यक्षगानम्
यक्षगानं कश्चित् स्वतन्त्रः कलाप्रकारः यस्मिन् भरतस्य नाट्यशास्त्रे उक्ताः गीतं, सङ्गीतम्, वाद्यं, नर्तनम्, अभिनयः, वाचिकम् इति सर्वे अपि अंशाः अन्तर्गताः । अस्य मूलं कर्णाटकराज्यम् एव । नृत्यगानस्म्भाषणवेशभूषणदिभिः युक्ता स्वतन्त्रा शास्त्रीयकला नाम यक्षगानम् । कर्णाटकशास्त्रीयकलाविद्यासु प्रमुखा कला इयम् । यथा पञ्जाबस्य भाङ्ग्रा, अस्सामस्य बिहु, जार्खण्डस्य तथा ओरिस्सायाः छौ, राजस्थानस्य घूमर्, गुजरातस्य दाण्डिया, गर्बा च, महाराष्ट्रस्य लावणी, गोवायाः देखनी तथा कर्णाटकस्य यक्षगानम् । कर्णाटकस्य उत्तरकन्नड-दक्षिणकन्नड-उडुपि-शिवमोग्ग-चिक्कमगळूरु-कासरगोडु-उपमण्डलेषु यक्षगानं जनप्रियं वर्तते ।
यक्षगानस्य प्रमुखाः अंशाः
सम्पादयतु- प्रसंङ्गः: यक्षगाने कश्चित् कथाविषयः गानाभिनयनृत्यरूपेण प्रेक्षकेभ्यः प्रदर्श्यते । एवं चितः कथाविषयः प्रसङ्गः इति निर्दिश्यते । उदाहरणार्थं महाभारते भीमदुर्योधनयोः युद्धविषयिणी कथा भवति चेत् तदा गदायुद्धप्रसङ्गः इति उच्यते । यक्षगाने अधिकतया पौराणिकप्रसङ्गाः भवन्ति । तथापि पौराणिककथाः एव भवेयुः इति निर्बन्धो नास्ति । ऐतिहासिक-सामजिक-कथाविषये अपि प्रसङ्गः भवति ।
- पात्रधारिणः: प्रसङ्गे विद्यमानां कथां ये अभिनयन्ति ते एव पात्रधारिणः । स्त्रीपात्रम्, नायकपात्रम्, खलनायकपात्रम्, हास्यपात्रम् इति प्रसङ्गानुसारीणि पात्राणि स्वीक्रियन्ते । वाक्नृत्याभिनयपूर्वकं कथा प्रेक्षकाणां पुरतः सम्यक् प्रदर्शितव्या इत्येतत् दायित्वं वर्तते पात्रधारिणाम् ।
- वेषभूषणम्: यक्षगानस्य प्रमुखः प्रभेदः बयलाट(बहिर्प्रदर्शनम्) इति कथ्यते । अस्मिन् वेषभूषणानाम् एव प्राधान्यम् । उदाहरणार्थं नायकस्य किरीटविन्यासे सामान्यपात्रस्य किरीटविन्यासे विभिन्नता वर्तते । तथा स्त्रीपात्रस्य किरीटस्य गात्रं लघु वर्तते । तेङ्कुतिट्टु बडगुतिट्टु इति शैलीद्वयं यक्षगाने दृश्यते । एतयोः मध्ये वेषभूषणे भेदः वर्तते ।
- भागवता(गानम्): यक्षगानस्य जीवः गानम् । गायकः एव अस्य कलाप्रकारस्य निर्देशकसदॄशः । अत्र गायकाः कथाविषयं काव्यरूपेण गायन्ति । यक्षगाने ये गायन्ति ते एव भागवताः । गायकानां गीतानुसारं पात्रधारिणः नृत्यरूपेण अभिनयं कुर्वन्ति । नृत्यगीतयोः साकम् भवाभिनयः अपि अत्यन्तम् अवश्यम् ।
- सम्भाषणम्: भागवतस्य गानानन्तरं तस्य गानस्य सारांशं परिचर्चारूपेण पात्रधारिणः कुर्वन्ति । कथाविषयस्य यः सन्दर्भः भवति तस्य अर्थविवरणमेव पात्रधारिण: सुस्पष्टं कथयन्ति प्रेक्षकाणाम् पुरत: ।
