रसगङ्गाधरे अप्रस्तुतप्रशंसालङ्कारस्य विचारः


क्रैस्तविश्वविद्यालयस्य विकिप्रकल्पस्य भागभूतः अयं लेखः २०१४ फेब्रवरिपर्यन्तं निर्माणावस्थायां तिष्ठति । अस्मिन् अवधौ अस्य विषये चर्चितुं सम्भाषणपृष्ठस्य उपयोगः क्रियताम् ।
                                           रसगङ्गाधरे अप्रस्तुतप्रशंसालङ्कारस्य विचारः

२) यत्र स्थलविशेषे वृत्तान्तद्वयमपि प्रस्तुतं सोऽप्येकः। यथा जलक्रीडाप्रकरणे भ्रमरकमलिन्यादिषु पुरःस्थितेषु नायके च स्वनायिकायामननुरक्ते पोर्शवर्तिनि नायिकासख्याः । कस्याश्चिदुक्तौ फ‘मलिनेऽपि रागपूर्णाम्‌फ’ इत्याद्युदाहृतपद्ये। परमत्र कथमयमलङ्कारः भवति। वाच्यार्थस्य अप्रस्तुतत्वमभिलषितम्‌। अत्र तु प्रस्तुतत्वमेव इति एतल्लक्षणं नैव संभवति इत्याक्षेपः। अस्याक्षेपस्य समाधत्तेऽयम्‌ अप्रस्तुतशब्देन हि मुख्यतात्पर्यविषयीभूतार्थातिरिक्तोऽर्थो विवक्षितः। स च क्वचिदत्यन्ताप्रस्तुतः क्वचित्प्रस्तुतश्चेति न कोऽपि दोषः। अत्र एवमवधार्यम्‌। फ‘मलिनेऽपि रागपूर्णाम्‌फ’ इत्यत्र यद्यपि नायिका अनुरक्ता तथापि तस्यां नायकः अननुरक्तः इति नायक एव निन्दास्पदः इति स एव नायकोऽलम्भविषयः मुख्यः तात्पर्यास्पदश्च। भ्रमरस्तु तिर्यक्‌जन्तुरिति तत्र निन्दा नैव घटते। तथा च नायकातिरिक्तः भ्रमरः अप्रस्तुतः भवति। अथापि सन्निधानमात्रेण प्रस्तुतत्वव्यवहारः सङ्घटते इति। तर्हि मुख्यतात्पर्याविषयेण वाच्येन मुख्यतात्पर्याविषयस्यार्थस्य व्यङ्‌ग्यत्वे सति अप्रस्तुतप्रशंसा यदि स्वीक्रियते तदा वाच्यद्वारा व्यङ्‌ग्यबोधकध्वनिकाव्येषु सर्वत्र अर्यीरमालङ्कारस्सम्भवति इति पुनश्च शङ्का समुदेति। तस्याः शङ्कायाः उत्तरमिदम्‌। न तथा भवति। तत्र साहश्यान्यतमप्रकारेणेति विशेषणमुपात्तमिति। अस्यायमभिप्रायः। ध्वनिकाव्ये सादृश्यद्वारैव अप्रस्तुतेन प्रस्तुतस्य अभिव्यक्तिर्भवतीति न विभावनीयम्‌। सादृश्यान्यतमप्रकारेण वाच्यादतिरिक्तः सहृदयरञ्जकः कश्चनार्थः अभिव्यज्यते तत्र अप्रस्तुतप्रशंसालङ्कारः नैव भवति। परं तत्र ध्वनित्वमेव। यत्र सादृश्यादिप्रकारेण वाच्यात्‌ अर्थः अभिव्यज्यते तत्र अप्रस्तुतप्रशंसालङ्कार एव इति भेदः ज्ञेयः। कुवलयानन्दकारेण अप्पय्यदीक्षितेन फ‘प्रस्तुतेन प्रस्तुतस्य द्योतने प्रस्तुताङ्कुरःफ’ इति प्रस्तुताङ्कुरनाम अन्यः अलङ्कारः अङ्गीकृतः। तत्र वाच्यव्यङ्य्‌योरुभयोरपि प्रस्तुतत्वं यदा तदा अयमलङ्कारः इति