याणं (Yana) कर्णाटकराज्यस्य उत्तरकन्नडमण्डलं विद्यमानं प्राकृतिकं शिलाशिखरस्थानम् । पश्चिमघट्टे स्थितम् एतत् मनोमोहकम् उत्तरकन्नडमण्डलं सर्वदा हरितैः वनैः, जलपातैः, गगनस्पर्षिभिः वृक्षैः, वैविध्यमयैः जीवराशिभिः च पूर्णम् ।

याणम्, भारतम्
ग्रामः
याणशिलासमुच्चयः
याणशिलासमुच्चयः
देशः  भारतम्
मण्डलम् उत्तरकन्नडमण्डलम्
भाषाः
 • अधिकृताः कन्नड
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)
सिर्सि कुम्ट च समीपस्ते नगरे स्तौ

अत्रत्या शिलाराशिः कर्णाटकस्य भूमेः विज्ञानस्य आरम्भस्य अध्यायान् वदति । सामान्यतः २५० कोटिवर्षेभ्यः पूर्वम् एषः भागः सागरतले आसीत् । अनन्तरं पर्वतानां पङ्क्तिः भूत्वा पश्चिमघट्टस्य रूपं प्राप्नोत् ।

उत्तरकन्नडमण्डलस्य सिरसि-कुमटामार्गे त्रिंशत् किलोमीटर् दूरे आनेगोन्दिग्रामः अस्ति । ततः अग्रे बेळ्ळङ्गि, सण्डोळ्ळिग्रामं च पारयित्वा चतुर्दशकि.मी. कुमटार्मार्गेण गत्वा कि.मि. द्वयं पद्भ्यां चलति चेत् ‘याणं’ लभ्यते । याणं प्राकृतिकं शिलाशिखरस्थानम् अस्ति । अत्र गत्वा उपरि पश्यन्ति चेत् आकाशपर्यन्तं स्थितमिव तीक्ष्णशिलयोः शिखरद्वयं दृश्यते । एतौ एव प्रकृत्या निर्मिते तीक्ष्णशिले । विश्वे एव अपूर्वम् शिलाशिखरं याणप्रदेशे वनमध्ये द्रष्टुं शक्यते । उत्तरकन्नडमण्डले शिरसिविभागे हरितवने एतदस्ति । अत्र अनर्घ्यशिलापर्वतसमुच्चयः नभोमण्डलं स्पृशतीव उन्नतः अस्ति । निसर्गसौन्दर्यदर्शकं स्थानमेतत् । एतत् दृश्यवैभवं द्रष्टुं वने पादचारणम् अनिवार्यम् अस्ति ।

याणगमनमार्गे उभयतः वनसौन्दर्यम् अपूर्वम् अस्ति । एकः निर्झरः भैरवेश्वरशिखरप्रदेशात् निस्सरति । भैरवेश्वरशिखरम् १२० मीटर्-मितोन्नतम् अस्ति । समीपे अनेकानि शिखराणि सन्ति । शिलापि अनेकखनिजयुक्ता अस्ति । वायु-जल-उष्णतादिभिः निर्मितं शिलाशिखरम् अतीवसुन्दरं स्वयमलङ्कृतम् अस्ति । शिखरस्य अधोभागे प्रवेशः साध्यः अस्ति । शिलासु जलं निस्सरत् दृश्यते । अत्र स्थितासु शिलासु अयः म्याङ्गनीस् सिलिकान् मिश्रितमिवास्ति । भयङ्करचण्डमारुतैः वर्षधाराभिः अतीवोष्णवातावरणेन च अबाधितं शिखरम् एतत् सर्वेषाम् अपूर्वम् आनन्दम् जनयति । एतानि सुन्दराणि शिखराणि सूर्यस्य किरणैः रजतशिखराणि इव प्रकाशन्ते ।

