मनोविज्ञाने स्मृतिस्वरूपविवेचनम्

मनोविज्ञाने स्मृतिस्वरूपविवेचनम् अतीव महत्त्वपूर्णं वर्तते, अनेन मनुष्यस्य स्मृतिशक्तिः कथं कार्यं करोति इति ज्ञानं भवति।

स्मृतिलक्षणम्

सम्पादयतु

अथातो वयं स्मृतिस्वरूपमनुव्याख्यास्यामः । सर्वा एव कल्पनाप्रतिमाः पूर्वानुभव- संस्कारजन्याः; किन्तु कासुचित् कल्पनाप्रतिमासु किञ्चिदभिनवत्वं सन्निविशते, नवीनमेव कल्पनाप्रतिमानां संयोजनमभिनिर्वर्तते। अन्यासु च किमपि कल्पनाप्रतिमासंयोजनासादिता- भिनवत्वं न सङ्घटते। तास्तु पूर्वानुभवसंस्कारजन्याः पूर्वानुभवप्रत्ययानुकृतिरूपाः। प्रथम- प्रकारकल्पनाप्रतिमानां स्वरूपमस्माभिः पूर्वस्मिन्नध्याये व्याख्यातमेव । द्वितीयप्रकारक- कल्पनाप्रतिमाः ‘स्मृति:’ इति व्यपदेशेनाभिधीयन्ते। वर्तमानकाले प्राक्तनानुभवसंस्कारोद्बोधनं स्मरणमिति स्मृतिलक्षणम्। तदुक्तम् अन्नम्भट्टपादैः–“संस्कारमात्रजन्यं ज्ञानं स्मृतिः' [] इति। वार्त्तिककारोद्योतकराचार्योऽपिं स्मृतिलक्षणमेवं व्याचष्टे - “प्रत्यक्षबुद्धिनिरोधे तदनुसन्धानविषयः स्मृतिः” [] इति।

योगसूत्रकारैर्महर्षिप्रवरैः स्मृतिलक्षणमेवं व्याकृतम्- “अनुभूतविषयासम्प्रमोषः स्मृतिः” [] इति। असम्प्रमोषोऽस्तेयमिति; 'मुष् स्तेये' इत्यस्मात् प्रमोषपदव्युत्पत्तेः। कस्माद् ‘असम्प्रमोष:' इत्युक्तं भवति ? सर्वे प्रमाणादयोऽनधिगतमर्थं सामान्यत: प्रकारतो वाऽधिगमयन्ति। स्मृतिः पूर्वानुभवमर्यादां नातिक्रमति । स्मृतिस्तत्समान- विषया, तदूनविषया वा, न तु तदधिकविषया भवति । अनुभवविषयाधिकविषयग्रहणं सम्प्रमोषः। तदूभावश्चासम्प्रमोषः । अत एवासम्प्रमोष इत्युच्यतेऽनुभूतविषयाणामिति । प्राध्यापकपिल्सबरीमहोदयानुसारं प्राक्तनानुभवप्रत्ययानां पुनराधानं स्मरणमिति । श्रीबुडवर्थमहोदयानां मतानुसारं पूर्वशिक्षितज्ञानस्यापरोक्षोपयोगरूपं स्मरणमिति []

स्मृतिमन्तरा चैतन्यस्य किमपि स्वरूपमवधारयितुं न सम्भाव्यते । स्मृतिविधुरं वै चैतन्यमनेकानुभवविशेषखण्डानां परस्परमसम्बद्धानां क्षणिकप्रभासन्तानसङ्काशं मध्ये मध्ये मानसिकतमोभिः शबलीकृतमिवावतिष्ठते । चैतन्यखण्डेष्वसम्बद्धेषु व्यतीतश्चैतन्य- खण्डस्तदौत्तरकालिकचैतन्यखण्डेनासंसृष्ट एव भविष्यति। स च साधारणालोचनप्रत्यक्ष- संवेदनप्रयत्नेच्छादीनां विशिष्टानवगाहि रूपमेव बिभर्त्ति। तस्मात् कथमपि सविकल्पक- प्रत्यक्षस्य विशेषावगाहिज्ञानस्य सम्भवो भवितुं नार्हति । स्मृतिव्यापारमन्तरा न स्थायिभावाः, न च संवेगाः, नापि च विचारा एव भविष्यन्त । कल्पनाप्रतिमानामाधानम्, उपयोगश्च स्मरणव्यापारमन्तरेण न सिद्ध्यति । किं बहुना, व्यक्तेः सत्त्वमात्मैक्यस्वरूपमपि स्मृति विहाय नोपपद्यते। अतः स्मृतिव्यापारेण सुष्ठुतरं चैतन्यस्वरूपं साधितं भवति। सा च स्मृतिः क्षणिकचैतन्यवादाभ्युपगमेन न सम्भाव्यते । अत एवाचार्यप्रवरेण हेमचन्द्रेण वैनाशिकक्षणिकवादो भृशं समालोचितः

कृतप्रणाशाकृतकर्मभोगभवप्रमोक्षस्मृतिभङ्गदोषान् ।

उपेक्ष्य साक्षात् क्षणभङ्गमिच्छन्नहो महासाहसिकः परस्ते॥ इति। []

आत्मसत्त्वोपपादनाय स्मृतिगौरवमत एवोन्नेतुमर्हम् । अत एव महर्षिगौतमेन

प्रणीतं सूत्रम् -

"स्मरणं त्वात्मनो ज्ञस्वाभाव्यात्' इति । []

अस्यानुव्याख्यानं वात्स्यायनाचार्य एवम्प्रकारेण कृतवान्-“आत्मन एव स्मरणम्, न बुद्धिसन्ततिमात्रस्येति। 'तु' शब्दोऽवधारणे। कथम् ? ज्ञस्वभावत्वात्। ‘ज्ञ’ इत्यस्य स्वभावः स्वो धर्मः” [] इति । आत्मा एव चैतन्यम्, यस्य व्यापारविशेष: स्मृति: । व्यक्तिविशेषस्य स्वात्मप्रत्यभिज्ञानमात्मनित्यत्वापादितस्मृतिस्वरूपाभ्युपगमेनैव सिध्यति । आचार्यवाचस्पतिमिश्रोऽपि आत्मनित्यत्वोपपादनाय स्मृत्युदाहरणन्युद्धरति स्म चतुःसूत्री- भाष्यटीकायाम् । तद्यथा-

"न च 'अहं कृश: स्थूलो गच्छामि' इत्यादिदेहधर्मसामानाधिकरण्यदर्शनाद्देहालम्बनोऽयमहङ्कार इति साम्प्रतम् । तदालम्बनत्वे हि 'योऽहं बाल्ये पितरावन्वभवं स एव स्थविरे प्रणप्तृननुभवामि' इति प्रतिसन्धानं न भवेत् । नहि बालस्थविरयो: - शरीरयोरस्ति मनागपि प्रत्यभिज्ञानगन्ध:, येनैकत्वमध्यवसीयेत” इति ।

एतावता सिद्धं तर्हि स्मृतिरूपमनोव्यापारस्य परमं गौरवम् । स्मृतिरेव विविधानुभवजातं त्रिकालविषयकमेकसूत्रेण निबध्नाति । स्मरणं चेदं चैतन्यस्य स्वभावगतो व्यापारः। नेदमन्यथासिद्धमिति वक्तुं शक्यते ।

सेयं स्मृतिर्मनोव्यापाररूपा । अर्वाचीना मनोवैज्ञानिकाः स्मृतिं मनःशक्ति- विशेषरूपत्वेन नाभ्युपगच्छन्ति । विविधशक्तिघटकेषु मनसः प्रविभाजनमर्वाचीनेभ्यो मनोविज्ञानपारङ्गतेभ्यो न रोचते। प्राच्यप्रतीच्यमनोवैज्ञानिका मनसो विविधशक्तिघटकेषु प्रविभाजनमङ्गीकुर्वन्ति स्म । एवंविधशक्तिवादेन मनस ऐक्यं विशृङ्खलं जायते । अतस्ते स्मृतिं मनोव्यापाररूपत्वेन प्रतिपादयन्ति । मनश्चित्तमित्याख्यायते । चित्रवृत्तिरूपमेव स्मरणमिति सुप्रसिद्धम्। चेतनोऽयं प्राणी विविधव्यापारान् कुर्व्वाणस्तेषु परममैक्यमादधाति ।

नहि विशिष्टं चैतन्यं जीवाख्यम्, यदस्मिन् ग्रन्थे मनोऽभिधानेन प्रथते, विविधस्मृतिप्रभृति- शक्तीनामितरव्यावृत्तरूपाणां समुच्चयमात्रम् । चैतन्यतत्त्वस्यैकस्य मनोऽभिधेयस्य विविधवृत्तिष्वेकः स्मृत्याख्यो वृत्तिविशेषः । एकात्मकं चैतन्यतत्त्वं स्वभावादेव बाल्यकैशोरयौवनवार्धक्याद्यवस्थानुगतज्ञानेषु सङ्गतिमाधत्ते । यदि पूर्वानुभवप्रत्ययसंस्काराणां स्मृतिवृत्तिविशेषापादितानां कालान्तरे क्रियाकारित्वं न भवेत्, समुपयोगो न जायेत; नूनं सर्वं शिक्षणमध्ययनं मानवसदाचारविज्ञानकलाप्रगतिविशेषादिकमसम्भाव्यं भवेत् । सिद्धं तर्हि स्मरणवृत्तेर्महन्मानवव्यवहारोपकारित्वमात्मस्वरूपनिर्णायकत्वं चेति ।

स्मृतिस्वरूपविश्लेषणम्

सम्पादयतु

सर्वं स्मरणं' प्राक्तनसंस्कारसमुद्बोधनात्मकं भवति । मानसप्रत्यक्षेण जायते यद्धि पूर्वसंस्कारोद्बोधनाख्यं कर्म स्तरविशेषद्वयं बिभर्ति । तद्यथा-

(१) संस्कारोद्बोधनम्।

(२) प्रत्यभिज्ञा, प्रत्यभिज्ञानं वेति ।

संस्कारोद्बोधनम्

सम्पादयतु

संस्कारोद्बोधनं नाम स्मृतिव्यापारस्य पूर्वावस्था । प्रत्यभिज्ञानं च स्मृतिव्यापारस्य निष्पन्नावस्था, पूर्णावस्था वेति । संस्कारोद्बोधनाख्ये कर्मणि पूर्वानुभवप्रत्यया मन:पटले पुनराधीयन्ते, पुनरुद्बोध्यन्ते । यथा सुप्तः कश्चनः नरः प्रातःकाले भृत्येन मित्रेण बोद्बोध्यते, तथैव सुप्तानतीतान् संस्कारान् पुनर्जागरितान् वयं कुर्मः । यथा - रमेशचन्द्रं कञ्चन पुरुषविशेषं दृष्ट्वा तत्क्षणं वयं चिन्तयामः, ‘को नु खल्वयं पुरुषः ? किमस्य नाम ? कुत्रं वै अस्माभिः पूर्वं दृष्टः ? किमर्थमस्माकं पूर्वं सम्मेलनं सञ्जातम् ? ननु कदा वयमिमं दृष्टवन्त:?” इति ।

