मनोविज्ञाने सहजक्रियामूलप्रवृत्त्यादिविवेचनम्
मनोविज्ञाने सहजक्रियामूलप्रवृत्त्यादिविवेचनम् अतीव महत्त्वपूर्णं कार्यं भवति। यतः तेन मनुष्यस्य आचरणे सहजक्रियायाः प्रभावः ज्ञातुं शक्यते।
ननु केयं सहजक्रिया नाम ?
सम्पादयतुअस्माभिर्नाडीतन्त्रस्य वंशानुक्रमवातावरणप्रभावस्य विवेचनं पूर्वमेव विस्तरतः सम्पादितम्। वयमधुना सहजक्रियास्वतन्त्रक्रियामूलप्रवृत्तिसामान्यप्रवृत्तीरनुव्याख्यास्यामः । नाडीतन्त्रविवेचनावसरेऽस्माभिः सहजक्रिया: प्रतिसङ्क्रमितक्रियाख्याः सङ्क्षेपत उल्लेखनं कृतम्। वयं साम्प्रतं तामेव विशदीकरिष्यामः । अपि च, वंशानुक्रमप्रभाववर्णनावसरेऽ- स्माभिरुक्तं के के गुणा: प्रसूतौ वंशानुक्रमप्रभावात् सङ्क्रामन्तीति प्रश्नस्य समाधानमुखेन हि शरीराकृतिविशेषचेष्टावहसांवेदनिकसंस्थानानि वंशपारम्पर्यायत्तानि भवन्तीति। या याश्चेष्टाः प्रवृत्तयो वा वंशपारम्पर्यायत्ता भवन्ति, यासां प्रभावो जन्मत एव सिद्ध:, यासामुद्भवे च वातावरणप्रभावो नहि स्पष्टतः सँल्लक्ष्यते, तासामप्यत्र विवेचनं करिष्यते। तासु चेष्टासु हि मूलप्रवृत्तिसामान्यप्रवृत्तीनामन्तर्भावः क्रियते। अतो वयमस्मिन्नध्यायेऽ- नधीतक्रियाणां जन्मजातस्वरूपाणाञ्चतुर्विधानां सहजक्रिया-स्वतन्त्रक्रिया - मूलप्रवृत्ति सामान्यप्रवृत्तीनां' व्याख्यानं करिष्यामः ।
अर्वाचीने युगे मूलप्रवृत्तीनां स्वरूपावधारणे मनोवैज्ञानिकानां महान् बुद्धिभेदो दृश्यते। तन्मूलन्तु तृतीयेऽध्याये स्फोटितमेवाऽस्माभिर्यतो हि व्यवहारवादिनो वातावरणा- यत्तमेव सर्वं क्रियागुणजातं सामाजिकानुभवशिक्षाप्रभवमिति मन्यन्ते । अत एव मूल-प्रवृत्तिस्वरूपमपि तैर्भृशमालोचितं विवादास्पदीभूतम् । केचन महान्तो मनोवैज्ञानिकाः, विशेषतोऽमेरिकादेशीयाः, मूलप्रवृत्तयोऽन्तर्निहितप्रेरणा: किं वा प्राणिविज्ञानीया आवश्यकता इति वदन्ति । ते तु मन्येऽल्पीयांस एव । प्रायो बहवो मनोवैज्ञानिका आक्सफोर्डविश्वविद्यालयीयप्राध्यापक प्रवरमैकडुगलमतमेवानुसरन्ति मूलप्रवृत्तीनां निरूपणविषये। अस्मानपि तन्मतमेव समीचीनतरं प्रतिभाति । अतो वयमपि तन्मतमव- लम्ब्यैव मूलप्रवृत्तीर्व्याख्यास्यामः। यथास्थानं विविधमतानां निर्देशमपि करिष्याम एव ।
सहजक्रियास्वरूपम्
सम्पादयतुव्यवहाररूपप्रतिक्रियायाः सुसरलतमरूपं हि खलु सहजक्रिया प्रतिसङ्क्रमित- क्रियऽपरनामधेया। इयं प्रतिक्रिया सरलतमोत्तेजकजन्या । यत्किञ्चिदपि मनुष्ये प्रतिक्रियारूपं व्यवहारं जनयति, तदुत्तेजकम् । उत्तेजकं प्रायो बाह्यः पदार्थ एव । किन्तु जटिलमानसिकास्ववस्थासु प्रत्यया आन्तरविकारा वाऽप्युत्तेजकमिवाचरन्ति । सरलतममुत्तेजक- मित्थम्भूतं भवति, यथा मशकदंशनं जानौ, किं वा प्रकाशातिरेक इति । सहजक्रिया अपि परस्परं भिद्यन्ते चैतन्यसंसर्गापेक्षया। सरलतमा: सहजक्रियाः, यथा नेत्रतारिकायाः सङ्कोचनं विशदीभवनं वा, स्नायुसहजक्रियाः, यादृशासु स्तोकं चैतन्यं चैतन्याभाव इव वा सँल्लक्ष्यते। तासां सहजक्रियाणां जटिलतरास्तु चैतन्यान्विता एव कदाचनानुभूयन्ते, तद्यथा—कासः, जृम्भणम्, निष्ठीवनम्, क्षवथुः, शिशुक्रन्दनमिति ।
