मनोविज्ञाने स्वभावः
मनोविज्ञाने स्वभावः अतीव महत्त्वपूर्णविषयः वर्तते।
स्वभावपरिभाषा
सम्पादयतुननु कोऽयं स्वभावो नाम ? अथातो वयं स्वभाववर्गीकरणं कृत्वा स्वभावपरिभाषा - मनुव्याख्यास्यामः। प्राचीनैर्बहु मन्यमानमपि शारीरिकरासायनिकलक्षणपरं स्वभावानुव्याख्यानं खल्वस्माभिर्निराकृतम्। व्यक्तेः सामान्यतो भावसंवेदनादिसङ्घट्टनेनाभिनिर्वृत्तरूपः स्वभावः । कस्य कस्य संवेगविशेषस्य प्रभावो मानवव्यवहारस्य निर्णायको भवतीति सर्वं स्वभावायत्तम्। संवेगविशेषप्रभावमुद्दिश्य वयं ब्रूमः - अयं लोभी, अयं जिज्ञासुः, अयं कामी, अयं क्रोधनः, अयं विकत्थनः, अयं दम्भी इति । संवेगप्राखर्यं स्वभावरूपस्य हृदयम् । अथवा विविधभावानां प्रभावाभिमुख्यं स्वभावत्वम्। मूलप्रवृत्तीनां संवेगा हि खलु निसर्गजा वंशानुक्रमायत्ता भवन्ति । नहि सर्वेषु सर्वे संवेगाः साम्येन विद्यन्ते ।
केषाञ्चन युयुत्साप्रवृत्तिरुद्दामा भवति, अन्येषामात्मप्रदर्शनमत्युग्रं दृश्यते, अन्ये च केचन महतीं जिज्ञासां प्रदर्शयन्ति। विविधमूलप्रवृत्तयो व्यक्तेः पैतृकगुणपारम्पर्येऽनुप्रविष्टाः प्रतिपुरुषं भिद्यन्ते, सामाजिकपारिवारिकशिक्षाभ्यासानुशीलनादिप्रभावजन्ममूलसंवेगानां सङ्घटन- वैचित्र्यात्। अतः सांसिद्धिकः स्वभावो लोकानुभवेन विपरिवर्तितो जायते। यथा क्रोधनो बालको यदि बाल्येऽनुदिनं गृहे बाह्यखेलासु च सर्वत्र क्रोधाभिमुखो जायेत, अन्यैर्बालकैश्चोत्तेजितो जायेत; नूनं स यौवने नृशंसः, क्रूरः, क्रोधी च भविष्यति । किन्तु यदि तस्य सम्यक्पथप्रदर्शनं सम्पाद्यते, तर्हि स क्रोधस्वभावं विहाय आत्मसंयमं शान्ति चापद्यते। तस्य क्रोधन: स्वभाव: सम्यक्पथप्रदर्शनेन नैतिकसदाचारदार्यरूपतां शुभाचरणदक्षसंरक्षणपरत्वञ्चापद्यते।
विश्वासश्रद्धयोः व्यक्तित्वाङ्गत्वम्
सम्पादयतुएकस्या व्यक्तेः स्वभावो नूनमितरस्या व्यक्तेः स्वभावाद् भावस्वरूपसङ्घटन- विशेषमादाय भिद्यते। एवं व्यक्तेर्विश्वासाः श्रद्धा चापि व्यक्तित्वे वैलक्षण्यमापदयन्ति । कथमेका व्यक्तिरात्मविषये बाह्यजगतो राजनीतिकसामाजिकनैतिकसमस्यानां विषये च चिन्तयति ? इति सर्वं तस्या व्यक्तेर्भावान्, संवेगान्, विचारान्, प्रयत्नाँश्च प्रभावयति। विचारा विश्वासाश्च सङ्घटिताः प्ररूढाश्च कालक्रमाज्जायन्ते । तत्पश्चात्तेषामुन्मूलनमपि दुष्करं भवति । यतो हि ते परस्परानुबुद्धाः स्थायिभावाङ्गभूताश्चाभिनिर्वर्तन्ते । प्राकृत- पुरुषाणां शिक्षाऽभावाद् भूतप्रेतादिषु बहवोऽन्धविश्वासा भवन्ति । ते आयुर्वेदाभिमतं खगोलशास्त्रसम्मतमनुव्याख्यानमविज्ञायैव प्रत्येकं घटनां देवविशेषकोपात्, असुरविशेष- कोपात्, भूतप्रेतादिकोपाद् वाभिमन्यन्ते। येषामीदृशा अन्धविश्वासाः, नहि तेभ्यो विधिप्रयुक्तायुर्वेदचिकित्साप्रणाली रोचते । प्रत्येकं शारीरिक विकारं ते भूतपिशाचप्रयुक्त- मेवाभिमन्यन्ते। अयञ्च तेषामभिनिवेशो भवति ।