नहि दर्शने सञ्जाते तत्क्षणमेव पुरुषनाम स्मर्यते । कियत्कालानन्तरं देशकालसम्मिलनप्रयोजनादिप्रत्ययोत्यसंस्कारान् समुद्बोध्य वयं परिचिनुमः, प्रत्यभिजानीमः-‘सोऽयं रमेशचन्द्रनामा पण्डितवर्यः । पूर्वमस्माभिर्जयपुरनगरे मित्रवर्य- जगदीशप्रसादस्य पाणिग्रहणसंस्कारावसरे एकेन वैयाकरणकेसरिणा सह विवदमानः शास्त्रार्थकाले परिचितः सञ्जात:' इति । एतादृशो देशकालाद्यनुभवविशेषानुसन्धानमयो व्यापारः संस्कारोद्बोधनसंज्ञां भजते । संस्कारोद्बोधनं विना स्मृतिः सम्यक्तया नोत्पद्यते । प्रत्यभिज्ञानं नाम स्मृतिपरिपाकावस्थाविशेष:संस्कारोद्बोधनमन्तरा प्रत्यभिज्ञानं नैव प्रतिफलति। संस्कारोद्बोधनं नाम स्मृतिजननाय संस्कारोद्दीपनमिति ।

प्रत्यभिज्ञानम्, प्रत्यभिज्ञा वा

सम्पादयतु

प्रागुक्तोदाहरणे पण्डितप्रवररमेशचन्द्रशास्त्रिमहोदयस्य पूर्वदर्शनापादितप्रत्ययानां देशकालपरिस्थितिविशेषसंस्कारसमुद्बोधनं यदा जायते, तदा प्रत्यभिज्ञानं प्रत्यभिज्ञा वा उदेति। यथा-‘सोऽयं रमेशचन्द्र:' इति । पूर्वानुभवप्रत्ययैः सह पूर्णपरिचयनिदर्शकं वै प्रत्यभिज्ञानम्। किञ्च यदा कश्चनास्मान् श्रावयति-

स्नेहं दयां च सौख्यं च यदि वा जानकीमपि ।

आराधनाय लोकानां मुञ्चतो नास्ति मे व्यथा ॥ इति । []

तत् श्रुत्वा क्षणं यावद् वयं चिन्तयाम: - 'कुत्र वै एष श्लोकोऽस्माभिः पठित: ' इति। एतस्मिन्नेवान्तराले पुनः पृच्छति, 'ब्रूहि भो: पण्डित ! केन कविना प्रणीतमिमं श्लोकमहं वच्मि ? इति । क्षणं यावद् विचिन्त्य वयं ब्रूमः - परिचिनोम्यहम् । तत्कविप्रणीतोऽयं श्लोकः, येनायं श्लोकोऽपि निम्मितः –

वज्रादपि कठोराणि मृदूनि कुसुमादपि ।

लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥ इति । []

तदनन्तरं निश्चयपूर्वकमस्माभिः स्मर्यते, प्रत्यभिज्ञायते, "महाकविभवभूतिना प्रणीते उत्तररामचरिते राघवेन्द्रोक्तः पूर्वश्लोक इति । उत्तरश्लोकश्च रामचन्द्रविषये वासन्त्या आत्रेयीं प्रत्युक्तिरूपस्तस्यैवं नाटकस्य द्वितीयेऽङ्के वर्णितः” इति । यावत् सादृश्यादि- साहाय्यपूर्वकं तन्मार्गणमभि मानसिकप्रयत्नो वर्तते, संस्कारोद्बोधनं हि तत् ; किन्तु यदा वस्तुस्वरूपावधारणं देशकालविनिश्चयपूर्वकं जायते, तदा 'प्रत्यभिज्ञा' 'प्रत्यभिज्ञानम्' इति वा वयं ब्रूमः। सेयं स्मृतिव्यापारस्य चरमावस्था । प्रत्यभिज्ञायां प्रत्यक्षवस्तुसम्बन्धे प्राक्तनसंस्कारोद्बोधनजन्यं सुनिश्चितं ज्ञानं जायते । स्मरणीयं यत् प्रत्यभिज्ञानेऽस्माकं स्वकीयपूर्वानुभवमधिकृत्य मानसव्यापारः प्रवर्तते । परिस्थितिविशेषे स्मृतिविषये परिचयातिशय एव प्रत्यभिज्ञाया लक्षणमिति ।

प्रत्यभिज्ञानद्वैविध्यम्

सम्पादयतु

प्रत्यभिज्ञानमपि द्विविधं भवति - निश्चितं प्रत्यभिज्ञानम्, अनिश्चितं प्रत्यभिज्ञानञ्चेति । निश्चिते प्रत्यभिज्ञाने भूतकालिकदेशकालादिप्रत्ययसम्बन्धाः स्फुटतया स्मृतिपटले स्मर्यन्ते । अतस्तज्जनितप्रत्यक्षवस्तुपरिचयरूपं स्मरणमपि प्रगाढं निश्चितमिति यावद् भवति । अनिश्चिते प्रत्यभिज्ञाने उपलभ्यमानवस्तुपरिचयस्तु प्रत्यक्षमिव स्फुटं प्रतीयते, पूर्व- ज्ञातमिवानुभूयते; किन्तु तद्विषये देशकालादिप्रत्ययसंस्कारोद्बोधनाभावे प्रत्यभिज्ञानमनिश्चित- मित्यभिधीयते।

सेयं स्मृति: प्राचीनन्यायाचार्यैः प्रमात्मिका, अप्रमात्मिका चेति भेदाभ्यामप्यनु- व्याख्याता। उपरि वर्णितं निश्चितं प्रत्यभिज्ञानमेव प्रमात्मकमित्यवगन्तव्यम्। अनिश्चितं प्रत्यभिज्ञानं वै अप्रमात्मकं भवतीत्यवसेयम्। प्राचीनानां मते स्वप्नेऽपि स्मृत्यभ्युपगमोऽभिप्रेतः। स्वाप्निकस्मृतिरप्रमात्मिकेति तेषां मतम्, तत्तु नेष्टम् ।

स्वप्नगतकल्पनाप्रतिमा नूनं स्मृतिक्रियाकलापैरेवाभिनिर्वर्तन्ते; तथापि स्वप्नो नाम कल्पनासृष्टिः। तदुक्तं हि बृहदारण्यकोपनिषदि - “अथ रथान् रथयोगान् पथः सृजते, स हि कर्त्ता'"" इति। किन्तु स्मरणाख्यो मानसव्यापारो जागरित एव सम्भवति । स्मरणे मानसप्रत्यक्षेण देशकालादिप्रत्ययसम्बन्धानुसन्धानं सम्यक्तया जायते। प्रत्यक्षवस्तुनो निश्चितपरिचयात्मकं प्रत्यभिज्ञानमनुव्यवसायोपोद्वलितं जागर एव भवितुमर्हति । अत एव प्रमात्मकाप्रमात्मक- स्मृतिभेदावपि जागरित एव सम्भवतः । स्वप्नसृष्ट्यनुगतकल्पनाप्रतिमा नूनमव्यक्त- स्मृतिव्यापारेण संस्कारसमुद्बोधनात्मकेनानुस्यूता भवन्ति तथापि ताः कथमपि स्मृतिसंज्ञया नाभिधातुं शक्यन्ते।

संस्कारोद्बोधनप्रत्यभिज्ञानयोस्तुलना

सम्पादयतु

प्रायः संस्कारसमुद्बोधनसहकृतमेव प्रत्यभिज्ञानं जायते, परन्तु नैषः सार्वकालिको नियमः। नापि संस्कारसमुद्बोधन एव नियतपूर्ववृत्तिता सर्वदा समुपलभ्यते प्रत्यभिज्ञो - त्पादनाय। सम्भाव्यते खल्विदं यद् वयं संस्कारोद्बोधनानन्तरमपि वस्तुस्वरूपं सम्यक्तया परिचेतुमभिज्ञातुं वा न शक्नुमः। कदाचनैवम्प्रकारकोऽप्यनुभवो दृश्यते यद् वयं प्रत्यभिज्ञानं सन्निकृष्टप्रचुरपरिचयात्मकमात्मीयानुभवत्वमुगतमनुभवाम्:; किन्तु पूर्वानुभवविशेषसम्बन्धि- देशकालप्रत्ययसम्बन्धपुरस्सरं संस्कारमुद्बोधयितुं न शक्नुम इति । उदाहरणतो यदा पूर्वं छात्रा दर्शनार्थमस्माकं सविधे समागच्छन्ति, भवति खल्विदं कदाचन यद् वयं काँश्चन सम्यक्तया परिचिनुमः ।

प्रत्यभिजानीमः, किन्तु कस्मिन् वर्षे ते समुत्तीर्णा जाता इति न वयं निर्देष्टुं शक्नुमः । सन्ति चापरे, येषां प्रत्यभिज्ञानं तत्तद्वर्षीयघटनाविशेष- संस्मरणसंवलितं स्मृतिपथमायाति । अतः संस्कारोद्बोधनप्रत्यभिज्ञानसम्बन्धे वक्ष्यमाणे वयं ब्रूमः– अनिश्चितं प्रत्यभिज्ञानं संस्कारोद्बोधनापेक्षया व्यापकं भवति; किन्तु निश्चितं प्रत्यभिज्ञानं संस्कारोद्बोधनापेक्षया समानक्षेत्रं भवति । नहि देशकालप्रत्ययसम्बन्धनामादि- संस्कारसमुद्बोधनमन्तरा निश्चितं प्रत्यभिज्ञानं सम्भवति । यदा हि खलु वयं किञ्चन मित्रमात्मीयतया परिचिनुमः, किन्तु तस्य नाम न स्मरामः, यद्वा कुत्रत्यः स इति संस्कारोद्बोधनं कर्तुं न प्रभवामः, तदा निश्चितं प्रत्यभिज्ञानं नोदेति; यते हि निश्चितरूपेण प्रत्यभिज्ञातविषयाणां प्रायो देशकालनामादिसंस्कारोद्बोधनमपि जायते । यावन्न तत्तसंस्कारोद्बोधनं भवेत्, प्रत्यभिज्ञानमपि निश्चिततां स्फुटतां वा वैशारद्यं वा नावाप्नोतीति विशेषः ।