स्काटलैण्डप्रदेशीयभिषग्वरमार्शलहालमहोदयेन सर्वप्रथमं सहजक्रियायाः परिभाषा स्पष्टीकृता। स दृष्टवान् यद्धि शिरश्छेदानन्तरमपि पशव: पेशीचेष्टाः कर्तुं शक्नुवन्तीति। कथं हि तत्सम्भवतीत्यनुसन्दधानेन तेन सहजक्रिया एवं व्याख्याता - तथा हि चैतन्यानन्विता या क्रिया मस्तुलुङ्गाप्रवर्तिता सती सुषुम्णायत्ता सा सहजक्रियेति नाम । तदनन्तरं म्यूलरमहोदयेन स्वकीये ग्रन्थे' दादुरेषु प्रत्यक्षप्रयोगैर्निश्चित्य सहजक्रियाया नाडीतन्त्रा-भिमतपदावल्याः परिभाषा गुम्फिता । तथा हि केनाप्यत्तेजनकेन जनितमिन्द्रियोत्तेजनं संज्ञावहनाडीभिः सुषुम्णामभिगच्छति, तत्रेदं चेष्टावाहिन्या नाड्या सह नाडीसम्बन्धद्वारेण सम्बन्धमवाप्नुते, ततश्चेदं पेशीं प्रति गच्छति, यत्रेदं क्रियामुत्पादयति । म्यूलरमहोदयेन प्रदत्तेयं सुप्राञ्जला परिभाषा सहजक्रियायाः पूर्वोक्तसर्वव्याख्याभ्योऽतिरिच्यते स्म ।
काश्चनैतासु जटिलतरासु सहजक्रियासु धारावाहिकसहजक्रियारूपं वहन्ति । यथा हि मृत्कीटस्य गतौ प्रथमपेशीजन्या सहजक्रिया द्वितीयपेशीजन्यसहजक्रियां प्रत्युत्तेजनां प्रदत्ते, द्वितीयपेशीजन्या सहजक्रिया तृतीयपेशीजन्यक्रियां प्रत्युत्तेजनां प्रदत्ते, तयोत्तेजनयैव तृतीया क्रियोत्पद्यते। अतो धारावाहिकसहजक्रियाया एका क्रियाऽपरस्या क्रियाया उत्तेजिका भवति, अपरा क्रियाऽप्येवमेव अन्यस्यास्तृतीयाया उत्तेजिका भवति । मानवीयक्रियासु धारावाहिकसहजक्रियाणामुदाहरणं शिशुभोजननिगलनक्रियायामनधीत- रूपायामेवोपलभ्यते।
शेरिङ्गटनमहोदयेन सहजक्रियाणां सम्बद्धसहजक्रिया विरोधिसहजक्रियाश्चैवं द्विविधो भेदोऽप्यङ्गीकृतः । सम्बन्धक्रियास्तु ता भवन्ति यास्वेका क्रियाऽपरां क्रियां संवर्धयति सरलीकरोति वा । विरोधिसहजक्रियास्तु ता भवन्ति यास्वेकाऽपरां क्रियां रुणद्धि ह्रासोन्मुखीं वा करोति । यथा शुनः पादैकस्याग्रगमनसमकालमेव पश्चिमपादसङ्कोचनं सञ्जायते स्वत एव।
प्रतिनियता सहजक्रिया
सम्पादयतुसहजक्रिया मूलतः केनाऽप्युत्तेजकेनोपत्पाद्यते, यथा प्रकाशातिशयेन नेत्रतारिके सङ्कुचतः प्रकाशापगमे चैते प्रसरतो विशदीभवतो वा । यथा च भोजनमधुरसुगन्धेन घ्राणजप्रत्यक्षमात्रेण लालारसो जयन्यते, भोजनस्वादेन वा । किन्तु कालान्तरेऽनुभव- परिपाकेनाऽन्येनाऽपि केनचित्तत्सम्बद्धवस्तुना सहजक्रियोत्पादनं सम्भवति । एवम्भूता सहजक्रिया “प्रतिनियता