राजस्थानराज्यम्

(राजस्थान इत्यस्मात् पुनर्निर्दिष्टम्)

राजस्थानराज्यम्

सम्पादयतु
 
Rajasthan Parliament (2424937817)

राजस्थानराज्यं भारतस्‍य विशालतमं राज्यम् अस्ति । इदं भारतस्य पश्चिमभूभागे अस्ति । अत्र 'थार'नामकं मरुभूमिः (सिकतयुक्तं स्थलम्) अस्ति । मध्ययुगे 'राजपूताना' इति नाम्ना विख्यातम् आसीत् । अपूर्वलोकगीतानि, लोकनृत्यानि, पर्वाणि च अस्य प्रमुखद्योतकानि सन्ति । राजस्थानस्य क्षेत्रफ़लं वर्ग. कि. मी अस्ति । अस्य जनसङ्ख्या ६८,६२१,०१२ वर्तते । पुरातनेषु पर्वतशिखरेषु अन्यतमाः अरावळीशिखराः राराजन्ते अस्मिन् राज्ये । एवमेव मौण्ट् अबु, दिल्वारा इत्येतौ पर्वतौ अपि सुप्रसिद्धौ स्तः । पूर्वराजस्थाने द्वे व्याघ्राभयारण्ये भवतः । रणथम्बोर, सारिस्का मृगधाम, भरतपुरपक्षिधाम इत्यादीनि राज्यस्यास्य प्रसिद्धानि वीक्षणीयस्थलानि । राज्येऽस्मिन् बहूनि पक्षिसंरक्षणाकेन्द्राणि सन्ति । तेषु संरक्षणाकेन्द्रेषु देशविदेशीयाः पक्षिणः विलसन्ति ।राजस्थानस्य प्रमुखभागेषु प्राक् मीनावंशीयानां शासनम् आसीत् । १२ शतकपर्यन्तं राजस्थानस्य केचन प्रदेशाः गुर्जरनृपाणां शासने आसन् । गुजरातराज्यं तथा राजस्थानस्य अधिकभागः 'गुर्जरात्र/गुज्जर'-नामकैः गुर्जरशासकैः रक्षितप्रदेशः आसीत् । ३०० वर्षाणि यावत् गुर्जरशासकाः उत्तरभारतं यवनशासकेभ्यः रक्षितवन्तः आसन् । तदनन्तरं रजपूताः अस्य राज्यस्य विविधेषु भागेषु स्वप्राबल्येन शासनम् आरब्धवन्तः । वंशस्य अथवा प्रमुखस्य नाम्ना तेषां प्रान्तानां व्यवहारः आसीत् । राजस्थानराज्यं चित्रपतङ्गस्य आकृतौ अस्ति । अस्य राज्यस्य उत्तरे पाकिस्तानदेशः, पञ्जाबराज्यं, हरियाणाराज्यञ्च अस्ति । दक्षिणे मध्यप्रदेशराज्यं, गुजरातराज्यञ्च अस्ति । पूर्वे उत्तरप्रदेशः, मध्यप्रदेशश्च अस्ति । पश्चिमे पाकिस्तानदेशः अस्ति । सिरोही-तः आलवार गमनमार्गे ४८० कि. मी. विस्तारे विद्यमानः अरावलीपर्वतशिखरः प्राकृतिकदृष्ट्या एतत् राज्यं विभाजति । राज्यस्य पश्चिमभागे विद्यमाना 'थार' मरुभूमिः समग्रे भारते विशालतमा मरुभूमिः अस्ति । अस्मिन् भागे १२ से. मी. तः ३० से. मी. वृष्टिः भवति । अस्मिन् भागे लूनी, बाण्ड्यादिनद्यः प्रवहन्ति । राज्येऽस्मिन् ३.४२ लक्षवर्ग कि. मी. परिमिता भूमिः अस्ति । भारतस्य बृहत्तमं राज्यम् इदम्

मुख्यराजस्थानराज्यं

मुख्यराजस्थानराज्यस्य भौगोलिकस्थानवर्णने स्वल्पानि स्थानानि सन्ति, परन्तु तानि राजस्थानराज्यस्य मुख्यस्थानानि सन्ति । मुख्यराजस्थानराज्यप्रदेशे उत्तरस्य समभूमिः, दक्षिणस्य लघुपर्वतमाला चान्तर्भवति । अपि चात्र राजस्थानराज्यस्य व्यापारोद्योगयोः मुख्यकेन्द्राणि, Jaipur-jodhpur-bharatpur सन्ति । लघुपर्वतमालायाम् आदिवासिनः निवसन्ति । दक्षिणे वर्षायाः आधिक्यत्वात् कृषिः विपुलतया भवति । वर्षाकाले अत्र कृषिक्षेत्रे उच्चगुणवत्तायाः मृत्तिका लभ्यते । एषा मृत्तिका कृषिक्षेत्रम् अधिकं फलदं करोति । राजस्थानराज्यस्य अन्यरीत्यापि विभागाः कृताः सर्वकारेण । परन्तु ते विभागाः केवलं व्यवस्थादृष्ट्या, न तु भौगोलिकद्ष्ट्या । ते अत्र चित्रमाध्यमेन ज्ञायन्ते । यथा – उत्तरराजस्थानमं, मध्यराजस्थानमं, दक्षिणराजस्थानमं इति ।