स्वस्थस्मृतिलक्षणम्

सम्पादयतु

ननु स्वस्थस्मृतेः किं लक्षणम् ? स्वस्थस्मृतेश्चत्वारि लक्षणानि भवन्ति ।

(अ) शीघ्रं स्मरणमिति स्वस्थस्मृतेः प्रथमो विशेषः । अनुभूतपदार्थस्य पौनःपुन्येन चिन्तनं विना, वारं वारं चर्वणमन्तरा यत् स्मरणं शीघ्रमभिनिर्वर्तते, तत् 'सुन्दरं स्मरणम्' इत्यभिधीयते। दुष्टस्मृतीनां वारं वारं पिष्टपेषणोद्भवं स्मरणम्, अत एव सुन्दरं स्मरणं तदेव यच्छीघ्रमभिनिर्वर्तते ।

(आ) अभीष्टकाले पूर्वानुभवस्य प्रत्यभिज्ञानमिति स्वस्थस्मृतेर्द्वितीयो विशेषः । पूर्वानुभवदेशकालप्रत्ययसम्बन्धानुद्बोध्य सम्यग्ज्ञानमेव वस्तुनो यदा यथावसरं जायते, तदा 'स्वस्थास्मृति:' इत्याचक्षते । दुष्टस्मृतीनां यथेष्टकाल उपयुक्तपदार्थोपस्थितिर्न जायते । संस्कारोद्बोधनाभावे प्रत्यभिज्ञानमपि निश्चितं नाभिनिर्वर्तते।

(इ) स्मरणं स्थायि भवेदिति स्वस्थस्मृतेस्तृतीयो विशेषः। यद्यद्य शिक्षितं श्वो विस्मृतं भवेत्, किं नाम तत् शिक्षणम् ! किं तेनाध्ययनेन, यस्योपयोगः कालान्तरे न सम्भवेत् ! अत एव स्मरणं न केवलं शीघ्रं स्यात्, अपि तु स्थायि अपि, येनास्य समुपयोगो भाविष्ववसरेष्वपि कर्तुं शक्येत ।

(ई) अनभीष्टपदार्थविस्मरणं स्यादिति स्मृतेस्तुरीयो विशेषः । नहि कश्चन व्यक्तिविशेषः सर्वान् पदार्थानवबोध्य तान् स्मर्तुं सर्वदा प्रभवति । स्मृतेः खल्विदं गौरवाय कल्पते, यदनभीष्टपदार्थविस्मरणं भवेत् । अस्माकं ज्ञानमेकस्यां दिशि प्रौढि- मवाप्नोति, तत्र स्मृति: प्रतिविषयं प्रखरा सुदीप्ता च भवति; किन्तु तद्व्यतिरिक्तविषयाणा- मौदासीन्योपात्तं विस्मरणमापद्यते । स्वस्थस्मृतित्वमनुपयुक्तविस्मरणमन्तरा जीवकोटौ न सम्भवति ।

सन्ति हि केचन पुरुषा ये बहुश्रुताः, बहूनि तत्त्वानि जानन्ति; किन्तु यथावसरं प्रकरणविशेषानुकूलं तेषां स्मरणं नाभिसम्पद्यते । ज्ञानभाण्डारमात्रं सुन्दरस्मृतित्वाय न कल्पते। स्मृतिर्नाम मानसिकक्रियायाः र्वानुभवकोषाच्चयनमपेक्षते । चयनं च समीचीनं तदैव जायते, तदैव स्मृतिरूपतामाधत्ते, यदाध्ययनमपि व्यवस्थितं भवति । येषां शिक्षणमेवाव्यवस्थितं भवति, तेषां स्मरणमदुष्टं नोपलभ्यते । संस्कारोद्बोधनं नाम चयनरूपं कर्म। तेनासङ्ख्यसुप्तसंस्काराणां केचन एव व्यवस्थाविशेषयुक्ता यथाकालं समुद्बोध्यन्ते । अन्यच्च समीचीनप्रकृष्टस्मरणार्थं व्यर्थपदार्थानां विशेषाणां विस्मरणमप्यावश्यकम् । तद् विना शिक्षितज्ञानराशौ व्यवस्था नाभिनिर्वर्तते। व्यवस्थाभावे क्रमराहित्याद् यथेष्टसंस्कारचयनात्मकं प्रत्यभिज्ञानं न समुत्पद्यते । विलियमजेम्स-महोदयानुसारं नहि सा सुन्दरी स्मृतिर्या प्रत्येकं वस्तुजातं स्मरति, प्रत्युत सा यानावश्यकान् महत्त्वहीनान् पदार्थान् विस्मरतीति। अतः परं वयं स्मृतिगुणविशेषोपकारकाणि कारणान्यनुव्याख्यास्यामः ।

स्मृत्युपकारका गुणविशेषाः

सम्पादयतु

कथं शोभना स्वस्था स्मृतिरवाप्तुं शक्यते ? काँस्कान् वा गुणविशेषानधिकृत्य स्मृतिसौष्ठवमभिसम्पद्यते? एतदर्थमध्ययनसौष्ठवं धारणक्षमत्वं संस्कारसमुद्बोधन- सौष्ठवमिति गुणत्रयसमुपस्थितिं स्मृतिसौष्ठवमपेक्षते । यदि शिक्षणं समीचीनं न भवेत्, व्यवस्थाहीनं वाध्ययनं यदि भवेत्, तर्हि देवगुरुशतमपि स्मृतिप्रखरत्वं जनयितुं न प्रभवति। शिक्षणं वै स्मरणस्य बीजभूमिः । अध्ययनसौष्ठवं स्मरणसौकर्यमावहतीति निःसन्दिग्धम्। अन्यच्च, स्मरणसौष्ठवाय धारणापि कल्पते ।

धारणा नाम मनसः सङ्ग्राहिका शक्तिः, या तत्तदनुभवजन्यप्रत्यसंस्कारानाधते । धारणाव्यपेक्षया कालान्तरे पूर्वज्ञानोपयोगः क्रियते। येषां धारणशक्तिर्दुर्बला भवति, तेषां विस्मरणं शीघ्रं जायते । स्मृतिरपि स्थायिनी नैव दृश्यते । एवम्प्रकारेण संस्कारसमुद्बोधनमपि काँश्चन विशेषा- नाधत्ते। तद्विहीनं स्मरणं निश्चितरूपतां स्फुटतां वा न लभते । अतो वयमग्रेऽस्य सोपानत्रयस्य स्मृत्युपकारकान् विशेषान् प्रतिपदमनुव्याख्यास्यामः । तत्रैते विशेषा उल्लेखनीया भवन्ति-

(१) पूर्वानुभवस्य समुज्ज्वलत्वम्।

(२) पूर्वानुभवस्य सान्निध्यम् ।

(३) पूर्वानुभवस्य पुनरावृत्ति:।

(४) शिक्षितसामग्रीक्रमव्यवस्था।

(५) विषयाभिरुचि:, ध्यानान्वितत्वं चेति ।

(१) पूर्वानुभवस्य समुज्ज्वलत्वम्

सम्पादयतु

बहुषूत्तेजकेषु विषयेषु कश्चन एक एवास्माकं ध्यानं समाक्रष्टुं प्रभवति, यद्यपि ते सर्व एव सक्रिया भवन्ति; तथापि तेषां युगपदुपलब्धिर्न जायते। किं कारणम्? बहुषूत्तेजकेषु यः कश्चन समुज्ज्वलतम उत्कटतमस्तीव्रतमो वा विषयो भवति, स एवोपलभ्यतेऽस्माभिः; यतो हि स एवास्माकं ध्यानविषयत्वमापद्यते। इतरे विषया उत्तेजका गौणीभूताः प्रत्यक्षपृष्ठभूमित्वमापद्यन्ते । समुज्ज्वलतम उत्तेजको विषय: प्रत्यक्षानुगताकारविशेषो भवति । एष सामान्यनियमोऽवधारणीयो यद्धि यावदधिकं कश्चन विषयोऽस्माकं ध्यानं समाक्रष्टुमर्हति तावदधिकमेव तदनन्तरं तत्स्मरणस्य सम्भावनापि भविष्यतीति । न केवलं प्रत्यक्षविषयानधिकृत्यैवास्य नियमस्यावितथ्यं सिद्धं भवति, प्रत्युत अनुमित्यादिस्थलेष्वप्यस्य सत्यत्वमुपपद्यते। मौलिकानुभवप्रत्ययानां ध्यानविषयीभूतत्वं भावितत्प्रत्ययसंस्कारोद्बोधनं सुकरं करोति । विषयतीव्रत्वं ध्यानोप- कारकत्वात् स्मृत्युपोद्बलकमिति तावत् सिद्धम्।

ननु कदाचनेत्थं भवति यद्वै प्रारम्भिकानुभववेलायां ध्यानानन्विता अपि प्रत्यया विचाराश्च समर्थ्यन्ते, यथा दिवास्वप्नेषून्मुक्तकल्पनासु च स्मृतिप्रवाहो भवति। ये कदापि ध्यानस्य केन्द्रीभूता विषया नाभवन्, तेऽपि तदा स्वत एव स्मृतिपटल आविर्भवन्ति। दिवास्वप्नोन्मुक्तकल्पनादिविवेचनं कल्पनाप्रकरणे व्याख्यातचरम्। यदृच्छया स्मृतिविषयीभूताः प्रत्ययकल्पनाप्रतिमादयो यथा दिवास्वप्नादिषूपलभ्यन्ते, नहि स्मृतिरूपतां भजन्ते; कल्पनासृष्टित्वात्। उन्मुक्तकल्पनादिस्वप्नादिकल्पनाप्रतिमाप्रत्ययादयस्तु स्वच्छन्द- प्रत्ययसम्बन्धा इव भवन्ति, येषु प्राक्तनानुभवसम्बन्धनिर्देशाभावो विद्यते ; तथाप्येवम्भूतानां यदृच्छयासादितानां प्रत्ययानां कल्पनाप्रतिमानां च स्मरणं पूर्वसञ्चितवासनाना- मवदमितेच्छानामदम्यप्रभावापादितमिति विज्ञेयम्। अथवा, अनुभवसौक्ष्म्यादभिरुचिप्रकर्षाच्च ध्यानापेतमिव प्रतीयमानमप्युत्तेजकं वस्तु नूनमतिशीघ्रसञ्चारिध्यानविषयतां भजते ।

(२) पूर्वानुभवस्य सान्निध्यम्

सम्पादयतु

मूलानुभवस्य सन्निकृष्टं स्मरणं सुकरं भवति । अनुभूतपदार्थानां कालविप्रकर्षे विस्मरणं जायते । वयं प्रातःकालेऽधीतपाठविषयं सायङ्काले स्मर्तुं शक्नुमः; किन्त्वेकवर्षानन्तरं तत्पाठस्मरणं तादृशं सौकर्य्यं नाधत्ते । कालरूपेयं यवनिका स्मृतिपटलात् पूर्वानुभवसंस्कारान् तिरोहितान् करोति । एतस्मादेव कारणात् सन्निष्कृष्टानुभवविषये स्मरणं सुकरम्, विप्रकृष्टानुभवविषयस्मरणं दुष्करमपूर्णमनिश्चितं च भवतीति सर्वमवदातम् ।

