मुण्डकोपनिषत्

(मुण्डकः इत्यस्मात् पुनर्निर्दिष्टम्)

मुण्डकोपनिषत् प्रमुखासु दशसु उपनिषत्सु अन्यतमा । अस्याम् उपनिषदि त्रीणि मुण्डकानि विद्यन्ते । प्रतिमुण्डकं खण्डद्वयं विद्यते । आहत्य ६४ मन्त्राः विद्यन्ते ।

मुण्डकोपनिषदस्य ३.२.८- ३.२.१० मन्त्र

अथर्ववेदीया इयमुपनिषत् मन्त्रस्थानीया विद्यते । अत्र आदौ ऋषिपरम्परया ब्रह्मविद्यायाः प्राप्तिः कथं जाता इति दर्श्यते । तत्र तावत् सर्वेषां देवानां समुदाये प्रथमत्वेन परमात्मनः सकाशात् ब्रह्मा सम्बभूव । असौ सम्पूर्णविश्वस्य ब्रह्माण्डस्य कर्ता भुवनस्य च पालकः आसीत् । सः स्वस्य ज्येष्ठपुत्राय अथर्वमहर्षये ब्रह्मविद्याम् उपदिष्टवान् । तदनन्तरम् अङ्गिमुनिः, सत्यवाहः, अङ्गिरो नाम महर्षिः च ब्रह्मविद्यां प्राप्तवन्तः । अनन्तरं शौनकः यथाशास्त्रम् अङ्गिरमुपसद्य कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति इति जिज्ञासां प्रदर्शितवान् । तदा गुरुः परापरविद्यायाः उपदेशं कृतवान् ।

उपनिषत्सारः

सम्पादयतु

शान्तिमन्त्रः

सम्पादयतु
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः।
भद्रं पश्येमाक्षभिर्यजत्राः
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः।
व्यशेम देवहितम् यदायुः।
स्वस्ति न इन्द्रो वृद्धश्रवाः।
स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।
स्वस्ति नो बृहस्पतिर्दधातु
ॐ शान्तिः शान्तिः शान्तिः॥

प्रथममुण्डकम्

सम्पादयतु

प्रथममुण्डकस्य प्रथमे खण्डे ब्रह्मविद्यायाः परम्परा, परापराविद्ययोः लक्षणानि, आदिब्रह्मणः तपसा अन्ननामरूपादीनाम् उत्पत्तिः च वर्णितानि । ऋग्वेदादयः अपरविद्यायाम् अन्तर्भवन्ति, अथ परा यया तदक्षरमधिगम्यते इत्यनेन ब्रह्मविद्यैव परात्वेन उपन्यस्ता । तां वक्तुकामः यत्तदद्रेश्यमग्राह्यम् इत्यादिनञ्घटितपदैः उपक्रमते । तस्मिन् मन्त्रे भूतयोनिः इति पदं विद्यते । कीदृशं तत् इति दर्शयितुं यथोर्णनाभिः सृजते गृह्णते च, तपसा चीयते ब्रह्म इत्यादिमन्त्रद्वारा जगतः सृष्टिस्थितिलयकारणीभूतस्य ब्रह्मणः निरूपणम् विद्यते ।

अग्रे द्वितीयखण्डे तावत् यज्ञप्रधानः कर्ममार्गः तस्य फलानि, तस्य हीनत्वं, ज्ञानमार्गः, तस्य फलञ्च वर्णितम् । अग्निहोत्रस्य महात्म्यं प्रदर्शितम् । यज्ञो वै श्रेष्ठतमं कर्म इत्युक्तत्वात् ऋग्यजुस्सामसु विहितानां यज्ञानां यथाविधि अनुष्ठानमेव श्रेष्ठम् इत्यतः अग्निहोत्रस्य अर्थवादः श्रूयते, “यस्याग्निहोत्रमदर्शमपौणमासम् – तस्य लोकान् हिनस्ति” इति । एतदेव कर्म यदि ईश्वरार्पणबुद्ध्या अनुतिष्ठन्ति तर्हि न लिप्तो भवति जीवः कर्मणा । ये खलु परप्राप्तये निष्कामं मनोभावं नैव दर्शयन्ति, केवलम् इष्टापूर्तम् आचरन्तः ऐहिकं पारलौकिकं वा भोगं कामयमानाः सकामं कर्माचरन्तः सन्ति, ते मूढाः वारं वारं जन्मजरामरणरूपं दुःखं प्राप्नुवन्ति । अत एव उक्तम्, “इष्टापूर्तं मन्यमानाः—लोकं हीनतरं वा विशन्ति” इति ।