 
India Rajasthan locator map

वातावरणम्


भारतदेशे तु ऋतुत्रयं सर्वत्र दरीदृश्यते । एवमेव राजस्थानराज्यस्यऽप्यस्ति । अत्र सामान्यतः 'मार्च्’-तः 'मे’-पर्यन्तं ग्रीष्मर्तुः, 'जून्’-तः 'सेप्टेम्बर्’-पर्यन्तं वर्षर्तुः, 'नवम्बर्’-तः 'फेब्रुवरी’-पर्यन्तं शिशिरर्तुः भवति । 'जनवरी’, 'मे’ च क्रमेण शीततमः, ऊष्णतमश्च भवति । अत्र 'अक्टोबर्’-मासेऽपि कदाचित् ऊष्णता भवति, कारणम् एतस्मिन् मासे वातावरणम् आर्द्रयुक्तवर्षर्तोः परिवर्त्य शीत-शुष्कशिशिरर्तोः अनुकूलं भवति । राजस्थानराज्यमं भिन्नलक्षणयुक्तान् प्रदेशान् स्वस्मिन् धरते । अतः प्रदेशानुसारं वातावरणमपि भिन्नं-भिन्नं भवत्यत्र । अत्र ग्रीष्मर्तौ तापमानं २५0C तः ४३0C पर्यन्तं भवति । परन्तु 'मे’-मासे ४८0C पर्यन्तं तापमानं भवितुमर्हति । शिशिरर्तौ तापमानं १२0C तः २७0C पर्यन्तं भवति । वर्षर्तोः मुख्यप्रभावस्तु नैऋत्ये एवाधिकः । सर्वाधिकवृष्टिपातः १,५०० मि.मी. नैऋत्यस्थेषु मण्डलेषु भवति । सर्वापेक्षया न्यूनः वृष्टिपातः कच्छप्रदेशे २५० मि.मी. भवति । राजस्थानराज्यस्य अन्यभागेषु समवर्षा भवति ।

आङ्ग्लशासनम् स्वव्यापारस्य माध्यमेन पूर्वमेव आङ्ग्लाः भारतस्य अर्थतन्त्रस्योपरि स्वाधिपत्यं स्थापितवन्तः आसन् । 30 March 1949 तमे वर्षे 'ईस्ट इण्डिया कम्पनी'जनाः मराठाशासकेभ्यः राजस्थानराज्यमं बलात् नीतवन्तः । तस्मात् कालात् आराभ्य १९१५ वर्षपर्यन्तं आङ्ग्लाः अस्य सञ्चालनं दृढतया कृतवन्तः । यद्यपि १८५७ तः वर्षद्वयं यावत् भारतीयैः आङ्ग्लानां प्रबलविरोधः कृतः आसीत्, तथापि आङ्ग्लाः स्वाधिपत्यं निश्चितं कृतवन्तः । एवं भारतस्य सर्वप्रथमाङ्ग्लप्रदेशरूपेण | राजस्थानराज्यस्य गणना जाता । १९-२० शताब्दे राजस्थानराज्यमं व्यापार-गृहनिर्माण-समाजसेवाक्षेत्रेषु स्वविकासम् अकरोत् । राजस्थानराज्यस्य Dungarpur - Banswara- Bikaner | यन्त्रशालानां निर्माणं जातम् इति अस्य प्रख्यातमुदाहरणम् । २० शताब्दस्य प्रारम्भात् भारतस्य काश्चन संस्थाः भारतस्वतन्त्रतायाः विचारं प्रारभन्त । १९१५ तमे वर्षे महात्मना कोचरब-आश्रमस्थापनापर्यन्तम् आङ्ग्लैः निग्रहरूपेण सञ्चालनं कृतम् । परन्तु आश्रमस्य स्थापना आङ्ग्लशासकेभ्यः सूचनासीत् यत् "युष्माकं शासनसमाप्तेः समयः आगतः" इति । एवं राजस्थानराज्ये भारतस्वतन्त्रतान्दोलनस्य आरम्भः अभूत्।

सम्बद्धाः लेखाः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=राजस्थानराज्यम्&oldid=474717" इत्यस्माद् प्रतिप्राप्तम्