रमेशः पोखरियालः

भारतीयराजनेतारः

रमेशपोखरियालनिशाङ्कः (जन्म- १५ जुलै २९५९) कश्चन भारतीयः राजनेता। सः १७लोकसभायाः हरिद्वारतः भारतीयजनतापक्षस्य संसत्सदस्यः। सः उत्तराखण्डराज्यस्य मुख्यमन्त्रिचरः। २००९ तः २०११ पर्यन्तं मुख्यमन्त्री आसीत्।[१] २०१९ तमे वर्षे मेमासस्य ३० दिनाङ्के केन्द्रसर्वकारस्य सङ्घमन्त्रिरूपेण शपथग्रहणम् अकरोत्।[२] मे ३१ तमे दिनाङ्के मानवसम्पन्मूलसंसाधनमन्त्रित्वेन तस्य नियुक्तिः अभवत्।

रमेशः पोखरियालः निशाङ्कः
Assumed office
३० मे २०१९
Prime Minister नरेन्द्रमोदी
Preceded by प्रकाशजावडेकरः
लोकसभासदस्यः
Assumed office
१६ मे २०१४
Preceded by हरीशरावतः
Constituency हरिद्वारम्
उत्तराखण्जस्य मुख्यमन्त्री २७ जून् २००९ तः
Preceded by बि. सि खन्दुरी
Succeeded by बि. सि खन्दुरी
व्यैय्यक्तिकसूचना
Born १५-०७-१९५९
पौरी गर्वालः, पिनानि उत्तराखण्डः, भारतम्
Political party भारतीयजनतापक्षः
Spouse(s) कुसुमकान्ता पोख्रियालः
Residence डेहराडून्, उत्तराखण्डः
Alma mater हेमावतीनन्दनबहुगुणविश्वविद्यालयः
Occupation राजनेता, कविः, लेखकः
Website www.rameshpokhriyalnishank.in


वैयक्तिकजीवनम् सम्पादयतु

रमेशपोखरियालः उत्तराखण्डराज्यस्य पिनाई ग्रामे जन्म प्राप्तवान्। तस्य पितरौ परमानन्द पोखरियालः विशम्बरीदेवी च। हेमावतीनन्दन बहुगुणविश्वविद्यालयतः पदवीं प्राप्तवान्। ततः एम्. ए अपि समापितवान्।[३]

कुसुमापोखरियालेन सह विवाहः अभवत्। अनारोग्यकारणतः सा नवेम्बर् ११ २०१२ तमे वर्षे दिवङ्गता। तस्य आरुषी, श्रेयशी, विदुषी इति तिस्रः पुत्र्यः द्वौ पुत्रौ च ।[४]

राजकीयजीवनम् सम्पादयतु

 
प्रधानमन्त्रिणा नरेन्द्रमोदिना सह पोखरियालः

पोखरियालः बाल्यकालादारभ्य भारतीयजनतापक्षस्य कार्यकर्ता आसीत्। सर्वादौ उत्तरप्रदेशस्य विधानसभायां १९९१ तमे वर्षे कर्णप्रयागक्षेत्रतः शासकः अभवत्। ततः १९९३, १९९६ विधानसभयोः अपि कर्णप्रयागतः एव चितः। १९९९ तमे वर्षे रामप्रकाशगुप्तस्य मन्त्रिमण्डले उत्तराञ्चलाभिवृद्धिमन्त्रित्वेन नियुक्तः। २००९ तमे वर्षे उत्तराखण्डस्य मुख्यमन्त्री अभवत्। सः उत्तराखण्डस्य वयसि कनिष्ठतमः मुख्यमन्त्री। २०११ पर्यन्तं सः मुख्यमन्त्रिपदे आसीत्। १९९१ तः २०१२ पर्यन्तं पञ्चसु विधानसभासु सः सदस्यः आसीत्। २०१४ तमे वर्षे हरिद्वारतः लोकसभासदस्यरूपेण निर्वाचितः।[५] पुनरपि २०१९ लोकसभानिर्वाचने अपि चितः। [६] [७] २०१९ मे मासे प्रधानमन्त्रिणः नरेन्द्रमोदिनः सचिवसम्पुटे मानवसम्पन्मूलाभिवृद्धिमन्त्रालयस्य मन्त्री अभवत्।[८]

पदानि सम्पादयतु

वर्षम् पदम्
१९९१ कर्णप्रयागतः उत्तरप्रदेशस्य शासकत्वेन चितः। (प्रथमचक्रम्)
१९९३ कर्णप्रयागतः उत्तरप्रदेशस्य शासकत्वेन चितः। (द्वितीयचक्रम्)
१९९६ कर्णप्रयागतः उत्तरप्रदेशस्य शासकत्वेन चितः। (तृतीयचक्रम्)
  • उत्तराञ्चलाभिवृद्धिमन्त्री (१९९७–१९९९)
  • सांस्कृतिकधार्मिकमन्त्री(१९९९–२०००)
२००० कर्णप्रयागतः उत्तराखण्डस्य शासकत्वेन चितः। (तात्कालिकः)
  • आर्थ- ग्रामीणाभिवृद्धि- आरोग्य- शिक्षण- योजना- पेयजल- करमन्त्री(२०००–२००२)
२००७ कर्णप्रयागतः उत्तराखण्डस्य शासकत्वेन चितः। (प्रथमचक्रम्)
  • आर्थ- ग्रामीणाभिवृद्धि- आरोग्य- शिक्षण- योजना- पेयजल- करमन्त्री(२००७–२००९)
  • उत्तराखण्डस्य मुख्यमन्त्री (२००९–२०११)
२०१२ डोईवालातः उत्तराखण्डस्य शासकत्वेन चितः। (द्वितीयचक्रम्)

