युरेनस्(Uranus) कश्चन ग्रहः। युरेनस् ग्रहः अरुणः इति, कुत्रचित् इन्द्रः इति च उल्लिखितः दृश्यते । युरेनस्-ग्रहस्य अन्यत् नाम हर्षलः इति । अस्माकं सौरमण्डले सूर्यात् सप्तमः बृहत्तमः ग्रहः अयम्। अस्य ग्रहस्य अन्वेषणं १७८१ तमे वर्षे विलियं हर्षेल् कृतवान्। अस्य ग्रहस्य वातावरणे जलजनकम्, हीलियम्, मिथैन् इत्येतेषां संयोगः दृश्यते इत्यतः अस्य वर्णः भवति हरित् । एतं ग्रहं परितः वर्णमयैः लघुभागैः युक्तानि लघ्वाकारकाणि नव वृत्तानि दृश्यन्ते। बाह्यवृत्तानां विस्तारः १,००,००० कि मी अपेक्षया अधिकः भवति। अस्य ग्रहस्य पञ्च उपग्रहाः सन्ति - मिराण्डा एरिमल् आन्द्रियल् तिटानिया ओबेरान् च। अस्य ग्रहस्य विस्तारः ३२,००० मैल्-परिमितम्। स्वस्य परिभ्रमणाय अयं ग्रहः १६ घण्टात्मकं कालं स्वीकरोति। सूर्यं परितः भ्रमणाय ८४.०१ वर्षं स्वीकरोति। जर्मन् देशीय खगोलज्ञः बोड् ग्रीक् पुराणैः चितमेकं नाम स्थापितवान्। अस्य ग्रहाय अयं शनेः पितुः नाम युरेनस् इति स्थापितवान्। युरेनस् नाम्नैव प्रसिद्धिं प्राप्तवान्। अस्य संशोधनानन्तरं ’सर् विलियं हर्षेल्’ आस्थानस्य ज्योतिष्कः अभूत्। अनन्तरम् युरेनस् ग्रहस्य चन्द्रौ आविष्कारं कृतवान्।

अरूणम्
⛢
वॉएजरात् गृहित अरुणस्य चित्रमिदम्
वॉएजरात् गृहित अरुणस्य चित्रमिदम्
उपनाम
अपरं नाम हर्शलः / हर्षलः
विशेषणम् {{{विशेषणम्}}}
कक्षीयलक्षणानि
सूर्योच्यम् ३,००४,४१९,७०४ कि.मी
अपसौरिका २,७४८,९३८,४६१ कि.मी
अर्धमुख्य अक्ष २,८७६,६७९,०८२ कि.मी
विकेन्द्रता ०.०४४ ४०५ ५८६
परिक्रमणकालः ३०,७९९.०९५ देनानि
परिक्रमणगतिः ६.८१ कि.मी/से
उपग्रहः २७
भौतिक लक्षणानि
मध्यत्रिज्यः २५,५५९ ± ४ कि.मी
ध्रुवीयत्रिज्या २४,९७३ ± २० कि.मी
सपाटता ०.०२२ ९ ± ०.०००८
परिधिः ८.११५ ६ × १०९ km²
आयतनम् ६.८३३ × १०१३
द्राव्यमानम् (८.६८१० ± ०.००१३) × १०२५ केजी
मध्यमघनित्वम् १.२७ g/cm³
गुरुत्वाकर्षणम् ८.६९ m/s²
पलायनगतिः २१.३ कि.मी/से
प्रदक्षिणकालः -०.७१८ ३३
प्रदक्षिणगतिः २.५९ कि.मी/से
तापमानम् ७६ K
वायुमण्डलम्
दबः २०-२०० KPa
वयुसंघटनम् (८३±३)% हैड्रोजन्
(१५±३)% हीलियम्