एकं शिखरं भैरवेश्वरशिखरनाम्ना अन्यत् मोहिनीशिखरनाम्ना च निर्दिशन्ति । मोहिन्याः रूपं धृत्वा विष्णुः भस्मासुरस्य संहारम् अत्रैव कृतवान् इति विश्वासः अत्र जनजनितः अस्ति । एतानि सूक्ष्मसुन्दरशिखराणि वैज्ञानिकानां भूगर्भशास्त्रज्ञानां परिसरप्रेमिणाम् इतिहासविशेषज्ञानां च संशोधने महत्वपूर्णानि सन्ति । शिखरेषु पार्वतीशिखरम् भैखेश्वरशिखरम् सहयराजशिखरम् च अतीवोन्नतानि । इतराणि ६२ लघुशिखराणि सन्ति । ४३ तीर्थधाराः अत्र सततं स्रवन्ति । शिवरात्रिमहोत्सवः अत्र विशिष्टः अस्ति । शिला सन्धिषु मधुमक्षिकाः कपोताः जतुकाः वसन्ति । मार्गः सुलभः नास्ति । सुन्दरपरिसरे भैरवेश्वर मन्दिरम् अस्ति । स्वकीयम् वाहनम् अत्रोपयोगि भवति ।

याणस्य शिलाकृतयः

अत्र शिखरद्वयमपि सुधाशिलया रूपितमस्ति । जेडिमृत्तिकया प्रतिमाः कृताः इव अत्र सुधाशिलया बाणरूपिरचनाः प्रकृत्या निर्मिताः सन्ति ।

सामान्यतः २५० कोटिवर्षतः निरन्तरं प्रकृतेः विकोपं सम्मुखीकृत्य अपि एते शिखरे नष्टे न स्तः । कारणम् इत्युक्ते एतयोः औनत्यम् । भैरवेश्वरशिखरं षष्ठ्यधिकमीटर् उन्नतम् अस्ति । तस्य अधः भैरवेश्वरस्य मन्दिरम् अस्ति । विग्रहस्य उपरि चण्डिकातीर्थस्य अन्तर्जलं बिन्दुरूपेण स्यन्दति ।

सुधाशिला सुलभतया जले विलीना भवति । अतः वृष्ट्या तस्याः मृदुभागः मन्दं मन्दं गच्छति । किन्तु सुधाशिलया सह मेग्निषियं द्रव्यं मिश्रितम् अस्ति इत्यतः केवलं मृदुभागः नश्यति न तु दृढभागः । याणे एतादृशः भागः एव बाणः इव तीक्ष्णां रचनां प्राप्तवान् अस्ति ।

एताः तीक्ष्णशिलाः भारते केवलं न, पूर्णपूर्वगोलस्य अद्भुतेषु अन्यतमाः इति प्रख्याताः सन्ति ।

एतेषां शिखराणां परितः खन्योद्यमार्थं प्रयत्नः प्राचलत् । तथैव यदि अभविष्यत् तर्हि अद्य एतस्य निसर्गस्य अद्भुतकलाकौशलम् अवशिष्टं न अभविष्यत् । किन्तु जागरितानां परिसरप्रेमिनां प्रतिरोधस्य कारणेन तत् कार्यं सफलं न अभवत् । अतः एषा विशिष्टा रचना अवशिष्टा अस्ति ।

विभुति जलपातः

वाहनमार्गः

सम्पादयतु
शिरसितः ३७ कि.मी । अनन्तरम् ५ कि.मी पादचारणम् ।
कुमटातः ३४ कि.मी. लघुवाहनानि याणपर्यन्तम् गच्छन्ति ।
याणक्षेत्रगमनाय शिरसिनगरे वसतिं कृत्वा प्रातः काले गन्तुं शक्यते । शिरसिनगरे एव वसतिः कार्या । याणदर्शनेन आनन्देन साकंम् बहुश्रमः अनुभूयते ।
"https://sa.wikipedia.org/w/index.php?title=याणम्&oldid=360968" इत्यस्माद् प्रतिप्राप्तम्