साहित्यिकजीवनम् सम्पादयतु

रमेशपोखरियालः बाल्यकालादेव कविताः रचयति स्म। हिन्दीभाषया सः अनेकान् ग्रन्थान् रचितवान्। तस्य प्रथमग्रन्थः 'समर्पण' इति कवितासङ्ग्रहः १९८३ तमे वर्षे प्रकाशितः। एतावता तस्य १० कवितासङ्ग्रहाः, १२ कथासङ्ग्रहाः, १० उपन्यासाः, २ प्रवासकथने, ६ बालसाहित्यपुस्तकानि, २ व्यक्तित्वविकासग्रन्थाः, इत्येवं उपपञ्चाशाः ग्रन्थाः प्रकाशिताः। तेषां नामानि यथा-

  • समर्पण (कविताः)१९८३
  • नवंकूर (कविताः) १९८४
  • मुझे विधाता बनना है (कविताः) १९८५
  • तुम भी मेरे साथ चलो (कविताः) १९८६
  • रोशनी की किरण (कथाः) १९८६
  • देश हम जलने न देंगे (कविताः) १९९८
  • जीवनपथ में (कविताः) १९८९
  • बस एक ही इच्छा (कथाः) १९८९
  • मातृभूमी के लिए (कविताः) १९९२
  • क्या नहीं हो सकता (कथाः) १९९३

एतस्य कृतयः जर्मन्-फ्रेञ्च्-आङ्ग्ल-तेलुगु-तमिळु-मराठी- गडवाली भाषासु अनूदिताः।

पुरस्काराः सम्पादयतु

  • मारिषस्देशस्य ग्लोबल आर्गेनाईजेशन् आफ् इण्डियन् आरिजन् (गोपियो) द्वारा असाधारणोपलब्धिपुरस्कारः।
  • प्राईड आफ् उत्तराखण्ड् एवं यूथ आय्कान् पुरस्कारः
  • ‘‘हिमालय का महाकुम्भ- नंदा राज जात’’ पुस्तकस्य 2008-09 तमे वर्षे राहुल-सांकृत्यायनपुरस्कारः।
  • अन्ताराष्ट्रीयमुक्तविश्वविद्यालयः, कोलम्बो द्वारा साहित्यक्षेत्रे डी.लिट्. उपाधिः।
  • ग्राफिक इरा, डीम्ड विश्वविद्यालयः, उत्तराखण्डद्वारा साहित्य के क्षेत्र में डी.लिट. उपाधिः।
  • पूर्वराष्ट्रपति ए पि जे अब्दुल् कलाम् द्वारा साहित्य गौरव सम्माननम्।
  • सुप्रसिद्धचित्रनिर्माता पद्मश्री रामानन्द सागरः एवं मुंबय्याः विभिन्नसाहित्यसंस्थाभ्यः साहित्यचेता सम्माननम्।
  • असाधारणम् एवं उत्कृष्टसाहित्यसर्जनहेतोः श्रीलङ्का, हालेण्ड्, नार्वे, जर्मनी एवं रष्यादेशेषु सम्माननम् ।
  • भारतगौरवसम्माननम्।
  • हिन्दीगौरवसम्माननम्।
  • साहित्यभूषणसम्माननम्।
  • साहित्यमनीषीसम्माननम्।
  • हिन्दीसाहित्यसम्मेलनम्, इलाहाबादद्वारा विद्यावाचस्पतित्युपाधिः।
  • नालन्दाविद्यापीठम्, बिहारद्वारा साहित्यवाचस्पत्युपाधिः।
  • साहित्ये राजनीतौच उत्कृष्टयोगदानार्थं राष्ट्रीय एवं अंतर्राष्ट्रीयस्तरेषु त्रिशताधिकपुरस्काराः प्राप्ताः।

संस्कृतविषयिणी नीतिः सम्पादयतु

२०१० तमे वर्षे उत्तराखण्डराज्यस्य द्वितीयाधिकारिकभाषारूपेण संस्कृतस्य उद्घोषणा रमेशपोखरियालेन कृता।[९] तथा च सर्वासु शालासु अनिवार्यरूपेण संस्कृतपाठनाय निर्देशः अपि दत्तः। २०११ तमे विश्वसंस्कृतसम्मेलने सः सम्मानितः च।[उद्धरणं वाञ्छितम्] संस्कृतविश्वविद्यालयानाम् अभिवृद्धौ आस्था केन्द्रसर्वकारस्य अस्ति इति मानवसंसाधनविकासमन्त्रालयस्य मन्त्रित्वेन तेन उक्तम्। द्वयोः संस्कृतग्रामयोः निर्माणार्थं प्रयासः विधीयते इत्यपि उल्लिखितम्।[१०]

उल्लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=रमेशः_पोखरियालः&oldid=480857" इत्यस्माद् प्रतिप्राप्तम्