अहो दौर्भाग्यं हि खलु भारतीयग्रामीण-जनताया यदत्र न केवलमशिक्षिता एव, अपि तु सुरभारतीयचरणसंसिक्तमानसाः पण्डिता अपि वैज्ञानिकार्वाचीनानुसन्धानानां परिचयाभावादनेकान् शारीरिकविकारान् भूतपिशाचपितृप्रभृतिभिः क्रूरदृष्टिभिः जन्यमानानद्यापि स्वीकुर्वन्ति । चन्द्रग्रहणे राहुकेतुभ्यां चन्द्रमसः शिरः कृत्तं भवतीति सर्वमज्ञानस्य महती विडम्बना । ख्रीष्टीयमुहम्मदीयधार्मिक- सम्प्रदायेष्वपीदृशा बहवोऽन्धविश्वासा जनान् त्रासयन्ति। नहि विश्वासाः श्रद्धा वा सर्वदा बुद्धितर्कमधिकृत्य प्रवर्तन्ते, अपि तु भावावेशात्, श्रद्धाजन्यसङ्केतात्, सामाजिकपारम्पर्याद्वा बहुवारमभिनिर्वर्तन्ते। एकवारं सुनिम्मिता विश्वासास्तदनन्तरं सर्वासु क्रियासु भावसंवेदनादिषु भाविचिन्तनादिषु च नितान्तं प्रभावमावहन्ति। सुदृढां विश्वासास्तु वस्तुतः संवेगा इव स्वभावानिर्वार्याङ्गत्वेनानुप्रविशन्ति व्यक्तित्वगुणेषु । विश्वासा: सुदृढा श्रद्धां जनयन्ति। यत्र यस्य श्रद्धा भवति, तत्रैव तस्य व्यक्तित्वं सुनिहितम् । तदुक्तं हि भगवता श्रीकृष्णेनाऽपि -
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।
श्रद्धामयोऽयं पुरुषो यच्छ्रद्धः स एव सः ॥ इति । [१]
सत्त्वानुरूपेति विशिष्टसंस्कारोपेतान्तःकरणानुरूपा सर्वस्य प्राणिजातस्य श्रद्धा भवति। यादृशी मानवस्य श्रद्धा भवति, तादृशोऽयं मानवो भवति। अर्थात् श्रद्धानुरूपमेव व्यक्तित्वं भवतीति तात्पर्यम्। विश्वासस्य चरमा कोटि : 'श्रद्धा' इति कथ्यते । विचार-विवेकविधुरा श्रद्धाऽन्धविश्वासमयत्वादपायिनी भवति । विचारविवेकसहकृता श्रद्धा दृढविश्वासभूमिस्था, सर्वासां सिद्धीनां जनयित्री, प्रयत्नेषु च साधारणं वेगमाधत्ते, लोके स्वर्गे च महाभ्युदयाय निःश्रेयसे च कल्पते।
स्थायिभावान्वितं चारित्र्यसङ्घटनम्
सम्पादयतुस्थायिभावस्वरूपं नूनमस्माभिस्त्रयोदशेऽध्याये सविस्तरं पल्लवितम्। तदनन्तर- मिच्छाविवेकनिर्णयाद्यधिकृत्य ऐच्छिकक्रियैच्छिकनिर्णयविवेचनीये चतुर्दशेऽध्यायेऽप्यस्माभि- स्तदनुबन्धित्वेन स्थायिभावप्रभावः स्फोरितः'। पूर्वमस्माभिरुक्तं यद् व्यक्तेः प्रायोऽनुभवा- गतानां पुरुषाणां परिस्थितीनां वा विषये भावविचारेच्छानुचिन्तनादिनैरन्तर्येण या स्थायिनी दृष्टिर्जन्यते, सैव 'स्थायिभाव:' इति निगद्यते । अर्वाचीनमनोविज्ञानक्षेत्रे मनोवैज्ञानिक- प्रवरेण शेण्डमहोदयेन सर्वोपरि सर्वप्रथमं स्थायिभावविषयकमीदृशं मतं विवृतम् । स्थायिभावे हि तन्मतानुसारं भावानां संवेगानां वा सङ्घटनं शृङ्खलाबद्धीकरणमिति यावद् विशेषेणाभिसम्पद्यते । यदा वस्तुविशेषमादायास्माकं सर्वे भावास्तत्सन्निविष्टा जायन्ते, अनुदिनं च वयं तद्विषय एव चिन्तयामः, तददुःखं ज्ञात्वा दुःखमनुभवामः, तस्य दुःखमपाकर्तुमिच्छामः, तदर्थं प्रयतामहे च, तस्य सुखं ज्ञात्वानन्दमनुभवामः, तल्लाभे परितोषं विन्दामहे, तद्विरहे च व्यग्रतां स्वचेतस्यनुभवामः, तदास्माकं तद्वस्तुविषयेऽनुरागाख्यः स्थायिभावो विद्यत इति निगद्यते ।
