निरुक्तस्य प्रथमाध्यायतः द्वितीयाध्यायस्य प्रथमपादपर्यन्तं यास्ककृतभूमिका वर्तते । ग्रन्थस्य उत्पत्तिः, ग्रन्थस्य प्रयोजनं, निर्वचनविधानम् इत्यादयः विषयाः अत्र चर्चिताः । अपि च निरुक्ताध्ययनं कथं करणीयमिति अत्रोच्यते ।
यदा सर्वे ऋषयः (ऋषिर्दर्शनात्), ज्ञानिनश्च आसन् तदा मन्त्रार्थः स्वयमेव स्पष्टः आसीत् । किन्तु तदनन्तरम् उपदेशं कामयमानेभ्यः जनेभ्यः मन्त्रद्रष्टारः ऋषयः वेदान् च वेदाङ्गानि च उपदिदिशुः । यतः वेदाङ्गानां साहाय्येन सर्वेऽपि सम्यक् वेदाध्ययनं कुर्युः इति ।
साक्षात्कृतधर्माणः ऋषयो बभूवुः । ते अवरेभ्यो असाक्षात्कृतधर्मभ्यः उपदेशेन मन्त्रान् सम्प्रादुः । ...बिल्मग्रहणाय इमं ग्रन्थं समाम्नासिषुः वेदं च वेदाङ्गानि च । (निरु.१.१९.) अतैव निरुक्तस्य प्रथमं प्रयोजनं वेदार्थग्रहणमेव । वेदार्थज्ञानं विना केवलमन्त्रज्ञानमप्रयोजकमिति यास्कः प्रतिपादयति । -

यद् गृहीतमविज्ञातं निगदेनैव शब्द्यते ।
अनग्नाविवि शुष्कैधो न तज्ज्वलति कर्हिचित् ॥

वेदमन्त्राणामर्थ एव नास्तीति कौत्सस्य मतं खण्डयति । स्वमतस्थापनाय श्रुतिप्रामाण्यं ददाति -

अधेन्वा चरति माययैष वाचं शुश्रुवान् अफलामपुष्पाम् ॥ (ऋक्.१०.७१.५.)

अदुह्यमाना धेनुः इव निष्प्रयोजकं वाचं धारयति, वदति, शृणोति च सः यः वेदार्थज्ञः न भवति ।
अथापीदमन्तरेण मन्त्रेष्वर्थप्रत्ययो न विद्यते । अर्थमप्रतीयतो नात्यन्तं स्वरसंस्कारोद्देशः । तदिदं विद्यास्थानं व्याकरणस्य कार्त्स्न्यं, स्वार्थसाधकं च । (निरु.१.१५.) निरुक्तशास्त्रं विना मन्त्रार्थज्ञानं न सम्भवति । योऽर्थं न विजानाति सः प्रकृतिप्रत्ययविधानं च ज्ञातुमशक्तो भवति । अतः निरुक्तं व्याकरणस्य कार्त्स्न्यं, मन्त्रार्थसाधकं चास्ति ।
अन्यानि च सन्ति निरुक्तस्य प्रयोजनानि -
अथापीदमन्तरेण पदविभागो न विद्यते ।
निरुक्ताध्ययनं विना मन्त्रेषु पदविभागं कर्तुमसमर्थाः भवेम । यथा -
अवसाय इति शब्दः मन्त्रद्वये आगच्छति । एकत्र (ऋक्.१०.१६९.१.) रक्षणाद्यर्थक अव धातुना औणादिक अस प्रत्ययः । तेन अवसाय इति असमस्तः शब्दः । अन्यत्र (ऋक्.१.१०४.१.) अव उपसर्गपूर्वक षो धातुः विमोचने अर्थे प्रयुक्तः । अत्र गतिसमासः । एवं पदच्छेदज्ञानं निरुक्ते आचार्यः प्रदर्शयति ।
अथापि याज्ञे दैवतेन बहवः प्रदेशा भवन्ति । तदेतेनोपेक्षितव्यम् । - यज्ञकर्मसु देवतानिर्देशः भवति । तस्य ज्ञानेनैव विनियोगः, मन्त्रार्थज्ञानं च सम्भवतः । केषुचित् मन्त्रेषु देवता अस्पष्टा भवन्ति । यथा आग्नेयदैवते मन्त्रे वायोः इन्द्रस्य च स्तुतिर्भवति (ऋक्.६.४.७.)। एवंविधेषु स्थानेषु निरुक्तस्य साहाय्येन देवतापरिज्ञानं करणीयम् ।
यथा लौकिकभाषायां शब्दानामुपयोगो भवति तथैव वैदिकेऽपि । ते शब्दाः चतुर्विधाः भवन्ति । नाम, आख्यातम्, उपसर्गाः, निपाताश्च । तेषां लक्षणं किमिति यास्केनैव प्रतिपाद्यते ।

भावप्रधानमाख्यातम् । सत्त्वप्रधानानि नामानि ।

भावप्रधानानि = क्रियाप्रधानानि आख्यातानि भवन्ति । आख्यातानि सर्वाणि धातुजान्येव भवन्ति । नामानि तावत् वस्तुप्रधानानि भवन्ति । नामानि अपि धातुजान्येव भवन्ति । यतो हि क्रियाण्येव मूर्तरूपं प्राप्य वस्तूनि भवन्ति । एतयोः नामाख्यातयोः निर्वचनं नैघण्टुकनैगमकाण्डयोः प्रदर्श्यते ।
वेदे उपसर्गनिपातानां कार्यं किमिति सोदाहरणं निरूपयत्याचार्यः । उपसर्गाः विविधार्थसूचकाः । नामाख्याताभ्यां सह संयुक्ताः उपसर्गाः विशेषार्थद्योतकाः भवन्ति । सङ्ग्रहेण तेषामर्थाः विव्रियन्ते ।

