विधाः सम्पादयतु

मरकतं शुकपक्षसदृशवर्णम् - वंशपत्रसदृशम् - कदली - निभम् - शिरीषकुसुमप्रभं चेत्यनेकविधम् ।

उप्तत्तिः सम्पादयतु

मरकतं तुरुष्कविषये, अम्भोधिसमीपे, विषमस्थले च उत्पद्यते ।

दोषाः सम्पादयतु

तस्य सप्तदोषाः - रूक्षम्, सपिटकम्, विच्छायम्, कर्करम्, जठरम्, शबलम्, सपाषाणं चेति ।

गुणाः सम्पादयतु

तस्य पञ्च गुणाः - स्वच्छम्, गुरु, स्निग्धम्, अरजस्कम्, सुरागं चेति ।

छाया सम्पादयतु

मरकतच्छाया अष्टविधाः -

  1. बर्हिपिच्छसमा भासा
  2. चाषपक्षसमप्रभा
  3. काचादिदोषरहिता
  4. शैवालसन्निभा
  5. खद्योतपृष्ठसङ्काशा
  6. शुकपत्रसमा
  7. नवशाद्वलनिभा
  8. शिरीषकुसुमप्रभा चेति ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=मरकतम्&oldid=409560" इत्यस्माद् प्रतिप्राप्तम्