स्थायिभावे नहि केवलं भावसंवेदनादीनाम्, अपि तु प्रयतनविचारचिन्तनेच्छादीनामपि सङ्घटनं तस्य वस्तुविशेषस्य पुरुषविशेषस्यैवोपरि वासनानैरन्तर्यादभिनिर्वर्तते । अपि चास्माभिरुक्तं यदर्वाचीनानां मनोवैज्ञानिकानां मते स्थायिभावानामानन्त्यं विद्यते. नहि तेऽनादिवासनाजन्याः, प्रत्युत अनुभवनैरन्तर्याद्वासनोपचयाद् मूलप्रवृत्त्यन्तर्गतसंवेग एव तत्स्थायिभावरूपत्वमभिसम्पद्यते। कदाचन बहूनां संवेगानामेकस्मिन् स्थायिभावे मिश्रीभावो वर्तते । नह्येकस्मिन् पुरुषे स्थायिभाव एक एव भवतीति वाच्यम्; बहवोऽपि स्थायिभावा विषयभेदादेकस्यैव पुरुषस्य भवितुमर्हन्ति । अत्र काप्यसङ्गतिर्नास्तीत्यवधेयम्।
किञ्चेदमपि स्मर्त्तव्यं यत् स्वस्थव्यक्तित्वे सर्वे विविधाः स्थायिभावा सङ्घटिता: शृङ्खलाबद्धा मालायां सुग्रथितपुष्पाणां सदृशमवतिष्ठन्ते । असामान्यमानसिकविकारग्रस्त-व्यक्तित्वे च स्थायिभावसङ्घर्षो विद्यते। तस्माच्च जायते व्यक्तित्वद्वैधीभावो व्यक्तित्वविश्रृङ्खलनं वेति' ।
वयमत्र मर्यादापुरुषोत्तमभगवतां रामचन्द्राणां सीतानुरागाख्यस्थायिभावस्य महाकवि-भवभूतिवर्णनानुसारमेकमुदाहरणं प्रस्तोतुमिच्छामः, येन भावविचारप्रयत्नादीनां सङ्घटनं स्फुटीभवेत्। तथा हि-
सीताविरहे रामोक्तिः -
विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा,
प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः ।
तव स्पर्शे मम हि परिमूढेन्द्रियगणो,
विकारश्चैतन्यं भ्रमयति च सम्मीलयति च ॥
म्लानस्य जीवकुसुमस्य विकासनानि,
सन्तर्पणानि सकलेन्द्रियमोहनानि ।
एतानि ते सुवचनानि सरोरुहाक्षि,
कर्णामृतानि मनसश्च रसायनानि ॥
इयं गेहे लक्ष्मीरियममृतवर्त्तिर्नयनयो,
रसावस्य स्पर्शो वपुषि बहुलश्चन्दनरसः ।
अयं बाहुः कण्ठे शिरसि मसृणो मौक्तिकसरः,
किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥ इति ।
अन्यच्च-
आ विवाहसमयाद् गृहे वने शैशवे तदनु यौवने पुनः ।
स्वापहेतुरनुपाश्रितोऽन्यया रामबाहुरूपधानमेष ते ॥ इति । [२]
महर्षिवाल्मीकिवाक्येन सार्धमप्येतत् सङ्गच्छते । तथा हि-
"न रामः परदारान् वै चक्षुर्भ्यामपि पश्यति' ॥ इति ।
प्रेम स्थायिभावमापद्यमानं भावप्रयत्नेच्छाविचारपरिवर्धितं जायते। उक्तमेवाऽस्माभिः पूर्वं कथमिच्छा: स्थायिभावनियन्त्रिता भवन्तीति। विचारचिन्तनादिकमपि स्थायिभावोपात्तम्। स्थायिभावनियन्त्रितं हि चिन्तनं दृश्यते । यस्य यो हि प्रियो जनः न स तस्य परीवादं शृणोति, निन्दं वा कुरुते, तिरस्कारं वा सहते । राजनीतिदलानुगतस्थायिभावापन्नाः सदस्या नहि विरोधिदलस्य विचारशैली सामञ्जसामपि स्वाभिनिवेशात् समर्थयितुं प्रवर्तन्ते। राजनीतिकस्थायिभावनियन्त्रिता हि तेषां विचारसरणिर्भवति । श्रद्धानिर्माणे तु स्थायिभावस्य गौरवं सुव्यक्तमेव । नहि स्थायिभावमन्तरा श्रद्धा जायते । श्रद्धा विश्वासस्य चरमा परिणतिः । अस्ति हि स्थायिभावानामुपचितेरेक उपयोगविशेषः ।