- हिम्मेळ(पृष्टभूमि:): चन्डेमद्दळे(नगारिसदृशं किञ्चन वाद्यम्),मृदनङ्गम्,तालः इत्यादीनां सङ्गीतवाद्यानाम् उपयोगः नृत्यगानसम्भाषणानां मध्ये सन्दर्भोचितरूपेण क्रीयते । एतदेव हिम्मेळ (पृष्ठभूमिः) इति निर्दिश्यते । यक्षगाने यत् महत्वं पात्रधारिणां नृत्याभिनये, गायकानां गीते वर्तते तदेव महत्त्वम् हिम्मेळे अपि वर्तते । पात्रधारिणां नृत्यस्य, गायकानां गानस्य शोभायाः वर्धनाय समीचीनं हिम्मेळम् अवश्यमेव।
जन्म(उदय:)
सम्पादयतुयक्षगानस्य प्रथम उल्लेखः सार्णदेवस्य सङ्गीतरत्नाकरे क्रि श (१२००) जक्क इति नाम्ना अभवत् । आनन्तरं यक्कलगान इत्युक्तम् इत्येकः अभिप्रायः । गन्धर्वग्राम इति कस्याश्चित् विनष्टगानशैल्याः द्वारा गानं स्वतन्त्रशैलीयुक्तं नृत्यम् अभवत् इति शिवरामकारन्तस्य यक्षगानबयलाट इति संशोधनप्रबन्धनसङ्कलने वर्तते । १५०० शके व्यवस्थितरूपेण यक्षगानं रूढौ आगतम् इति बहूनां विदुषाम् अभिप्रायः ।
यक्षगानस्य प्रभेदाः
सम्पादयतुयक्षगाने अनेकविधप्रभेदाः वर्तन्ते तेषां यक्षगान बयलाट अत्यन्तं जनप्रियं वर्तते । बयलाट नाम वेशभूषणानि धारयित्वा रङ्गे क्रीयमाणः यक्षगानप्रभेदः । पूर्वम् उत्सवदिवसे ग्रामस्य क्रीडाङ्गणे अहोरात्रं यक्षगानम् भवति स्म । अतः बयलाट (बहिर्प्रदर्शनम्) इति नाम । परन्तु इदानीम् अहोरात्रं क्रीयमाणेन बयलाटेन साकं २-३ होरापर्यन्तं क्रीयमाणं बयलाटमपि वर्तते । वेषभूषणम्, रङ्गस्थलम्, नृत्यम्, अभिनयः, सम्भाषणम्, गानम् इत्यादीनि साम्प्रदायिकयक्षगानस्य सर्वाङ्गानि बयलाटे दर्शयितुं शक्यन्ते । यक्षगाने मूडलपाय पडुवलपाय इति प्रमुखं भेदद्वयम् वर्तते । पश्चिमपर्वतस्य पूर्वभागे प्रचलितस्य यक्षगानप्रभेदस्य नाम 'मूडलपाय' इति । उत्तरकर्णाटकस्य बहुप्रसिद्धं कृष्णपारिजातम् पडुवलपाये वर्तते । मलेनाडु एवं करावलीप्रदेशे वर्तमाना शैली पडुवलपायम् । पडुवलपाये त्रयः प्रभेदाः वर्तन्ते तेङ्गुतिट्टु, बडगुतिट्टु, उत्तरतिट्टु इति । उत्तरकन्नड एवं शिवमोग्ग प्रान्ते बडगुतिट्टुशैली दृश्यते दक्षिणकन्नड एवं कासरगोडुप्रान्तेषु तेङ्गुतिट्टुशैली दृश्यन्ते । वेषभूषणानां विन्यासः, नृत्यशैली, हिम्मेळ - एतेषु विद्यमानाः भेदाः एव यक्षगानप्रभेदस्य कारणानि । यक्षगानस्य मूलतत्वं तु त्रिषु प्रभेदेषु अपि समानमेव भवति ।
ताळमद्दळे
