(कालः – १८. ०७. १६३५ तः ०३. ०३. १७०३)

राबर्ट् हूक्
An artist's impression of Robert Hooke. No authenticated contemporary likenesses of Hooke survive.
जननम् फलकम्:OldStyleDate
ऐल् आफ् वैट्, इङ्लण्ड्
मरणम् ३ मार्च् १७०३ (६७ आयुः)
लण्डन्, इङ्लण्ड्
कार्यक्षेत्राणि भौतिकशास्त्रं एवं रसायनशास्त्रम्
संस्थाः आक्स्फोर्ड् विश्वविध्यालयः
मातृसंस्थाः क्रैस्ट् चुर्च्, आक्स्फोर्ड्
Academic advisors राबर्ट् बायिल्
विषयेषु प्रसिद्धः हूक्-नियमः
Microscopy
applied the word 'cell'
प्रभावः रिचार्ड् बस्बि


हुकेन संशोधिताः त्वचः जीवकोशाः
राबर्ट् हुकस्य अपरं सूक्ष्मदर्शकयन्त्रम्
राबर्ट् हुकस्य सूक्ष्मदर्शकयन्त्रम्

अयं राबर्ट् हुक् (Robert Hooke) विज्ञानलोके एव अत्यन्तं प्रतिभावान् विज्ञानी । सः खगोलविज्ञानी, संशोधकः, सङ्गीतज्ञः, उपकरणानां निर्माता, ज्यामितिविषयस्य प्राध्यापकः, भवनस्य विन्यासकारः, तत्त्वज्ञानी, भाषातज्ञः, भूमापकः चापि । सः राबर्ट् हुक् विभिन्नेषु क्षेत्रेषु पाण्डित्यं सम्पादितवान् आसीत् । बहुमुखप्रतिभावान् अयं राबर्ट् हुक् १६३५ तमे वर्षे जुलैमासस्य १८ दिनाङ्के इङ्ग्लेण्ड् देशस्य ऐल् आफ् वैट् प्रदेशस्थे फ्रेश् वाटर् इति प्रदेशे जन्म प्राप्नोत् । सः बाल्ये बहुविधैः रोगैः पीडितः अभवत् । तथापि श्रमेण अधीत्य आक्स्फर्ड्-विश्वविद्यालयं प्राविशत् । तत्र प्रख्यातस्य भौतविज्ञानिनः राबर्ट् बायिलस्य सख्यं प्राप्तम् । तदनन्तरम् अयं राबर्ट् हुक् विज्ञानस्य विभिन्नेषु विभागेषु प्रतिभां प्रादर्शयत् । अयं राबर्ट् हुक् यद्यपि अत्यन्तं प्रतिभावान् तथापि तावानेव कलहशीलः कृपणः च आसीत् । तस्मात् एव कारणात् सः जनानां प्रीतिसम्पादने असमर्थः अभवत् । तस्मिन् काले प्रख्यातानां विज्ञानिनाम् ऐसाक् न्यूटन्, क्रिस्टोफर् रेन्, राबर्ट् बायिल्, हुजेस् इत्यादीनाम् अनुयायिनः अस्य राबर्ट् हुकस्य अपमानं तिरस्कारं च अकुर्वन् । अनेन राबर्ट् हुकेन निर्मितानाम् उपकरणानां यथा मूल्यम् एव न स्यात् तथा अपि अकुर्वन् । तेन एव कारणेन अयं राबर्ट् हुक् वृद्धाप्ये महता अनारोग्येण, मानिसिकक्लेशेन च पीडितः अभवत् । एषः राबर्ट् हुक् विज्ञानस्य सर्वासु अपि शाखासु आवश्यकानाम् उपकरणानां निर्माणम् उपयोगं च जानाति स्म । तद्विषये ऐसाक् न्यूटन् अपि एनं राबर्ट् हुकं पराजेतुं न शक्नोति स्म । तादृशः आसीत् अयं राबर्ट् हुक् ।


एषः राबर्ट् हुक् अत्यन्तं तीक्ष्णमतिः, एकपाठी च आसीत् । सः नूतनानि उपकरणानि यथा बहुशीघ्रं निर्माति स्म तथैव तावदेव शीघ्रं पुरातनानि उपकरणानि समीकरोति स्म अपि । भौतविज्ञाने जीवविज्ञाने च अनेन राबर्ट् हुकेन कृतानि संशोधनानि विज्ञानस्य इतिहासे एव शाश्वतरूपेण स्थितानि सन्ति । तस्मिन् काले एव प्रकाशस्य तरङ्गविषये, गुरुत्वाकर्षणबलस्य विषये, बाष्पयन्त्रविषये च चिन्तयित्वा सिद्धान्तं निरूपितवान् आसीत् अयं राबर्ट् हुक् । १६७८ तमे वर्षे अयं राबर्ट् हुक् “हुकस्य नियमान्” (Hooke’s Law) निरूपितवान् । अग्रे तेषां नियमानाम् अनुसारम् एव घट्याः उपकरणं, नौकायाः "क्रोनोमीटर्” नामकम् उपकरणं च निर्मितम् । जीवविज्ञानस्य क्षेत्रे अयं राबर्ट् हुक् अत्यन्तं बुद्धिमान् सूक्ष्मदर्शकयन्त्रस्य तन्त्रज्ञः आसीत् । १६६५ तमे वर्षे तेन लिखिते "मैक्रोग्राफिया” नामके पुस्तके स्पष्टानि, सुन्दराणि, वैज्ञानिकानि च चित्राणि सन्ति । सूक्ष्मदर्शकद्वारा जीवकोशाणां संशोधनं कृत्वा तेषां जीवकोशाणां "सेल्” इति नामकरणम् अपि अयम् एव राबर्ट् हुक् अकरोत् । १५० वर्षाणाम् अनन्तरं तद्विषये संशोधनं कृतवन्तौ ष्लेडेन् तथा स्छ्वान् इति विज्ञानिनौ अपि तदेव नाम रक्षितवन्तौ । इदानीम् अपि तस्य राबर्ट् हुकस्य स्मरणार्थं तस्य जन्मस्थाने कश्चन वस्तुसङ्ग्रहालयः अस्ति । एषः राबर्ट् हुक् १७०३ वर्षे मार्च्-मासस्य ३ दिनाङ्के इहलोकम् अत्यजत् ।

बाह्यानुबन्धः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=राबर्ट्_हुक्&oldid=486154" इत्यस्माद् प्रतिप्राप्तम्