स्थायिभावोत्पत्त्याऽस्माकं सुनिश्चिता व्यवहारा जायन्ते । एतावतान्ये जना अस्माकं प्रतिक्रियामनुमातुं शक्नुवन्ति । यस्य जीवने कोऽपि स्थायिभावो न विद्यते, तस्य निखिलं जीवनं विशृङ्खलम् । तस्य कस्मिन्नपि परिस्थितिविशेषे किं मतं विद्यते, का च तस्य प्रतिक्रिया भविष्यति, कथं च स तदा संवेगाद्यनुभवं करिष्यति, का वा तस्येच्छा वर्तते, कीदृशश्च तस्योत्साहः इति विषये स्थायिभावाभावात् किमपि निश्चप्रचं वक्तुं न शक्यते। यस्य विचारभावसंवेगेच्छादिकं सर्वविदितम्, तस्य नास्ति किमपि चारित्र्यमिति निर्गलितं तत्त्वम्। सतां हि चरित्रे किञ्चिद् वैलक्षण्यं वर्तते । तद्वैलक्षण्यं चरित्रवैशिष्ट्यं स्थायिभावोपात्तस्थायिविचारप्रयत्नादिरूपमाधत्ते। तथा हि-
उदेति सविता ताम्रस्ताम्र एवाऽस्तमेति च । सम्पत्तौ न विपत्तौ च महतामेकरूपता ॥ इति ।
अन्यच्च-
घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारुगन्धं
दग्धं दग्धं पुनरपि पुनः काञ्चनं कान्तवर्णम् ।
छिन्नं छिन्नं पुनरपि पुनः स्वादु चैवेक्षुकाण्डं
प्राणान्तेऽपि प्रकृतिविकृतिर्जायते नोत्तमानाम् ॥ इति ।
स्थायिभावनामितरेतराश्रयत्वेन सङ्घटनं तावच्चारित्र्यम्। व्यक्तेः स्थायिभावानां शृङ्खलारूपेण सङ्घटनमेव व्यक्तित्वमिति तात्पर्यम्। व्यक्तित्वे परिनिष्पन्ने व्यक्तेः कार्येषु व्यवहारेषु कश्चिद् व्यवस्थाविशेषः सँल्लक्ष्यते। सा व्यवस्था स्थायिभावानां निर्माणेनाऽ- भिसम्पद्यते। सिद्धं तर्हि यत् स्थायिभावानां सङ्घटनेन व्यक्तित्वं चरित्रापरनामधेयमभि- निर्वर्तत इति ।
किन्तर्हि कूटस्थमपरिवर्त्यं व्यक्तित्वं चारित्र्यं भवति ? अत्रोच्यते - नैतदस्माकं तात्पर्यम्। परिस्थितिविशेषे समुपस्थिते विवेकपूर्वकमावश्यकं परिवर्तनं त्वभिनन्दनीयम् । नहि जडीभूतं पाषाणमिव व्यक्तित्वं विवेकशून्यमस्माकमभीष्टमिति नितरां स्फुटमेव यत्परिवर्तनं॰ व्यवहारेऽभिनिर्वर्त्यं परिस्थितिविशेषाविर्भावात्, तेन नूनं विवेकपूर्वकेण भवितव्यम्। स विवेको विचारो वा कारणारोपणं विनैव शुद्धचेतसावधार्य इति विशेषः ।
यस्या व्यक्तेः स्थायिभावा विशृङ्खलिता जायन्ते, नहि तस्याश्चरित्रं सुघटितम्। तस्या जायते हि व्यक्तित्वद्वैधीभावः। व्यक्तित्वद्वैधीभावस्य मूलबीजं स्थायिभावानां सङ्घर्ष एवेत्यूह्यम् ।
स्वाभिमानसंज्ञकः स्थायिभावः
सम्पादयतुननु कथङ्कारं स्थायिभावानामाविर्भावोऽभिसम्पद्यते ? नहि केवलमयं पुरुष इतरपुरुषविषये इतरवस्तुविषये वा स्थायिभावान् निर्मिमीते, प्रत्युत स्वविषयेऽपि स्थायिभावविशेषनिर्माणं करोति । नहि केवलमितराणि वस्तूनि, इतरे पुरुषा वा तस्य मूलप्रवृत्तीर्भावान् विचारमिच्छाश्चोत्तेजितान् कुर्वन्ति; किन्तु स स्वयमपि तांस्तथा करोति, येनेतरे जनाः स्वत एव समाकृष्टा भवन्ति । स स्वविषयेऽपि काञ्चिद् विशिष्टधारणां मन्यते, तस्याश्च प्रभावस्तस्य सर्वेषु व्यवहारेषु सर्वत्र दरीदृश्यते। ननु कथमयमात्मविषयकः स्थायिभावो विकासमाप्नुते? अत्रोच्यते- प्रारम्भे शिशोः सर्वाः क्रिया नैसर्गिकमूलप्रवृत्तिजन्याः, यतः स स्वप्राणरक्षोपयोगिस्तन्यपानादिकं करोति; किन्तु शनैः शनैर्मासद्वयानन्तरं स्वमातरं प्रति स्थायिभावविशेषमारभते । मात्रैव स्तन्यपानम्, लालनम्, पालनं कामयते, मातुरुत्सङ्गे हर्षमनुभवति, नान्यत्र । षष्ठे सप्तमे वा मासि स्थायिभावस्येयत्युपचितिर्जायते यत्स शिशुः स्वमातुरुत्सङ्गे तिष्ठन्तं स्तन्यपानं वा कर्तुकाममन्यं शिशुं न सहते ।
