृतिभिर्विद्वद्भिः प्रामाणीकृतमिदं यच्चक्षुर्द्वयजन्यं सन्निकृष्टवस्तुनः पृष्ठभागप्रत्यक्षज्ञानमपि सम्भाव्यमिति । आदर्शद्वयं प्रयुज्य 'स्टीरयोस्कोप' नाम्नि यन्त्रे ह्वैटस्टोनमहाशयः प्रमाणीचकार यदेकस्मिन् चक्षुषीतरापेक्षया किञ्चिद् भिन्नं प्रतिबिम्बं जायते। द्वयोरेव चक्षुषोः प्रतिबिम्बयोः सम्मेलनेन गाम्भीर्यस्य सुस्पष्टमालोचनं जायते। यदि चापरथा समानचित्रद्वयसम्मेलनं भवेन्नहि तेन तादृशगाम्भीर्यस्यालोचनं ज्ञानं जायत इति। इमं निष्कर्षं प्रमाणीकृत्यैवोपर्युक्तं बुडवर्थमहोदयानां मानसिक- क्रियाकलापोपेतत्वं दूरत्वप्रत्यक्षस्य स्फुटं जायते । स्मरणीयमत्र यद्धि हेल्महोल्ट्जमहोदयो दूरत्वाद्यध्ययनविषये निर्णीतवान् यत्परस्परं सन्निकृष्टपदार्थयोर्दूरस्थयोर्यः पदार्थः सन्निकृष्टतरो भवति, स इतरस्य व्यवधानं करोति। किञ्च वयं स्थगनापेक्षया शिरश्चालनेन पश्चादग्रे च चलनेन दूरत्वप्रत्यक्षं सम्यक्तया कर्तुं शक्नुम इति ।

सन्दर्भाः

सम्पादयतु
  1. विज्ञप्तिमात्रतासिद्धिः का. १
  2. वे०सू० शां० भा० १।१।१ ( अन्तिमः श्लोकः )
  3. सिद्धान्तलेशसङ्ग्रहः, प्रथमपरिच्छेदः, पृ० १४४ (का०सं० )

सम्बद्धाः लेखाः

सम्पादयतु