निश्चितः। परं जगन्नाथः तमभिप्रायं नैवाङ्गीकरोति। अयमपि अप्रस्तुतप्रशंसायाः एकः भेद एव इति सः वदति। कि#ाद्‌वैलक्षण्यमात्रेणैव अलङ्कारान्तरताकल्पने उक्तिवैचित्र्याणामनन्तत्वात्‌ अनन्तालङ्कारकल्पनेन गौरवं स्यात्‌। अतः प्रस्तुताङ्कुरनामैव अलङ्कारः मास्तु। सोऽपि अस्याः अप्रस्तुतप्रशंसायाः एव भेदः अस्तु इति तु अस्याशयः। जगन्नाथः स्वाभिप्रायमेवं वदति रसगङ्गाधरे फ‘इदं तु बोध्यम्‌। अत्यन्ताप्रस्तुतस्य वाच्यतायां तस्मिन्नपर्यवसितया अभिधया प्रतीयमानार्थस्य बलादाकृष्टत्वेन ध्वनित्वं निर्विवादमेव। एवं सादृश्यमूलप्रकारे द्वैतम्‌। कार्यकारणभावसामान्यविशेषभावमूलास्तु चत्वारः ्रप्रकाराः गुणीभूतव्यङ्‌ग्यस्यैव भेदाः। अभिधादिस्पर्शलेशशून्यस्य केवलागूरणमात्रस्य ध्वनित्वप्रयोजकत्वात्‌ इति। अस्याभिप्रायोऽयम्‌। नितरां मीचोऽस्मीति त्वं खेदं कूप मा कदापि कृथाः। अत्यन्तसरसहृदयो यतः परेषां गुणग्रहीतासि।। अत्र कूपवृत्तान्तः वाच्यः। स च अत्यन्तमप्रस्तुतः। तस्य सम्बोधनं कवेराभिप्रायः न इति वाच्यार्थे एव आकाङ्‌क्षा न विरमति। अतः अत्र प्रतीयमानः कश्चनार्थः स्वीकरणीय एव। विद्वत्वे सत्यपि धनाभावात्‌ लोके मां न कोऽपि परिगणयति इति खिन्नं प्रति सम्बोधनमिदमिति कृत्वा व्यङ्‌ग्यार्थः अभिधावृत्त्या स्पष्टो भवतीति ह्येवंरूपिणि काव्ये गुणीभूतव्यङ्‌ग्यत्वमेव न पुनः ध्वनित्वम्‌। यत्र वाच्यार्थव्यङ्‌ग्यार्थयोरुभयोरपि प्रस्तुतत्वं तत्रापि अप्रस्तुतप्रशंसा भवति। तथापितत्रध्वनित्वस्य नैवहानिः। यतः अत्र अभिधावृत्तिः वाच्यार्थे एव निराकाङ्‌क्षा भवति। व्यङ्‌ग्यार्थप्रतीतौ अभिधायाः संपर्कलेशोऽपि नास्ति। अतः सादृश्यमूलाप्रस्तुतप्रशंसाभेदः गुणीभूतव्यङ्‌ग्यरूपः ध्वनिरूपश्चेति रिधा भिद्यते। कार्यकारणभाव सामान्यविशेषभावमूलेषु चतुर्षु अप्रस्तुतप्रशंसालङ्कारप्रकारेषु गुणीभूतव्यङ्‌ग्यत्वमेव न पुनः ध्वनित्वम्‌। यत्र अभिधादीनां स्पर्शलेशोऽपि नास्ति। केवलाक्षेपेणैव अन्यार्थस्फफूर्तिर्भवति तत्रैव ध्वनित्वमित्युक्तत्वात्‌ कार्यकारणभावादिप्रकारण चतुष्टयेऽपि व्यङ्ग्यार्थः अभिधाया सम्बद्ध इति कारणेन गुणीभूतव्यङ्‌ग्यत्वमेव इति ज्ञेयम्‌। अनेन प्रस्तुताङ्कुरालङ्कारः सादृश्यमूलाप्रस्तुतप्रशंसालङ्कारप्रभेदे अन्तर्भवतीति ज्ञायते। एवमत्र सादृश्यमूलाप्रस्तुतालङ्कारप्रभेदः एक एव सम्यक्‌ निरूपितोऽस्ति इति शम्‌।

सम्बद्धाः लेखाः सम्पादयतु