सहजक्रिया” इत्यभिधीयते। विश्वविश्रुतेन रूसदेशीयमनोवैज्ञानिक-पुङ्गवेन पैवलोवमहोदयेन शुनां लालारससम्बन्धिप्रतिनियतसहजक्रियोपरि सर्वप्रथमं प्रयोगाः सम्पादितः। यदा यदा भोजनं शुने प्रदत्ते, तदा तदाऽस्य लालारसः प्रस्रवति। परन्तु यदि भोजनप्रदानसमकालमेव घण्टिकाध्वनिरपि भवेत्तर्हि कतिपयकालानन्तरम्, एवम्भूतभोजनप्रदानक्रमेण तद्घण्टिकाध्वनिना सह तल्लालारसप्रवाहोऽपि प्रतिनियत: सञ्जायते। अर्थाद् भोजनं विनाऽपि घण्टिकाश्रवणमात्रेण कतिपयप्रयोगानन्तरं लालारसप्रवाहः शुनः सञ्जायते। एवम्प्रकारेण लालारसप्रवाहरूपा सहजक्रिया घण्टिकाध्वनिना साकं ‘प्रतिनियता’ सञ्जायते। एवम्प्रकारेणाऽन्या अपि सहजक्रियाः प्रतिनियोक्तुं शक्यन्ते। एवम्प्रकारेण काश्चन क्रिया दैनिकजीवने आकस्मिकसम्बन्धैः प्रतिनियता भवन्त्येव । सहजक्रियाप्रतिनियतत्वं हि खलु शिक्षणस्य प्राथमिकं रूपं सरलतममभिव्यञ्जयति, यथा-प्रत्यक्षात्मकं शिक्षणं यद् वयमग्रेऽनुव्याख्यास्यामः ।
सहजक्रियायामुत्तेजकसंवेदने सम्प्राप्ते सति तत्क्षणमेव प्रतिक्रिया जन्यते । उदाहरणतः किञ्चिदप्याघातकरं वस्तु यदा नेत्रसविधे आगच्छति, तत्क्षणमेव चक्षुःपक्ष्मनिमीलनं जायते। यदा च हस्तः किञ्चिदपि शीतमुष्णं वा वस्तु स्पृशति, तत्क्षणं हस्तोऽपसरति । यदा च धूसरमक्ष्णि पतति, तत्क्षणमेव स्वतोऽश्रुप्रवाहो जायते । किंकृतमिदं सर्वम् ? सर्वा एताः सहजक्रिया यासां क्रियासौकर्यं वंशानुक्रमपारम्पर्यागतम्, यदर्थं च नाडीसम्बन्धा जन्मत एव प्रौढिङ्गता निम्मिता वा भवन्ति । नहि ता वातावरणादध्ययनमपेक्षन्ते। किं गमनं सहजक्रिया भवति किमुताऽभ्यासो वा ? प्रायो जना मन्यन्ते यद्धि शिशुर्गमनमधीते शिक्षति वा। किन्तु प्रारम्भकाले खल्विदं सहजक्रियारूपमेव बिभर्त्ति । शिशोः स्वमृदुशय्यायां पादप्रक्षेपणं हस्तचालनञ्च नास्त्यनुकरणजन्यमपि तु स्वाभाविकशक्तिजन्यम्, सहजक्रियात्मकत्वात्। भूमौ विसर्पणम्, शय्यामूर्ध्वमधो वा विसर्पणमुत्तानस्य शिशोः स्वयमेव सहजक्रियाकारित्वं द्योतयति । यथा यथा पेश्य: पुष्टाः सञ्जायन्ते, यथा यथा च जन्मजातनाडीसम्बन्धाः सुदृढा भवन्ति, तथा तथा बालकस्य गमनमपि संवर्धते । नूनमुत्तरकालिकं गमनमनुकरणपितृहर्षोत्सवप्रकाशनादिभ्यः शिक्षणजन्यमिव प्रतीयते, किन्तु मूलतस्तु तत्सहजक्रियाजन्यमेवास्ति । नहि हस्ताभ्यां पद्भ्यां च शिशुविसर्पणं शिक्षणजन्यं भवति, नापि क्रन्दनमेव । अतो जन्मत एव यासां क्रियाणामभिव्यक्त्यर्थं नाडीसम्बन्धा वंशपारम्पर्यप्रभावात् सिद्धा भवन्ति नाडीसंस्थाने, ताः क्रियाः सहजक्रियाख्यां भजन्त इति। ताश्च चैतन्यात्मकक्रियाणां निम्नतममभिव्यक्तं रूपम्। निम्नस्तरीयप्राणिनां तु निखिलं जीवनमेव सहजक्रियाणां तारतम्यनिदर्शकम्। सहजक्रियाणां जीवनधारणार्थ- मेतेनैवाऽनुमातुं शक्यते गौरवम् । किन्तु मनुष्येषु तासामल्पीयसी संख्यैवोपलभ्यते।
