मालिनीछन्दः
(मालिनी इत्यस्मात् पुनर्निर्दिष्टम्)
प्रतिचरणम् अक्षरसङ्ख्या १५।
ननमयययुतेयं मालिनी भोगिलोकै:।- केदारभट्टकृत- वृत्तरत्नाकर:३. ८४
।।। ।।। ऽऽऽ ।ऽऽ ।ऽऽ
न न म य य।
अस्मिन् वृत्ते पञ्चदशाक्षराणि भवन्ति तथा च प्रत्येकम् अपि पादे क्रमेण नगणद्वयम्,एकः मगणः यगणद्वयञ्च भवति तदा मालिनीत्युच्यते ।
यति: अष्टभि: सप्तभि:च।
लक्षणम्
सम्पादयतु- न न म य य युतेयं मालिनी भोगिलोकैः
अस्मिन् वृत्ते पञ्चदशाक्षराणि भवन्ति तथा च प्रत्येकम् अपि पादे क्रमेण नगणद्वयम्,
एकः मगणः यगणद्वयञ्च भवति तदा मालिनीत्युच्यते ।
यतिस्तु अष्टमे सप्तमे च भविष्यति ।
उदाहरणम्
सम्पादयतुप्रथमवयसि पीतं तोयमल्पं स्मरन्तः शिरसि निहितभारा नारिकेला नराणाम्।
ददति जलमनल्पास्वादमाजीवितान्तं न हि कृतमुपकारं साधवो विस्मरन्ति।।