तदनन्तरं पितरं प्रत्यपि स्थायिभावस्योन्मेषो जायते । यदि पिता अन्यस्मिन् बालके स्निह्यति, नह्येतत् शिशवे रोचते । 'इयं मदीया माता, नान्यस्य; अयं मदीयः पिता नान्यस्य' इत्येवम्भूतः स्थायिभावः शिशोस्तदाभिनिर्वर्तते। यदेमाः पङ्क्तयो लिख्यन्ते, तदैव वयं क्षणद्वयात् पूर्वमेकां बालिकामेवम्भूतां स्थायिभावयुक्तां दृष्टवन्तः। प्राध्यापक- विसारियामहोदयानाम् ‘आभा' इति नाम्नी कन्या सप्तमे मासि वर्तते। तस्याः पितृस्थायिभावो नितरां रमणीयः। यदा विसारियामहोदयो मां स्पृशति सा रोदिति, नैव सहते मम स्पर्शनमपि। यदि वा विसारियामहोदयोऽन्यं बालकं स्वोत्सङ्गे गृह्णाति, तदापि सा तमेवम्प्रकारेणाचरन्तं दृष्ट्वा रोदिति । अयं स्थायिभावः 'पितृस्थायिभावः' इत्युच्यते ।
क्रमशः शिशुर्दशमे मासि प्रविशति । उत्थाय च गमनमारभते। माता हर्षोत्फुल्ला भूत्वा तद्गमनमभिनन्दति । करतलवादनध्वनिना तस्योत्साहं वर्धयति । सम्प्रति बालकः स्वविषये किञ्चित् ज्ञातुमारभते - कथं हि सोऽन्येषां हर्षस्य घृणाया वा विषयो भवति ? इति। यदा बालकः शुभं कार्यं करोति, परिजानास्तं प्रशंसन्ति; यदा च सोऽशुभं निषिद्धमनृतभाषणादिकं करोति, सर्वे परिजनास्तं निन्दन्ति परिवदन्ति च । प्रथमं नूनं बालक आत्मानं तथैवाभिजानाति, यथान्ये तद्विषये मन्यन्ते, किन्तु कालान्तरे स्वयमप्यात्मविषये विशिष्टस्थायिभावं निर्मिमीते । यदि मातापितृभ्यामतिलालितो जायते, तर्हि तस्य स्वभावो निरङ्कुशो जायते । मनोवैज्ञानिकपदावल्यां तस्य स्वभावो जटिलो भवति। स्वगृहे तस्यैकच्छत्रराज्यं वर्तते । स आत्मानं तथैव सर्वतोऽधिकं बुद्धिशालिनं सुन्दरं धनिकं वेत्ति; किन्तु पाठशालां यदा स दुर्ललितोऽभिगच्छति, तदा तस्य स्थायिभावस्तथाविधं निरङ्कुशत्वं न भजते, सर्वे बालकास्तद्विरोधेऽवतिष्ठन्ते । तदायं बालकः स्वाचरणं परिष्कर्तुमारभते, येनान्यैः सह तस्य व्यवहारस्य सामञ्जस्यमापद्येत ।
सामञ्जस्यस्थापनं तस्य स्वाभिमानस्थायिभावेऽपि परिवर्तनमाधत्ते । कैशोरावस्थायां यदा स प्रविशति, स्वात्मविषयेऽधिकं चिन्तनं कुरुते, स्वान्तर्गतभावसंवेगप्रयत्नविचारादिविषये तस्य चिन्तनं विशिष्टां सरणि ग्रहीतुमारभते । सम्प्रति स आत्मानं परिवारतो भिन्नम्, समाजस्येतरपुरुषेभ्यो भिन्नम्, स्वतन्त्रं पुरुषमभिज्ञातुं प्रवर्तते। स्वमूल्यम् स्वमतस्य गौरवमनुमिमीते। इतरैः पुरुषै: सहानुरक्तो द्विष्टो वा स जायते । इतः प्रभृत्यामरणं तस्य स्वकीय आत्मा शरीरसमाजत: पृथग्भूतस्तस्य कार्यकलापं प्रेरयति | कदाचनायं साफल्येन स्वाभिमानमनुभवति, कदाचन दुराचरणेन आत्मविगर्हणामनुभवति । यद्यत् स कुरुते, सङ्कल्पयति, चिन्तयति, संवेगमनुभवति, यद्यच्च स इच्छति, स्मरति, कल्पते, अभ्यस्यति, तत्तत् सर्वमस्य स्वाभिमानाख्यस्थायिभावान्तर्गतं