एबिनघॉसप्रभृतिभिर्मनोवैज्ञानिकैर्बहुभिः प्रयोगः साधितं खल्विदं तथ्यं यद्धि मूलानुभवानन्तरं विस्मरणं शीघ्रं जायते । कियत्कालानन्तरं विस्मरणं तथाविधद्रुतगत्या न जायते। वयमग्रे विस्मरणगतिक्रममनुव्याख्यास्यामः ।

(३) पूर्वानुभवस्य पुनरावृत्तिः

सम्पादयतु

पूर्वानुभवस्य पूर्वाधीतपाठस्य वा पुनरावृत्तिः पौनःपुन्येन पठनं स्मृतेः परमोपकारकं भवति। वारं वारं पठनेन तदनुभवसंस्काराः सुदृढा भवन्ति। प्राचीनैराचार्य्यैः पिष्टपेषणं चर्वितचर्वणं वा परमं साधनं बहुमानितं चासीत्। फारसीभाषायां सुप्रथितम् “आमोख्तः” इति पदं पाठपुनरावृत्तेर्महद् गौरव- मभिव्यञ्जयति। पाठपुनरावृत्त्या पूर्वानुभवसान्निध्यमप्येकेन प्रकारेणावाप्यते । पौनःपुन्येन पठनं तद्विषयसान्निध्यमावहति ।

ननु पुनरावृत्तिः कथं स्मृतिसंस्कारान् द्रढयति ? ये स्मृतिस्वरूपं नाडीद्रव्यानुगत- संस्कारगर्भितं मन्यन्ते, तेषां मते यथा प्रतिवारं शकटचालनेन पौर्वकालिकी चक्ररेखा सुस्पष्टा, सुस्थिरा, सुदृढा च जायते, एवम्प्रकारेणानुभवविशेषपुनरावर्तनमपि तदनुभव- संस्कारान् मृदुनाडीद्रव्ये मस्तुलुङ्गीये सुविनिहितरूपान् विधत्ते । अनुभवपुनरावर्तनं तदनुभवसम्बन्धिनाडीस्रोतांसि विशदीकरोति । कालान्तरे प्रत्यभिज्ञानार्थं यदा संस्कारोद्बोधनं क्रियते, तदा मृदुनाडीद्रव्याहितनाडीस्रोतसां कर्षरूपसंस्कारसमुद्बोधनमेवाभिसम्पद्यते । यस्यानुभवस्य पुनरावृत्तिर्जायते स गभीरकर्षो भवति । गभीरकर्षस्यानुभवस्य संस्कार- समुद्बोधनक्षमत्वं प्रत्यभिज्ञायै कल्पत इत्यवसेयम् ।

इदं मतं सोपपत्तिकं न प्रतिभाति ? बाढं स्मरणाख्यमानसिकव्यापारस्य मृदुनाडीगतद्रव्येण सह सम्बन्धो भवतु नाम, किन्तु स्मरणं नाम चेतनव्यापारः । तदनुव्याख्यानं निष्क्रियमृदुमृत्तिकाकर्षादिभिरिव नाडीद्रव्याहितकर्षरूपैः संस्कारैः कथमपि कर्तुं न सम्भाव्यते । स्मरणाख्ये कर्मणि प्रत्ययसम्बन्धानां चयनमभिनिर्वतते । कस्य संस्कारविशेषस्योद्बोधनं जायते ? कस्य न वा ? इति निष्क्रियनाडीद्रव्यकर्षजातेन व्याख्यातुं न शक्यते । स्मरणीयं यन्नीरसं पिष्टपेषणं चर्वितचर्वणं वा स्मृतिदाय नैव कल्पते । प्रथमानुभवस्य समुज्ज्वलत्वं स्पष्टत्वं स्मरणोपोद्बलकमिति तु व्याख्यातपूर्वम्। यन्त्रवद् नीरसरटनेन चर्वितचर्वणेन वा प्रथमानुभवस्य सौष्ठवं समुज्ज्वलत्वं च ह्रासं नीयते ।

एतावता पुनरावृत्तिर्निरस्ताभिरुचि: सामग्रीव्यवस्थाविहीना स्थयिनीं विषयस्मृतिं नैव जनयति। बहुशः पठितमपि आङ्गलराज्याधिकारिणां गवर्नरजनरल 'वायसराय' इत्युपाह्वानां भारतीयशासकानां तदानीन्तनमितिवृत्तम्, यस्मिन् स्वातन्त्र्यप्रेरणानु-प्राणितार्य्याणां क्रान्तिकारिसेनानीनां चरितं नोपवर्णितं लभ्यते, मयाधुनापि न स्मर्यते । एको ‘वायसराय’इत्यभिधः शासको गतः, द्वितीय आयातः । मया नीरसपुनरावर्तनेन पांठेन स्मृतिपटले तेषां कापि कालक्रमपूर्विका स्थायिनी स्मृतिर्न सम्प्राप्ता । सुतरां तर्हि स्मरणं रुचिसंवर्धनेन ध्यानप्रकर्षेण पूर्वज्ञानराशिना सह कालदेशसम्बन्धव्यवस्था- सम्पादनेनोपयुक्तप्रत्ययसम्बन्धावचयेन चाभिनिर्वर्तते। पुनरावृत्तिः नूनमाश्रयणीया; किन्तु तस्या नीरसं यन्त्रवदाश्रयणं मनोवैज्ञानिका नातिरमणीयमनुमन्यन्ते।

(४) शिक्षितसामग्रीक्रमव्यवस्था

सम्पादयतु

केवलं पुनरावृत्तिरूपं स्मरणमभ्यासमयं. भवति। उपर्युक्तमेवास्माभिर्यद्धि पूर्वानुभवसामग्र्या क्रमव्यवस्था पुनरावृत्तिगौरवादतिरिच्यते। प्रत्ययसम्बन्धा विचारप्रकरणे व्याख्यातचराः । प्रत्ययसम्बन्धाः प्रस्तुतानुभवसामग्र्यां शिक्षणकाल एव योजनीयाः । सान्निध्यसम्बन्धः, तारतम्यसम्बन्धश्च पूर्वापरदेशकाल- सम्बन्धरूपावनुभवनसामग्रीघटकेषु प्रत्ययसम्बन्धस्थापनेन बुद्धिपूर्वकं संयोजनं सम्पाद्येते। अयं सामग्रीव्यवस्थाक्रमः कालान्तरे संस्कारसमुद्बोधनाय कल्पते । एवमेव सादृश्यसम्बन्धो वैषम्यसम्बन्धश्चापि स्थापनीयौ । प्रत्यभिज्ञानाय संस्कारसमुद्बोधनावसरे प्रस्तुतं वस्तु पूर्वं स्वसदृशमनुभवप्रत्ययं स्वविसदृशं वा पूर्वानुभवप्रत्ययं स्मारयति । बुद्धिपूर्विका यदि शिक्षणसामग्रीव्यवस्था वर्गीकरणसम्बन्धस्थापनविचारक्रमादिभिरभिनिर्वर्तेत, तर्हि न केवलं संस्कारोद्बोधनं प्रत्यभिज्ञानं च सुकरं शीघ्रं च सञ्जायते, प्रत्युत पुनरावृत्तिरूपो महान् आयासोऽपि निराकर्तुं शक्यते । स्मृतिश्चैवम्प्रकारेण स्थायिनी जायते। बुद्धिपूर्वकं कर्म ध्यानोपेतं भवति। अत एव सुव्यवस्थितानुभवसामग्री स्मृतिसौष्ठवाय कल्पत इत्यवधार्यम्।

=== (५) विषयाभिरुचिर्थ्यानान्वितत्वञ्च === स्मृतिसंवर्धनाय परमावश्यकं मानसिकं कारणद्वयम्। “यादृशी भावना यस्य सिद्धिर्भवति तादृशी" इति न्याय: स्मरणप्रकरणे नूनमुपपद्यते । यस्मिन् विषयेऽस्माकमभिरुचिर्भवति, तत्प्रतिपादकमप्यस्माकं कण्ठाग्रे वर्तते। एतावता लोकदृष्टमिदं वृत्तं यत् प्राड्विवाको हत्याभियोगवृत्तं प्रतिपदं प्रत्यभिजानाति; किन्तु स प्राणिविज्ञानपुस्तकं स्वपुत्रस्य वारं वारं पठित्वापि स्मर्तुं न शक्नोति, यतो हि प्राड्विवाकस्य प्राणिविज्ञानेऽभिरुचिर्न लक्ष्यते । ध्यानप्रकरणेऽस्माभिर्विशदतया व्याख्यातं यत् कथं रुचिप्रकर्षेण ध्यानप्रकर्षोऽभिसम्पद्यते ? इति । यत्र प्रमातुरभिरुचिर्वर्तते, विषयानुभवनं ध्यानान्वितं भवति। ध्यानोपेतस्यानुभवप्रत्ययस्य स्मरणमनायासेनाभिनिर्वर्तते, संस्कारवैशारद्यादित्यवगन्तव्यम्।

महर्षिगौतममतम्

सम्पादयतु

स्मृतिहेतुविवेचनावरे महर्षिगौतममतोपन्यासोऽप्यत्रोपपद्यते। अथ केभ्यो हेतुभ्यः स्मृतिरुत्पद्यते? इति सम्प्राप्तायामाशङ्कायां भगवान् सूत्रकार इदं सूत्रमवतारयति-

प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रितसम्बन्धानन्तर्यवियोगैक- कार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषभयार्थित्वक्रियारागधर्माधर्मनिमित्तेभ्यः” [१०] इति। उपरिलिखिते सूत्रे महर्षिः पञ्चविंशते: स्मृतिहेतूनामुल्लेखं कृतवान्। वयमत्रैतान् प्रतिपदं भाष्यकारोक्तरीत्याऽनुव्याख्यास्यामः-

(१) प्रणिधानम् - सुस्मूर्षया मनसो धारणं प्रणिधानम् । तच्च सुस्मूर्षितलिङ्गानु-

चिन्तनरूपत्वेन स्मृतिकारणम् ।

(२) निबन्धः - अर्थानामेकग्रन्थोपयमो निबन्धः । एकग्रन्थोपयताः खल्वर्था

अन्योऽन्यस्मृतिहेतव आनुपूर्व्येणेतरथा वा भवन्तीति । एकग्रन्थोपयता अनुभवरूपैकग्रन्थिबद्धाः, एकानुभवारूढा इति यावत् ।

(३) अभ्यास:- समाने विषये ज्ञानानामभ्यावृत्तिः । अभ्यासजनितः संस्कार

आत्मगुणोऽभ्यासशब्देनोच्यते ।

(४) लिङ्गम् - तच्च चतुर्धा भवति - संयोगि, समवायि, एकार्थसमवायि, विरोधि चेति । उदाहरणत: - धूमोऽग्नेर्लिङ्गम्। लिङ्गत्वात् स्मृतिहेतुश्च भवति । गोर्विषाणम्। पाणिः पादस्य । रूपं स्पर्शस्य । अभूतं भूतस्य चेति ।

