मन्दसौरमण्डलम्
मन्दसौरमण्डलम् ( ( शृणु) /ˈməndəsɔːrəməndələm/) (हिन्दी: मंदसौर जिला, आङ्ग्ल: Mandsaur district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य उज्जैनविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति मन्दसौर इति नगरम् ।
मन्दसौरमण्डलम् Mandsaur District | |
---|---|
मन्दसौर जिला | |
मन्दसौरमण्डलस्य नयनाभिरामदृश्यम् | |
मध्यप्रदेश राज्यस्य मानचित्रे मन्दसौरमण्डलम् | |
देशः | India |
राज्यम् | मध्यप्रदेशः |
उपमण्डलानि | मन्दसौर, भानपुरा, गरोठ, शामगढ, सुवासरा, सीतामऊ, दलौदा |
विस्तारः | ५,५३५ च. कि. मी. |
जनसङ्ख्या (२०११) | १३,४०,४११ |
Time zone | UTC+५:३० (भारतीयमानसमयः (IST)) |
साक्षरता | ७१.७८% |
भाषाः | हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४८% |
Website | http://mandsaur.nic.in/ |
भौगोलिकम्
सम्पादयतुमन्दसौरमण्डलस्य विस्तारः ५,५३५ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे राजस्थानराज्यं, पश्चिमे राजस्थानराज्यम्, उत्तरे राजस्थानराज्यं, दक्षिणे रतलाममण्डलम् अस्ति । अस्मिन् मण्डले चम्बलनदी, शिवनानदी च प्रवहति ।
जनसङ्ख्या
सम्पादयतु२०११ जनगणनानुगुणं मन्दसौरमण्डलस्य जनसङ्ख्या १३,४०,४११ अस्ति । अत्र ६,८२,८५१ पुरुषाः, ६,५७,५६० महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २४२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २४२ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १३.२४ % आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९६३ अस्ति । अत्र साक्षरता ७१.७८% अस्ति ।
उपमण्डलानि
सम्पादयतुअस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- मन्दसौर, भानपुरा, गरोठ, शामगढ, सुवासरा, सीतामऊ, दलौदा ।
कृषिः वाणिज्यं च
सम्पादयतुअस्मिन् मण्डले पुलोमह्याः उत्पादनं भवति, विश्वस्तरे अस्य व्यापारश्च भवति । अतः सम्पूर्णे विश्वे विख्यातं मण्डलमिदम् । अस्मिन् मण्डले अङ्किनी-लेखफलकानां व्यापारः भवति । अङ्किनी-लेखफलकाय आभारतं प्रसिद्धमस्ति इदं मण्डलम् ।
वीक्षणीयस्थलानि
सम्पादयतुपशुपतिनाथ-मन्दिरम्
सम्पादयतुपशुपतिनाथ-मन्दिरं मन्दसौर-नगरे स्थितम् अस्ति । अस्मिन् मन्दिरे भगवतः शङ्करस्य अष्टमुखी प्रतिमा अस्ति । इयं एका लिङ्गरूपा प्रतिमा अस्ति । अस्याम् मूर्तौ उपरि चत्वारि मुखानि, अधः चत्वारि मुखानि सन्ति । भगवतः शङ्करस्य अपरं नाम पशुपतिनाथः अस्ति । इदं मन्दिरं शिवनानद्याः तटे स्थितम् अस्ति । अष्टमुखीप्रतिमायाः भारः ४६०० कि. ग्रा. अस्ति । अस्याः उच्चता ७.२५ फीट अस्ति । बहवः श्रद्धालवः तत्र दर्शनार्थं गच्छन्ति । प्रतिवर्षं कार्त्तिकमासे तत्र महा ’मेला’ भवति । नेपाल-देशे अपि पशुपतिनाथ-मन्दिरम् अस्ति । तस्य मन्दिरस्य एव अपरं रूपं मन्दिरम् इदमस्ति ।
गान्धीसागर-जलबन्धः
सम्पादयतुगान्धीसागर-जलबन्धः चम्बलनद्यां निर्मितम् अस्ति । अत्र विद्युन्निर्माणं भवति । अस्य जलबन्धस्य निर्माणम् ई. १९५४ तमस्य वर्षस्य मार्च-मासस्य ७ दिनाङ्के अभवत् । अस्य जलबन्धस्य निर्माणं भूतपूर्वप्रधानमन्त्रिणा पं. जवाहरलाल नेहरू इत्यनेन कारितम् । ई. १९५७ तमे वर्षे विद्युद्यन्त्रागारस्य प्रारम्भो जातः । अस्य जलबन्धस्य निर्माणकार्ये १८ कोटिः ४० लक्षं रूप्यकाणां व्ययः अभवत् । एवं विद्युद्यन्त्रागारस्य निर्माणकार्ये ४ कोटिः ८० लक्षं रूप्यकाणां व्ययः अभवत् । गान्धीसागर-विद्युद्यन्त्रागारः ६५ मी. लम्बमानः एवं ५६ फीट विस्तृतः वर्तते । अयं विद्युद्यन्त्रागारः मध्यप्रदेशराज्याय राजस्थानराज्याय च विद्युत् प्रेषयति ।
धर्मराजेश्वर, पोलाडुङ्गर, चामुण्डामाता-मन्दिरं, छत्री-गरोठ, कालेश्वर-मन्दिरं, शङ्खोद्वार, नीलकण्ठेश्वर महादेव मलकाना, अम्बेमाता-मन्दिरम् इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति ।
बाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये मन्दसौरमण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://mandsaur.nic.in/
http://www.census2011.co.in/census/district/300-mandsaur.html