भूत्वा सामञ्जस्यमवाप्नुते, व्यवस्थां भजते, व्यक्तित्वाङ्गत्वेनाभिसम्पद्यते। तथा हि श्रुति:-“यत्क्रतुर्भवति तत्कर्म कुरुते, यत्कर्म कुरुते तदभिसम्पद्यते" इति । अयं स्वाभिमानाख्यस्थायिभाव एवास्माकं चारित्र्यमुन्नेतुं नैतिकधार्मिककादर्शविशेषाभिमुखं प्रेरयितुमात्मदैन्यभावेन वाऽधस्तान्नेतुमलं भवति । अत एवोच्यतेऽभियुक्तैः - "मन एव मनुष्याणां कारणं बन्धमोक्षयोः” इति। अत्र 'मनः' इति मानसिकभावनाविशेषः स्वाभिमानाख्यस्थायिभावरूपव्यक्तित्वपदवाच्य इत्यवसेयम्।
नायं स्वाभिमानाख्यस्थायिभाव एवाहङ्कारः । “अहङ्कार इति बुद्धेः परिणामः” इति सांख्याचार्य्याः। अहङ्कारश्च मनोबीजमिति सांख्याभिमतम् । अर्वाचीने मनोविज्ञाने 'अहङ्कार' इति 'गर्व' इति च पर्यायवाचकौ शब्दौ । अत एवाऽहङ्कारो गर्वो मिथ्याप्रतीतिजन्यः। नहि स्वाभिमानाख्यस्थायिभावस्तथा बोद्धव्यः। स्वाभिमानाख्य- स्थायिभावे आत्मप्रतिष्ठानुप्राणितजीवनादर्शं परितो व्यक्तेः सर्वाः क्रियाः, सर्वे भावाः, सर्वे विचाराः, सर्वा इच्छाश्च सङ्घटिता भवन्ति । सर्वव्यापारसमन्वयोत्थ एव स्वाभिमानः । अहङ्कारस्वरूपं वयमग्रतो षोडशेऽध्याये फ्रायड युङ्गमतविवेचनावसरे वक्ष्यामः ।
यदा स्वाभिमानो विकासं लभते, तदा शिशुर्बालकः पुरुषो वात्मप्रतिष्ठारक्षार्थं प्रयतते। या बालिका जानाति यत्स्वच्छता सर्वोपरि आपादनीया, सा स्वगुरुजनानां प्रशंसनमवाप्तुं नित्यं स्नानं कृत्वा केशान् प्रसाध्य स्वच्छानि वस्त्राणि धारयित्वा पाठशालां गच्छति। स्वाभिमानाख्यस्थायिभावे विकसिते सति बालकः सर्वप्रथमं पदं परीक्षायां लब्धुमभिकाङ्क्षते । यथा स्वाभिमानाख्यस्थायिभावेनिर्माणेन मूलप्रवृत्तीनां संवेगानां चोन्नयनं परिशोधो वाभिनिर्वर्तते, तथा सर्वं वर्णितचरम् । स्वाभिमानख्यस्थायिभावो हि खलु सर्वेषां स्थायिभावानां जटिलतमम्, सर्वनियामकं मौलिकं रूपम् । सर्वेषामितरस्थायिभावानां सुनियन्त्रणमनेनैव प्रबलतमस्थायिभावेनाऽभिनिष्पाद्यते। अनेनैव व्यक्तेर्विविधमनोव्यापारेष्वैक्यं निर्वर्तयितव्यम् ।
मदीया विविधाः स्थायिभावा जायन्ते । यथा पुत्रस्नेहः, स्त्रीप्रेम, राजकीय- महाविद्यालयविषयकाध्यापनकर्त्तव्यपालनम्, स्वाध्यायश्चेति । यो मां द्वेष्टि, तस्मै अहमपि नूनमभिद्रुह्यामि । यो मयि स्निह्यति, यो मम कष्टं दृष्ट्वा दयमानो भवति, यस्य वा मम कष्टं सन्धित्सा, तदर्थं प्राणोत्सर्गमप्येवाहं न्यूनमेवाभिमन्ये, यदि कदाचनैतादृश्या- वश्यकतापद्येत। सुतरां तर्ह्यत्र सप्त विषयानवलम्ब्य मयि सप्त स्थायिभावा विद्यन्ते, सुदृढाश्च ते स्वस्थाने भवितुमर्हन्ति । मदीये स्वाभिमानाख्यस्थायिभावे ते सर्व एव सन्निविष्टा भवन्ति, तेषां परस्परं सामञ्जस्यमनेनैव स्थायिभावेनाभिसम्पाद्यते यथावसरमित्यवधार्यम् ।
व्यक्तित्वैक्यम्, सदाचारनियमानां प्रभावश्च