(५) लक्षणम्-पश्ववयवस्थं गोत्रस्य स्मृतिहेतुः । यथा - विदानामिदम्, गर्गाणामिदमिति। ‘यथा' इत्यनन्तरं 'वा' इति देयम्, अस्य वाक्यस्य पूर्ववाक्येनासम्बद्धत्वात्।

(६) सादृश्यम् - चित्रगतं प्रतिरूपकं देवदत्तस्येत्येवमादिः । (७) परिग्रहात् - स्वेन वा स्वामी स्वामिना वा स्वयं स्मर्यते।

(८) आश्रयात् - ग्रामण्या तदधीनं संस्मरति ।

(९) आश्रितात्-तदधीनेन ग्रामण्यमिति । तदधीनेन ग्रामेणेत्यूह्यम् ।

(१०) सम्बन्धात्-अन्तेवासिना गुरुं स्मरति, ऋत्विजा याज्यमिति ।

(११) आनन्तर्यात् - करणीयेष्वर्थेषु । पूर्वस्मिन् कार्ये कृतेऽनन्तरस्य कार्यस्य स्मृतिरिति ।

(१२) वियोगात्-येन विप्रयुज्यते, तद्वियोगप्रतिसंवेदो भृशं स्मरति ।

(१३) एककार्यात्-कर्त्रनन्तरदर्शनात् कर्त्रन्तरे स्मृतिः ।

(१४) विरोधात्-विजिगीषमाणयोरन्यतरदर्शनादन्यतरः स्मर्यते ।

(१५) अतिशयात् - येनातिशय उत्कर्ष उत्पादितः स स्मर्यते ।

(१६) प्राप्त: - यतो येन किञ्चित्प्राप्तमाप्तव्यं वा भवति तमभीक्ष्णं स्मरति ।

(१७) व्यवधानात् - कोशादिभिरसिप्रभृतीनि स्मर्यन्ते ।

(१८ - १९) सुखदुःखाभ्याम् - तद्धेतुः स्मर्यते ।

(२०-२१) इच्छाद्वेषाभ्याम् - यमिच्छति यं च द्वेष्टि तं स्मरति ।

(२२) भयात् यतो बिभेति ।

(२३) अर्थित्वात् - येनार्थी भोजनेनाच्छादनेन वा ।

(२४) क्रियायाः - रथेन रथकारं स्मरति ।

(२५) सगात् - यस्यां स्त्रियां रक्तो भवति, तामभीक्ष्णं स्मरति ।

(२६) धर्मात् - जात्यन्तरस्मरणमिह चाधीतश्रुतावधारणमिति । जातिस्मरणं जन्मान्तरस्मरणं धर्माप्रकर्षाद् भवति । इह जन्मनि अधीतस्य श्रुतस्य च निःसन्दिग्धं ज्ञानं जायते ।

(२७) अधर्मात् - प्रागनुभूतदुःखाधनं स्मरति ।

उपर्युक्तं स्मृतिहेतूनां वर्णनं निदर्शनमात्रम्, न तु स्मृतिहेतूनामशेषेण परिसङ्ख्यान- मिति भाष्यकाराचार्यवात्स्यायनमुनीनां मतम्। प्रागुक्ते स्मृत्युपकारके नियमपञ्चकेऽर्वाचीन- मनोविज्ञानाभिमते नूनमेतेषां पञ्चविंशतिहेतूनामन्येषाञ्चावशिष्टानामन्तर्भावः कर्तुं शक्यत इति तु वयं मन्यामहे। पूर्वोक्तविषयसमुज्ज्वलत्वमधिकृत्येदमपि स्मर्तव्यं यद् रागद्वेषादि- भावविशेषैः सह सम्बद्धत्वादिविषये कश्चिदतिशयः सन्निविशते, येन स्फुटीभूतो विषय: कालान्तरे सौकर्येण स्मर्तुं शक्यते । अतोऽध्ययनकाले यदि पाठ्यविषयसामग्री भावविशेषैरनुषिक्ता क्रियेत, तर्हि तस्याः स्मृतिर्नूनं स्थायित्वं प्राप्स्यति ।

स्मरणानुगतनाडीक्रिया

सम्पादयतु

जर्मनदेशीयशारीरविज्ञानवेत्तारो हेरिङ्गमहोदयाः प्रतिपादितवन्तो यद्धि स्मरणाख्यमानसिकक्रियाया आधारभूताः शारीरिकक्रिया नाड़ीतन्त्रीयाः क्रियाश्च भवन्ति । किमपि प्रत्यक्षं कमपि नाडीस्रोतसां क्रियाविशेषं जनयति, येन संज्ञावाहिनाडीकन्दाणुकविशेषाणां क्रियाकारित्वं आपरिसरीयनाडीमण्डला-न्मस्तुलुङ्गीयसंज्ञायतनपर्यन्तं जायते । एकदा प्रत्यक्षविशेषे येन नाडीस्रोतसा नाडीवेगा धावन्ति, तेनैव नाडीस्रोतसा तदनन्तरमपि तत्प्रत्यक्षे नाडीवेगानामभीक्ष्णं तदभिमुखं धावनं सँल्लक्ष्यते। स्मरणाख्ये कर्मणि पूर्वसिद्धनाडीस्रोतसां समुद्बोधनं सम्पद्यते । विषयानुभवपुनरावृत्त्या नाडीस्रोतसां परिष्कारो गभीरत्वं वा वर्धते। अत एव पुनरावृत्तिः पाठ्यविषयस्य पौनःपुन्येन पठनं स्मृत्युपकारकमित्यवसेयम् । पूर्वमस्माभिः स्मरणं सचेतनकर्म इति प्रतिपादितम् ।

स्मरणे कस्य प्राक्तनप्रत्ययसम्बन्धस्य समुद्बोधनं कदा भविष्यति कदा च न भविष्यतीति सर्वं बौद्धिकव्यवस्थायत्तम्, यस्मिन् चैतन्याहितकर्मणि मृदुनाडीद्रव्यानुगतकर्षानुव्याख्यानेन स्वतो निष्क्रियत्वात् सर्वः स्मृतिजटिलव्यापारो व्याख्यातुं नार्हति । स्मरणं मानसिकं कर्म, बौद्धिको व्यापारः । तस्य प्रागुक्तरीत्या शकटचक्ररेखाया सादृश्यं ग्राम्योपमनिदर्शनम् । दाष्टन्तिके यज्जाटिल्यं बुद्ध्याहितं प्रत्ययसम्बन्धचयनात्मकम्, तद् दृष्टान्ते नोपलभ्यते । अतो नाडीस्रोतसां वैशारद्य- मनिराकृत्यापि स्मरणमिति विशेषेण बौद्धिको मानसिको वा व्यापार इति वयं मन्यामहे ।

स्मरणविषये प्रयोगाः

सम्पादयतु

१९४२ वैक्रमाब्दे जर्मनदेशीयाः प्रतिभाशालिमनोवैज्ञानिकवरेण्या एबिनघॉस- महाभागाः' स्वकीयं ग्रन्थरत्नम्, ‘स्मृति:’२ इत्यभिधं प्रणीतवन्तः। पञ्चवर्षाणि यावत्स्वकीय- मनुसन्धानं स्वमनोव्यापारानधिकृत्य ते सम्पादितवन्तः । तादृशमौलिकगवेषणापूर्णनिबन्धः स्मृत्तिमधिकृत्य कदाचित् केनापि विदुषा पूर्वं न लिखितः, नापि तदनन्तरम्। सर्वासामेव स्मरणविषयकसमस्यानां प्रायः प्रयोगात्मकमनुसन्धानं तत्रोपलभ्यते। एबिनघॉसप्रयोगाणां निष्कर्षास्तदौत्तरकालिकानुसन्धानजातेनापि समर्थिताः । वयमत्र काँश्चन स्मृतिसमस्या- विशेषानधिकृत्य केषाञ्चन प्रयोगाणां निरूपणं करिष्यामः ।

स्मरणमधिकृत्य प्रश्नत्रयं विचारास्पदीभवति, यथा-

१. पाठ्यसामग्रीविस्तारस्य स्मरणे कः प्रभावो भवति ? किं पाठदैर्घ्यं

तत्स्मरणं चिरेणावहति ?

२. पुनरावृत्तिसंख्यायाः पठितविषयस्य धारणायां प्रभावः कीदृशो भवति ?

३. कालापेक्षया विस्मरणं कथं जायते ? अत्र विस्मरणगतिरन्वेष्टव्या ।

वयमत्रैतान् प्रश्नान् प्रतिपदमनुव्याख्यास्यामः ।

पाठविस्तारस्य स्मरणे प्रभावः

सम्पादयतु

किन्नु स्मर्यमाणविषयदैर्ध्यानुपातेन कालोऽपि वर्धते ? किं कस्यचित् काव्यस्य विंशतिपङ्क्तिस्मरणार्थं यावान् कालोऽपेक्ष्यते, किन्नु खलु चत्वारिंशत्पङ्क्तिस्मरणार्थं तद्विगुणः कालोऽपेक्षितो भविष्यति ? एबिनघॉसमहोदयः प्राक्तनसंस्कारप्रभावं निराकर्तुं निरर्थकवर्णानामुपयोगं स्वकीयस्मरणप्रयोगेषु कृतवान्। स इमं निष्कर्षमवाप्तवान् यत् सप्ताष्टौ वा यावन्निरर्थकवर्णान् एकदा पठित्वैव शिक्षितुं प्रभवति; किन्तु दश वर्णान् निरर्थकान् स्मर्तुं त्रयोदशवारं पठनमावश्यकं प्रतिभातीति । तदुपर्येकैकवर्णवृद्ध्या सह कालोऽपि वर्धते। तेषां निष्कर्षसूची निम्नलिखिता [११] -

वर्णसङ्ख्या पाठसङ्ख्या समयः प्रतिवर्णं कालपरिमाणम्
३ सेकण्ड-आख्यविकलाः
१३ ५२ ५.२
१२ १७ ८२ ६.८
१६ ३० १९६ १२.०
२४ ४४ ४२२ १७.६
३० ५५ ७९२ २२.०


अत्रेदं स्पष्टं यत् कोऽप्यनुपातविशेषान्वितो वर्णसङ्ख्या सह कालवृद्धिनियमो निर्देष्टुं न शक्यते। तथापि यदि स्मर्यमाणसामग्री पूर्वपरिचिता भवेत्, अथवा लयविशेषण- गर्भिता भवेत्तर्हि समयपरिवृद्धिसङ्कोचोऽपि जायते। द्वादशवर्णस्मरणाय, यावान् कालोऽपेक्ष्यते, चतुर्विशतिवर्णस्मरणाय तस्य सार्धद्विगुणः कालोऽपेक्ष्यत इति । अतो वर्णसङ्ख्यावृद्ध्या सह कालवृद्धिरप्यपेक्षत इति सर्वमवदातम् ।

पाठसङ्ख्याया धारणायां प्रभाव:

सम्पादयतु

मनोवैज्ञानिकप्रयोगैरभीक्ष्णं साधितं यद्धि बहुवारं पठनमपि तादृशी स्थायिनीं स्मृतिं जनयितुं न प्रभवति, यादृशी बौद्धिकसम्बन्धस्थापनेन पाठसाग्र्यामवाप्तुं शक्यते । किञ्च, पाठपुनरावृत्तिर्यदि व्यवधानेन भवेत्, तर्हि पाठ्यविषयस्य धारणा चिरस्थायिनी जायते। अविरलमध्ययनं विषयधारणापेक्षया प्रशस्तं न भवति; किन्तु यदि पठने मध्ये मध्ये विश्रामो जायेत, मनोरञ्जनं वावाप्तुं शक्येत्, तर्हि पठनस्य चिरस्थायिनी स्मृति - र्भविष्यति । यद्यनवरतं पाठाध्ययनं भवेत्, तर्हि कालोऽप्यधिकोऽपेक्षितो भविष्यति; किन्तु तदपेक्षया मनोरञ्जनविश्रामशबलीकृतेनाध्ययनेन लघुतरकालापेक्षा भवतीति मनोविज्ञान- विशारदानामालोडितं तथ्यम्। तद्रहस्यं चेदमस्ति यत् पूर्वपाठानां संस्काररूपप्रभावास्ता- वदात्मसात्कृता जायन्ते, यावदवान्तरकालिकपाठानां समुपयोगावसर आयाति । विलियम- जेम्समहोदया व्यङ्ग्यात्मकरीत्या तदनुवदन्ति - "वयं शरत्काले तरणमधीमहे, ग्रीष्मे च तुषारविसृमरक्रीडाम्” इति । अत एकदा बहुवारं पठनापेक्षयेयं योजना प्रशस्ता भवति, यद् द्वित्रिवारं समग्रं पाठं पठित्वा तदनन्तरं विश्रम्य पुनस्तदध्ययनं सम्पाद्यते। साइकिलसंज्ञकयानचालकाः सुष्ठुतरं जानन्ति यद् विश्रम्य विश्रम्य तच्छिक्षणं कथं सुकरं जायते, अविरलञ्च तच्छिक्षणं कियद् दुष्करं भवतीति । विश्रामकाले संज्ञावाहिनाडी- कन्दाणुकानि नाडीस्रोतांसि च पुनः स्वास्थ्यलाभं कृत्वा तदधिकज्ञानोपार्जनाय कृतपरिकरा भवन्तीति विशेषः ।

विस्मरणम्

सम्पादयतु

कथं कियच्चिरेण वाधीतसामग्रीविस्मरणं सञ्जायते ? एबिनघॉसमहोदयेनैका निरर्थकवर्णसूची कण्ठाग्रीकृता । कियच्चिरं प्रतीक्ष्य स सञ्चितविधिना स्वकीयधारणा- क्षमतां परीक्षितवान्। सञ्चितविधिस्तस्य प्रतिभाया विलक्षण आविष्कारः । अनेन विधिना पूर्वाधीतविषयस्य कियान् अंशः सञ्चितोऽवशिष्यते, सुरक्षितोऽवशिष्यते, तस्य च व्यतीतेन कालेन साकं केनानुपातेन सम्बन्ध: ? इति सर्वमवधार्यते । एकेनोदाहरणेन वयमिमं विधिं स्पष्टीकरिष्यामः । षोडशवर्णसूचीं चतुर्विंशतिकलाभि: ( मिनटाभिधामिः ) अधीत्य, स घटिकैकानन्तरं सार्धत्रयोदश (१३.५ मिनट) कलाभिरेव तत्पाठं पठति स्म, स्मरति स्म । समयहसानुपातं वयमेवम्प्रकारेण ४४% प्रतिशतं लभामहे। काल- मितव्ययितैषावगन्तव्या ।

उपरिलिखितेन रेखाचित्रेणेदं स्फुटं भवति यद्धि पाठानन्तरं प्रथमघटिकास्वेव विस्मरणमधिकतमं जायते । तदनन्तरं विस्मरणं क्रमशो ह्रासमवाप्नोति । एकघटिकानन्तरं तेनाऽधीतविषयस्य ५६% प्रतिशतं विस्मृतम् । नवघटिकानन्तरं ६४% दिनद्वयानन्तरं ७२% एकत्रिंशद्दिनानन्तरम् ७९% प्रतिशतमेव विस्मृतम् । विस्मृतिवक्ररेखा- चित्रमुपरिनिर्दिष्टं धारणावक्ररेखाचित्रमपीत्यवसेयम्। अवान्तरकालिकैः प्रयोगैः एबिनघॉसनिष्कर्षाः प्रमाणिता जाता: । अस्माकं विस्मरणं नूनं प्रथमदिने प्रथमदिनद्वये वाधिकतमांशे जायत इत्यभीक्ष्णं प्रयोगैः साधितम्।

स्मरणं खण्डशः समग्रतो वा ?

सम्पादयतु

किन्नु खलु स्मर्यमाणं पद्यं श्लोकखण्डेषु विभज्य पठनीयम्, येन स्मरणं सुकरं भवेत् ? अथवा समग्रं पद्यं द्वित्रिवारं पठनीयम् ? अत्र विचारणीयोऽयं प्रश्नो मनोवैज्ञानिकैर्भृशं परीक्षणैः प्रयोगैश्च समाहितः । कालापेक्षयाः यथाशीघ्रमवबोधो भवेत्, पठितमधीतं वा पद्यं स्थायिनीं स्मृतिं जनयेदिति च पक्षद्वयं विचार्य्यास्य प्रश्नस्य समाधानमन्वेष्टव्यम्। प्रायो जनाश्छन्दोखण्डेषु प्रविभक्तस्य पद्यस्याध्ययनं स्मृत्यर्थं सुखावहं मन्यन्ते; किन्तु प्रयोगैस्तु यन्निगर्लितं तथ्यं प्रतिफलति तत्तु समग्रं पद्यमाद्योपान्तं पठित्वा तत्स्मरणं सुकरं भवतीति । एकेन प्रयोगेण साधितं यत् समग्रपाठेन खण्डपाठापेक्षया १२% प्रतिशतं न्यूनः कालात्ययो जायते । अपरेण प्रयोगेण साधितं यद्धि समग्रपाठेन पठनं खण्डशः पठनापेक्षया १५% प्रतिशतं स्मरणसौकर्य्यमावहतीति ।

मनोवैज्ञानिकप्रवरा बुडवर्थमहोदया अभिमन्यन्ते यद्धि पाठकः खण्डशोऽध्ययनं ग्राह्यं मन्यते, तत्र साफल्यमवाप्यान्यत्र तत्समस्या (पाठा)वयवानां स्मरणेऽपि सौकर्य्यमनुभवति। तथापि तेन ते पाठांशा नूनमेकीभावेन परस्परं योजनीयाः । यदि स समग्रपाठानुकूलमध्ययनं कर्तुं शक्नोति, तर्हि जटिलसमस्यानामध्ययनेऽपि तस्येवम्प्रकारक- मध्ययनं साहाय्यं प्रदास्यति। बुडवर्थमहाभागा विषयोपसंहाररूपेणेमं निष्कर्षमालोडितवन्तो यद्धि समग्रपाठविधिना पाठाध्ययनमारभ्य यथेच्छं मध्ये मध्ये तत्खण्डेषु ध्यानैकाग्र्यीकरणं श्लाघनीयमिति ।

श्रीमैकगोचमहोदयाः 'मानवशिक्षणस्य मनोविज्ञानम्" इत्याख्ये ग्रन्थे प्रतिपादयन्ति यद्धिं समग्रतः पाठविधिरुन्नतमानसिकशक्तीनां पुरुषाणां हिताय परमोपयोगी । यदा अभ्यासकालोऽविरलो भवति, खण्डशोऽध्ययनं नूनं सम्पादनीयम् । यदा चाभ्यासकालो विकीर्णो भवति, अर्थात् पाठशिक्षणं यदा बहुदिनानि यावत् करणीयं भवति, मध्ये मध्ये वा पर्याप्तविश्रामावसरो भवति, तदा समग्रतः पाठविधिर्नूनमाश्रयणीयः ।

अत्रेदं स्मर्तव्यं यद्धि पाठसामग्र्यामतिदीर्घायां सत्यां तस्याः खण्डशः प्रविभाजनं कर्त्तव्यम्, अन्यथा समग्रतः पठनीयम्। कलात्मिकायां रचनायाम्, बौद्धिके वा प्रबन्धे तात्पर्यासादितमैक्यं मुख्यं भवति । समग्रतः पठने काव्यस्य गद्यस्य वा तत्केन्द्रीभूतमभिलक्ष्य सर्वमध्ययनं तदनुबन्धित्वेन प्रचलति । विचारपूर्वकं च तद् भवति । अतः समग्रतः पठने बौद्धिकक्रियाबाहुल्यं वर्तते । खण्डशः पठनं तद्विपरीतं यन्त्रवद् रटने पुनरावृत्तिसर्वस्वे कण्ठाग्रीकरणे बहुधा पर्यवस्यति । खण्डशः पठने द्विविध आयासो जायते, यथा-- प्रथमं त्वेकैकः श्लोकः कण्ठाग्रीक्रियते, तदनन्तरञ्च श्लोकानां परस्परमन्वितानां स्मरणं सम्पाद्यते। यदि कदाचन पाठकैः पाठावयवानां परस्परं सम्बन्धो विस्मर्यते, तर्हि पथभ्रष्टः स जायते । प्रयत्नं कृत्वापि संस्कारोद्बोधनं दुष्करं भवति । यदि च स्मर्यमाणा सामग्री बृहदाकारा भवेत्तर्हि समग्रतः पठनविधिः, खण्डशः पठनविधिश्च द्वावेव मिश्रीकृत्य प्रयोक्तव्यौ। प्रथमं समग्रं पाठं बहुवारमधीत्य तदनन्तरं खण्डशः पठित्वा, मध्ये मध्ये च खण्डानां परस्परं विचारसम्बन्धं ध्यात्वा, पाठस्मरणं सौकर्येण नरः सम्पादयति । पाठावयवानां सम्बन्धो मध्ये यदा कदा समग्रपाठेन दृढीभवतीति बोद्धव्यम् ।

स्मृत्या भावैः सह सम्बन्धः

सम्पादयतु

भावानां संवेगाभिधानां रागद्वेषमोहादीनामपरिमितः प्रभावोऽध्ययने शिक्षणे दृश्यते । साक्षिणां साक्ष्येषु ये भेदा जायन्ते, ते प्रायो भावविशेषनिरूढा भवन्ति । भावविशेषेण घटनाविशेषस्यैकः पक्षस्तिरोहितो भवति, पक्षान्तरञ्च सातिशयं वर्ण्यते ।