द्वितीयमुण्डकम्

सम्पादयतु

द्वितीयमुण्डकस्य प्रथमखण्डे एकस्मादेव अक्षरात् अखिलं विश्वं प्राणाः मनः रसः सर्वाणि वस्तूनि च इति ज्ञातवतः सर्वे संशयाः विनश्यन्ति इति प्रतिपादितं विद्यते । अङ्गिरा महर्षिः वदति –हे शौनक ! यथा वह्नेः सहस्रशः विस्फुलिङ्गाः प्रभवन्ति । अविनाशिनः परब्रह्मणः सकाशात् सृष्टिकाले मूर्तामूर्ताः विविधाः भावा उत्पद्यन्ते । किन्तु निर्गुणोऽयम् अजः अद्वैतः परमात्मा ब्रह्माण्डस्य बहिरन्तश्च व्याप्तः विशुद्धः एव तिष्ठति । एकोऽहं बहुस्यामिति सङ्कल्पमात्रेणैव जगत् असृजत । तथा च क्रमेण अग्नितत्वं प्रथमं सम्भूतम् । अस्मिन् अग्नितत्त्वे हि सूर्यस्य ज्योतिः विराजते । तस्मादेव वह्नेः चन्द्रमाः उत्पद्यते । चन्द्रमसः पर्जन्यः । ततोऽन्नम्, अन्नाद्भूतानि, दिशः, वेदाः, प्राणाः, चराचरं जगत् च उत्पद्यन्ते । विराट्-पुरुषस्य चराचरं जगदेव हृदयं, पृथिवी एव पादौ, परब्रह्म एव अन्तर्यामी आत्मा । द्वितीयखण्डे ईदृशमात्मानं ध्यातुं धनुषः कल्पना दीयते साधकाय, प्रणवो धनुः शरो हि आत्मा इत्यादिना । तस्य वाचकः भवति ओङ्कारः स एव धनुः । आत्माशरः । ब्रह्म एव तस्य लक्ष्यम् । अतः अप्रमत्तेन सावधानेन विवेकेन च ओङ्कारोपासनेन जीवात्मरूपशरेण ब्रह्मरूपलक्ष्यवेधनं कुरु इति गुरुः निर्दिशति शिष्यं प्रति ।

तृतीयमुण्डकम्

सम्पादयतु

तृतीयखण्डस्य प्रथममुण्डके जीवपरमात्मनोः परस्परसम्बन्धः, अस्य संसारस्य स्वरूपञ्च विविधैः रूपकैः सुष्ठु निरूपितं वर्तते । ब्रह्मज्ञानिनः स्थितिः का, तस्याः स्थितेः प्राप्तिमार्गः कः, यैः सा स्थितिः प्राप्ता तेषां सामर्थ्यं कीदृशं, ब्रह्मज्ञानिषु श्रेष्ठाः के, ब्रह्मज्ञानिनां सामर्थ्यं कीदृशम् इत्यादयः अंशाः निरूपिताः ।
सर्वव्याप्तत्वं ब्रह्मणः दर्श्यते । उपरि वर्तते द्युलोकः । मध्ये अनन्तः आकाशः अधः पृथिवी । तत्र पुनः विद्यन्ते असंख्यकाः प्राणिनः । तदीयं व्यष्टिगतं समष्टिगतञ्च मनः प्राणः इन्द्रियाणि अन्तःकरणं च । ओतप्रोततया पुनः सकलप्राणिनां हृद्देशे सर्वाधारः आत्मा संश्रितः सन् तिलेषु तैलवत् अप्सु च विद्युदिव व्याप्तः । तस्य परमात्मनः प्रकाशमय्या भासा विश्वमिदं विभाति इति दर्शयितुं तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति इति कथितम् ।
तृतीयमुण्डकस्य द्वितीयखण्डे आत्मज्ञानं केन प्राप्यते, केन न प्राप्यते इत्येषः विषयः चर्चितः । आत्मप्रसादं विना तत् न प्राप्यते इति निर्णीतम् अस्ति अत्र । ब्रह्मज्ञानिनः पुनर्जन्मरहितम् अमृतत्त्वं प्राप्नुवन्ति, ब्रह्मणि समस्तमपि एकीभवन्ति इति विषयः निरूपितः ।
द्वा सुपर्णा इत्यादिमन्त्रभागे तावत् जीवेश्वरयोः एकस्मिन् देहे सहभावित्वमुक्तम् । जीवः (जीवात्मा) यदा शरीरासक्तः सन् देहेन्द्रियैः उपार्जितं पापपुण्यरूपं कर्मफलं भुञ्जानः सुखं दुःखं च अनुभवति तदा एव ईश्वरः (परमात्मा ) शरीरतुल्ये वृक्षे वर्तमानः निर्लिप्तः साक्षीव केवलं सर्वं पश्यन् आस्ते । किन्तु पापपुण्यरूपं कर्मफलं नैव भुड्क्ते, तदुक्तम् –तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्योऽभिचाकशीति इति ।