उपसर्गः अर्थः उपसर्गः अर्थः
आ = अर्वाक् प्र, परा = अर्वागित्यस्य प्रातिलोम्यम्
अभि = आभिमुख्यम् प्रति = प्रातिलोम्यम्
अति, सु = अभिपूजितार्थे निर्, दुर् = प्रातिलोम्यम्
नि, आव् = विनिग्रहार्थीयः उत् = प्रातिलोम्यम्
सम् = एकीभावम् वि, अप = प्रातिलोम्यम्
अनु = सादृश्यम्
अति = संसर्गम्
उप = आधिक्यम्
परि = सर्वतोभावम्
अधि = उपरिभावम्, ऐश्वर्यम्

एवं उपसर्गाः नानार्थकाः भवन्ति । परीक्ष्य ज्ञातव्याः, प्रयोक्तव्याः च ।
उच्चावचेष्वर्थेषु निपतन्ति इति निपाताः । एतेऽपि विविधार्थेषु भवन्ति । निपाताः त्रिविधाः इति यास्काचार्याः वदन्ति । ते तु उपमार्थीयाः, कर्मोपसङ्ग्रहार्थीयाः, पदपूरणाः । एतेषां विविधार्थाः कथं ज्ञायते इति विवृतं यास्केन । अत्रैकमुदाहरणं पश्यामः -
न इत्येकः निपातः । एषः निपातः लौकिके प्रतिषेधार्थे प्रयुज्यते । वैदिके प्रतिषेधार्थे उपमार्थे च प्रयुञ्जते । तस्य भेदः कथं विज्ञायेत?
पुरस्तादुपचारस्तस्य यत्प्रतिषेधति.......उपरिष्टादुपचारस्तस्य येनोपमिमिते । (निरु.१.४.)
निषेधार्थीयस्य नकारस्य प्रयोगः पूर्वमेव भवति । उपमार्थीयस्य नकारस्य उपमानादुत्तरं भवति । एवं वेदार्थपरिज्ञानस्य सूक्ष्मविचाराः चर्चिताः आचायेर्ण । अस्यां भूमिकायां यास्काचार्यः निर्वचनविधानं प्रदर्शयति ।
चतुर्विधनिर्वचनप्रकाराः उक्ताः ।
प्रथमतः यस्य शब्दस्य प्रकृतिप्रत्ययविभागः, व्याकरणप्रक्रिया च स्पष्टे भवतः तेषां निर्वचनं तथा एव करणीयम् ।
यत्र व्याकरणप्रक्रिया स्पष्टा न भवति तत्र अर्थस्यैव प्राधान्यं मत्वा, समानार्थं दृष्ट्वा निर्वचनं कुर्यात् । यथा सामान्यतया गोः शिशुः वत्सः इति प्रथितः । वत्सः गवा क्षीरं पिबति । तस्य रसाहरणक्रियायाः समानत्वं दृष्ट्वा उषःकालस्य सूर्यमपि वत्सशब्देन अभिदधात्याचार्यः । यतः उषःकाले सूर्यः हिमकणानां रसाहरणं करोति (निरु.२.६.२०.)
यदि समानार्थकधातुरपि नास्ति तर्हि अक्षराणां, एकस्य वा अक्षरस्य समानत्वं दृष्ट्वा निर्वचनं करणीयम् । एवं विधेषु स्थानेषु व्याकरणप्रक्रियायाः महत्वं नास्ति । यतो हि शब्दानां व्युत्पत्तिः निगूढः, संशययुक्तश्च भवति ।
यथा स्तः, सन्ति इत्यादिस्थलेषु सकर एव दृश्यते । अत्र एकाक्षरस्य साम्यं दृष्ट्वा अस् धातोः कल्पना करणीया । एवमेव अन्त्याक्षरलोपे, उपधालोपे, आद्यन्ताक्षरविपर्यये, सम्प्रसारणे सत्यपि धातोः अन्वेषणं कृत्वा निर्वचनं कुर्युरिति आचार्यः निर्दिशति ।
अर्थानुसारं = प्रकरणानुसारं, अन्यशब्दानां साहचर्येण च विभक्तीनामर्थः ग्रहणीयः । अर्थात् प्रकरणानुसारं विभक्तिव्यत्ययः भवेत् ।
एवंविधैः निर्वचनं कुर्यात् । अनिर्वचितशब्दः न भवेत्, नत्वेव न निर्ब्रूयात् (निरु.२.१.१.)। यतो हि अनिर्वचितः शब्दः अपार्थग्राहकः भविष्यति । एवं निःशेषतः उक्तं निरुक्तमिति वचनं सार्थ्यक्यं भजते ।
सर्वेऽपि शब्दाः आख्यातजाः इति निरुक्तकाराणामाशयः । न तु सर्वे इति गार्ग्यः । विविधयुक्तिभिः आचार्यः सर्वे शब्दाः आख्यातजा एव इति प्रतिपादयति निर्वचनप्रकारमपि प्रदर्शयति ।

सम्बद्धाः लेखाः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=यास्कभूमिका&oldid=409602" इत्यस्माद् प्रतिप्राप्तम्