स्वनामधन्यानां मनोवैज्ञानिकवरेण्यानां फ्रायडमहाभागानां मतानुसारं भावानां स्मृत्यां प्रभावो नूनं सञ्जायते । विस्मरणं खलु भावाऽवदमनापादितमिति फ्रायडमहाशयानां सुसाधितं मतम् । दुःखवेदनीया घटनास्तत्सम्बद्धा: पुरुषाश्च विस्मृता भवन्ति । येषां पुरुषाणां चरित्राणि कार्याणि चास्माकमनभीष्टानि भवन्ति तेषां नामानि विस्मृतानि जायन्ते। विस्मरणं चेदमवदमनक्रिययाभिनिर्वर्तते । बहूनामवाञ्छनीयचरित्राणां पुरुषाणां विस्मरणोदाहरणानि स्वमतसाधनायोद्धृतानि फ्रायडमहाभागैः । [१२]

अन्यैर्मनोवैज्ञानिकैरपि फ्रायडमतमभीक्ष्णं परीक्षितम् । तेषां मते सुखवेदनीया घटना दुःखवेदनीयघटनानामपेक्षया अधिकस्थायिनीं स्मृतिं जनयन्ति । अन्येषां मनोवैज्ञानिकानां मते दुःखवेदनीयाः सुखवेदनीयाश्चानुभवा द्विविधा एव भावविशेषयुक्ता भावविशेषविरहितानामनुभवानां व्यपेक्षया स्मरणार्हा भवन्तीति ।

अनुभवाहितसंस्काराणा धारणं सञ्चयो वा मनसा सम्पाद्यते । शिक्षणानन्तरावस्थेयं स्मृतिसौष्टवाय परमोपयोगिनी । धारणां विनावधृतोऽपि विषयः कालान्तरेऽकिञ्चत्करो भवति। धारणा नाम मनोरूपचैतन्यस्य शक्तिविशेषः, यया पूर्वानुभवसंस्कारा धार्यन्ते, परिपाकं नीयन्ते, संरक्षिताश्च भवन्ति । सम्यक्तया शिक्षितोऽपि विषयो धारणादौर्बल्यान्नहि भाविस्मरणाय कल्पते। सेयं धारणाशक्तिर्नहि सर्वेषु पुरुषेषु समानरूपेण विद्यते । इयं वैवंशपारम्पर्यगुणायत्ता विशेषेण भवतीति प्रायेण मनोवैज्ञानिका मन्यन्ते । निसर्गतः प्रतिपुरुषं भिद्यमानापि धारणाशक्तिरुपयोगानुपयोगसद्भावे स्वाभिव्यक्तिं न्यूनाधिकमात्रायां लभते। अर्थादपेक्षाकृतदुर्बलधारणाशक्तिसम्पन्नोऽपि मानवः सम्यगुपयोगेनोत्कृष्टधारणा- युक्तस्य निष्क्रियस्य पुरुषस्यापेक्षया महनीयं बौद्धिकसाफल्यमवाप्तुमर्हति । सेयं धारणा ‘मेधा' इत्यपि व्यपदिश्यते संस्कृतवङ्मये ।

धारणाशक्त्यभिव्यक्तिः मस्तुलुङ्गरचनास्वास्थ्यरुचिप्रकर्षचिन्तनादिकं व्यपाश्रित्य जायते । दुर्बलमस्तिष्को मानवः शिक्षणकार्यं सम्यक्तया न कर्तुं शक्नोति, अत एव तस्य धारणापि दुर्बला भवति । धारणावतः स्मृति स्थायिनी भवति । येषां मस्तुलुङ्ग पूर्णतो विकसितं स्वस्थञ्च भवति, तेषामनुभवसंस्कारधारणा चिरेणापि संस्कारोद्बोधनक्षमतां बिभर्त्ति । मस्तुलुङ्गविकासश्च सांसिद्धिकः शेवधिः । अपि च, रुग्णदशायां शारीरिक- शक्तिह्रासेन साकं कार्यक्षमताहासोऽप्यासाद्यते । शारीरिकमानसिकक्रियाह्रासाद्धारणाशक्तिरपि नैसर्गिक कार्यक्षमतां न बिभर्ति । अन्यच्च धारणाशक्ती रुचिध्यानैकाग्र्यायत्तापि भवति । यदि स्मर्यमाणे विषये पाठकस्य रुचिर्न भवेत्तर्हि ध्यानैकाग्र्यं न जायते । ध्यानैकाग्र्याभावे धारणाशक्तिप्रकर्षोऽपि स्मृतिसौष्ठवं न लभते । ध्यानैकाग्र्यञ्च सत्त्वगुणोद्रेकात्, युक्ताहारविहारात्, ब्रह्मचर्यसेवनाच्चाभिनिर्वर्तते । तथा हि श्रुति:-

'आहारशुद्धौ सत्त्वशुद्धिः, सत्त्वशुद्धौ ध्रुवा स्मृतिः " इति ।

सात्त्विकाहारात् सत्त्वस्य बुद्धेः विशुद्धिर्जायते, बुद्धिप्रसादे च ध्रुवा स्थायिनी स्मृतिर्जायते। स्मृतिर्धारणोत्यत्रावसेयम्। पवित्रभोजनब्रह्मचर्य्यादिसेवनेन ध्यानैकाग्र्यं सौकर्येण जायते । ध्यानावहितस्य धारणा बलवती भवतीति निःसन्दिग्धम् ।

स्मृतिविकासोपायाः

सम्पादयतु

किन्नु खलु स्मृतिविकासः कर्तुं शक्यते ? अथवा किं स्मृतिर्विविधौषधविशेष- सेवनेन संवर्धते ? अथवास्ति कोऽपि मनोवैज्ञानिको विधिविशेष:, येन स्मृतिसंवर्धन- . मापादयितुं शक्यते ? नहि रोगिणः कार्यविशेषे चित्तैकतानतां लभन्ते । औषधविशेषेण स्वास्थ्य वर्धते, ततश्चासाद्यते कार्यक्षमतावृद्धिः । स्मृतिविकासस्तु पूर्वोक्तमनोविज्ञानाभिमत- नियमानामनुपालनेन सञ्जायत इति वयं मन्यामहे । विषयसामग्र्याः सार्थकत्वम्, पठनातिशयः विश्रामशबलीकृतपठनकालः, पाठावयवेषु परस्परं प्रत्ययसम्बन्धानां विचारपूर्वकं स्थापनञ्चेति स्मरणसौकर्य्यमावहन्ति । यद्यपि धारणाशक्तिं निसर्गजन्यां वयं संवर्धयितुं न शक्नुमः; तथापि शिक्षणवेलायां ध्यानैकाग्र्यमभिरुचिप्रकर्षश्च पाठ्यविषये स्मृतिसंवर्धनाय कल्पेते।

निद्रा, मनोरञ्जनम्, विश्रामः शिक्षणानन्तरं क्रियाक्षेत्रपरिवर्तनं चैते धारणासहाया भवन्ति । स्मर्यमाणविषयस्य स्वगतात्मपरीक्षणेन' पठनानन्तरं विषयावगमः परिपाकं नेनीयते। स्वगतात्मपरीक्षणविधिश्चैवम्प्रकारको भवति । पाठको वारं वारं पाठमधीयानो मध्ये मध्ये आत्मपरीक्षणमुपक्रमते; यथा - कियान् पाठांशोऽधीतः सम्यक्तया, कियान् भागश्चावशिष्ट इति । एवंविधात्मपरीक्षणेन प्रत्ययसम्बन्धावधारणं ध्यानसक्रियत्वं चानायासेन सम्पाद्येते। पूर्वसाफल्येनोत्साहवृद्धिर्जायते। उत्साहसद्भावे दुर्बोधोऽपि पाठः सुकरो जायते। किञ्च, आत्मपरीक्षणेन पूर्वाधीतस्खलितानां निवारणमचिरेणाभिसम्पद्यते। प्रतिवारमनुभवजन्याः स्थायिसंस्कारा जायन्त इति तु निःसन्दिग्धम् । तेषां संस्काराणा- मसम्प्रमोषेयत्तावधारणं नहि सर्वदा संस्कारोद्बोधनेन प्रत्यभिज्ञानेन वा सम्पाद्यते । पूर्वपाठस्य पुनरध्ययनेनात्मपरीक्षणेन सञ्चयविधिना वा तदवधारणं सुकरं भवतीति बोद्धव्यम् ।

सञ्चयविधिश्चायं एबिनघॉसमहोदयोद्भावितो विस्मृतिविवेचनावसरे व्याख्यातचरः । पुनरध्ययनं नाम पाठपुनरावृत्तिः । पठनातिशयोऽत्र यावदध्ययनं स्मरणार्थं पर्याप्तं सम्भावितं भवेत्, तस्मादप्यधिकं बहुवारं पठनम्; यतो हि तेन पाठ्यविषयः पूर्णतयात्मसात्कृत: सञ्जायत इति ।

स्मृतिविकाराः

सम्पादयतु

स्मृतिस्वरूपं सपरिकरमनुव्याख्यातम् । सम्प्रति विकाराणां विवेचनमपि महत्त्वपूर्ण- मस्मान् प्रतिभाति; यतो हि तेषामपरिमित: प्रभाव इतरमानसिकव्यापारेषु प्रत्यक्षानुमान- विचारकल्पनाप्रभृतिष्वनुदिनं सँल्लक्ष्यते । प्रायः सामान्यपुरुषाणामसामान्यपुरुषेभ्यो भेदप्रयोजकं दुरवगमं भवति । यतो हि सामान्यविस्मरणसामान्यस्मृतिभ्रंशाद् भिद्यमानमपि दुर्बोधं भवति। तथापि मनोवैज्ञानिकानां रमणीयं प्रतिपाद्यं हि खलु स्मृतिविकाराणां विवेचनम्, तेषां दैनन्दिनं सामाजिकक्षेत्रेषु यत्र तत्रोपलभ्यमानत्वात्।

स्मृतिविकारास्त्रिविधा भवन्ति - स्मृतिभ्रंशः, स्मृतिव्यतिरेकः', स्मृतिविपर्यासश्चेति। वयमेतान् स्मृतिविकारान् प्रतिपदं सङ्क्षेपतोऽनुव्याख्यास्यामः | अत्रेदं स्मर्तव्यं यद्धि स्मृतिसहायानां तदङ्गानामसामान्यव्यापारेण तत्तद्विकारा आविर्भवन्तीति ।

स्मृतिभ्रंशः

सम्पादयतु

स्मृतिभ्रंशो नामासामान्यं विस्मरणं स्मृत्यभावो वा । स्मृतिभ्रंशोऽपि द्विविधो भवति-साधारणस्मृतिभ्रंशः ४, आंशिकस्मृतिभ्रंशश्चेति । साधारणस्मृतिभ्रंशे निखिल - विचाराणामभ्यस्तक्रियाणाञ्चापि विस्मरणं जायते । आंशिकस्मृतिभ्रंशे सङ्ख्याविशेषस्य, नामविशेषस्य, घटनाविशेषस्य, इन्द्रियविशेषजन्यानुभवस्य वा विस्मरणं जायते ।