अनियताः क्रियाः
सम्पादयतुअस्यां श्रेण्यां शिशोर्बहूनि प्रतिक्रियारूपकार्याणि समाविष्टानि भवन्ति । ननु किं तावदस्ति प्रयोजकं सहजक्रियाऽनियतक्रिययोः ? सहजक्रियायां हि खलु निश्चितमुत्तेजकमुत्तेजनां जनयति या तत्क्षणं प्रतिक्रियारूपा सहजक्रिया जनयति । किन्त्वनियतक्रियाणां नहि किञ्चिदप्येवंविधमुत्तेजकं भवति । यस्येयं प्रतिक्रिया वक्तुं शक्येत । अपि च सहजक्रियाणां नाडीसम्बन्धा जन्मत एव प्राणिनः सम्भवतः सुनिश्चिताः सुदृढा भवन्ति । अनियतक्रियासु सम्भवत एवंविधा: सुनिश्चिता नाडीसम्बन्धा न भवन्ति, प्रत्युत नाडीषु शक्त्यतिरेकादेवाऽनियताः क्रिया जायन्ते । एतासु क्रियासु हस्तपादस्य अङ्गुलीनाञ्च विविधाः क्रियाः परिगणिता भवन्ति । आसामुपयोग उत्तरकाले विविधाभ्यस्तक्रियाणां जनने सङ्गठने च सिध्यति ।
स्वतन्त्राः क्रियाः
सम्पादयतुयाः क्रियाः स्वतन्त्रनाडीमण्डलेन सम्पादिता भवन्ति, यासाञ्च समावेशो नह्युपर्युक्त-द्विविधक्रियासु भवति, ताः स्वतन्त्राः क्रिया अभिधीयन्ते। ता अपि सहजक्रिया इव पैतृकपारम्पर्यायत्ता भवन्ति । तासु क्रियासु श्वसनरक्तसञ्चालनपचनमूत्रपुरीषोत्सर्गान्तर- ग्रन्थिरसस्रवणादिक्रियाणां समावेशो भवति । स्वतन्त्रनाडीमण्डलस्योत्तेजकानि तु विवादास्पदानि। किन्त्वेतावत्तु सुनिश्चितमेव यद्धि तेषां क्रिया जन्मत एव सुनिश्चित- नाडीसम्बन्धैः प्रौढिङ्गता भवत्यपरथा जीवनधारणमपि दुर्वहं भवेत् । नूनं हर्षातिरेके हृदि रक्ताधिक्यं जायते, धमन्योऽधिकरक्तसञ्चरणेन विशदीभवन्ति, मुखञ्च रक्ताभं जायते। चिन्तायां सत्यां दुःखदसमाचारश्रवणे वा रक्ताल्पतया मुखं पीताभं जायते पुरुषश्च हतोत्साहो जायते। सिद्धा हि खल्वेताः क्रियाः पैतृकवंशपारम्पर्यजन्याः, किन्तु कालान्तरे वातावरणोत्थोत्तेजकानि तु प्रभावयन्त्येव । स्वतन्त्राः क्रिया यदि न भवेयुः, तर्हि निखिलं जीवनमपि न सम्भवेत् । अतः सहजक्रिया इव स्वतन्त्राः क्रिया अपि बाह्यान्तरोत्तेजकविशेषेण प्रतिनियता कर्तुं शक्यन्ते ।
अपराः काश्चन रासायनिकाः क्रिया अपि भवन्ति । यथा सूर्यमुखं पुष्पम्, यदार्यभाषायां ‘“सूरजमुखी” इति नाम्ना प्रथते, यदा बालारुणं पश्यति तदा सूर्याभिमुख- मिव जायते। यस्यां यस्यां दिशि सूर्यः प्रक्रमते, तस्यां तस्यामेव दिशि सूर्यमुखं पुष्पमपि विनम्रं जायते। मनुष्येऽपि सूर्यं दृष्ट्वा कदाचन कायप्रसारणं भवति। रासायनिकाः क्रियाः प्रायश्चैतन्यरूपेण व्याख्यातुं शक्याः । किन्तु सहजानियतत्वतन्त्रक्रियाणां रूपन्तु चैतन्यव्यतिरेकेण नोपलभ्यते । अतो मनुष्येष्वेतादृश्यः क्रिया प्रायो नोपलभ्यन्ते। वनस्पतिषु तासां प्राय उपलब्धिर्दृश्या ।