सम्पादयतुविविधेषु स्थायिभावेषु सुघटितेषु कथङ्कारं व्यक्तित्वमैक्यपमापद्यते ? कदाचन विविधेषु स्थायिभावेषु परस्परविरोधित्वमुपजायते ननु कथं हि तन्निवारयितव्यम् ? कदाचन राजसेवायाः स्वकीयप्रेमासक्तिस्थायिभावेन सह विरोधो जायते, यथा अमरसिंहेन राणाप्रतापपुत्रेण शाहजहाँनामक यवनाधिपश्यालं सलावतखानाख्यं घ्नताऽनुभूतः, अथवा मेघदूतवर्णितयक्षस्य रामगिर्याश्रमेषु यातना तमेव राजकीयसेवोचितकर्त्तव्यकान्तानुरागस्थायि- भावयोरानुकूल्यभावं नितरां स्फोरयति । एवं च व्यक्तित्वैक्यं विविधस्थायिभावानां परस्परानुकूल्यतः प्रवर्तनायत्तम् ।
यदि विविधेषु स्थायिभावेषु सामञ्जस्यमितरेतरान्वितत्व- मुपलभ्येत, तर्हि व्यक्तित्वमेकमक्षुण्णमवतिष्ठते। अथ च यदा तेषां स्थायिभावानां परस्परं सङ्घर्षो जायते, तदा व्यक्तित्वं विभज्यते द्वेधा, त्रेधा, चतुर्धा वेति । असामान्य- मनोविकाराणां सा हि दुरवस्था सर्वथा हेया । अस्तु तावत्, प्रबलतमस्वाभिमानाख्यस्थायि- भावनिर्माणेन विविधस्थायिभावानां सुनियन्त्रणं सामञ्जस्यं च सम्पाद्यते । व्यक्तित्वै- क्योपचितेरयमेकः प्रकारः, अपरश्च सदाचारस्यादर्शविशेषस्थिरीकरणेन तदनुचिन्तनेन चात्मना सह तादात्म्यस्थापनेन च व्यक्तित्वैक्यं द्रढयितुं संरक्षितुं च शक्यते ।
यदि अहिंसासत्यास्तेयशौचादिसार्वभौमसनातनसदाचारादर्शानां विषये सुदृढस्थायिभावानां बीजवपनं शैशवादेवारभ्येत, तर्हि नूनमस्माकं युवजनानां जीवनेषु व्यक्तित्वैक्यं सुलभं भविष्यति। विविधाः स्थायिभावाः सौकर्य्येणादर्शसिद्धान्तरूपध्वजप्रश्रये सम्मिलिताः सङ्घटिताश्च जायन्ते। आदर्शसिद्धान्तानुकूल्यत आचरणावधारणमचिरेण महता सौकर्येण चाऽभिनिर्वर्तते। ‘सत्यं शिवं सुन्दरम्' इति न्यायो विशेषतः सामाजिकन्यायः। समानत्वम्, विश्वबन्धुत्वमित्याद्युदारमानवीय-चरमलक्ष्याणामनुचिन्तनेन मदीयेतरपरस्परविरोधिप्रतीयमानेषु स्थायिभावेषु रागद्वेषलोभादिषु विवेकपुरस्सरमानुकूल्यस्थापनं सुकरं सम्भाव्यम्। प्रायश्चित्तान्यपि सदाचारसिद्धान्तानुकूल्याय कल्पन्ते । क्लृप्तं व्यक्तित्वैक्यं व्यक्तेर्महते गौरवाय कल्पते ।
सुतरां व्यक्तित्वं नाम आत्मेति वा नाम व्यक्तेर्विविधस्थायिभावानां वर्णितचराणा- मानुकूल्यं सामञ्जस्यं वेति । सामञ्जस्यस्य सर्वोपरि साधकं सदाचारादर्शनियमानुसारं परिनिष्ठितं स्वाभिमानाख्यस्थायिभावद्वारा विविधस्थायिभावानां सङ्घटनम्, सुनियन्त्रणम्, सुपरिचालनं चेति विभाव्यम्।
व्यक्तित्वानुमापनम्, तत्परीक्षणं च
सम्पादयतुअर्वाचीनयुगेऽनेकैर्मनोविज्ञानविचक्षणैर्व्यक्तित्वानुमापनार्थं तत्परीक्षणार्थं च बहूनि प्रयतनानि समारब्धानि। वस्तुतस्तु तैस्तैः परीक्षणैर्नहि व्यक्तित्वं तावत्तया इयत्तया वा परिमाणसङ्ख्याविशेषपरया तुलया परिमातुं सङ्ख्यातुं वा शक्यते । यत्परीक्ष्यते तैस्तैः प्रयोगैः, तत्तु व्यक्तित्वाङ्गभूतो गुणविशेषः । तेषु प्रयोगेषु केचन शारीरिकस्वभावविषयक- व्यक्तित्वगुणाकलनार्थं प्रवर्तन्ते । मनोवैज्ञानिकप्रवराणां वुडवर्थमहोदयानां संवेगानाम- स्थायित्वपरीक्षणम्', बेलमहोदयानामानुकूल्यगवेषणा', बर्नरायटरमहाभागानां व्यक्तित्वानुसन्धानम्’– इत्यादि परीक्षणानि विशेषत उल्लेखनीयानि ।