साधारणस्मृतिभ्रंशः समेषामेवैतेषां जायते यदा कतिपयवर्षपर्यन्तं निखिलपूर्वानुभवस्य विस्मरणं जायते। उदाहरणस्वरूपमेकस्य पुरुषविशेषस्य सप्तवर्षानुभवजातं सर्वथा विस्मृतिं गतम् । स तत्पूर्वानुभवान् स्मरति स्म । स तदवान्तरकालिकानुभवानपि स्मरति स्म; किन्तु तदन्तराले परिचितपुरुषाणाम्, सङ्घटितघटनानां किमपि स्मरणं स कर्तुं न प्राभवत्। कदाचन स्मृतिभ्रंश आत्मविस्मरणरूपतां बिभर्ति | आत्मविस्मृतिकः पुरुष आत्मानं न विजानाति, यथा - कुत्रत्यः सः ? किं च तस्य नाम ? कश्च तस्य व्यवसायो वा? इति। एतादृशपुरुषाणामात्मविस्मृतिग्रस्तानां वृत्तान्ता अनुदिनं समाचारपत्रेषु प्रकाश्यन्ते। सामाजिकहितापेक्षया स्मृतिभ्रंशकारणानुसन्धानं परमावश्यकम्।

स्मृतिभ्रंशकारणम्

सम्पादयतु

किन्नु खलु स्मृतिभ्रंशस्य कारणम् ? सन्ति हि बहूनि तत्कारणानि । प्रथमं तावत् स्मृतिभ्रंशस्य कारणमनुभवकाले स्मर्यमाणं वस्तु प्रति ध्यानाभावः । अवहितो भूत्वा यदनुभवनं पुरुषः करोति, तत् कालान्तरे स्मर्तुं शक्यत इति तु वयं पूर्वभवोचाम । अनवहितस्यानुभवनं स्मृतिभ्रंशमासादयति। शिक्षणवैकल्याद् ध्यानदोषाद् वा स्मृतिभ्रंशो जायते। अन्यच्च, मस्तुलुङ्गप्रतिघातान्मस्तुलुङ्गीयनाडीतन्तु (tissue) दौर्बल्याच्चापि स्मृतिभ्रंश आपद्यते । द्विविधो हि स्मृतिभ्रंशो भवति - धारणात्मकः स्मृतिभ्रंश: 3, संस्कारोद्बोधनात्मकः स्मृतिभ्रंशश्चेति । धारणात्मके स्मृतिभ्रंशे मृदुनाडीद्रव्यस्थसूक्ष्मकर्षाणां दुर्घटनाप्रतिघातेन विपरिलोपो जायते । कदाचन तु रोगी दुर्घटनायाः पूर्वं घटिताया वर्ष य़ावद्, दिनानि यावद्, घटिका यावद् वा तथ्यानां स्मरणं न कर्तुं प्रभवति । कदाचन तदुत्तरं कासाञ्चिद् घटनानां पुरुषाणां वा स्मृतिः पुनरावर्तते ।

संस्कारोद्बोधनात्मके स्मृतिभ्रंशेऽसामान्यमानसिकदशायां प्रत्ययानामभ्यस्तपूर्वाणां क्रियाणां वा अवदमनक्रियासादितसंस्कारोद्बोधनं न जायते । एतादृश: स्मृतिभ्रंश शारीरिक- विकारजन्यो नास्ति, प्रत्युत मानसिकसङ्घर्षेणावदमनेन च व्यक्तित्वद्वैविध्यं जायते । ये ये प्रत्यया भावा विचाराश्चावदमनविषया भवन्ति, अहङ्कारेण जाग्रच्चैतन्यक्षेत्रात्तिरोहिताः क्रियन्ते, ते ते नूनं विस्मृता जायन्ते । फ्रायडमहाभागैः खल्वेतादृशस्मृतिभ्रंशरूपमाविष्कृतं सपरिकरमनुव्याख्यातं चापि । सम्मोहनविधिना मनोविश्लेषणविधिना च परिस्थितिविशेषे तद्विधानां प्रत्ययानां भावानां विचाराणाञ्च रोगिणां पुन: स्मरणं सम्भाव्यते । अतो वयं मन्यामहे, संस्कारोद्बोधनात्मकः स्मृतिभ्रंशो मस्तुलुङ्गावयवविकारजन्यो नास्तीति ।

सोऽयं संस्कारोद्बोधनात्मकः स्मृतिभ्रंशः सामान्यविस्मरणरूपो निष्क्रियो व्यापारो नास्ति। अयं वै सक्रियो व्यापारः योऽस्माकं चित्तेषु ज्ञानाविषयीभूतः सन्नपि प्रवर्तते । नहि दुःखप्रदघटनानां स्मरणमस्मभ्यं रोचते । मनस्तर्हि तासां घटनानामनुभवानामवदमनं करोति। कारणचैतन्यासादितं तिरोधानं तेषामनुभवानां तदा सञ्जायते । अनेनैव कारणेन वयं स्वकीयान्यृणानि विस्मर्तुं यतेमहि; यतो हि ऋणं प्रायेण कष्टप्रदमनुभूयते जनै: । आदेयानि द्रव्याणि भृशमस्माभिः स्मृतिपथं नेनीयन्ते । आशामयानि ह्यादेयानि द्रव्याणि भवन्ति। ये ये विचाराः स्मृतिभ्रंशेन विलुप्तास्तिरोहिता विस्मृता वा, ते सर्वे भावग्रन्थिसन्नद्धा अवदमनविषयीभूतस्थायिभावान्विता वासन् । यत् प्रत्ययजातं विचारजातं वा विस्मृति नेनीयते, तद्बलवत्तरभावग्रन्थिप्रभावविरोधात्तिरोधीयत इति मनोविश्लेषणपारङ्गतानां युक्तिबलान्वितं मतं युज्यते ।

स्मृतिव्यतिरेकः

सम्पादयतु

स्मृतिव्यतिरेको नाम स्मृत्याधिक्यम्, यत्रासाधारणं वर्णोज्ज्वलत्वं स्मरणं बिभर्त्ति । पूर्वानुभवस्य संस्कारोद्बोधनमतीव स्फुटमत्र जायते । अनेकाः पूर्वविस्मृताः प्रत्ययाः स्मृतिपटले विस्पष्टं समागच्छति । अयं स्मृतिव्यतिरेकस्तीव्रज्वरे प्राणान्तकदुर्घटनायां भावगर्भितायां वा सङ्घटते । स्मृतिव्यतिरेको नाडीस्रोतसामतिशयक्रियाकारित्वेन नाडी- सम्बन्धानामसामान्यप्रतिरोधाभावे वाभिनिर्वर्तते ।

प्राध्यापकजेम्समहोदयेनैकस्या बालिकायाः स्मृतिव्यतिरेकोदाहरणमुद्धृतम्। अशिक्षितैका बालिका अकस्माद् हिब्रू भाषाद्वारा वार्तालापमारब्धवती । तया कदापि हिब्रूभाषा नैवाधीता आसीत् । प्रायशो जना एतादृशव्यक्तीः दैवशक्तिसम्पन्ना मन्यन्ते। अनुसन्धानेन तद्बालिकापूर्ववृत्तान्तस्याविष्कृतं खल्विदं तथ्यं यत् सा पूर्वमेकदा हिब्रू भाषा- पण्डितस्य भृत्या आसीदिति । तस्या बालिकायाः स्मृतवाक्यानि धर्माचार्य्यवाक्य- सदृशान्यासन्। अतस्तदानीन्तनशाब्दसंस्कारधारणावशात्तदनन्तरमपि तदभिव्यञ्जनं भाषा- द्वारेण सुकरं सुस्पष्टं च सञ्जातम् । एतावता प्रतिफलतीदं यद्धि परिस्थितिविशेषे यावन्तो विषया स्मर्यन्ते, तेभ्योऽप्यधिका अनुभवसंस्कारा बुद्ध्या आधीयन्ते, तेषां धारणा च संरक्षिता जायते ।

स्मृतिविपर्यासो नाम अननभूतविषयाणां स्मरणमिति । स्मृतिभ्रमो हि ‘स्मृतिविपर्यास:’ इति व्यपदिश्यते । स्मृतिविपर्यासोऽपि सर्वांशतो मिथ्यास्मृतिर्न भवति । स्मृतिमिथ्यात्वं नाम पूर्वस्मृतेर्भिन्नदेशकालसम्बन्धिप्रत्ययसंस्कारोद्बोधनमिति। वस्तुस्मरणं धारणामुखेन संस्कारोद्बोधनमुखेन वा स्वतो वितथं न भवति, किन्तु देशकालप्रत्ययसम्बन्धाः स्थानभ्रष्टा जायन्ते। अथवा, कल्पनोद्भावितानां प्रत्ययानामभिनवं विचित्रं वा प्रघट्टनं संयोजनं निर्माणं' वा यदा वास्तविकपूर्वानुभवव्याजेन स्मर्यते स्मृतिरूपतयोद्धोष्यते च, तदा ‘स्मृतिवपर्यासः' इति निगद्यते । कदाचन पुस्तकाधीतविचाराः स्वकीयानुभवसंस्कार- रूपेणानुभूयन्ते। अघटितनामपि घटनानां स्मरणं स्मर्ता करोति । स्मृतिविपर्यासः काल्पनिकसृष्टेश्चरमं रूपं सन्दिशति ।

अर्वाचीना मनोवैज्ञानिका मन्यन्ते यद्धि अनवबुद्धाभिलाषासादिता: स्मृतिविपर्यासा भवन्ति। एवंविधः पुरुषस्तदेव स्मरति यत्स यथार्थभूतमिवाभिवाञ्छति। स्मर्यमाणप्रत्ययाना- मन्तराले कल्पनासृष्टिः प्राचुर्येण संन्निवशते। अत्र रोगी यथार्थभूताया घटनाया: काल्पनिकोद्भाविताद् घटनाविशेषात् पृथङ्गिर्देशं बुद्धिसम्भ्रमेण कर्तुं न शक्नोतीत्यवसेयम्॥

सन्दर्भाः

सम्पादयतु
  1. तर्कसङ्ग्रहः
  2. न्यायसूत्रभाष्यवार्तिकम्
  3. योगसूत्रम् १/११
  4. R.S.Woodworth-psychology, A study of mental life, page 324
  5. अ० यो० व्य०, श्लो० १८
  6. न्यायसूत्रम्, ३।२।४०
  7. न्या० सू० भा०, ३।२।४०
  8. उत्तररामचरितम् १।१२
  9. उत्तररामचरितम् २/७
  10. न्यायसूत्रभाष्यम् ३।२।४१
  11. Garret Henry E, Great Experiments in Psychology, 1941 Page 262.
  12. Sigmund frend, "Psychopathology of Everyday life" chap. I


सम्बद्धाः लेखाः

सम्पादयतु