सम्पादयतुयक्षगानस्य अन्यैक प्रभेदः ताळमद्दळे । बयलाटस्य तुलनया एतद् भिन्नं वर्तते । अत्र वेषभूषणम्, नृत्यम्, भावाभिनयाः च न दृश्यन्ते । हिम्मेळे गानं सम्भाषणम् एव दृश्यते । बयलाटे इव अत्रापि एकः प्रसङ्गः स्वीक्रियते । भागवताः गानरूपेण कथां कथयन्ति । अत्र पात्रधारिणां स्थाने अर्थधारिणः वर्तन्ते । अर्थधारिणः गानस्य कथाभागं सम्भाषणरूपेण परिचर्चां कुर्वन्ति । बयलाट एवं तालमद्दळे उभयोर्मध्ये सम्भाषणे एव भेदः । बयलाटे नृत्यस्य एव प्राधान्यम् । सम्भाषणं वर्तते चेदपि तद् गीते विद्यमानः कथासारांशः एव भवति । अधिकसम्भाषणाय अत्र कालावकशो नास्ति । तथापि बयलाटे सम्भाषणस्य सिद्धता पूर्वमेव भवति । परन्तु ताळमद्दळे मद्ये सम्भषणस्य परिचर्चायाः एव प्रामुख्यता भवति । गानस्य कथाभागविषये एवमेव सम्भाषणं कर्तव्यम् इति निर्बन्धो नास्ति । गायकः गीतरूपेण पीठिकां ददाति । तदनन्तरं कथविषयमधिकृत्य अर्थधारिणः परिचर्चां कुर्वन्ति । परिचर्चा सन्दर्भानुसारेण प्रसङ्गात् प्रसङ्गेषु भिन्ना अपि भवितुं शक्यते । अत्र परिचर्चा एव जीवः ।
यक्षगानस्य प्रमुखा:
सम्पादयतुभागवतिके
सम्पादयतुराघवेन्द्र मय्य नेब्बूरु नारायण, दि. उप्पूरु नारणप्प, कडतोक मंजुनाथ भागवत, कोळगि केशव हेगडॆ, दि. गुंड्मि काळिंग नावड, सुब्रह्मण्य धारेश्वर, कॆ.पि. हेगडॆ, उमेश भट्ट बाडा, नारायण शबराय, बलिप नारायण भागवतरु, होस्तोट मंजुनाथ भागवत, दामोदर मंडेच्च, पोळ्य लक्ष्मीनारायण शेट्टि, कोळगि केशव हेगडॆ, लीलावति बैपाडित्ताय (एकैक वृत्तिपर महिळा भागवतरु), पद्याण गणपति भट्, दिनेश अम्मण्णाय, पुत्तिगॆ रघुराम होळ्ळ, मरवंतॆ नरसिंह दास् भागवतरु, मरवंतॆ श्रीनिवास दास् भागवतरु, मरवंतॆ कृष्ण दास्, मरवंतॆ देवराज् दास्, हेरंजालु गोपाल गाणिग, बलिप प्रसाद भागवतरु, बलिप गोपालकृष्ण भागवतरु, कुबणूरु श्रीधर राव्, अंडाल देविप्रसाद शेट्टि, बोट्टिकेरॆ पुरुषोत्तम पूंज, कुरिय विठल शास्त्रि।
हिम्मेळ-कलाविद:
सम्पादयतुदि.चिप्पारु कृष्णय्य बल्लाळरु, दि. नेड्लॆ नरसिंह भट्, कॆ.हरिनारायण बैपाडित्ताय, कुद्रेकूड्लु रां भट्, केशव बैपाडित्ताय, मोहन बैपाडित्ताय, पद्याण शंकरनारायण भट्, अडूरु गणेश् राव्. हिरियड्क गोपाल राव्, मरवंतॆ रामचंद्र दास्, दि. हुंचदकट्टॆ श्रीनिवास आचार्, दि. दुर्गप्प गुडिगार्, शंकर भागवत् यल्लापुर, कव्वाळॆ गणपति भट्, रामकृष्ण मंदार्ति।
पात्रधारिण:
सम्पादयतुदि. केरेमनॆ शिवराम हेगडॆ, दि.केरेमनॆ महाबल हेगडॆ, दि.केरेमनॆ शंभु हेगडॆ, चिट्टाणि रामचन्द्र हेगडॆ, कॊंडदकुळि रामचन्द्र हेगडॆ, ऐरोडि राम गाणिग, मंटप प्रभाकर उपाध्याय, गोडॆ नारायण हेगडॆ, बळ्कूरु कृष्णयाजि, केरेमनॆ शिवानन्द हेगडॆ, हडिनबाळ श्रीपाद हेगडॆ, जलवळ्ळि, कण्णिमनॆ गणपति हेगडॆ, सुब्रह्मण्य हेगडॆ चिट्टाणि, ,तीर्थहळ्ळि गोपालचारि, मंकि ईश्वर नायक्, नील्कोड् शंकर हेगडॆ, सुब्रमण्य यलगुप्प, विश्वनाथ आचार्य तॊंबत्तु भास्कर जोशि इत्यादयः । तॆंकुतिट्टु प्रमुखाः - दि.कुरिय विठल शास्त्रि, दि. कटीलु पुरुषोत्तम भट्, दि.शेणि गोपालकृष्ण भट्, दि.कद्रि विष्णु, दि.गुड्दप्प गौड, दि.किशान् बाबु, दि.अळकॆ रामय्य रै, दि.ऐंपेकट्टॆ रामय्य रै, दि.गुब्बॆ रामय्य रै, दि.गुंपॆ रामय्य शेट्टि, दि.पुत्तूरु कृष्ण भट्, दि. पुत्तूरुनारायण हेग्डे, दि.बोळार नारायण शेट्टि, दि.दोड्ड अंबु, दि.चिक्क अंबु, शिवराम जोगि, पुष्पराज जोगि, पुत्तूरु शीनप्प भंडारि, पुत्तूरु श्रीधर भंडारि , दि.पड्रॆ चंद्रु, पड्रॆ कुमार, कुंब्ळॆ सुंदर राव्, वासुदेव सामग, सिद्धकट्टॆ चेन्नप्प शेट्टि, कॆ. गोविंद भट्, पाताळ वॆंकटरमण भट्, कोळ्यूरु रामचंद्र राव्, पुंडरीक्षा उपाद्याय, भीम भट्, ऎक्कारु उमेश शेट्टि, तोडिकान विश्वनाथ गौड, बायारु रमेश भट्, ऐं.कॆ.रमेश आचार्य, रॆंजाळ रामकृष्ण राव्, सुण्णंबळ विश्वेश्वर भट्, पेरुवायि नारायण शेट्टि, बेळ्ळारॆ विश्वनाथ रै, बेळ्ळारॆ मंजुनाथ भट्, पेरार लक्ष्मण कोट्यान्, कावळकट्टॆ दिनेश शेट्टि, कैरंगळ कृष्ण मूल्य, विट्ल विष्णु शर्म, दि.बण्णद कुट्यप्पु, दि.बण्णद अर्बि अण्णप्प चौट, दि.बण्णद चंद्रगिरि अंबु, दि.बण्णद महालिंग, दि.संजीव चौट, अल्लदॆ बण्णद गेरुकट्टॆ गंगय्य शेट्टि, बण्णद डि. गोपाल भट्, बण्हद कुप्पेपदवु सुरेश शेट्टि, बण्णद कोयिकुडॆ मूडुमनॆ शशिधर शेट्टि, बण्णद सुब्राय पाटाळि, बण्णद ऎडनीरु हरिनारायण भट्, बण्णद शिवप्रसाद् भट्, बण्णद राम कुलाल्, बण्णद ऐतप्प गौड, बण्णद नग्रि महाबल रै, चंद्रशेखर शेट्टि धर्मस्थळ, उबरड्क उमेश शेट्टि, संजयकुमर गोणिबीडु, निड्लॆ गोविंद भट्, कुंब्ळॆ श्रीधर् राव्, कार्यतड्क वसंत गौड, दि.नयन कुमार्, महेश मणियाणि इत्यादय:
ताळ मद्दले
सम्पादयतुकीरिक्काडु मास्तर् विष्णु भट्, शेणि गोपालकृष्ण भट्, मल्पे लक्ष्मीनारायण सामग, वासुदेव सामग, डा.प्रभाकर जोशि, कुम्ब्ळे सुन्दर राव्, सिद्धकट्टॆ चेन्नप्प शेट्टि, कोळ्यूरु रामचंद्र राव्, देराजॆ सीतारामय्य, डा. रमानंद बनारि, यु. बि. गोविंद भट्, जब्बर् समो संपाजॆ, सुण्णंबळ विश्वेश्वर भट्, अशोक् भट् उजिरॆ, पेर्मुदॆ जयप्रकाश शेट्टि इत्यादयः
प्रमुखयक्षगानमेळाः(गणाः/मण्डल्यः)
सम्पादयतुश्री दुर्गापरमेश्वरी दशावतार यक्षगान मण्डली, श्री इडगुञ्जि महागणपति यक्षगानमण्डलि केरेमने, सालिग्राम मेळ, पेर्डुरु मेळ, कोडदकुळि मेळ, धर्मस्थळ मेळ ।