प्रमुखाः शब्दार्थाः

सम्पादयतु

साध्य - देवविशेषः
अपरा - हीनम्, न्यूनस्तरीयम्
परा - श्रेष्ठम्
शिक्षा - वर्णॊच्चारविद्या
कल्पः - यज्ञयागादीनां क्रमः, विधिः
निरुक्तम् - शब्दानां व्युत्पत्तिशास्त्रम्
अन्नम् - अखिलं जडं विश्वम्
अग्रफलम् - प्रथमफलम्
वैश्वदेवम् - अग्निद्वारा सकलदेवताभ्यः आहुतिप्रदानविधिः
सोम्य - शिष्यसम्बोधनाय शब्दविशेषः
अविद्या - कर्मविषयकं ज्ञानम्
इष्टापूर्तिः - श्रौतस्मार्तयज्ञानि लौकिकपरोपकाराश्च
सूर्यद्वारा - देवयानमार्गः (अर्चिरादि) - अनेन गमनेन पुनर्जन्म न विद्यते
भाव - सृष्टपदार्थः वस्तु वा
सोमः - देवतानां पेयम्
१५ कलाः - पञ्चभूतानि, पञ्चेन्द्रियाणि, पञ्चप्राणाश्च
गुहाग्रन्थि - हृदयस्थाः संशयग्रन्थयः
शिरोव्रतम् - श्रेष्ठव्रतम्, ब्रह्मचर्या

मुण्डकोपनिषदः वैशिष्ट्यम्

सम्पादयतु

इयम् उपनिषत् सर्वाङ्गसुन्दरी सम्पूर्णा च वर्तते । भाषा न क्लिष्टा न वा कठिना । अत्रत्या शैली उपमारूपकादिभिः अलङ्कृता इत्यतः पठनम् आनन्ददायकं भवति । आत्मस्वरूपस्य वर्णनं - 'प्रणवो धनुः', 'द्वासुपर्णा', 'यथा सुदीप्तात्', 'यथा नद्यः' इत्यादिभिः रूपकैः मनोज्ञरूपेण कृतमस्ति ।
ब्रह्मवित्सु कः श्रेष्ठः इत्यस्य उत्तरम् एवमस्ति - 'आत्मक्रीडः आत्मरतिः क्रियावान् एष ब्रह्मविदां वरिष्ठः' इति । यज्ञयागादिकर्ममात्रे प्रवृत्तिः मूढलक्षणम् । आत्मरतः सन् इयम् आत्मक्रीडा इति भावनया यः क्रियाशीलः भवेत् सः ब्रह्मवित्सु वरिष्ठः । ब्रह्मज्ञानस्य प्राप्त्या सर्वं प्राप्तं भवेत् । अतः जीवन्मुक्तैः भूत्वा क्रियाशीलैः भवितव्यम् इति अस्याः उपनिषदः सारः ।
आत्मज्ञानं नाम सर्वज्ञानम् । तन्नाम सर्वेषां वस्तूनां विशिष्टज्ञानं न, किन्तु सामान्यज्ञानम् । आत्मज्ञानप्राप्त्या ज्ञानपिपासा एव अपगच्छति । मनः शान्तं स्थिरं प्रसन्नञ्च भवति ।
आत्मज्ञानं केन प्राप्यते, केन न इत्यस्य प्रश्नस्य उत्तरं भवति - व्याख्यानेन, बुद्ध्या, श्रवणमात्रेण ज्ञानं न प्राप्यते । दुर्बलैः, भीरुभिश्च इदं न प्राप्यते । सत्य-धर्म-ब्रह्मचर्यादिभिः ज्ञानं प्राप्यते । विशुद्धसत्त्वेन आत्मानुग्रहेण इदं ज्ञानं प्राप्यते ।

बाह्यसम्पर्काः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=मुण्डकोपनिषत्&oldid=481730" इत्यस्माद् प्रतिप्राप्तम्