युरेनस् ग्रहस्य गात्रम्

सम्पादयतु

अयं ग्रहः भूमेः अपेक्षया विशेष दूरवृत्ते अस्तीत्यतः अस्य विषये विशिष्टज्ञानम् अप्राप्तम्। अयं (गात्रे) बृहत् कायविशिष्टः, दृष्टिगोचरश्च आसीत् , तथापि अस्माकं दृष्टिपथे नागतः। सूर्यात् प्रायः १,७८१,९००,००० मैलु अन्तरे अस्ति। गुरुसूर्ययोः दूरस्यापेक्षया द्विगुणित दूरे शनिग्रहः अस्ति। अस्य द्विगुणित दूरे युरेनस् अस्ति इति। अस्य अदूर विदूरयोः स्थानयोः व्यत्यासः एव १९९ मिलिय मैलुपरिमितमस्ति। अस्य पथः प्रायः शुद्धवृत्तोऽस्तीति वक्तुं शक्यते। ईदृश बृहत् पथे एकवारं परिक्रमणं कर्तुं ८४ वर्षाणि ६ मासाः अपेक्षन्ते इति। कष्टकरोयं पथः,(सञ्चारस्य दीर्घावदित्वात्) एकस्य जीवमाने ज्ञातुं नशक्यते इत्यतः पूर्विकानां दृष्टिपथे नागतम् इति। भूमेः अपेक्षया गात्रे ५९ भागः आधिक्यमस्य इति। अधिकभागश्चेदपि भारे भूमेः अपेक्षया केवलं १४.९ भागः भारः अधिकमस्य भवति। गुरु-शनिग्रहवत् युरेनस् ग्रहोऽपि एकं अनिलगोलकः भवति इति ऊहा। अस्य गोलकस्य व्यासः ३१,९०० मैलुपरिमितं भवति। इदृश बृहत् कायः अतीव वेगेन स्वपथे परिक्रमति इत्यतः अस्य ध्रुवयोः मध्यभागः पीनः दृश्यते इति। अस्य ग्रहाय एकवारं स्वाक्षे पथे परिक्रमणं कर्तुं १० घन्टाः ४९ निमेषाः अपेक्षन्ते।

एषां वस्तूनां सहायेन गुरु-शनिग्रहयोः रचना जाता, तेषां वस्तूनां सहाय्येनैव अस्य युरेनस् ग्रहस्य रचना जाता इति ऊहाऽत्र। अत्राऽपि सैव वातावरणं अस्ति यथा गुरुशुक्रग्रहयोः वातावरणम्। बहिरावरणे मिथेन् अनिलस्य धूमः अस्ति। अन्तरावरणे घनीकृतानिलाः एवं शैत्याधिक्यमपि भवेत् इति ऊहा। अयं ग्रहः प्रकाशं सम्यक्तया प्रतिफलनं करोति। अस्य प्रकाशस्य प्रायः मन्दहरितवर्णः भवति।

विचित्रगतिः

सम्पादयतु

एतावत् कालपर्यन्तं परिचितानां ग्रहाणाम् अक्षाः स्वस्व पथाय किञ्चित् अभिनताः भवन्ति। किन्तु युरेनस् ग्रहस्य वेगः प्रतिक्षणं ४ १\२ मैलुपरिमिते वेगे कन्दुकवत् सरति। अन्यग्रहाः स्व पथाय ३ डिग्रि तः २७ डिग्रि पर्यन्तं अभिनताः भवन्ति।किन्तु ,अयं ग्रहः ९८डिग्रि अभिनतः भवति इति तु अतिशयं भवति । अन्य ग्रहाणां पथस्यापेक्षया उत्तर ध्रुवः उपरि भवति। दक्षिण ध्रुवः अधो भवति।

उपग्रहाः

सम्पादयतु

युरेनस् ग्रहाय पञ्चचन्द्राः सन्ति इति। इतोप्येकम् अधिकं भवेदिति ऊहा । १७८७ तमे संवत्सरे हर्षेल् इत्यनेन् “टैटानियं” तथा “ओबेरान्” नामकौ उपग्रहौ अन्विष्टौ। अनन्तरं १८५१ तमे संवत्सरे “एम्ब्रियल्” “एरियल्” नामकौ एतौ उपग्रहौ दृष्टिपथे आगतौ। पञ्चमः उपग्रहः “मिराण्ड” इदानीन्तन कालीन संशोधनेन प्राप्तः इति। एते समीपवतिनः भवन्ति। एकस्मिन् एव तलभागे परिक्रमणं कुर्वन्ति।

बाह्यानुबन्दाः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=युरेनस्-ग्रहः&oldid=484518" इत्यस्माद् प्रतिप्राप्तम्