प्राध्यापकवुडवर्थमहाभागानां परीक्षणे षोडशोत्तरशतप्रश्नाः समाविष्टाः । [३] यथा- किं त्वं निशीथे प्रायो भयमनुभवसि ? किं त्वं प्रायोऽवसादम्, आत्मदैन्यं वानुभवसि ? इत्यादयः प्रश्नाः। तेषामुत्तराणि 'ओम्' 'नहि' इत्येवं प्रदातव्यानि । एतयोरेकमुत्तरं नूनमसामान्यमनोविकारमभिव्यञ्जयति। सामान्यपरीक्षणैर्निर्णीतं यत् प्रायो जना: प्रतिशतं दशोत्तराणि अस्वस्थपुरुषवद् प्रददति। एतावता तेषामस्थायिस्वभावत्वमवधारयितुं शक्यते । बहवः प्रश्नाः स्वभावव्यतिरिक्तत्वाङ्गभूततत्त्वपरास्तस्यां सूच्यां सन्ति ।
कानिचित् परीक्षणानि चरित्रानुमापनार्थमुपकल्पन्ते । तेषु डाउनीमहोदयानां स्वभावे- च्छाशक्तिपरीक्षणानि विशेषेणोल्लेखनीयानि । एतैः परीक्षणैः परीक्षार्हव्यक्तेः प्रतिक्रिया-निरोधः प्रतिक्रियासौकर्य्यं चावधार्यते । या: प्रतिक्रिया विशेषतोऽनुसन्धानस्य विषयीभवन्ति, तास्तु हस्तलेखमधिकृत्याधीयन्ते। एतावता परीक्षणानामुपयोगित्वं परिहीयते।
कानिचित् प्रश्नावलिसमन्वितानि परीक्षणानीतरमनोवैज्ञानिकैरुपकल्पितानि सन्ति। तस्मिन् प्रश्नजाते बौद्धिकस्वभावसम्बन्धिचारित्रिकगुणादीनां व्यक्तित्वाङ्गभूतानामियत्ता परीक्ष्यते। सर्वोत्तमा विशदा उपयोगिनी चैतादृशी प्रश्नावली मनोवैज्ञानिकप्रवराणाम् आलपोर्टमहोदयानां वर्तते। तेषां “व्यक्तित्वगवेषणाय क्रमिकप्रश्नावली” इति नामकं पुस्तकं विश्वविश्रुतम्। अस्यां सूच्यां षट्सप्तत्युत्तरशतं प्रश्ना: (१७६) सङ्कलिताः । प्रश्नानां निम्नलिखितशीर्षकानुसारं विभक्तमुपलभ्यते। तद्यथा-
१- व्यक्तित्वविकासः ।
२-बुद्धिः, योग्यता च।
३- संवेगात्मकशारीरिकक्रियाजातम् ।
४-आकाङ्क्षारुचिव्यावसायिकप्रवृत्तयः ।
५-क्रियाभ्यासाः।
६-मनोरञ्जनानि ।
७- सामाजिकनैतिकपक्षमधिकृत्य व्यक्तित्वगुणाः ।
८- कामप्रवृत्तिः, पारिवारिकजीवनं च ।
९- आत्मविषयः, चरमतत्त्वविषयश्च ।
१०- आत्मविकासः ।
अनया प्रश्नावल्या व्यक्तित्वाध्ययनमतीव सौकय्र्येण कर्तुं शक्यते । स्वकीयस्य परेषां च व्यक्तित्वाध्ययनं यर्कीसमहोदयद्वारा लारुईमहाभागेन सह लिखितेन “आत्मस्वाध्यायस्य रूपरेखा" इति नामधेयपुस्तकेन सम्पादयितुं शक्यते । अस्मिन् पुस्तके वंशानुक्रमायत्तगुणानां वातावरणजनितप्रभावाणां व्यक्तित्वाङ्गभूततत्त्वानां च विश्लेषणपुरस्सरमनुसन्धानं प्रवर्तितम् ।
व्यक्तित्वद्वैधीभावः
सम्पादयतुस्थायिभावसङ्घर्षेण कदाचन व्यक्तित्वं द्वेधा त्रेधा वा विभज्यते । व्यक्तित्वस्यैवंविध- विभागो ‘व्यक्तित्वद्वैधीभावः' इति व्यपदिश्यते । एका एव व्यक्तिः स्वस्य विभिन्ने रूपे अजानाना द्वे व्यक्ती इवाचरति; यथा - एका शूद्रा यदा राजमार्गं मार्ष्टि, तदा मार्जनं कुर्वती सा आत्मानं राजमहिषीमिवाऽभिमन्यते। तस्या अयं स्थायिभावो राजमहिषीत्व- कामनयाविर्भवति। व्यक्तित्वस्यैकं रूपमन्येन सह सामञ्जस्यं नापाद्यते। सूक्ष्मचैतन्येऽवस्थिता अभावग्रन्थिरेव व्यक्तित्वं द्वेधा विभजतीति सर्वमसामान्यमानसविकारजातम्॥
सन्दर्भाः
सम्पादयतु